Kubjikamatatantra · अध्याय 15
देवीदूतीमतं कुब्जि कथितं तु सुविस्तरम्
इदानीं मातराणां च शृणु त्वं व्याप्तिलक्षणम् ॥
पदपत्त्रोर्ध्वगं पद्मं तेजोरूपं सुभास्वरम्
लक्षकोटिसुविस्तीर्णम् अम्भोधिपरिमण्डलम् ॥
तत्र मध्ये महेशानं पिङ्गेशं पिङ्गरूपिणम्
त्रिकोणपुरमध्यस्थं तेजोराशिम् अनामयम् ॥
काले ह्य् अहर्मुखे प्राप्ते क्षोभयित्वा स्वकां तनुम्
विज्ञानकेवलान्य् अष्टौ बोधयामास पुद्गलान् ॥
अष्टौ मुद्रा महामात्र्यो जगद्योनिर् महाम्बिके
तासु जातं जगत् सर्वं यत् किञ्चिद् वाङ्मयं ऽखिलम् ॥
प्रथमा खेचरीमुद्रा आत्मी नाम द्वितीयका
तृतीया शशिनी ज्ञेया वह्निनामा चतुर्थिका ॥
पञ्चमी चलनी नाम षष्ठी भानुमती स्मृता
सप्तमी महिमा नाम अष्टमी सुकृतालया ॥
एता अष्टौ महामात्र्यः श्रीमन्मित्राङ्गजोद्भवाः
कुर्वन्ति विविधां सृष्टिं स्थूलसूक्ष्मपरापराम् ॥
विभाजयन्ति चात्मानम् एकैका चाष्टधाष्टधा
तेष्व् अन्याः षोडशाधाराश् चतुःषष्ट्यान्त-म्-अन्तिकाः ॥
खेचरीतनुसम्भूताश् चाष्टौ मात्र्यो दिशात्मिकाः
ऐन्द्रादीशान-म्-अन्तस्थाः सर्वाधाराः परापराः ॥
रुद्राण्यंशाः समाख्याता देवीकोटान्तसंस्थिताः
संवर्तवीरसंयुक्ताः शम्भुकल्पावतारकाः ॥
आत्ममात्रोद्भवा ह्य् एवं सकला निष्कलाश् च ये
विज्ञानप्रलयान्तान्ये धर्माधर्मे नियोजयेत् ॥
तत्राणवो ऽथ मायाया अष्टौ मात्र्यो ऽणुसम्भवाः
प्रयागपुरमध्यस्थाश् चण्डकौलीशसंयुताः ॥
ब्राह्मीचक्रं समुद्दिष्टम् आदिकल्पस्य मध्यगम्
आत्ममात्र्यष्टकं प्रोक्तम् इन्द्रमात्र्यष्टकं वदेत् ॥
छाया तु शीकरा ज्योत्स्ना ऋतुरत्ना सुशीतला
पयोघृतवती चान्या इन्द्रमात्र्यो ऽष्ट वैष्णवी ॥
वाराणसीपुरान्तस्था अमृताधारशीतला
आप्यायन्ति जगत् सर्वं पालयन्ति जगाम्बिकाः ॥
कल्पावान्तरम् आसाद्य क्रोधकौलीशसंयुताः
कुर्वन्ति विविधां सृष्टिम् आपदां मोचयन्ति ताः ॥
तृष्णा रागवती मोहा कामा कोपा तमोत्कटा
ईर्षा शोकवतीत्य् अष्टौ वह्निमात्र्यः प्रकीर्तिताः ॥
कौलीशोन्मत्तसंयुक्ताः कोल्लाद्रौ संव्यवस्थिताः
महान्तकल्पमध्यस्थाः क्रीडन्त्य् अमिततेजसा ॥
त्वची स्पर्शवती गन्धा प्राणापानी समाननी
उदानी व्यानि कृकरा मरुन्मात्र्यो ऽष्ट कीर्तिताः ॥
असिताङ्गकुलेशानम् अट्टहासपुरान्तगाः
दिव्यकल्पे पुरा मात्र्यः क्रीडन्त्य् अमिततेजसा ॥
तमोहन्ता प्रभा मोहा तेजिनी दहनी दिना
ज्वलनी शोषणीत्य् अष्टौ अर्कमात्र्यः प्रकीर्तिताः ॥
दिव्यादिव्यपरे कल्पे जयन्तीपुरमध्यगाः
रुरुकौलेशसंयुक्तास् तेन सार्धं रमन्ति ताः ॥
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च
शान्तातीता च पृथिवी वज्रिणी कामधेनवी ॥
महिमेशानदेवस्य अष्टौ मात्र्यश् चरित्रगाः
अदिव्यकल्पमध्यस्था झण्ठकौलेश्वरान्विताः ॥
ऐन्द्र्याधिष्ठितचक्रस्थाः क्रीडन्त्य् अमिततेजसा
पूर्यष्टकस्य मध्यस्था वज्रहस्ता महाबलाः ॥
पयोष्णी वारुणी शान्ता अमृता व्यापिनी द्रवा
प्लवनी जलमाता च पयोमात्र्यो ऽष्ट विश्रुताः ॥
वर्तमानिककल्पे तु एकाम्रकवनान्तगाः
कपालीशकुलेशानं चामुण्डाचक्रमध्यगाः ॥
श्रीकुलेश्वरदेवस्य हृत्पद्मे ऽ ष्टदले स्थिताः
ईशानक्रमयोगेन सृष्टिमार्गावलम्बिकाः ॥
कर्णिकायां स्थितो देवश् चतुष्कपरिवारितः
रक्ताकरालाचण्डाक्षी महोच्छुष्मासमन्वितः ॥
महारक्तवनान्तस्थस् तेजोमण्डलमध्यगः
नवतत्त्वेश्वरं देवं पूर्यष्टकसमन्वितम् लि ॥
अन्तर्देहस्थितो यस्मात् पूरयेत् स चराचरम्
तेन पूर्यष्टकं प्रोक्तम् अष्टधा तु प्रपूरकम् ॥
स शिवः सर्वसत्त्वानां हृदिस्थः परमेश्वरः
भ्रामयेत जगत् सर्वं यन्त्रारूढस् तु मायया ॥
द्वासप्ततिसहस्राणाम् उपरिस्थो ऽन्तरे स्थितः
अक्षारूढो ऽक्षगम्यो ऽयं मनीशानां पिशाचवत् ॥
गुरुवक्त्रं तु तत् प्रोक्तं गुरुवक्त्रात् तु लभ्यते
गुरुत्वं यात्य् असौ योगी गुरुवक्त्रावलम्बकः ॥
तेजस्तत्त्वं तु तं देवि रुद्रशक्तिभिर् आवृतम्
अतोर्ध्वं योगिनीनां तु घटस्थानं निगद्यते ॥
गुरुवक्त्रे गुरोर् वक्त्रं गुरुवक्त्रे तु संस्थितम्
गुरुवक्त्रात् तु लभ्येत तस्मात् सन्तोषयेद् गुरुम् ॥
स्तुतिं कृत्वा उवाचेदं कुब्जिका परमेश्वरम्
पृच्छामि नाथ यत्नेन घटस्थानं सुविस्तरम् ॥
उवाच भगवान् देवस् त्वत्पृच्छा रहितं ऽनघे
निखिलं कथयिष्यामि यथा त्वं कुब्जि चेतसा ॥
कोटिकोटिसुविस्तीर्णं घटाधारं ततोर्ध्वतः
वज्रपद्माङ्कितं दिव्यं पिङ्गनाथावधिस्थितम् ॥
अनन्तगुणदातारं सर्वार्थप्रतिपादकम्
तस्मात् सम्पद्यते सर्वम् ऐहिं पारत्रिकं च यत् ॥
यत्र भाण्डानि सर्वाणि लभ्यन्ते च सहस्रधा
लयं यान्ति पुनस् तत्र घटस्थानं तद् उच्यते ॥
यस्मात् सर्वं यथा याति यस्माद् यान्ति त्रुटन्ति च
यत्र निर्भेद्यतां यान्ति तत् स्थानं घटिकात्मकम् ॥
भुवनाष्टोत्तरं भाण्डं पदभाण्डं तु तत्र वै
वर्णभाण्डं तु तत्रस्थं मन्त्रतत्त्वकलात्मकम् ॥
भाण्डारिणो अमीषां च निवृत्त्याद्याः प्रकीर्तिताः
यस्याधारेण वर्तन्ते भोगान्ते तत् पदं पुनः ॥
श्रीकुलेश्वरदेवस्य हृद्योर्ध्वघट-म्-अन्तरे
तत् कुलेश्वरदेवस्य दुर्भेद्यं षट्पुरं महत् ॥
विभज्य स्वतनुं देवः षट्पदार्थपदेन च
षड् योगिन्यो महातेजाः षट्पुरे सन्निवेशिताः ॥
डामरी रामणी चैव लम्बकर्णी च काकिनी
साकिनी यक्षिणी चान्या कुसुम्भोदसमुद्भवाः ॥
वज्रपद्मासनारूढाः कुसुम्भगुणशालिनी[ः]
षट्पुराधिपतीनां च पतित्वे सम्व्यवस्थिताः ॥
ओ-जा-पू-कामभेदेन का-पू-जा-ओ-व्यतिक्रमात्
एतत् क्रमं समाख्यातं सृष्टिसंहारगोचरे ॥
परापरविभागेन स्थूलसूक्ष्मपरान्तगम्
यथाधिपति देवत्वं योगिनीनां तथा शृणु ॥
दुःशीला डमरी भीमा आधारस्था तु डामरी
स्वाधिष्ठानपुरान्तस्था रामणी रमणात्मिका ॥
मणिपूरपुरान्तस्था लम्बकर्णी महद्भुता
ध्वनिदेवपुरे काकी विशुद्धौ साकिनी स्मृता ॥
आज्ञापुरस्य मध्यस्था यक्षिणीति निगद्यते
कुब्जिकोदरसम्भूताः षड् योगिन्यः परापराः ॥
अत्र जातं जगत् सर्वं रुद्रान्तं ब्रह्मणो ऽवधिम्
संहरन्ति पुनस् तास् तु विलोमेन प्रपूजिताः ॥
उपदेशप्रगम्यास् ताः पारम्पर्यक्रमेण वै
ज्ञातव्यं षड्विधाध्वानं षट्प्रकारं गुरोर् मुखात् ॥
श्रवणे चक्षुषी नासा मुखे चैव तथैव हि
चिबुके कण्ठदेशे तु गुरुवक्त्रात् तु लभ्यते ॥
प्रणयाविष्टचेतस्का उवाचेदं कुजेश्वरी
व्याप्तिस्थानं कथं तेषां का कस्य पथयायिनी ॥
भक्त्या पृष्टवती मत्वा प्रहस्य परमेश्वरः
उवाच कुब्जिके तुभ्यं कथयाम्य् अनुपूर्वशः ॥
घटन्ति सर्ववस्तूनि यस्याङ्गे तु वरानने
घटस्थानं तु तेनोक्तं सन्दोहगुणलक्षणम् ॥
रुद्रपञ्चाशकोपेतं शक्तिपञ्चाशकान्वितम्
चक्रवर्त्यष्टकोपेतं भुवनाष्टोत्तरं शतम् ॥
मनोजनपदाकीर्णम् आधारगृहसङ्कुलम्
ओंकारदलमध्यस्थम् अघोरीहृदयान्वितम् ॥
तत्र सा डामरी देवी ज्वलत्पिङ्गोग्रलोचना
मनोरसाधिपत्यस्था दुःसाध्या भुवनात्मिका ॥
पुनर् जपत्त्रमध्यस्था एकाशीतिपदावृता
शिरसाधिष्ठिता योगी स्वाधिष्ठानगृहाकुला ॥
बुद्धिजनपदाकीर्णा पदाध्वे रामणी रमेत्
दुष्प्रेक्षा दुःसहा भीमा बुद्ध्यासृग्लोलविग्रहा ॥
मणिपूरगृहान्तस्था कामपत्त्रान्तरे गता
तडित्सहस्रवर्णाभा शिखारूपा महेश्वरी ॥
अहङ्कारजनानन्दा प्रालेयावलिसन्निभा
वर्णेश्वरी महादेवी क्रियारूपा परापरा ॥
तस्याङ्गसम्भवा मन्त्राः सर्वज्ञास् ते प्रकीर्तिताः
लम्बिका सा समाख्याता मांसाहारा च लम्पटा ॥
पूर्णकदलमध्ये तु नीलाञ्जनसमप्रभा
तनुत्राणकृताटोपा मन्त्राध्वा-स्-तु विभूषिता ॥
अनाहतकमध्यस्था गुणानेकजनावृता
काकी मेदवसालुब्धा गुणान् नाशयते क्षणात् ॥
क्रुद्धा तमोत्कटा नित्यं प्रचण्डोग्रा भयानका
मन्त्राध्वानगता योगी लयभोगाधिकारिका ॥
पुनः पुंदलमध्यस्था विशुद्धिगृहमध्यगा
संवर्तानलसङ्काशा नेत्राधिष्ठितभास्वरा ॥
प्राकृतजनसङ्कीर्णा कलाध्वानसमावृता
रुद्रशक्तिसमाविष्टा रौद्रभावप्रदायिका ॥
अस्थिभङ्गप्रिया नित्यं प्राकृतार्थविनाशनी
साकिनीयं महाघोरा स्थूलसूक्ष्मपरान्तगा ॥
दक्षे कामेश्वरीपत्त्रे प्रालेयावलिसन्निभा
कदाचिन् [ऽ]नेकरूपाभा उपाधिगुणगोचरा ॥
तत्त्वाध्वपुरमध्यस्था आज्ञामन्दिरशोभिता
पुंजनाकृतसम्पूर्णा महास्त्रौघसमावृता ॥
मज्जबीजाशिनी योगी यक्षिणी शक्ति शाम्भवी
षड् योगिन्यो घटाधारे षडध्वानविधायिकाः ॥
तत्र मध्ये स्थिता कन्या विश्वरूपा परापरा
सा पतिः सर्वयोगीनां योगेशी [ऽ]नन्तविग्रहा ॥
कम्-ब-मा-लम्-वि-कान्ताभिर् आवृता मध्यसंस्थिता
ऽनुग्रहन्ति पुनस् तास् तु षडध्वानप्रयोगतः ॥
भूतं भावं तथा शाक्तम् आणवं रौद्र शाम्भवम्
क्रमाद् अनुग्रहन्त्य् एतास् तत्त्वादौ भुवनादितः ॥
दक्षिणाध्वानसंस्थास् ताः कृन्तयन्ति महाम्बिकाः
उत्तरस्थाः प्रकुर्वन्ति श्रेयं चामृतसम्भवम् ॥
वज्रपद्मासनासीना घटाम्बोदधिमध्यगाः
अमृतौघतरङ्गौघैः प्लावयन्ति चराचरम् ॥
अस्या रूपं च माहात्म्यं साधनं सिद्धिलक्षणम्
पुरतः कथयिष्यामि इदानीं खेचरीं शृणु ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0