Kubjikamatatantra · अध्याय 17
चतुष्कं पञ्चकं नाथ षट्कं तु पञ्चकं तथा
ज्ञातं व्याप्तिभृतं सर्वं चतुष्कं कीदृशं पुनः ॥
पृच्छामि त्वां न शक्नोमि स्वत एव प्रसादतः
वद नाथ गुणानन्दं येन जानीमहे ऽखिलम् ॥
कुब्जिके ऽतिमहाप्राज्ञे किं न बुध्यसि मूढधीः
यद्य् एवं लपितं सर्वं कथयाम्य् अवशेषकम् ॥
स्थितिभोगलयान्तस्थं पूजाव्याप्तिपदं यथा
तथा तं निखिलं सर्वम् उक्तानुक्तं वदामि ते ॥
देव्यापीठचतुष्कं तु सिद्धपिण्डचतुष्टयम्
युगैश् चतुर्भिस् तद् व्याप्तं परापरविभागशः ॥
अकुलेश्वरदेवस्य यथा तिष्ठति विग्रहे
तथा शृणु महेशानि निराचारपदं यथा ॥
ओ-जा-पू-का-क्रमं मध्याद् वामदक्षाग्रतोर्ध्वतः
व्याप्तिभूतं यजेत् सर्वं नाभ्यधः सिद्धपूर्वकम् ॥
ओ-जा-पू-का-क्रमाद् धृत्स्थं दक्षादौ वाम नाभिगम्
उपदेशेन जानीयाद् गुरुवक्त्रात् तु शाम्भवम् ॥
एवं कर्णमुखे नासा नासोर्ध्वं पूर्ववद् यजेत्
पूर्वोक्तार्चिसमायुक्तं सिद्धवृन्दसपालकैः ॥
बलकौमारवृद्धस्थं त्रिशुद्धिस्थं त्रितत्त्वगम्
वडवानलयोगेन गह्वराद् उपदेशतः ॥
कुलाकुले परे स्थाने सर्वज्ञां शाम्भवं क्रमम्
सर्वव्याप्तिसमोपेतम् आज्ञापुष्पैः प्रपूजयेत् ॥
रूपातीतादियोगेन मण्डलोद्भृतविग्रहा
तत्रस्था परमा देवी मध्यस्था पररूपिणी ॥
कालमूर्ध्नि स्थिता शान्ता कलातीता कलाकला
कालहन्ता कलातीता कम्बलीयं कुलेश्वरी ॥
वडवानलम् उत्तीर्णा देदीप्यन्तगुणोज्ज्वला
सहस्रादित्यसङ्काशा रूपातीता कुलेश्वरी ॥
रूपं पीठक्रमं देव्या नीलमेघाञ्जनप्रभा
भुजैर् द्वादशकोपेता षड्वक्त्रा बर्बरालका ॥
बृहोदरा च लम्बोष्ठी स्तब्धाक्षी विरलद्विजा
बालक्रमस्य मध्यस्था रूपस्था नग्नकुब्जिका ॥
वडवानलसन्दीप्ता अतिरौद्रा सुभीषणा
गुरूपदेशगम्या सा दिव्याज्ञार्थप्रदायिका ॥
कौमारक्रममध्यस्था एकवक्त्रा चतुर्भुजा
पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा ॥
वडवानलमध्यस्था सौम्यरूपा सुलालसा
महानन्दमहाविष्टा आवेशन्ती जगत्त्रयम् ॥
महासंसार-म्-अम्भोधेस् तारयन्ती व्यवस्थिता
सा महान्तारिकाप्य् अत्र कौमारे महतां गता ॥
पाशौघक्षयकर्ता सा विद्याशास्त्रावलम्बिनी
यस्योच्चारात् स्फुटन्त्य् आशु पर्वतान् वज्रमौसलान् ॥
पञ्च पञ्च च विद्यास्त्रं महान्तारी स एव हि
अक्षरौघेन सिद्धा सा उच्चारावेशिनी परा ॥
अभक्तं वा द्विषन्तं वा वादस्थं वा तथेतरम्
कुपितः पातयेत् सर्वं यस्यैषा हृदि शालिनी ॥
पदस्थेन तु योगेन सिद्धा सा परमेश्वरी
पिण्डम् आवेशयेच् छीघ्रं पिण्डस्थां शृणु कुब्जिनि ॥
वृद्धक्रमस्य मध्यस्थां लघुरूपां सुतेजसाम्
द्विभुजैकवदनां तां पिण्डस्थां पतिरूपिणीम् ॥
पशुप्राणहरां देवीं पाशजालनिकृन्तनीम्
दमनीं सर्वपापानां विज्ञानकरणीं पराम् ॥
पूर्वं व्यावर्णितं यच् च रूपान्ते गुणशालिनीम्
विद्याङ्गाभरणोपेतां पिण्डस्थां तां विजानथ ॥
द्वात्रिंशाक्षरसंयुक्तां षडङ्गपरिवेष्टिताम्
यद् उक्तं कर्मसन्तानं तद् अत्र फलदं क्रमात् ॥
मन्त्रसिद्धिकरी देवी पिण्डसिद्धिकरी परा
वडवानलयोगेन सर्वज्ञत्वं लभेत् तु सः ॥
वडवानलकुब्जस्था कूजते ऽनन्दरूपधृक्
तेन सा कुब्जिका नाम मणिरूपा1पखञ्जिका ॥
अस्या देव्याः पदं रूपं रूपातीतं प्रवर्तते
पिण्डेशिनी परा माता चतुराशीतिगुणोज्ज्वला ॥
सम्पूज्य मानसैः पुष्पैर् अलिफल्ग्वादिभिः क्रमात्
चतुःसिद्धक्रमाम्नायं स्वामिपादम् अनुक्रमात् ॥
पिण्डयोगस्थितां चाज्ञां संस्मरेन् मध्यतिर्यगाम्
कुब्जिनीकुलम् आरूढाम् अभ्यसन्तः श्रियं लभेत् ॥
शान्तिपुष्टिवशाकृष्टि वाग्विलासं ज्वरापहम्
मृत्युनाशं पुरक्षोभं सैन्यस्तम्भाम्भशोषणम् ॥
पशुपाशग्रहस्तोभं दन्तकाष्ठाञ्जलीघटम्
निर्बीजीकरणाद्यं च वृक्षस्फोटं जलप्लवम् ॥
मुद्रास्फोटं शिलाच्छेदं वृक्षाणां लभनं महत्
नदीप्रवर्तनस्तम्भो नावादिशकटस्य च ॥
अनग्निज्वलनं पातः सैन्यस्तम्भोर्ध्वरोपणम्
ज्वालास्तम्भं जलस्तम्भं घटसस्त्रगिराचलम् ॥
स्तम्भयेद् वज्रपातं तु अशन्यौघं निवारयेत्
मारयेट् टालयेच् छैलान् दारयेद् धरणीतलम् ॥
हस्तवृद्धिर् मनःसिद्धिर् दूराश्रवणदर्शनम्
वर्तमानम् अतीतार्थं भविष्यं च लघुत्वता ॥
वाचासिद्धिश् च माहेन्द्रम् इन्द्रजालप्रवर्तकम्
कामरूपान्तरध्यानं ज्ञानं मातृकुलस्य च ॥
जिह्वाप्रसारणं चान्यम् अङ्गैकैकविवर्धनम्
स्फोटनं शुष्ककाष्ठानां त्रोटनं फलपुष्पयोः ॥
मृतकोत्थापनं शीघ्रं दग्धसञ्जीवनं महत्
अकाले वृक्षफलनं पुष्पधान्यावरोहणम् ॥
परकायप्रवेशं च अन्यजन्मावबोधनम्
परोक्षमृतकानयनं दृष्टिज्वालाप्रसारणम् ॥
दन्तवृद्धिकरं ज्ञानं ज्वालाविज्ञानम् उत्तमम्
शरीरे फलपुष्पानि प्रतिमाजल्पकर्षणम् ॥
जल्पायनं कुमारीणाम् अन्तर्धानोर्ध्वदर्शनम्
निरालम्बोर्ध्वरुहणं पररूपापकर्षणम् ॥
चित्रनृत्यापनं युद्धं शत्रूणां च परस्परम्
हरणं शब्ददृष्टीनां वर्धतैकैकहेलया ॥
परसामर्थ्यहरणं पुंस्त्रियोपकरणं परम्
अङ्गसङ्कोचनानयनं भूतानां भूतसाधनम् ॥
पिण्डक्रमस्य पूजायां स्वाधिष्ठानफलं लभेत्
कुब्जानलेन योगेन कुब्जिपिण्डं चतुर्विधम् ॥
अश्वत्थपत्त्रवत् कुब्जं शुकचञ्चुनिभं परम्
मणिकुब्जं परं चान्यं रन्ध्रकुब्जं ततो ऽपरम् ॥
एतत् ते संस्फुटं सर्वं कुब्जाम्बीनां चतुष्टयम्
पिण्डो ऽथ पद रूपं च रूपातीतादितः क्रमात् ॥
आद्यं पिण्डस्थिता कुब्जी कुब्जेशीति कुलेश्वरी
पदस्था कुब्जिका चान्या महान्तारी महद्भुता ॥
रूपस्था कुब्जिनी चान्या बिन्दुस्था बर्बरा परा
रूपातीता तु रन्ध्रस्था कुब्जिनी कमलानना ॥
विज्ञानानेकविश्लिष्टा एकैका फलदायिनी
पिण्डयोगक्रमेणैताः कुब्जिदेहफलप्रदाः ॥
मित्रेशानसमायुक्ता कण्ठोष्ठालिङ्गनान्विता
गोलान्तपश्चिमान्तस्था शङ्खभेदाद् विनिर्गता ॥
विद्युदन्योन्यतारेभ्यो विशत्य् एका पुनर् द्विधा
एवम् अभ्यसते यावत् तावत् कामः स्वयं क्षुभेत् ॥
स्वाधिष्ठानगते योगे शाक्ते शक्तिं समभ्यसेत्
अब्दैकेन जगत् सर्वं क्षोभयेत् त्रिदशेश्वरम् ॥
दुर्भगानाम् अभाग्यानाम् अब्दात् सर्वं भविष्यति
यः पुनः सर्वथा सिद्धः स सिध्यत्य् अचिरात् प्रिये ॥
सात्त्विकेन तु रूपेण त्यक्तमायासुखोज्झितः
पादप्रक्षालनं जुष्टं यो न दद्यात् स सिध्यति ॥
एतत् कुलालिकाम्नाये पिण्डकुब्जिचतुष्टयम्
अविज्ञाय न दातव्यं यावन् नादेशितः शिशुः ॥
अनादिविमलमातङ्गी सर्वज्ञा च पुलिन्दिका
योगे च शबरी प्रोक्ता सिद्धसंज्ञेति चम्पका ॥
अधुना शृणु कुब्जीशे पदग्रन्थिविभञ्जकम्
क्रमं वक्ष्यामि दिव्यौघं सामर्थ्यादिनिराकुलम् ॥
आज्ञामोघपदं खञ्जि द्वितीयं कुब्जिनीपदम्
शक्तिविद्या तृतीयं तु चतुर्थौघपदक्रमम् ॥
चतुष्पीठविभेदेन पुनः पीठचतुष्पदम्
षोडशैव पदान्य् आहुर् ग्रन्थिभूताः पृथक् पृथक् ॥
कलन्ति सकलं सर्वं स्थूलसूक्ष्मविभागतः
नदन्ति कालरूपस्था[ः] स्थूलसूक्ष्मान् तथान्तिमान् ॥
तिथ्याद्यान्तपदं यान्ति वामान्तं दक्षिणं पुनह्
चन्द्रसूर्यविभागेन जीवितं मरणं पदम् ॥
पदैः षोडशभिः सर्वं ग्रन्थिं बद्ध्वाध्वरं ऽखिलम्
कालरूपास् तु ताः कालं हनन्त्य् उच्चारयोगतः ॥
एवं ज्ञाते हनेत् कालम् उच्चरन्तो ऽनुपूर्वशः ॥
अक्षरे अक्षरे ग्रन्थिः पीठं ग्रन्थिचतुष्टयम्
चतुष्पीठमया योनिश् चतुर्योनिमयं ऽखिलम् ॥
पञ्चमी या परा योनिस् तस्या ग्रन्थिः पदे पदे
तया व्याप्तम् इदं सर्वं कारणानलमध्यगम् ॥
तत् पदं परमं प्रोक्तं यत्र सर्वे पदा गताः
षोडशाक्षरभेदेन तत् पदं लभते स्फुटम् ॥
प्रथमाधारनन्ताख्या मध्यमाङ्घ्र्याङ्गुलीगता
कालग्रन्थिस् तु गुल्फाधो रौद्रीग्रन्थिर् नलान्तरे ॥
ज्येष्ठाग्रन्थिर् नितम्बाधो वामे वामाधसंस्थिता
कामग्रन्थिर् गुदाधारे पिङ्गग्रन्थिस् ततोर्ध्वतः ॥
अधोर्ध्वरोममध्ये तु ब्रह्मग्रन्थिर् उदाहृता
सोमग्रन्थिस् ततश् चोर्ध्वे सूर्यग्रन्थिस् ततोर्ध्वतः ॥
प्राणग्रन्थिः पुनश् चोर्ध्वे जीवग्रन्थिस् ततोर्ध्वतः
येन जीवन्ति भूतानि तद्वियोगान् म्रियन्ति च ॥
विष्णुग्रन्थिस् तु सा ज्ञेया कण्ठस्था तालुके ऽन्यथा
रुद्रग्रन्थिर् महारौद्रा ईशग्रन्थिस् ततोर्ध्वतः ॥
सादाख्यस् तु परा ग्रन्थिस् त्रिकोट्योर्ध्वव्यवस्थिता
माया शक्तिस् ततश् चोर्ध्वे इच्छानन्दामृताप्लुता ॥
षोडशावयवा देवी खेचरी तु खगेश्वरी
पद्मस्था पद्ममध्यस्था हंसस्था हंसवाहिनी ॥
निष्कला सकला देवी वज्रदेहा मनोन्मनी
पदक्रमस्य मध्यस्था पदाङ्गाभरणोज्ज्वला ॥
क्रममन्त्रपदालब्धा हेलया चाणिमाष्टकम्
साधयेन् महता देवी षोडशाक्षरसम्भवा ॥
मालिनी सिद्धदेहा सा त्रितत्त्वार्चिघनोज्ज्वला
अघोर्याष्टकसंयुक्ता द्वादशाङ्गप्रपूरिता ॥
षडङ्गावयवोपेता दिव्यदेहा महाबला
असिताङ्गतनूद्भूता मन्त्रदेहा महेश्वरी ॥
मालिनी शब्दराशिश् च त्रिविद्याघोरिकाष्टकम्
द्वादशाङ्गषडङ्गं च एतद् देहं कुलात्मकम् ॥
ललाटकण्ठवक्षस्थं गुह्याङ्घ्रौ रत्नपञ्चकम्
श्लोकद्वादशभिर् माला पादादौ चूलिकावधिम् ॥
ब्रह्मसूत्रोज्ज्वला देव्याः स्कन्धोभौ तद्ग्रहान्वितौ
पञ्चबीजैर् मुखकोषं पञ्चौंकारैः खिलं न्यसेत् ॥
परमं वद कौलेश पदमन्त्रा यथा स्थिताः
यत्र स्थाने नियोक्तव्याः स्फुटैकैकं पृथक् पृथक् ॥
कथयामि वरारोहे पदार्थार्थपदं यथा
सिद्धमन्त्रोपदेशो ऽयं प्रकटार्थं वदामि ते ॥
मूर्ध्नि वक्त्राक्षिणौ कर्णौ नासागण्डौ द्विजौष्ठकौ
भारतीशङ्खिनीद्वारे श्रीकण्ठात् सेनकावधिम् ॥
क्रमेण षोडशैवैतान् दक्षिणादौ पदा न्यसेत्
दन्तौष्ठादिम् अधो न्यस्य भारतीशङ्खिकावधिम् ॥
क्रोधादाव् एकरुद्रान्तं स्कन्धादौ चाङ्गुलावधिम्
दक्षिणे वामतो ऽप्य् एवं कूर्मादौ शर्मकावधिम् ॥
सोमेश्वराद्युमाकान्तं स्फिचादौ ऽङ्घ्र्यान्त दक्षिणम्
वामतो ऽषाढिमेषान्तं पार्श्वौ लोहिशिखान्वितौ ॥
छगलण्डं तु वंशस्थं द्विरण्डं नाभिमण्डले
हृदये तु महाकालम् अष्टकं पुरतो ऽन्यथा ॥
वालिभौजङ्गपैनाक खड्गीशबकश्वेतकाः
भृगुलाकुलसंवर्ताः कालप्राणसशुक्रगाः ॥
मज्जास्थिस्नायुमांसस्था रक्तत्वग्वालिमादितः
अनुलोमविलोमेन कालवेलादितः क्रमात् ॥
नादिनी तु शिखाग्रस्था नकाराक्षरसम्भवा
ऋ-ॠ-ऌ-ॡ निवृत्त्याद्या मालिका शिरसि स्थिता ॥
थ शिरो ग्रसनी देवी ध नेत्रे प्रियदर्शना
ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः ॥
व्यापयित्वा स्थिता देवी च तृतीयं तु लोचनम्
चामुण्डा परमेशानी ललाटस्था विराजते ॥
बकारं वदनं देव्या वज्रिणी शक्तिर् अव्यया
कवर्गे दशनास् तीक्ष्णाः कङ्कटा कालिका शिवा ॥
घोरघोषा मुखीवीरा कवर्गे दसना[ः ] शुभाः
मायादेवी इ जिह्वा तु अ वाग् वागेश्वरी मता ॥
नारायणी ण कर्णौ तु तयोर् भूषणम् ई-परौ
मोहनी च तथा प्रज्ञा व कण्ठे शिखिवाहिनी ॥
लामा विनायकी देवी डढौ बाहुद्वयं मतम्
पौर्णिमा हस्तदेशस्था ठकाराख्यं विभोर् मतम् ॥
झङ्कारी कुर्दनी चैव झञौ चाङ्गुलयः क्रमात्
कपालिनी वामकरे टकारः परमेश्वरी ॥
दीपनी शूलदण्डं च रेफः सम्यग् उदाहृतम्
जयन्ती ज भवेच् छूलम् एवं देवी विराजते ॥
भीषणा वायुवेगा च स्कन्धयोर् उभयोर् अपि
पावनी तु प हृल्लग्ना षोदरं लम्बिका स्थिता ॥
संहारिका क्षकारो ऽयं नाभिर् देव्या[श्] च भैरवि
छगली पूतना चैव स्तनौ छलौ परिस्थितौ ॥
आमोटी तद्गतं क्षीरम् आवर्णः परिकीर्तितः
परमात्मा सकारो ऽयं ह प्राणे शक्तिर् अम्बिका ॥
इच्छाशक्तिर् विसर्गाख्या व्याप्यभावेन संस्थिता
म नितम्बं महाकाली श गुह्यं कुसुमायुधा ॥
शुक्रा देवी त्व् अनुस्वारं शुक्रं देव्यास् तु भैरवि
तारा तकारम् ऊरुस्था ए ऐ ज्ञानीक्रियाव् उभौ ॥
जानुनी संस्थितौ देवि भैरव्याश् च महात्मनः
गायत्री चैव सावित्री ओ औ जङ्घौ प्रकीर्तितौ ॥
दहनी दक्षपादस्था वामे फेत्कारिका मता
नादिफान्ता वरारोहे देहं शक्तिमयं शुभम् ॥
सिद्धपञ्चाशकोपेतं मालिन्यार्धशतान्वितम्
एवं शतं समाख्यातं योज्यमानं तनौ भृतम् ॥
पदद्वयं समाख्यातं तत्र हंसो व्यवस्थितः
यावच् चरति तौ द्वौ तु तावद् आत्मा समाप्यते ॥
पदमानम् अशेषं तु अत्र सर्वं समाप्यते
आज्ञातो भुञ्जते कालं पदं ज्ञात्वाजरामरम् ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0