Kubjikamatatantra · अध्याय 18
पदग्रन्थिसमालब्धस् तत्त्वग्रन्थिसमाश्रितः
कुब्जिग्रन्थिपदान्तस्थो हंसभेदपदं व्रजेत् ॥
हंसभेदे परा शक्तिः सहजा शिवतत्त्वगा
सा विद्या प्रथमा ज्ञेया द्वितीया तु परापरा ॥
चत्वारिंशत्पदा ज्ञेया विद्यातत्त्वे निवेशिता
हंसग्रन्थिसमारूढां प्रकटार्थं वदामि ते ॥
सोमेश्वरं समुद्धृत्य पतितं सुरनायिके
शिखीशं केवलं पश्चाल् लाकुलं तदनन्तरम् ॥
अर्घीशासनसंस्थं हि बिन्दुना मस्तके हतम्
लाकुलं पुनर् उद्धृत्य भुजङ्गासनसंस्थितम् ॥
त्रिमूर्तिना च चाक्रान्तं शून्यमस्तकभूषितम्
शिखीशं वह्निसंयुक्तं झण्टीशेन समन्वितम् ॥
क्रूरानन्देन सम्भिन्नं लाकुली तदनन्तरम्
भुजङ्गेन तु सन्दीप्तम् अर्घीशासनसंस्थितम् ॥
तद् एवं लाकुलीशं तु भुजङ्गाधारम् ईश्वरम्
त्रिमूर्तिना तु चाक्रान्तं अं क्रूरं शिरसि स्थितम् ॥
भुजङ्गं तु चतुर्धा वै कर्तव्यं तु कुलेश्वरि
केवलं द्वितयं देवि अमरीशद्वितयान्वितम् ॥
लाकुलं तु ततो देयं झण्टीशेन तु भेदितम्
महासेनाहतं देवि लाकुलीशं समुद्धरेत् ॥
खड्गीशं केवलं गृह्य लोहितं तदनन्तरम्
सूक्ष्मानन्देन सम्भिन्नं महाकालं तु केवलम् ॥
खड्गीशं केवलं पश्चाद् उमाकान्तं ततः पुनः
झण्टानन्देन सम्भिन्नं श्वेतानन्दं कुलाधिपे ॥
केवलं तु स्मृतं भद्रे द्विरण्डं तदनन्तरम्
त्रिमूर्तिना तु चाक्रान्तं महाकालं ततः पुनः ॥
द्विरण्डं तु पुनर् देवि त्रिमूर्त्यालङ्कृतं कुरु
सूक्ष्मानन्देन सम्भिन्नं चण्डानन्दं यशस्विनि ॥
महाकालं पुनः पश्चाद् अमरीशासनस्थितम्
भुजङ्गं केवलं देवि शिवेशं सद्यसंयुतम् ॥
लाकुली भृगुसंयुक्तं नुग्रहीशान्वितं प्रिये
क्रूरदेवं शिरस्थं हि लोहितं झण्टिनाहतम् ॥
रक्तं चैवार्घिना युक्तं भुजङ्गं केवलं पुनः
शिवानन्दं तु देवेशि सद्योजातेन भेदितम् ॥
लाकुलम् अर्घिना युक्तं शून्यमस्तकभूषितम्
भुजङ्गं झण्टिदेवेन भेदितं कुरु पार्वति ॥
शिवोत्तमं ततः पश्चात् सद्योजातेन भूषितम्
केवलं तु महाकालं भुजङ्गं केवलं पुनः ॥
लोहितं तु पुनः पश्चान् महासेनं ततः पुनः
आसनस्थं भृगोर् देवि लाकुलीशं समुद्धरेत् ॥
लाकुलीशं पुनर् भद्रे भुजङ्गासनसंस्थितम्
त्रिमूर्तिना तु चाक्रान्तं क्रूरानन्दसमन्वितम् ॥
झण्टिना भेदितं देवि भुजङ्गं कारयेत् ततः
शिवानन्दं ततोद्धृत्य सद्यानन्दान्वितं कुरु ॥
श्रीकण्ठं केवलं पश्चाद् भौक्तिकं बिन्दुना युतम्
एषा परापरा देवी उद्धृता तु विलोमतः ॥
चत्वारिंशद्द्वयो वर्णा अर्धवर्णान्विता प्रिये
एषा विद्या तथा प्रोक्ता विद्यातत्त्वे निवेशयेत् ॥
देव्या चैवात्मतत्त्वस्था क्रियाशक्त्यापरा पुनः
अर्धसप्ताक्षरा देवी विलोमेन ततः शृणु ॥
पतितम् ईश सोमं हि शिखीशं केवलं ततः
लाकुलम् अर्घिना युक्तं शिखीशं भुजगान्वितम् ॥
झण्टीशेन समायुक्तं लाकुलं रक्तसंस्थितम्
द्विधा भूतं तु कर्तव्यं भेदं चात्र वदामि ते ॥
अर्घिना पूर्व सम्भिन्नम् अपरं तु त्रिमूर्तिना
भौक्तिकं केवलं देवि उद्धृतं परमाक्षरम् ॥
बिन्दुनादान्विताः पञ्च कर्तव्यास् तु यशस्विनि
अपरेयम् इमा विद्या सर्वस्वं योगिनीकुले ॥
परां देवीं ततो वक्ष्ये शिवतत्त्वानुसारिणीम्
लाकुलं भृगुसंस्थं हि भुजङ्गेन समन्वितम् ॥
अर्घीशासनम् आरूढं ऽनुग्रहीशेन भेदितम्
बिन्दुनादकलाक्रान्तम् उद्धृतं परमं प्रिये ॥
प्रणवोच्चारसंयुक्ता विद्या तत्त्वत्रयात्मिका
शब्दमालिनिमूर्तिस्था विद्यादेहगुणोज्ज्वला ॥
पुर्याष्टकम् अघोरिस्थं यथावस्थां वदामि ते ॥
एतत् पुर्याष्टकं देव्या अघोर्याष्टकसंयुतम्
न्यसेद् अष्टविधाङ्गं तु अष्टपत्त्रेषु साधकः ॥
अतोर्ध्वं द्वादशाङ्गं तु देहनिष्पत्तिकारणम्
पादादौ शिरसो यावन् न्यसेद् अङ्गे यथोदितम् ॥
सिद्धाईति सहं पद्भ्यां ऋद्धाई जानुनी सहां
विद्युतायै सहिम् ऊरुभ्यां सहीं लक्ष्मीति गुह्यगा ॥
दीप्ताइका सहुं नाभौ सहूं नालाइका हृदि
सहें शिवाइका कण्ठे सहैं वसुमुखी मुखे ॥
सहों नासा वमन्यायै कर्णे नन्दिनिका सहौं
हरिकेशा सहं त्र्यक्षी महामुख्यै सहः शिरे ॥
अनेन दृढितो ह्य् आत्मा जीवभूतः स्थिरीकृतः
षडङ्गन्यासयोगेन व्यक्तत्वं भजते तु सः ॥
षडङ्गन्यासयोगेन परादेहं पराध्वरम्
एवम् निष्पन्नदेहस्य स्लोकद्वादशमेखला ॥
तद्ग्रहेण तु योगेन ब्रह्मसूत्रं विलम्बयेत्
शिरःप्रभृति पादान्तं पञ्चरत्नविभूषितम् ॥
अजचक्रेश्वरी रेखा द्वितीया कादिभान्तगा
मादिसान्ता तृतीया तु त्रिभि रेखैः स्वरेश्वरी ॥
अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता
बिन्दुनादसमायुक्ता उद्धृतं परमाक्षरम् ॥
श्रीकण्ठ अम्बिका चैव द्विधारूपा तु कारयेत्
पुनर् अम्बा च फेत्कारी दीपन्यासनसंस्थिता ॥
प्रज्ञाभूषितम् एकं हि ज्ञानदेव्या द्वितीयकम्
बिन्दुनादयुते द्वे तु संहार्या इच्छयान्विता ॥
श्रीकण्ठादिभृगोऽन्ता वै संस्थिता कुलपद्धतिः
अनेन विधिना देवि भिन्ना तु कुलपद्धतिः ॥
परामृतपदं ह्य् एतत् श्लोकानां दशकं द्विकम्
एतस्मिन् पठिते देवि क्षुभ्यन्ते मातरः सदा ॥
सद्यावेशः प्रजायेत कवित्वं तस्य जायते
आज्ञावेधादिका सिद्धिः पठिते ऽ स्मिन् प्रजायते ॥
त्वया न कथ्यम् अभक्तेष्व् इत्य् आज्ञा पारमेश्वरी
श्लोकद्वादशकं ह्य् एतद् वटमालाविभूषितम् ॥
वडवानल मन्तव्यं पादादौ मस्तकावधिम्
मेखलेयं न्यसेद् देवि विलोमेनोपदेशतः ॥
उच्चारं तस्य चावेशं स्थाने स्थाने प्रवर्तते
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ॥
जीवस्य रक्षणं ह्य् एतद् अन्यथा हानिकृद् भवेत्
तद्ग्रहोऽन्यं न्यसेद् देवि ब्रह्मसूत्रविभूषणम् ॥
देदीप्यन्तं प्रचण्डोग्रं यथावस्थं तथा शृणु ॥
रुद्रशक्तित्रयं ह्य् एतद् आनन्दपदसंस्थितम्
अन्योन्यवलयाकारं पञ्चाशत्पदभूषितम् ॥
वामरौद्रान्तदक्षस्थं दक्षरौद्रान्तवामगम्
रौद्रारौद्रसमायुक्तं त्रिरौद्रं तद्ग्रहो ऽप्य् अय् अम् ॥
वागेश्वरी तथा माया मोहनी च तृतीयका
ज्ञानदेवी च गायत्री रत्नाः पञ्च इमे स्मृताः ॥
न्यासमात्रेण चावेशम् उच्चाराद् भवते स्फुटम्
पिण्डस्य बन्धनं ह्य् एतद् दुष्टसिंहविनाशनम् ॥
तद्ग्रहाबद्धमूलं तु पञ्चरत्नोपशोभितम्
रत्नाङ्गी रत्नदेहा तु रत्नानां निर्णयं शृणु ॥
रत्नान्य् अमृतम् इत्य् उक्तं पञ्चधा त्व् अमृतं प्रिये
पिण्डबन्धं विना तेन जीवितं तु न विद्यते ॥
गगनामृतरत्नं तु स्वर्गरत्नामृतं तथा
पातालमर्त्यरत्नं च नारकं रत्नपञ्चकम् ॥
देवीदेहात् समुद्भूतं देवीदेहाद् विनिर्गतम्
ज्ञानवीर्यः सवीर्यस् तु अज्ञाते वीर्यहानिकृत् ॥
तृतीयं दशनं देव्या आत्महृत्स्थं नितम्बगम्
शिखान्तसहितं ह्य् एतत् स्तनवामोपरिस्थितम् ॥
कर्णभूषणवामस्थं बीजेनाहतमस्तकम्
पञ्चरत्नादियोगस्य पदोद्धारः प्रकीर्तितः ॥
प्राणं वह्निसमारूढं गुह्यशक्त्या विभूषितम्
बिन्दुमस्तक चाक्रान्तं पञ्चरत्नविभेदकम् ॥
एकैकं रक्षितं रत्नं योगिनीभिर् यथा यथा
तत् तथा शृणु कल्याणि व्याप्तिभेदो यथा स्थितः ॥
चतुःषष्टिगणं व्योम्नि द्वात्रिंसत् स्वर्गचारिणः
पातालं षोडशैर् व्याप्तं मर्त्यं चैवाष्टकान्वितम् ॥
निरयस्थास् तु चत्वारि रत्नानाम् अधिदेवताः
तद्दीप्तिभासका ज्ञाता अज्ञाता दीप्तिहारिकाः ॥
रत्नप्रभावम् अतुलं देदीप्यार्चिसमुज्ज्वलम्
तत्प्रभावाद् वरारोहे योगिन्यो बलवत्तराः ॥
अतोऽर्थं गोपयन्त्य् एतास् तद्वीर्यगुणवत्तराः
रक्षन्ति स्वामिनोद्दिष्टा अनादिष्टं हरन्ति ताः ॥
अमीषां दर्शनात् स्पर्शात् पदार्थपदयोगतः
दिव्यदेहत्वम् आप्नोति उच्चारात् क्षोभकृद् भवेत् ॥
षोडशावयवं पिण्डं षोढान्याससुयन्त्रितम्
श्लोकमालान्वितं दिव्यं तद्ग्रहावलिभूषितम् ॥
पञ्चरत्नकृताटोपं परास्यम् अकुलान्वितम्
एवं कृत्वा शरीरस्थं न्यासमण्डलभृत्तनुम् ॥
देव्या देहं परं ह्य् एतच् छाम्भवं पदपूर्वकम्
वडवानलयोगस्थं पददेहं पदोद्भवम् ॥
पददेहोपदेशेन योगीन्यासपरायणः
कृत्वा न्यासम् अशेषं तु यस् तिष्ठति सुभावितः ॥
तस्य दुष्टान्य् अनेकानि विघ्नानि प्रभवन्ति न
शाकिनीभूतवेतालाः पिशाचोरगराक्षसाः ॥
सिंहव्याघ्रगजा ऋक्षा दुष्टचित्तान्य् अनेकधा
ये हिंसन्ति यदालब्धं तेषां प्रत्यङ्गिरा भवेत् ॥
आपदो रक्षयेत् सर्वा आत्मनश् च परस्य च
प्रचण्डयोगिनीघ्रातो नीतो वा यमशासनम् ॥
न्यस्त्वा षोडशवारेयं सत्येदं न म्रियेत् तु सः
सकृन्न्यासे कृते देवि ब्रह्महत्यादिपातकैः ॥
सम्पर्के ऽपि न लिप्यो ऽसौ साधयेद् इतरांस् तु सः
सत्यं सत्यं पुनः सत्यं प्रत्यक्षेदं पराध्वरम् ॥
कृतन्यासः पतेत् पद्भ्यां यस्यासौ म्रियते ध्रुवम्
गुरोस् तु न पतेत् पादे यावेदं देहसंस्थितम् ॥
व्याधिदुःखं भवेत् तस्य यद्य् आक्रोशेन् म्रियेत् तु सः
ज्ञाते सति न कर्तव्यं यावद् गुरुकुले वसेत् ॥
गुरुहानिकृते शिष्यो न नन्दत्य् अवशं प्रिये
आज्ञानिष्ठो गुणश्रेष्ठः क्रमज्ञौघविशारदः ॥
स्वाधिकारी तु नान्यो वै वाचाज्येष्ठो ऽभिवादयेत्
पूर्वसिद्धेषु लिङ्गेषु सुसिद्धप्रतिमासु च ॥
कृतन्यासः पतेत् पादौ स्फुटत्य् आशु न संशयः
सदा प्रवर्तते यस् तु न्यासं देहस्य भाविनि ॥
अनुष्ठानाद् ऋते तस्य ऊर्ध्वेनोत्क्रमणं भवेत्
त्रिकालन्यासयोगेन अर्धरात्रे तथा पुनः ॥
अनेन विधिना कालं क्षपयन्ति महाम्बिके
अन्यं च परमं देवि ग्रन्थिभेदं सुदुर्लभम् ॥
हंसभेदप्रयोगेन न्यासं वक्ष्यामि दुर्लभम्
ओ-जा-पू-काम-मध्यस्थं हृन्नाभौ लिङ्गमध्यगम् ॥
पीठं वा पदसंयुक्तम् आद्यग्रन्थिचतुष्टयम्
ओघानन्दं जयानन्दं पुरानन्दं तृतीयकम् ॥
कमलानन्दसंयुक्तम् आद्यभेदचतुष्टयम्
डिक्करियाण लम्पार्णं महानन्दपुरं तथा ॥
कर्णौ मुखे तु नासाद्यं पीठं वा पदसंयुतम्
द्वितीयं पदग्रन्थीनां न्यासो ऽयं परिकीर्तितः ॥
अष्टकोटिसुविस्तीर्णं त्रिकोट्यर्धम् अतः शृणु
आमर्दकं धरापीठं गिराङ्कं रूपिणीपुरम् ॥
द्वौ शङ्खाव् ऊर्ध्वमायान्तं मध्यकोटिगतं न्यसेत्
पीठं वा पदसंयुक्तं त्रिस्थं ग्रन्थिचतुष्टयम् ॥
मायानिरोधिमध्यस्थम् अन्यग्रन्थिचतुष्टयम्
ज्ञानशृङ्गं रमाशृङ्गम् ऋषिशृङ्गं तृतीयकम् ॥
पूर्णशृङ्गसमायुक्तं पीठं वा पदसंयुतम्
सिद्धक्रमसमायुक्तं गुरुपङ्क्तिसमन्वितम् ॥
ज्ञानदृष्ट्या न्यसेत् तं तु चतुष्केदं कुलाकुलम्
एतत् कुलाकुलं दिव्यं सर्वसाधारणं परम् ॥
पदभुक्तिमतानां च पदेदं परिकीर्तितम्
अन्यत् परतरो देहः कोटिद्वादशम् आश्रितः ॥
अकुलीनपदाध्वानं निराधारं खगालयम्
अकुलव्याप्तिर् इत्य् एषा क्षेत्रपीठसमाकुला ॥
साचारकुलयोगीनां षण्नवत्यापदानुगा
चतुराशीतिपदैर् व्याप्तिः सा चान्यत्र प्रकाशिता ॥
येषां ते तु पुनस् तत्र व्यावृतन्ते पुनः पुनः
षण्नवतिपदो हंसः स चाम्नायविदां विदुः ॥
सिद्धकौलाभिपन्नानाम् इतरेषां न दर्शितः
तत्र दिव्यक्रमः पूज्यः पदचारेण योगिना ॥
येन गच्छेन् निराचारं तत् पदं परमं शृणु
द्वादशाधारमूर्ध्निस्थं चतुष्पीठसमुच्छ्रितम् ॥
क्षेत्राष्टकं ततो ऽधस्तात् सन्दोहानि ततो ऽप्य् अधः
षोडशैव प्रमाणेन चतुर्द्वारं ततस् त्व् अधः ॥
उपशब्दसमोपेतम् उपद्वारविवर्जितम्
अकुलीनशरीरेदं चतुःषष्टिपदान्वितम् ॥
तस्मात् सञ्जायते सर्वं सर्वं तत्रैव लीयते
तत्र ध्यानं जपं योगं तत्र पूजाक्रियाध्वरम् ॥
अत्र स्थितो न केनापि वस्तुना बाध्यते तु सः
परो ह्य् आत्मा परा विद्या परः शैवः सनातनः ॥
अकुलीनतनुर् बद्धः परतत्त्वत्रयेण तु
आत्मतत्त्वगतं पिण्डं सततं योगम् अभ्यसेत् ॥
विद्यातत्त्वगता मन्त्राः पदयोगसमन्विताः
शिवतत्त्वगतो योगं रूपाभ्यासं समभ्यसेत् ॥
शिवतत्त्वगतो योगं रूपातीतं तु तत्र वै
पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः ॥
रूपं बिन्दुः समाख्यातं रूपातीतम् अनामयम्
कुलदेहं परित्यज्य अकुलीनवपुःस्थितः ॥
स च वै सकलः पिण्डः कौलिकानां कुजीमते
अपरं पाशवं सर्वं त्रितत्त्वगुणलक्षणम् ॥
शैवमार्गविहीनानां शैवानाम् अन्यधर्मिणाम्
प्रसिद्धेन तु मार्गेण प्रसिद्ध्यर्थं भजन्ति ते ॥
अप्रसिद्धोज्झिते सिद्धा न पश्यन्त्य् अकुलां तनुम्
अकुलेन विना सिद्धिर् ऐहिका पात्रिका न हि ॥
प्रसिद्धविहिते मार्गे मोक्षश् चात्र न संशयः
अप्रसिद्धगता ऋज्वी षोडशान्तामृताह्रदम् ॥
आपूर्य पूरयेत् सर्वं जीवान्तं जीवरूपिणी
सुप्रसिद्धाक्षभूता तु कालसङ्ख्याकरी तु सा ॥
संसारे तु गतिस् तस्या मोक्षमार्गनियामिका
विंशत्येकसहस्राणि षट्शतैश् च समन्विता ॥
संसारी कुरुते सङ्ख्या ह्य् अहोरात्रोपदेशतः
अपरेण तु मार्गेण संसारपथलक्षणम् ॥
अहोरात्रेण लक्षैकं कालसङ्ख्यां करोति सः
सप्तादशानि लक्षाणि कोटिर् एका त्व् अहमिशि ॥
चतुराशीति पदेत्य् एवं कालः कलति सर्वथा
पदमार्गविदानां तु सकलाद् अजरामरः ॥
शिवमार्गविदानां तु सिद्धमार्गे ऽन्यथा शृणु
कोटिद्वादशकोपेतं कोटिलक्षचतुष्टयम् ॥
अहोरात्राक्षसूत्रस्य सङ्ख्येयं ह्य् अकुले तनौ
अकुलेशतनुं यावत् साचारं कुलयोगिनाम् ॥
तच्छरीरभृतानन्दो निराचारपदं व्रजेत्
कुलाध्वरपदं हृत्स्थं तत्रस्थं परमं क्रमम् ॥
पूजयेद् धृत्स्तनौ नाभिं सिद्धाव्वापीठपादुकौ
श्रीमद्बर्बरम् ओड्डीशं पदस्थौघमहार्णवम् ॥
पूजयित्वा स्मरेत् तस्थाम् अब्देनोक्तफलं लभेत्
द्विभिस् तु अधमा सिद्धिस् त्रिभिर् मध्यमतां व्रजेत् ॥
षड्भिर् द्वादशकाब्देन खेचर मध्यमोत्तमः
अधमं भूचरं कर्म मध्यमं बिलसाधनम् ॥
उत्तमोत्तमसिद्धीभिः खेचरः खेचरोर्ध्वगः
एवं देवि समस्तेदं पदयोगक्रियाध्वरम् ॥
कथितं सरहस्यं तु पदमार्गं सुदुर्लभम्
पदस्यापि हि रूपो ऽस्ति रूपातीतं तु सङ्क्रमः ॥
हंसज्ञानपदं प्रोक्तं रूपस्थं शृणु साम्प्रतम् ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0