भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 1

1.1

संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा संसृज्याद्यं चतुष्कम् अकुलकुलगतं पञ्चकं चान्यषट्कम्
चत्वारः पञ्चको ऽन्यः पुनर् अपि चतुरस् तत्त्वतो मण्डलेदं संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशम् ॥

1.2

श्रीमद्धिमवतः पृष्ठे त्रिकूटशिखरान्तगम्
सन्तानपुरमध्यगम् अनेकाकाररूपिणम् ॥

1.3

त्र्यस्रं वै त्रिप्रकारं तु त्रिशक्तित्रिगुणोज्ज्वलम्
चन्द्रसूर्यकृतालोकं वह्निदेदीप्यवर्चसम् ॥

1.4

त्रिसन्ध्यावेष्टितं दिव्यं प्राकारत्रिपथान्वितम्
द्वारपालत्रयोपेतं त्रिकपाटार्गलान्वितम् ॥

1.5

अनेकरत्नसन्दीप्तम् उद्यानवनमण्डितम्
वसन्तगुणसम्पन्नं सततानन्दपूरितम् ॥

1.6

सन्तानभुवनं दिव्यं दिव्यादिव्यैर् निषेवितम्
तत्र तं भुवनेशानं व्यक्ताव्यक्तं सनातनम् ॥

1.7

कार्यकारणभावेन किञ्चित् कालम् अपेक्षया
तिष्ठते भैरवीशानो मौनम् आदाय निश्चलम् ॥

1.8

तत्र देवगणाः सर्वे सकिन्नरमहोरगाः
कुर्वन्ति कलकलारावं समागत्य समीपतः ॥

1.9

श्रुत्वा कलकलारावं को भवान् किम् इहागतः
हिमवान् तु प्रसन्नात्मा गच्छामो ऽन्वेषणं प्रति ॥

1.10

यावत् स पश्यते तत्स्थं शिवज्ञानावलोकनात्
तावत् पश्यति श्रीनाथम् आगतं तु ममाश्रमे ॥

1.11

गतस् तूर्णं प्रयत्नेन यत्रास्ते भगवान् प्रभुः
सकुटुम्बः स्तुतिं दिव्यां हिमवान् वाक्यम् अब्रवीत् ॥

1.12

अद्य मे सफलं जन्म अद्य मे सफलं तपः
अद्य मे सफलं स्थानं जीवितं सफलं मम ॥

1.13

अद्य धन्यः कृतार्थो ऽहम् अद्य मे सफला गतिः
अद्य मे सफलं सर्वं त्रैलोक्यं सचराचरम् ॥

1.14

यन् नाथ भवदङ्घ्रिभ्याम् अङ्कितं मस्तकं मम
तेन विख्यातकीर्तिस् तु भविष्यामि जगत्त्रये ॥

1.15

त्वत्प्रसादेन देवेश सर्वज्ञत्वं लभाम्य् अहम्
किम् अनेन न पर्याप्तं यद् आयात-म्-इह प्रभुः ॥

1.16

किं कुर्मः का गतिर् मह्यम् आदेशो दीयतां प्रभो
हिमवन्तविलापो ऽयं श्रुत्वैवं सकुटुम्बिनः ॥

1.17

उवाच भगवान् नाथः प्रहस्येमां गिरं शुभाम्
हिमवन्त गिरे साधु तुष्टो ऽहं तव क्लिन्नया ॥

1.18

प्रार्थयस्व वरं किञ्चिद् दास्यामो मनसेप्सितम्
हिमवन्त महाप्राज्ञ तुष्टो ऽहं परमार्थतः ॥

1.19

किं कृतं मे महेशान स्वकीयदयया प्रभो
रुचितं कुरु देवेश हिमवान् अब्रवीद् इदम् ॥

1.20

पर्वतोल्लपितं श्रुत्वा उवाचेदं सुरेश्वरः
प्रसन्नगिरया दिव्यं वरं दातुं समुद्यतः ॥

1.21

प्रथमं तावत् तुभ्यं हि पञ्च श्लोकान् पठेत् तु यः
सन्निधानः प्रयत्नेन भविष्यामो ह्य् अवश्यतः ॥

1.22

द्वितीयं सन्निधानो ऽहं भविष्यामि तवाध्वरे
तृतीयं सर्वशैलानां राजत्वं चक्रधारिणः ॥

1.23

चतुर्थं मम तुल्यत्वं पञ्चमं मोक्षदं नृणाम्
एवं पञ्च वरास् तुभ्यं हिमवन्त पुनर् वद ॥

1.24

किम् अन्येन महादेव आत्मतुल्यस् त्वया किल
कृतो ऽहं तत् किम् अन्येन किं तु देवाभयं दद ॥

1.25

एवं ब्रूथ पुनः किञ्चिद् यत् ते मनसि रोचते
तद् अर्पयाम्य् अहं सर्वं पूर्वम् एवोदितं मया ॥

1.26

आश्रमे सति सर्वत्र प्रातिचारं विना न हि
तत्र डिक्करिका मह्यं करिष्यत्य् उपलेपनम् ॥

1.27

सा च धर्मप्रवृत्ता च येन तत् क्रियतां प्रभो
इष्टा सा मम देवेश कालिका च कुमारिका ॥

1.28

एवं बभूव तस्माद् वै तत्रस्था गुणशालिनी
प्रसादयति देवेशं विनयाद्यैर् अनेकधा ॥

1.29

विनयेनोपसङ्गम्य स्तुतिस्तोत्रैर् अनेकधा
कालेन बहुना कालीम् उवाचेदं कुलेश्वरः ॥

1.30

तुष्टो ऽहं कालिके तुभ्यं ब्रूहि किञ्चिन् मनेप्सितम्
यत् त्वया धारितं चित्ते तत् प्रार्थय ह्य् अशङ्किता ॥

1.31

लब्ध्[व्]आ प्रणयसद्भावं त्यक्तलज्जा मनोत्सुका
वदते नाथ नाथस् त्वं भवास्माकं सुरार्चितः ॥

1.32

एवं श्रुत्वा महेशानो वाक्यम् आनन्दसम्भवम्
ततः सम्पादितं शीघ्रम् आज्ञानन्दगुणोज्ज्वलम् ॥

1.33

आज्ञासनसमारूढं प्रेरितानन्तशम्भुना
दर्शितं निखिलं सर्वं पूर्वसन्तानगोचरम् ॥

1.34

ततः प्रबुद्धभावात्मा वदत्य् एवं कुलेश्वरी
दर्शितं निखिलं मह्यं किम् आश्चर्यं कुजेश्वर ॥

1.35

विदितं नाथ मे सर्वं क्रियाकारणगोचरम्
यस्मात् सम्पद्यते ह्य् एवं तद् आचक्ष्व कुजेश्वर ॥

1.36

आज्ञातो गुणम् ऐश्वर्यं सञ्जातं परमेश्वर
अस्य तन्त्रार्थसद्भावं ब्रूहि मे परमार्थतः ॥

1.37

दृष्टं समस्तपर्यन्तं भवदाज्ञाषडध्वरम्
ब्रूहि निर्देशतः सर्वं यदि तुष्टः कुजेश्वर ॥

1.38

आज्ञातो गुणसद्भावं ब्रूहि देव गुणोदयम्
यथा द्रक्ष्यापितं सर्वम् आज्ञाद्वारेण मे ऽखिलम् ॥

1.39

पूर्ववृत्तान्तसद्भावं पूर्वपाठश्रुतं च यत्
पूर्वकल्पार्थनिर्देशम् आज्ञातो ज्ञापितं त्वया ॥

1.40

पूर्वसन्दर्शितं देव आज्ञागुणमहोदयम्
तद्भ्रंशाद् भ्रंशम् उत्पन्नम् अतो ऽर्थं कथय स्फुटम् ॥

1.41

कल्पे कल्पे त्वया देव संहितार्थम् अनेकधा
मन्त्रतन्त्रक्रियायोगाः कथिता नावधारिताः ॥

1.42

इदानीं संस्फुटं सर्वम् आज्ञागुणमहोदयम्
यस्मात् सञ्जायते सर्वं तत्प्रभावं वद प्रभो ॥

1.43

आनन्दश् चावलिश् चैव प्रभुर् योगी तथैव च
अतीतश् चैव पादश् च षट् प्रकाराः कथं स्थिताः ॥

1.44

साधु साधु महाभागे महानन्दविधायिनि
पृच्छितं यत् त्वया वाक्यम् अत्यद्भुतम् अनामयम् ॥

1.45

गोपितं सर्वरुद्राणां वीराणां भैरवेषु च
सिद्धक्रमं निराचारं तथापि कथयामि ते ॥

1.46

सिद्धमार्गक्रमायातं सिद्धपङ्क्तिव्यवस्थितं
गोपितं सर्वमार्गेषु तवाद्य प्रकटीकृतम् ॥

1.47

पूर्वसञ्चोदितो देवि त्वयाहं त्वं मया पुनः
अत्र कल्पे मया तुभ्यं त्वं पुनर् मम दास्यसि ॥

1.70

आराधयन्तं देवेशं न जानाति तपोत्कटा
ततः स्तवेन दिव्येन देवेनानन्दभृद्गिरा
दिव्यस्तोत्रं समारब्धम् अशेषार्थप्रबोधकम् ॥

1.71

एवं सम्यग्विधानेन रुद्रशक्तिः स्वयम्भुना
निर्मिता स्वाङ्गजैर् वर्णैर् नादिफान्तस्वरूपिणी ॥

1.72

सर्वाक्षरमयी देवी सर्वलक्षणलक्षिता
उत्पन्ना सुमहातेजा भैरवाभिमुखे स्थिता ॥

1.73

वदते मालिनी कस् त्वं देवो ऽहं किम् उपागतः
मां त्वं कथं न जानासि देवि त्वं केन निर्मिता ॥

1.74

सृष्टिक्रीडावतारार्थे मया उत्पादिता प्रिये
त्वम् एवोत्पादितः केन ब्रूहि वाक्यं तु भैरव ॥

1.75

वर्णराशिर् अहं भद्रे स्वयम्भूर् जगतः पतिः
ममाङ्गसम्भवैर् बीजैस् त्वम् एवोत्पादिता मया ॥

1.76

वीरावलीति तेन त्वं रुद्रशक्तिः प्रशस्यसे
वदते मालिनी क्रुद्धा त्वत्स्वकीयैः शरीरजैः ॥

1.77

वर्णैर् उत्पादिताहं ते गृह्ण वर्णान् स्वकान् इह
प्रसार्य वर्णमालां तु तत्त्वाकारं स्वरूपिणम् ॥

1.78

पूर्वबीजतनुर् भूत्वा प्रसुप्तामृतकुण्डली
कुतः सर्वे गता वर्णा भ्रान्तचित्तः सुरेश्वरः ॥

1.79

परं विस्मयम् आपन्नः क्षणम् एकं वितर्कितः
लोलीभूतास् तु ते सर्वे जीवतत्त्वे लयं गताः ॥

1.80

अहो देव्याः प्रभावस् तु इति चिन्ता जगत्पतेः
स्तुनोति विविधैः स्तोत्रैर् देवो भुवनमालिनीम् ॥

1.81

कावर्णा कामरूपे पुर् एव पुरिगता जालपीठे जिका या षड्भिन्ना मध्यपीठे त्रिपथपदगता त्वं च शृङ्गातकारा
सिद्धैर् या वेष्टिताङ्गी परिवृतचतुरैः षष्टिभिर् योगिवृन्दैर् युक्ता हृत्पङ्कजेन डरलकसहजा पातु मां रुद्रशक्तिः ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc