भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 14

14.1

दया च परमा मह्यं मण्डलीशकुलाकुलम्
षट्पदार्थो मया ज्ञातः षड् योगिन्यो वद प्रभो ॥

14.2

उवाच भगवान् नाथः कुब्जीशानि वदाम्य् अहम्
सद्यःप्रत्ययकर्तारं सद्योमेलकदायकम् ॥

14.3

कम्-ब-मा-लम्-वि-का देव्यः क्रमात् षट्कं कुलाकुले
मोक्षभुक्तिप्रदातारः षड् एताः षट्कनायिकाः ॥

14.4

ड-र-ल-क-स-ह-जोत्थाः संस्थिताः कुलगोचरे
कुलषट्कनिवासिन्यो निग्रहानुग्रहे ऽपि वा ॥

14.5

एकैकानुग्रहन्त्य् एता निग्रहन्त्य् अनुलोमकृत्
षट्पत्त्रे पूजिताः सन्त्यः षट्पदार्थफलप्रदाः ॥

14.6

पुरतः पृच्छयिष्यामि प्रारब्धं कथयस्व मे
चतुष्कपञ्चकानां च चतुर्णां च फलोदयम् ॥

14.7

षट्पदार्थोपदेशेन समस्तं कथितं मया
तथापि कथयिष्यामि अधिकारो यथा स्थितः ॥

14.8

ओ-जा-पू-कामुको भेदो दृष्ट्वाक्षरविनिश्चितम्
मुद्राचतुष्टयोपेतं सङ्केतात् कथितं प्रिये ॥

14.9

चतुर्युगं चतुष्पीठं योन्यश् चत्वारि याः प्रिये
सबाह्याभ्यन्तरे सर्वं कथयामि यथार्थतः ॥

14.10

नाभ्यधोदरहृत्कण्ठे कृ-त्रे-द्वा-कम् अनुक्रमात्
ओ-जा-पू-कामरूपिण्यश् चत्वार्य् एवं व्यवस्थिताः ॥

14.11

सबाह्याभ्यन्तरेणैव चतुष्कं परिकीर्तितम्
गुरूपदेशसंयुक्तं पञ्चकं कथयामि ते ॥

14.12

देव्यो दूत्यस् तथा मात्र्यो योगिन्यः खेचरीगणः
पञ्चधा ह्य् अधिकारो ऽयं कुर्वन्त्य् एताः कुलाकुले ॥

14.13

देवीचतुष्टयाधारं स्वाधिष्ठानं षडाश्रयम्
रन्ध्रकामशिखिर् गोलं ध्वजकन्दान्तकावधिम् ॥

14.14

सप्तमं तत्त्वम् उद्दिष्टं ब्रह्मणः पदम् उत्तमम्
अत्र सृष्टिः समुत्पन्ना षट्कौषकुलसम्भवा ॥

14.15

देव्याधिष्ठितम् ईसानं स्वाधिष्ठानगुणाश्रयम्
रन्ध्रद्वादशकोपेतं कामद्वादशकान्वितम् ॥

14.16

वह्नीश्वरे तथाप्य् एवं द्वादशं ध्वजकन्दयोः
पिण्डद्वादशकोपेतं चतुराशीत्य् अनेकशः ॥

14.17

शाम्भवाधिष्ठिते योगे स्वाधिष्ठाने निरामये
चतुराशीतिगुणानां विज्ञानपदवीं लभेत् ॥

14.18

अत्र मध्ये महेशानि सर्वकारणकारणम्
यथा निष्पद्यते पिण्डं तत् तथा चावधारयेत् ॥

14.19

आधारशक्तिम् आदौ तु ब्रह्मशक्तिम् अतोर्ध्वतः
एतद् ब्रह्माण्डम् इत्य् उक्तं सप्तलोकसमन्वितम् ॥

14.20

आधारं चैव भूर्लोकं भुवर्लोकं तु कामगम्
स्वर्लोकं शिखिम् इत्य् उक्तं महर्लोकं तु गोलकम् ॥

14.21

ध्वजस्थं जनम् इत्य् उक्तं तपोलोकं तु कन्दगम्
सत्यलोकं तु तत्त्वस्थं ब्रह्मग्रन्थ्यावधिस्थितम् ॥

14.22

सत्यलोकाद् अधः सृष्टिः कलाद्या पिण्डसम्भवा
आज्ञातः सम्प्रवर्तन्ते त्रयान्तं याव मानसी ॥

14.23

चतुर्णां तु पुनः सृष्टिर् अधस्ताद् योनिसम्भवा
मध्यमन्थानयोगेन शुभाशुभनिबन्धनम् ॥

14.24

भुवर्लोकाद् अधोलोके विविधा सृष्टिः प्रवर्तते
जरायुजा च सा ज्ञेया बहुदुःखसमाकुला ॥

14.25

कन्दात् सञ्जायते सृष्टिः कन्दं वै सप्तलौकिकम्
रन्ध्रादौ ग्रन्थिपर्यन्तं विज्ञेयं सप्तधातुकम् ॥

14.26

कन्दात् सञ्जायते ऽङ्कुरः अङ्कुरान् मूलसम्भवः
मूलात् पर्णलताशाखा[स्] ततः पुष्पफलादिकम् ॥

14.27

फलं शरीरम् इत्य् उक्तं धातुवृक्षसमुद्भवम्
पिण्डं कन्दोद्भवं तच् च शुभाशुभजलान्तगम् ॥

14.28

त्वग्रक्तमांस रन्ध्रादौ अशुभं कामवह्निगम्
शुभं मेदोऽस्थिमज्जान्तं गोलकन्दध्वजान्वितम् ॥

14.29

अशुभं तु रजः साक्षात् त्रिशक्तिगुण मातृजम्
पैतृकं शुभम् उद्दिष्टं रेतो ह्य् आत्मादि-म्-ईश्वरः ॥

14.30

पिण्डं सर्वत्र सामान्यम् उभयोर् अपि कुब्जिके
सङ्गमे शिवशक्तीनां पिण्डबन्धो भवेत् तदा ॥

14.31

यत् किञ्चिच् चिन्तयेन् माता यत् किञ्चिच् चिन्तयेत् पिता
उभौ भावसमायोगात् तद्भावः सहजो भवेत् ॥

14.32

विश्वरूपो मणिर् यद्वद् उपाधिविषयो यथा
तत्कालोपाधिचिन्तायां स रागः सहजो भवेत् ॥

14.33

एतद् अन्तरम् आसाद्य पिण्डः कारणरूपधृक्
बन्धते पञ्चधात्मानं पञ्चपञ्चादिभिः क्रमात् ॥

14.34

पुरुषं प्रकृतिश् चैव गुणो ऽहङ्कार धीर् मनः
षण्मुखस् तु परो ह्य् आत्मा चतुष्कपरिवेष्टितः ॥

14.35

अधोर्ध्वं नीयते जीवः कोषकीट-म्-इव स्थितः
प्रकाशयति चात्मानं बध्नाति च पुनः पुनः ॥

14.36

नियामिकाचतुष्केण सन्नद्धो भ्रमते ह्य् अणुः
एकैकं तं चतुर्धा तु देवीचक्रं प्रकीर्तितम् ॥

14.37

नियामिका भवेत् पृथ्वी प्रतिष्ठा शब्दपूर्विका
श्रोत्रपूर्णा भवेद् विद्या शान्तिर् वागेश्वरी स्मृता ॥

14.38

क्षोणी तु प्रथमा ज्ञेया शब्ददेवी द्वितीयका
तृतीया श्रोत्रिका नाम वाचादेवी चतुर्थिका ॥

14.39

देवीचतुष्टयं ह्य् एतद् एकैकं तु चतुष्टयम्
एतच् चतुष्टयं देवि संसारपथवर्त्मनि ॥

14.40

चतुष्टयं तु भूतानां तन्मात्राणां चतुष्टयम्
बुद्धीन्द्रियचतुष्कं तु चतुष्कं कर्मयाजिनाम् ॥

14.41

पञ्चकं तत् तु विज्ञेयं पुंसः षड्गुणसंयुतम्
एवं निष्पद्यते पिण्डं पञ्चधा पञ्चविंशकम् ॥

14.42

षट्कौशिकं तु मार्गो ऽयम् आदिदेवीचतुष्टयम्
कथितं सरहस्यं तु षट्सिद्धपुरनिश्चयम् ॥

14.43

उवाच कुब्जिका नाथं षट्सिद्धपुरनिश्चयम्
न मे ज्ञातं कुलेशान संस्फुटं कथयस्व मे ॥

14.44

उवाच भगवान् नाथः कुब्जीशानि मया तव
कथिता सप्तधा सृष्टिः सिद्धान् सप्त वदाम्य् अह् अम् ॥

14.45

नवतत्त्वेश्वरो नाथो नवचक्रेश्वरेश्वरः
ब्रह्माण्डशिवसिद्धो ऽ सौ हर्ता कर्तावतारकः ॥

14.46

स नाथः सर्वसिद्धानां पतित्वे संव्यवस्थितः
कन्दभूतो ऽङ्कुरो ऽसौ वै षट्पुराधिपतिः प्रभुः ॥

14.47

पुम्पुरं प्रथमं कन्दं प्राकृतं चापरं पुरम्
गुणानन्दं तु गोलाख्यं गर्वं जालन्धरात्मकम् ॥

14.48

धीपुरं कामरूपाख्यम् आधारं तु मनःपुरम्
पुम्पुरे श्रीमत्खड्गीशः खगीशः प्राकृते पुरे ॥

14.49

विश्वनाथो गुणानन्दे झण्टीशो ऽहम्महापुरे
धीपुरे ऽनुग्रहीशानो मित्रेशानो मनःपुरे ॥

14.50

षट्पुराधिपतिर् नाथाः कौलीशाः कुलनायकाः
कुलसिद्धाः समाख्याताः षट्क्रमौघप्रकाशकाः ॥

14.51

भविष्यन्ति पुरा कल्पे मर्त्यलोकम् उपागताः
प्रभुर् आनन्द योगाख्यम् आवली पादम् अन्तिमम् ॥

14.52

भविष्यन्त्य् अपरे कल्पे कुलसिद्धाः कुलोत्थिताः
कुलसिद्धाधिपो देव आज्ञामोघकुलेश्वरः ॥

14.53

षट्कुलानां त्व् असौ नाथस् तस्मात् सर्वं कुलान्वयम्
नवानां चक्रवर्तीनां चक्रवर्तिस् त्व् असौ प्रभुः ॥

14.54

तस्मात् प्रवर्तते सृष्टिर् ब्रह्माद्या कुलसम्भवा
षट्पुराणां तम् आधारं कर्तारं कुलपद्धतौ ॥

14.55

शास्तारं ब्रह्मजन्तूनां देवीनां तु चतुष्टयम्
अपरे ब्रह्मणः सृष्टौ यत् किञ्चिद् वाङ्मयाखिलम् ॥

14.56

तत् सर्वं देविभिर् व्याप्तं त्वयाधारान्तकावधिम्
चतुर्मुखेश्वरस्यान्ते कन्दः सप्तविधश् च यः ॥

14.57

तत्र जातं जगत् सर्वं सदेवासुरमानुषम्
देवीचतुष्टयानां तु मार्गो ऽयं कथितो ऽखिलम् ॥

14.58

अधुना कथयिष्यामि दूतीनां लक्षणं यथा
ब्रह्माधारम् इति प्रोक्तं सप्ताधारसमन्वितम् ॥

14.59

प्रथमैषा परा सृष्टिः शाम्भवी या कुलाध्वरे
नवतत्त्वेश्वरेशस्य नाभ्यधस्तात् तु मण्डलम् ॥

14.60

शतकोटिसुविस्तीर्णं देवीकुलसमाश्रयम्
त्रिकोणं चैव षट्कोणं वृक्षवल्लीक्रमस् तथा ॥

14.61

द्विविधाज्ञाधिकारो ऽयं निग्रहानुग्रहं प्रति ॥

14.62

ब्रह्मणो ऽण्डकटाहस्य समन्तात् परिमण्डलम्
सहस्रकोटिविस्तीर्णम् अप्सु विष्णोः पुरं महत् ॥

14.63

अर्धेन्दुशिखराकारं पोतनावाकुलं तु तत्
अनेकतत्त्वसङ्कीर्णं नवनालोपशोभितम् ॥

14.64

पद्मपत्त्रम् अनौपम्यं षोडशारं सकर्णिकम्
यत्र दूत्यः स्वभाविन्यः क्रीडन्ते विविधैः सुखैः ॥

14.65

यत्रासौ रमते नित् यम् उत्तमः पुरुषोत्तमः
तत् स्थानं परमं प्रोक्तं यत्र दूत्यो ऽमृतोद्भवाः ॥

14.66

तास् तु क्षुब्धा यदा काले ऽमृतं मुञ्चन्ति भाविताः
तदा चतुर्विधा सृष्टिर् ब्रह्मचक्रे तु नान्यथा ॥

14.67

षोडशारे महापद्मे दिव्यामृतपरिप्लुते
तत्रस्थो दूतिभिः सार्धं पोषयेद् ब्रह्मणः पदम् ॥

14.68

ब्रह्मकन्दान्तबीजानाम् ऊर्ध्वरन्ध्राङ्कुरत्रयम्
तत्र ग्रन्थीश्वरो ऽनन्तः स्वशक्तिकिरणोज्ज्वलः ॥

14.69

स्थितो महाम्भसि मध्ये नवदूतीसमन्वितः
सृष्टिकृद् भगवानन्तः पदार्थपद-म्-ईश्वरः ॥

14.70

कपालं चण्डलोकेशं योगेशं तु मनोन्मनम्
हाटकेश्वर क्रव्यादं मुद्रेशं दिङ्महेश्वरम् ॥

14.71

श्री अनन्तीश नाथान्तो नवैते भास्वरेश्वराः
विभज्य नवधात्मानं पदसृष्टिं विनिर्मिते ॥

14.72

एकैका नवधात्मानं पुनश् चैवं सृजन्ति ते
नवनव पदानि स्युर् दूतीनां कारणात्मकम् ॥

14.73

पदभुक्तिगतानां तु दूतीनां च पृथक् पृथक्
नामानि कीर्तयिष्यामि या यस्याङ्गसमुद्भवाः ॥

14.74

श्री अनन्ताङ्गसम्भूताः सर्वे यास् तु नवैव हि
अधिकारपदं तेषां तत् प्रवक्ष्याम्य् अशेषतः ॥

14.75

बिन्दुका बिन्दुगर्भा च नादिनी नादगर्भजा
शक्ती च गर्भिणी चान्या परा गर्भार्थचारिणी ॥

14.76

निराचारपदावस्था मध्यस्थानन्तवर्चसः
अधिकारं प्रकुर्वन्ति कुलाकुलसमाश्रिताः ॥

14.77

चण्डा चण्डमुखी चैव चण्डवेगा मनोजवा
चण्डाक्षी चण्डनिर्घोषा भृकुटी चण्डनायिका ॥

14.78

चण्डीशनायकोपेता ह्य् अकुलेशपदे स्थिताः
तस्मात् पदात् परा सृष्टिर् मनोन्मन्यादिसम्भवा ॥

14.79

मनोजवा मनोऽध्यक्षा मानसी मननायिका
मनोहारी मनोह्लादी मनःप्रीतिर् मनेश्वरी ॥

14.80

मनोन्मन्या समायुक्ता उन्मनःपदम् आश्रिताः
नवैव परमा दूत्यो मनश् चोन्मनकारिकाः ॥

14.81

ऐन्द्री हुताशनी याम्या नैरृती वारुणी तथा
वायवी चैव कौबेरी ऐशानी कौलिकेश्वरी ॥

14.82

समनौघपदान्तस्था[ः] पराकाशे व्यवस्थिताः
जनयन्त्य् अपरां सृष्टिं योगाख्या व्यापिनीपदे ॥

14.83

हिरण्या च सुवर्णा च काञ्चनी हाटका तथा
रुक्मिणी च मनस्वी च सुभद्रा जम्बुहाटकी ॥

14.84

व्यापिनीपदम् आपन्ना योगदूत्यो महाबलाः
व्याप्यव्यापकभावेन व्यापयन्ति चराचरम् ॥

14.85

वाग्वती वाक् तथा वाणी भीमा चित्ररथा सुधी
देवमाता हिरण्या च योगेशी नवमा स्मृता ॥

14.86

वागेश्वरपदान्तस्था वागीश्वर्यसमन्विताः
मन्त्रविद्याङ्गसम्भूताः सर्वार्थप्रतिपादिकाः ॥

14.87

वज्रिणी शक्ति दण्डी च खड्गिनी पासिनी ध्वजी
गदी च शूलिनी पद्मी मुद्रेशपदसम्भवाः ॥

14.88

पिङ्गदूत्यो महावीर्याः कलाकालविधायिकाः
तेजोरूपा महादेव्यो अनन्तगुणसम्भवाः ॥

14.89

लम्बा लम्बस्तनी सुष्का पूतिवक्त्रा महानना
गजवक्त्रा महानासा विद्युत्क्रव्यादनायिका ॥

14.90

कालानलान्तरे दूत्यः संहारपदसंस्थिताः
अनन्तगुणवीर्यास् ताः संहरन्ति चराचरम् ॥

14.91

सुप्रबुद्धा प्रबुद्धा च चण्डी मुण्डी कपालिनी
मृत्युहन्ता विरूपाक्षी कपर्दी कलनात्मिका ॥

14.92

नियामिकापदान्तस्थाः शुभाशुभनियामिकाः
एकाशीतिविभागेन दूत्यो ह्य् एवं महाबलाः ॥

14.93

नवकेश्वरदेवस्य उदरेदं प्रकीर्तितम्
एकाशीतिपदैर् व्याप्तम् अनेकाश्चर्यसङ्कुलम् ॥

14.94

पदरूपसमायुक्तं रूपातीतादिसंयुतम्
पद्ममार्गविधायिन्यस् त्रितत्त्वपदवीं लभेत् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc