Kubjikamatatantra · अध्याय 16
भुवनाङ्कुरसंयुक्तं पदपत्त्रविभूषितम्
वर्णकण्टकसङ्कीर्णं मन्त्रच्छिद्रसमन्वितम् ॥
कलासूत्रचितं दिव्यं तत्त्वग्रन्थ्युपरिस्थितम्
कोटिकोटिशतायामं चतुर्विंशदलायतम् ॥
व्योमोदार्णवमध्यस्थं नीलाञ्जनसमप्रभम्
सहस्रादित्यसङ्काशं कालाग्निर् इव वर्चसम् ॥
तत्रोर्ध्वे मण्डलान्य् आहुश् चतुर्विंशम् अनुक्रमात्
क्षेत्रोपक्षेत्रसन्दोहान् पूर्वादौ पार्थिवादितः ॥
क्षेत्रे द्वे चोपक्षेत्रे द्वे सन्दोहे द्वे विजानतः
दलोपरि विराजन्ते चतुःषट्कं दिशादितः ॥
अट्टहासादितः कृत्वा राजगृहम् अपश्चिमम्
पार्थिवादिप्रकृत्यन्तं संयोगान् मण्डलायते ॥
सौम्यादिभग्ननासान्ताः सूर्यमण्डलसंस्थिताः
पृथग्मण्डलचक्रस्थाः खेचर्यः कुलनायिकाः ॥
सोममण्डलमध्ये तु द्वात्रिंशान्ये महाबलाः
कुब्जिकाङ्गसमुद्भूताः प्रचण्डोग्रा गुणोत्कटाः ॥
चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला
रेवती प्रथमा घोरा सौम्या भीमा महाबला ॥
जया च विजया चैव अजिता चापराजिता
महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा ॥
सेहारी जातहारी च दंष्ट्राली शुष्करेवती
पिपीलिका पुष्पहारी अशनी सस्यहारिका ॥
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका
द्वात्रिंशद्गुणशालिन्यश् चक्रेश्वर्या महाम्बिकाः ॥
सोममण्डलमध्यस्था वह्निस्थास् तु ततः शृणु
खगेश्वरपतीनां तु पतिमात्र्यो ऽत्र संस्थिताः ॥
असिताङ्गतनूद्भूताः क्रियारूपाः परापराः
कुर्वन्ति विविधां सृष्टिं त्वरितं लाघवे स्थिताः ॥
त्वरिताशब्दं कथं देव खञ्जीशब्दं किम् उच्यते
कुब्जाशब्दं कथं प्रोक्तं कथं तन्मण्डलागणः ॥
कथं रूपं महेशान्याः सर्वम् एतद् यथाक्रमम्
आचचक्ष्व प्रयत्नेन येन भ्रान्तिर् विनश्यति ॥
साधु देवि महादुर्गे किं न बुध्यसि पार्वति
यद् अस्मात् त्वम् इहायाता तत् किं ते वेदितं न हि ॥
वालाग्रशतभागस्य विभिन्नस्य सहस्रधा
अस्य कालविभागस्य त्वरात् सञ्चरसे यथा ॥
तथा त्वं त्वरिता नाम अशेषार्तिविनाशिनी
खञ्जिनी कथिता तुभ्यं वारं वारं पुनः पुनः ॥
यस्या मध्यगतं विश्वं विश्वमध्यगता तु या
खञ्जिका तेन सा प्रोक्ता सूक्ष्मे वस्तुनि सूक्ष्मगा ॥
एषा ते खञ्जिका ख्याता कुब्जिनी[ं] शृणु साम्प्रतम्
अन्वर्थसंज्ञिका नाम एका त्वं तु कुलेश्वरि ॥
स्थूलसूक्ष्मे परे तत्त्वे व्यक्ताव्यक्ते निरामये
सर्वं व्याप्तम् इदं देव्या सा च त्वं किं न बुध्यसि ॥
बृहत्कायो यदा कश्चित् स्वल्पे व्याचरते गृहे
कुञ्चिताङ्गो विशेद् यस्मात् तद्वद् एषा महेश्वरी ॥
चतुर्द्वादशधाधारं ग्रन्थौ षोडशकान्वितम्
वडवाख्यं त्रिशूलोर्ध्वं त्रित्तत्त्वं तु कलान्तगम् ॥
निदिध्यास्यं श्रुतं देश्यम् एतत् कौलेश्वरं तनुम्
यस्योदरगतं तच् च तस्य किम् अपरं परम् ॥
कूटभूतं तु तन्मध्ये यस्मात् सा कुटिलीतया
गतानेककुलोद्भिन्ना इच्छेयं पारमेश्वरी ॥
तेन त्वं कुब्जिका प्रोक्ता परा सर्वेषु वस्तुषु
तत्रेदं दुर्लभं देवि सुगोप्यं प्रकटीकृतम् ॥
वेदसिद्धाः पशुस् चोर्ध्वे ऊर्ध्वं वामे पशुत्वता
वामं दक्षिणमार्गस्य दक्षिणं कुलशासने ॥
तं तु योन्यार्णवे लीनं योनिः स्रीकुब्जिकामते
अतोऽर्थं गोपितं तन्त्रं न कस्यचिन् मयोदितम् ॥
रभसाविष्टभावेन तवाद्य प्रकटीकृतम् ॥
सूर्यसोमस्थितिः प्रोक्ता वह्निस्थानावधारिता
कथं सा कुरुते सृष्टिं को ऽसिताङ्गः कुलेश्वरः ॥
कुब्जेशि श्रूयतां सृष्टिर् यथावस्था प्रपद्यते
असिताङ्गो महेशानस् ततोर्ध्वे मण्डलोपरि ॥
सोममध्ये रविस्थानं सूर्यमध्ये शिखि[ः] स्थितः
तत्र मध्ये ऽङ्कुरं दिव्यम् असिताङ्गसमुद्भवम् ॥
ततो निष्पद्यते सृष्टिर् विचित्रानेकरूपिणी
तत्त्वानि च कला वर्णा मन्त्रविद्या पदः पुरा ॥
विसृजन्ति महानन्दं शक्तिभैरवमण्डलम्
पञ्चविंशतिमध्यादौ षोडशैवाष्ट चान्तिमाः ॥
भैरवानन्दशक्तिस्थम् असिताङ्गकुलेश्वरम्
आदिमण्डलमध्यस्थं सिद्धैः षोडशभिर् वृतम् ॥
आदियोनिपुरस्थं तु मण्डलं खेचरात्मकम्
अस्य पूजाविधानेन आज्ञायोनिफलं लभेत् ॥
आदिमण्डलकं ह्य् एतत् प्रवरं ह्य् उत्तमोत्तमम्
अत्रोत्पन्नानि सर्वाणि मण्डलानि ह्य् अनेकधा ॥
पञ्चविंशात्मकं मध्ये मण्डलानां तदादिमम्
चतुःसिद्धान्वितैकैकं विज्ञेयं पञ्चविंशकम् ॥
वालादौ खड्गपर्यन्तं मण्डले मण्डले तु तम्
एषान्यत् पञ्चकं देवि कुलविद्या कुलाध्वरे ॥
भुजङ्गक्रूरसंयुक्ता त्रिमूर्तिगुणधारणा
सामान्या सर्वसिद्धानां पञ्चविंशतिमण्डले ॥
मण्डलो[ द्]भृतदेहा सा क्रियाकालगुणोत्तरा
चतुर्भिः सहिता देवी सृजते वर्णसागरम् ॥
ककारादौ मपर्यन्तं यकारादौ ह-म्-अन्तिमम्
अत्र मन्त्राः समुत्पन्ना विद्यामुद्रागणो महान् ॥
देवीदेहात् समुत्पन्ना सा देवी मण्डलोद्भवा
चतुर्विंशकमध्यस्था षट्चतुष्कविभूषिता ॥
वह्निमण्डलमध्यस्था बहुरूपा अरूपिणी
बर्बरोरुह पिङ्गाक्षी दन्तुरा बृहदोदरा ॥
नीलमेघप्रभा भीमा गम्भीराभरणोज्ज्वला
वेदैः कृतशिरोमाला सषडङ्गपदक्रमात् ॥
ब्रह्मसूत्रं महेशान्याः पुराणोद्बद्धमेखला
ज्योतिःशास्त्राञ्जिताक्षी सा ध्वनिकर्णावतंसका ॥
कलालम्बितहारौघा विज्ञानकटकोज्ज्वला
शब्दपङ्कामृतोद्भिन्ना मण्डितं मुखमण्डलम् ॥
विचित्रवसनानेका शास्त्रपट्टांशुकोमला
आबद्धांशुकपर्यङ्का प्रमेयासनसंस्थिता ॥
ईदृग्रूपधरां देवीं पञ्चविंसान्तमध्यगाम्
अपरां सृष्टिकर्तारां परां षड्विंश-म्-आदिमाम् ॥
आदिमण्डलमध्यस्थाम् असितोत्सङ्गगामिनीम्
द्विभुजाभरणोपेताम् एकवक्त्रां त्रिलोचनाम् ॥
चारुबिम्बोष्ठवदनाम् अनेकगुणशालिनीम्
अरूपां रूपसम्पन्नां तस्यान्ते रूपसम्भवाम् ॥
इच्छारूपधरां देवीं नवात्मानेन लभ्यते ॥
नवात्मानमयं सर्वं तस्यैतत् परमा परा
सा परा लभ्यते येन स नवात्मा वद प्रभो ॥
साधु भैरवि यत्नेन पृच्छितं निर्मलार्थतः
न तेन रहितं किञ्चित् सत्येदं परमार्थतः ॥
प्रसह्यं पूज्यते यत्र तत्र सिद्धक्रमो न हि
यत्र सिद्धक्रमो भद्रे तत्रेदं गोपितं मया ॥
आज्ञालब्धरसास्वादास् त्यजन्तीदं सुदुर्लभम्
विशुद्धमण्डलोर्ध्वेदं मण्डलं न तदोज्झितम् ॥
पञ्चविंशकभेदस्य पूर्वं विद्या समुद्धृता
तस्यैवाद्यं द्विकं त्यज्य शेषान्यत्केवलाक्षराः ॥
भृगुलाकुलसंवर्तास् त्रीण्य् एतानि अनुक्रमात्
तत्र लाकुलभृग्वेशं भुजङ्गासनसंस्थितम् ॥
संवर्तकमहाकालं पिनाकीगुणसंयुतम्
खड्गवालासनासीनम् अर्घीशानन्दनोपरि ॥
ऽनुग्रहानन्दमूर्ध्निस्थं क्रूरानन्दसमन्वितम्
परानन्दसमायुक्तं कूटेदं मण्डलेश्वरम् ॥
यस्य गर्भगतं सर्वं वाङ्मयं सचराचरम्
तस्योपायम् इदं देवि उपेयस्य महात्मनः ॥
एतत् कौलेश्वरं नाम कूटरूपं कुलेश्वरम्
नानेन रहिता सिद्धिः साधनं खेचरीपदे ॥
मण्डलान्तर्गतं पूज्य मण्डलं कामदं स्मृतम्
येन पूजितमात्रेण सर्वव्याप्तिपदं लभेत् ॥
महतः कुलवृक्षस्य डालाः स्युः पञ्चविंशति
आज्ञापुष्पोपशोभाढ्यं विज्ञानफलमालितम् ॥
परिपक्वरसानन्दं मोक्षतृप्तिकरं फलम्
प्राप्यते येन यज्ञेन हेलया मण्डलं तु तम् ॥
खेचरीचक्रमध्यस्थं त्रितत्त्वगुणशालिनम्
मण्डलोद्भृतदीप्यन्तं मण्डलं वडवामुखम् ॥
चतुःशक्तिसमायुक्तम् एकैकं पञ्चविंशकम्
अम्बिका रौद्रिणी ज्येष्ठा वामादौ सृष्टिसागरे ॥
एतच्चतुष्टयान्तस्थं नवेशानं कुलेश्वरम्
वडवानल-म्-आसीनम् आज्ञाशूलधरं विभुम् ॥
मण्डलानां पृथक् पूजा सिद्ध्यर्थं साधकेश्वर
व्याप्तिस्थं तु यथा सर्वं तथा वदत भैरव ॥
कथयामि वरारोहे देव्या देहगतं यथा
व्याप्तिनामविभेदेन ज्ञास्यन्ते ज्ञानिनो यथा ॥
काममण्डलकं स्कन्धे खेचरं तदधःस्थितम्
गुरुमण्डलकं सन्धौ पाणिमध्ये घनोज्ज्वलम् ॥
रुद्रमण्डलकं दक्षे पाणौ तत् तु नखाग्रतह्
चन्द्रमण्डलकं वामे छायामण्डलकं त्व् अधः ॥
जयन्तमण्डलं सन्धौ झङ्कारं करमध्यतः
ज्ञानमण्डलकं वामे अङ्गुल्याग्रे व्यवस्थितम् ॥
वराङ्गोर्ध्वनितम्बाधो दक्षिणे ऽमृतमण्डलम्
सोममण्डलकोरुभ्यां सन्धौ डामरमण्डलम् ॥
कन्यामण्डलकं पद्भ्याम् उमामण्डलकं नखे
तारामण्डलकं वामे कुलदिव्योरुमध्यतः ॥
अनन्तमण्डलं सन्धौ पादान्ते मित्रमण्डलम्
अङ्गुल्याग्रे समाख्यातं मण्डलं मेरुपूर्वकम् ॥
रक्तमण्डलकं कुक्षौ दक्षिणे वामतः शिखी
कुलमण्डलकं पृष्ठौ वज्रसङ्ख्यात मध्यगम् ॥
मण्डलैश् चैकविंशाभिर् आवृतः स कुलेश्वरः
षष्ठमण्डलकं नाभौ कालमण्डलकं हृदि ॥
श्रीमन्नाथादितः कृत्वा त्रयैतानुक्रमेण तु
एकैकं चैकविंशानां मण्डलानां पतीश्वराः ॥
पञ्चविंशकयोगस्य चतुष्कं पतिरूपिणम्
समुदायपतीनां च पतिर् एको विसुद्धिराट् ॥
रन्ध्रमण्डलकं वृत्ते रोमकोट्योर्ध्वसंस्थितम्
सर्वाङ्गसुन्दरं देव्याः शरीरं मण्डलोद्भवम् ॥
शाम्भवीयं परा मूर्तिः स्वयंसम्भृतमण्डलम्
मण्डलोद्भृतदेहा सा सा च मण्डलमध्यगा ॥
स्वयङ्कर्ता स्वयंहर्ता मण्डलानां कुलेश्वरी
वडवानलरूपेण त्रिशूलासनसंस्थिता ॥
कङ्कालेश्वरमूर्ध्निस्था षट्पदार्थोपरिस्थिता
चतुर्भुजैकवदना चाक्षसूत्रकराभया ॥
सर्वज्ञानावबोधेन पुस्तकान्यवरप्रदा
पञ्चमोर्ध्वक्रमो देव्या मण्डलोद्भृतविग्रहा ॥
चतुराशीतिप्रमाणेन कोटीनां मूलतोर्ध्वतः
शरीरं श्रीकुलेशस्य तस्य कुम्भो ऽब्जमण्डले ॥
स्थिता सञ्जनते सर्वं तेन कुब्जेश्वरी परा
मण्डलोद्भृतदेहा सा मण्डलोपरिसंस्थिता ॥
मण्डलान्तर्गता देवी ध्यात्वा मण्डलदायिकाम्
श्रीमहानन्दवृक्षो ऽयं डालानेकचितं तु तम् ॥
शास्त्रपल्लवसंयुक्तं विज्ञानाङ्कुरशोभितम्
अखण्डज्ञानपुष्पाढ्यं सिद्धोदयफलान्वितम् ॥
पक्वानन्दरसालाढ्यं मोक्षतृप्त्यादिसत्फलम्
एष मण्डलवृक्षो ऽयं यस्मात् सर्वं प्रपद्यते ॥
सर्वथा तद् यजेन् नित्यं व्याकुलेन-म्-अनेन किम्
निराचारेण योगेन साचारेण न तद् यजेत् ॥
व्याप्तिभावम् अतो मत्वा भुक्त्वा चाण्डालजां तनुम्
स पश्यति परं वृक्षं खेचरं मण्डलोद्भवम् ॥
तद्भावभावनां कृत्वा गुरुं मत्वावधारयेत्
यत् किञ्चित् पुरतस् तस्य तत् सर्वं मण्डलं विदुः ॥
यदि स्यान् मण्डलो देहः पूजयेन् मण्डलादिभिः
वडवानलयोगेन एकैकं मासकावधिम् ॥
कुलविद्यासमायुक्तं चतुष्कलसमन्वितम्
कौलेशानसमायुक्तं स्वस्थानस्थोपदेशगम् ॥
एवं सञ्चिन्त्य मनसा भक्तियुक्तो जितेन्द्रियः
पञ्चविंशतिमासेन प्राकृतान् लभते गुणान् ॥
द्विगुणेन तु कालेन पैशाचगुणकृद् भवेत्
त्रिगुणेन तु कालेन दैवत्यं भजते तु सः ॥
चतुर्गुणेन कामित्वं सामान्यत्वामरालये
पञ्चमावस्थयोगेन सत्यलोकावधिं व्रजेत् ॥
षष्ठमेन तु योगेन विष्णुत्वं जायते ध्रुवम्
सप्तमेन तु योगेन ब्रह्माण्डान्तम् अनुव्रजेत् ॥
अष्टमेन तु पिङ्गोऽसौ नवमान्तेश्वरः प्रभुः
मण्डलीशो दशावस्थः खेचरः खेचराधिपः ॥
मण्डलाभ्यासयोगेन निराचारेण योगिनः
वडवानलमध्ये तु वडवानलपूरितः ॥
वडवानलरूपेण निराचारव्रतं चरेत्
वडवानलम् आरूढो वाडवीयं पदं लभेत् ॥
यतः सर्वमयं तच् च जगेदं वडवोदरम्
आज्ञेयं सकला देवी दिव्याज्ञातो ऽस्य सम्भवः ॥
षट्पदार्थस्य चान्यस्य प्रधानं वडवानलम्
महावृक्षवटो यस्य सूक्ष्मबीजवटो यथा ॥
तथा तु हृदयस्यास्य सर्वम् एवोदरे जगत्
खेचराधिपतिर् देव्या वटमालावलम्बिनी ॥
आज्ञासूत्रप्रयोक्ता सा चतुराशीतिगुणोज्ज्वला
गुरुवक्त्रात् तु लभ्येत मालेयं वडवानली ॥
स्वमनीषिकतो ऽन्यथा पश्यन्तो ऽपि न पश्यति
एतत् ते पञ्चकं प्रोक्तं सर्वव्याप्तिभृतोदरम् ॥
खेचरान्तपदं दिव्यं चतुष्कान्यं पुनः शृणु ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0