भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 13

13.1

एवं देवि मयासौ तु पूर्वं चक्रधरः सुधीः
लिङ्गे स्वाधिष्ठितो येन स्वाधिष्ठानं तु तेन वै ॥

13.2

मायाशाम्भवसंस्थानं कलाधिष्ठानशासनम्
पुरुषाणुसमायुक्तं स्वाधिष्ठानम् अतो ऽर्थतः ॥

13.3

रागेण रञ्जितात्मा वै नियत्या यो नियामितः
अविद्याप्रेरितो गच्छेत् स्वर्गं वा स्वभ्रम् एव वा ॥

13.4

त्रितयं शुभम् उद्दिष्टम् अशुभं तु तथा त्रिकम्
षट्कौषिकम् इदं स्थानं व्याप्तिभूतं मया तव ॥

13.5

शक्ते यं तु समाख्यातं शाम्भवं परतोत्तरे
कथयिष्यामि सुश्रोणि इदानीं प्रत्ययं शृणु ॥

13.6

साधनं लोकविख्यातं षट्सिद्धाधिष्ठितं तु तत्
स्वाधिष्ठानं तु लिङ्गस्थं यथा स्थानगतं शृणु ॥

13.7

द्विरण्डेन तनुस् तस्य छगलण्डादितः क्रमात्
यत्र स्थाने स्थिता माया महाकाल मुखाग्रतः ॥

13.8

वालीश्वरं तु रन्ध्रस्थं भुजङ्ग मणिमस्तके
पिनाकिनं तु सीमन्यां संस्थितं तु नियामकम् ॥

13.9

अत्र योगं प्रवक्ष्यामि योगिनां शुभदायकम्
येन पश्यन्ति तं लिङ्गं पूर्वोक्तं गुणशालिनम् ॥

13.10

द्वीपद्वीपेश्वरं नाथं द्वादशार्चिसमन्वितम्
मासमासावधी ऽकैकम् अभ्यसन्तो गुणान् लभेत् ॥

13.11

युञ्जन्तः श्रियम् आप्नोति षड्रसास्वादनं क्रमात्
कटुतिक्तकषायाम्लं क्षारश् च मधुरावधि ॥

13.12

नाथं द्वीपस् तु द्वीपार्चि द्वीपादिक्रमसंयुतम्
ध्यानस्थानसमायोगात् तन् नास्ति यन् न साधयेत् ॥

13.13

षड्वक्त्रं चिन्त्यम् आत्मानं देवीं च गुणलालसाम्
मुखेन मुखम् आलग्नं ह्य् आत्मलिङ्गोपरिस्थितम् ॥

13.14

भावानन्दरसालाढ्यं हेलादोलैर् व्यवस्थितम्
लिङ्गरन्ध्रं तु रन्ध्रस्थं तेन मार्गेण चाभ्यसेत् ॥

13.15

विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतम्
तस्य वै ह्य् आत्मनः पश्चात् नित् यम् एव समभ्यसेत् ॥

13.16

षण्मासेन वरारोहे स्फोटयेत् पर्वतान् अपि
द्वितीये ऽनङ्गरूपो ऽसौ क्षोभयेत वराङ्गनाम् ॥

13.17

तत्स्थाने तिर्यगालोकात् किं तु रक्तारुणेन तु
मर्त्यजान् खेचरान् यक्षान् रक्षःपैशाचगोचरान् ॥

13.18

क्षोभयेद् धाटकीशस्य पुरं साधकपुङ्गवः
तत्रैव ब्रह्मयोगेन चक्रावर्तेन चक्षुषा ॥

13.19

कर्षयेन् निखिलान् सर्वान् फलपुष्पादितः क्रमात्
मर्त्यलोकादितः कृत्वा पातालस्वर्गसंस्थितान् ॥

13.20

तृतीयेन तु योगेन चतुर्थं स्तम्भने क्षमः
किं तु पीतेन तत्त्वाक्षश् चक्षुषा परिपूर्णधीः ॥

13.21

स्तम्भयेद् गगनाम्भोभिर् विमानपवनौ महान्
नावागति गजानां च वाजिचौरारिपन्नगान् ॥

13.22

पञ्चमेन तु योगेन तत्रस्थः कृष्णमण्डले
मारयेद् यस्य क्रुद्धो ऽसौ यः क्रुद्धो म्रियते तु सः ॥

13.23

स देवासुरत्रैलोक्यं द्विपदं वा चतुष्पदम्
चतुर्दशविधस्यापि क्रुद्धः संहरणे क्षमः ॥

13.24

षष्ठम् ऊर्ध्वपरं स्थानं ब्रह्मद्वारेति कीर्तितम्
अप्रसिद्धेन मार्गेण हेलादोलैकतत्परः ॥

13.25

विद्युल्लताछटाटोपं वारं वारं मुहुर् मुहुः
अभ्यसेद् याव योगेशि तावद् आनन्दतां व्रजेत् ॥

13.26

त्यजेत् स्वाभाविकं सर्वं संसारपथगोचरम्
निःसंज्ञो मृतवद् योगी काष्ठवद् उपलक्ष्यते ॥

13.27

सात्त्विकं राजसं भावं तामसं तु यदा भवेत्
त्रयावस्थगतो योगी पूर्वलिङ्गसमो भवेत् ॥

13.28

पूज्यते स सुरैः सर्वैः खेचरस्थैर् न चापरैः
षट्प्रकारम् इदं लिङ्गं यो जानाति स तत्त्ववित् ॥

13.29

एतत् ते कथितं सर्वं सरहस्यं सुगोपितम्
न देयं दुष्टबुद्धीनां ज्ञानचौरेषु शासनम् ॥

13.30

यावन् न सर्वभावेन कायक्लेशसहा नराः
ततश् चेदं प्रदातव्यम् अन्यायान् नरकं व्रजेत् ॥

13.31

एतत् कुलेश्वरं लिङ्गं प्रलयोत्पत्तिकारकम्
यो जानाति वरारोहे स सिद्धो ह्य् अत्र शासने ॥

13.32

तस्माल्लिङ्गं न निन्देत यावत् तावत् तनौ स्थितम्
सर्वेषां विद्यते ह्य् एतत् कल्पना ह्य् अत्र कारणम् ॥

13.33

द्विपदं मर्त्यजं लिङ्गं रौप्यहेममणिर्मयम्
मन्त्रमूर्तिकुलेशानम् आवाह्याप्य् अत्र रोपितम् ॥

13.34

स्वाधिष्ठानं तु तत् तस्य पूजनात् तत् पदं लभेत्
प्रथमं न हि सर्वस्य सर्वज्ञत्वं प्रपद्यते ॥

13.35

तस्मान् न निन्दयेल्लिङ्गं तन्मूर्तिगुणशालिनम्
सर्वज्ञत्वे ऽपि सम्प्राप्ते समयान् सम्प्रपालयेत् ॥

13.36

तमोरजःप्रविष्टानाम् अहङ्कारवशानुगाम्
न तेषां साधनं सिद्धिर् जायते पतनं पुनः ॥

13.37

श्रीकुलेश्वरदेवस्य लिङ्गाधारं शृणु प्रिये
वृत्ताकारं सरन्ध्रं तु चतुरस्रं प्रकीर्तितम् ॥

13.38

त्रिरन्ध्रवलयाकारं शृङ्गाटाकृतिवर्चसम्
पिण्डिकोपरिलिङ्गस्य जगद्योनिर् महाम्बिके ॥

13.39

चतुष्कलसमोपेतं चतुष्पीठसमन्वितम्
चतुःसिद्धसमायुक्तं ज्ञात्वा सिद्धिफलप्रदम् ॥

13.40

खड्गीशः प्रथमे वृत्ते जलपट्टे निवेशितः
बकश् चाङ्कुररूपेण रन्ध्रसन्धौ व्यवस्थितः ॥

13.41

श्वेतः प्रणालके द्विस्थः प्रवाहे संव्यवस्थितः
भृगुर् मेखलरूपेण समन्तात् परिमण्डलम् ॥

13.42

शृङ्गाटके तु पीठानि खातस्याग्रे विलक्षयेत्
ओ-जा-पू-का-मतत्वं तु मध्यदक्षिणवामतः ॥

13.43

अग्रदेशे तु कोटिस्थं शृङ्गाटं चतुरस्रकम्
कृ-त्रे-द्वा-क-क्रमाद् एवम् आधारं चतुरङ्गुलम् ॥

13.44

तत्राभ्यासं प्रकुर्वीत अभिषेकगुणान्वितः
आज्ञालब्धपरो भक्तश् चतुर्मासात् फलं लभेत् ॥

13.45

जलपट्टगतं देवम् आदिपीठसमन्वितम्
शुक्लवर्णं यदा ध्यायेच् छान्तिपुष्टिपरं व्रजेत् ॥

13.46

तं त्यज्य बकनाथाख्यं दक्षपीठगतं यदा
तदा पुष्टिश्रियारोग्यं पूर्वाभ्यासफलं लभेत् ॥

13.47

श्वेतं प्रणालरन्ध्रस्थं वामपीठगतं यदा
अभ्यसेत् क्रमयोगेन वश्याकर्षणमारणम् ॥

13.48

रोगव्याधिजयः पुष्टिः क्रमात् खेचरतां व्रजेत्
भृगु[ं] कामसमायोगाद् अभ्यसन्तो गुणान् लभेत् ॥

13.49

शान्तिपुष्टिवशाकर्षं पुरक्षोभं पृथुश्रियम्
वलीपलितनाशस् तु वागीशत्वं प्रवर्तते ॥

13.50

सञ्जीवनं मृतानां च द्रुमाकृष्टि जलप्लवम्
वातमेघनदीनां च स्तम्भकृद् वाचहारिणः ॥

13.51

वाचासिद्धिः प्रभुत्वं च स्तोभकृत् पर्वतादिषु
स्तम्भयेत् सर्वसैन्यानि आधारगतचेतसः ॥

13.52

आधारं क्रमम् इत्य् उक्तं तद् विना साधनं न हि
न मोक्षो न च भुक्तिश् च यावाम्नायो न वेदितः ॥

13.53

एतद् आधारम् इत्य् उक्तम् आज्ञाभेदम् अतः शृणु
येन विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते ॥

13.54

क्रमं शाम्भवम् इत्य् आहुर् यस्मात् सम्भवते ऽखिलम्
वाचासिद्धेस् तु आधारं वाचयाज्ञा प्रवर्तते ॥

13.55

शाम्भवाभ्यासमात्रं तु यत् क्रमात् सम्प्रवर्तते
अथाणुरुद्रशक्तिस्था भावभूतेषु शाम्भवा ॥

13.56

अधिकारात्मिका ह्य् एषा विशुद्धिगुणदायिका
न मोक्षो विद्यते तेषां प्रसादाज्ञा विवर्जिता ॥

13.57

प्रसादं क्रमम् इत्य् उक्तं क्रमाज् ज्ञानं तु शाम्भवम्
शाम्भवेन समस्तार्थान् वेत्ति पश्यति चाग्रतः ॥

13.58

यदा दृष्टः समस्तार्थो गुरुतः शास्त्रतः स्वतः
तदासौ क्रमिकः प्रोक्तः क्रमतुल्यो ऽथवा हि सः ॥

13.59

आज्ञाभ्यासे न मुक्तिस् तु यावाम्नयो न वेदितः
सबाह्याभ्यन्तरं भद्रे अतो ऽर्थं तोषयेद् गुरुम् ॥

13.60

सर्वाङ्गभक्तियुक्तस् तु त्रिशुद्धेनान्तरात्मना
भक्त्या चाराधयेन् नाथं तस्य सर्वं प्रपद्यते ॥

13.61

या भक्तिः सा भवेच् छक्तिः शक्त्या सम्भवते क्रमः
क्रमात् सम्भवते वाचा वाचयाज्ञा प्रवर्तते ॥

13.62

यादृशेन तु भावेन गुरुदेवम् उपासयेत्
तादृग्भावेन तस्याज्ञा किञ्चिच् चांशेन सङ्क्रमेत् ॥

13.63

उपरोधप्रसङ्गेन उक्तकालाद् अवान्तरे
किञ्चिच् चाज्ञा भवेत् तस्य भूतोर्मिगुणसङ्कुला ॥

13.64

परिपक्वफलं यद्वत् सुस्वादगुणसंयुतम्
तद्वच् छिष्यो ऽपि कालेन समस्तार्थविदो भवेत् ॥

13.65

रसोज्झितं न सुस्वादं यथाम्लफलभक्षणम्
तथा ह्य् अपक्वशिष्याणां वृथाज्ञानपरिश्रमः ॥

13.66

सामर्थ्येनापि दत्ताज्ञा भूतांशेन समाविशेत्
ऊर्मिग्रस्तो ह्य् अहङ्कारी अहङ्काराद् विनश्यति ॥

13.67

एकपक्षः समाख्यातः साम्प्रतं वै ऽधिकं शृणु
स्थूलमार्गेण सूक्ष्मत्वं क्रमाद् एवं प्रजायते ॥

13.68

भेदो रन्ध्रं तथा छिद्रम् एका संज्ञा यशस्विनि
सबीजाश् चेति निर्बीजाः स्थितिभेदो द्विधा स्थितः ॥

13.69

कूर्मानन्दं च पैनाकं महाकालं तृतीयकम्
क्रोधीशम् अर्घिणा युक्तं विद्या चैव द्वितीयकम् ॥

13.70

झण्टीशेन समायुक्तं कुलवागेश्वरी स्मृता
प्रणवं कौलिकं गृह्य लकुलीशाद् अनन्तरम् ॥

13.71

श्रीकण्ठं चोष्मणा युक्तं लकुलीशादिमं पुनः
उपदेशसमायुक्तं सर्वदं भृगु-र्-आवधिम् ॥

13.72

वज्ररन्ध्रान्तरे योज्य कोदण्डान्तं विचिन्तयेत्
श्लोकद्वादशकोपेतं चक्रद्वादशकान्वितम् ॥

13.73

गुरुवक्त्रसमोपेतं ध्यात्वा वाचां प्रसाधयेत्
स्मरणमात्रयोगेन कालक्षेपो न चात्र वै ॥

13.74

अथ चेद् अभ्यसेद् एवं वज्रकोदण्डकान्तरम्
सर्वज्ञत्वं भवेत् तस्य क्रियाख्यं याव सुन्दरि ॥

13.75

क्रियातो ऽ घं प्रवर्तेत वाचाज्ञामोघशालिनी
वागीशत्वं पुनः पश्चाद् वागीशः सृजते ऽखिलम् ॥

13.76

ज्वलन्तं स्वेन तेजेन लकुली वाममार्गतः
स ज्येष्ठः कुलसन्ताने रौद्रशक्तिभिर् आवृतः ॥

13.77

त्रयस्त्रिंशतिमे तत्त्वे ह्य् अधिकारो लयः परे
संवर्तः केवलो नाथः सबीजो बीजवर्जितः ॥

13.78

अस्य रन्ध्रान्तरस्थानम् आज्ञाध्यानं तु शाम्भवम्
न मन्त्रोच्चारणं ज्ञानं न मुद्रा ध्यान चिन्तनम् ॥

13.79

नायामो न निरोधश् च ग्रन्थिभेदो न धारणा
सर्वोपायविहीनो ऽसौ किं तु स्थानविकल्पना ॥

13.80

अधोर्ध्वरोमसंस्थाने तत्र भावं विनिक्षिपेत्
ऊर्ध्वग्रन्थिर् अधःकन्दो मध्ये किञ्चिन् न विद्यते ॥

13.81

तत् स्थानं शाम्भवं विद्धि शम्भुरन्ध्रोपलक्षितम्
न किञ्चिच् चिन्तयेत् तत्र ईषदारोपणं चितौ ॥

13.82

एवं संस्मरणाद् एव ज्ञानानन्दं प्रवर्तते
वाचामात्रेण चान्येषां कुरुते प्रत्ययान् बहून् ॥

13.83

सकृत्संस्मरणाद् एवम् अभ्यसन्तः श्रियं लभेत्
विज्ञानानि च सर्वाणि षण्मासाभ्यासयोगतः ॥

13.84

चतुस्त्रिंशपदेशानं विन्दते वत्सराष्टकान्
तत् स्थानं सहजं तस्य संयोगं यदि तस्य वै ॥

13.85

भुजङ्गानुग्रहीशेन मन्त्रयुक्तेन तत् प्रिये
उच्चरन्तो हनेत् सृष्टिं लकुलीशान्तकारकः ॥

13.86

भोगश् चास्य हि नादान्ते लयः स्याद् व्यापिनीपदे
आज्ञाभेदद्वयं नाथे ह्य् एतत् तत् परमार्थतः ॥

13.87

शक्तिमार्गगतं विद्धि शेषो ऽन्यच् चोत् तरे पुनः
एतत् षट्कं परं शाक्तं दक्षिणं परिकीर्तितम् ॥

13.88

योगिषट्कसमायुक्तं सद्योमेलकदायकम्
त्वया मह्यं मया तुभ्यं त्वयाहं त्वं मया पुनः ॥

13.89

कथितं तव सुश्रोणि त्वत्सङ्गान्येषु मोक्षदम्
पशु पक्षि तथा वृक्षास् तृणगुल्मसरीसृपम् ॥

13.90

व्याख्यानं यत्र मार्गस्य मु च्य् अन्ते तान्य् अवश्यतः
येन वर्षसहस्राणि भक्त्या आराधितो ह्य् अहम् ॥

13.91

जन्मन्य् अपश्चिमे पुंसां जायते ऽदं सुदुर्लभम्
चेतश्चित्तविहीनानां प्रसङ्गान् मुक्तिदं प्रिये ॥

13.92

किं पुनश् चित्तयुक्तानां सङ्गाद् एव न मुक्तिदम्
अतो ऽर्थं सह संयोगं खानपानं सहासनम् ॥

13.93

वस्त्रमाल्योपहाराणि स्वजुष्टान्यं न दापयेत्
असत्सङ्गं न कर्तव्यं सत्सङ्गं न विवर्जयेत् ॥

13.94

शुद्धाशयसमाचारं ज्ञानाधारं प्रपूजयेत्
विशुद्धं काञ्चनं यद्वन् नागसङ्गाद् विनश्यति ॥

13.95

एवं विशुद्धतत्त्वो ऽपि असत्सङ्गाद् विनश्यति
योगिनीकुलगर्भस्थः कुलवीराङ्गसम्भवः ॥

13.96

सिद्धो ऽसौ सिद्धसन्ताने षट्पादार्थं स विन्दति
एतत् ते कथितं सर्वं दक्षिणेदं सलक्षणम् ॥

13.97

योगषट्कं कुलाधारं पृच्छस्वान्यद् यद् इच्छसि ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc