Kubjikamatatantra · अध्याय 12
किं तु ज्येष्ठचतुष्कस्य द्वे ऽवस्था न भवन्ति हि
कुलेशानाम् अवस्थानां लक्षणं वद भैरव
येन वै ऽनाहतं देवं जानीमः परमेश्वर ॥
कथयामि वरारोहे प्रत्ययं तु सलक्षणम्
ताम् अविज्ञाय भ्रष्टत्वम् अवश्यं हितकारिणि ॥
अक्रमाज्ञा भवेद् येषां रभसाज्ञा प्रकाशिता
सामर्थ्यतो ऽथ दयया उक्तकालाद् अवान्तरे ॥
तामसास् ते समाख्यातास् तमोऽवस्थान्तरान्विताः
समयानि न मन्यन्ते गुर्वाज्ञालोपकारकाः ॥
कलिद्वन्द्वप्रिया नित्यं छिद्रान्वेषणतत्पराः
गुरोपवादनिरता निरपेक्षा मुहुर् मुहुः ॥
अपवादं रुषित्वा तु गुरोर् यान्ति पराङ्मुखाः
येनासौ निधनं याति तत् करोति तमोऽन्वितः ॥
मोहाविष्टो न जानाति आत्मसम्भावितः कुधीः
अहङ्कारतमोलुब्धः पूर्वजातिम् अनुस्मरेत् ॥
गुरुं विचारयित्वा तु शोकेनान्तरितात्मनः
प्रयाति गृहसायोज्यं तमेनाकुलितेक्षणः ॥
तेनाधमपदं याति जीवन्न् एव मृतस् तु सः
बुद्धिमन्तो महाप्राज्ञः स्वागमार्थविशारदः ॥
ततः क्षमापयेन् नाथं तद्विदाम्नायपूजनम्
त्रिसप्तकं तु मौनेन सर्वोपस्करणैः सह ॥
अवस्थाश् चोपशाम्यन्ते तमो ऽवस्थाचतुष्टयम्
लोलुपादौ तु चत्वारि क्रमाद् ध्य् एवं व्यपोहयेत् ॥
मायया भृतचित्तस् तु दासत्वेन तु रञ्जयेत्
उक्तकालार्धमानेन रञ्जितो ऽनुग्रहेद् गुरुः ॥
तीव्रत्वे ऽपि हि सञ्जाते मन्दत्वं सम्प्रवर्तते
उपदेशोपचारेण अवस्थालक्षणं भवेत् ॥
राजसो ऽयं समाख्यातश् चाहङ्कारगुणान्वितः
पण्डितो ऽहं सुभक्तो ऽहं वक्ताहं बोधको ह्य् अहम् ॥
ज्ञानिनो ऽहं समर्थो ऽहं वयं सर्वगुणेश्वराः
करोति गुरुणा सार्धं वादम् अज्ञानचेतसः ॥
इदं तत्त्वम् इदं तत्त्वम् आगमोक्तं न जानथ
एवं ऽसौ रजसालिप्तो यद्य् आत्मानं न संस्मरेत् ॥
तदावस्थाचतुष्केण लोलुपाद्येन गृह्यते
परस्त्रियं हसेन् नित्यं धावयित्वा विलग्यते ॥
स शृङ्गारी मदस्रावी नित् यम् एवं गजो यथा
आत्मानं विक्रयित्वा तु मद्यमांसं समाचरेत् ॥
विवेको यदि चित्तस्थस् तदाराध्यं समाश्रयेत्
अथ चेत् पूर्वविहितां क्रमपूजां समाचरेत् ॥
मध्यमस्य ततः पश्चाद् अवस्था शुभदायिका
उत्तमं परया भक्त्या आविष्टस् तु सदा गुरोः ॥
उक्तकालेन चादेशा नुग्रहः सम्प्रपादितः
त्रिशुद्धान्तरभावेन यस्य भावो न चान्यथा ॥
तस्य चैवोत्तरे मार्गे दक्षिणाम्नायपूर्वकम्
विन्दते निखिलं ज्ञानं निरहङ्कारी दृढव्रतः ॥
उदयन्ति शुभावस्थाः प्रभावत्यादितः क्रमात्
षट्कमार्गेति याः प्रोक्ताः शुभास् ताश् चोदयन्ति वै ॥
प्रभाभिरञ्जितात्मा वै पश्यते भुवनत्रयम्
तारकान्तस्थम् आत्मानं देदीप्यन्तं सुवर्चसम् ॥
चन्द्ररूपं यदा पश्येत् तारामण्डलमध्यतः
तारावती तु सा प्रोक्ता अवस्था सिद्धिदायिका ॥
अभ्यस्यन्तः स्वरूपेण समाधिस्थः प्रपश्यति
आत्मबिम्बपुरस्थं तु बिम्बा सावश्यसिद्धिदा ॥
समाधिस्थः स्वबिम्बं तु आसनेन समन्वितम्
उत्पतन्तं यदा पश्येत् तदा सा बिम्बखेचरी ॥
दृष्ट्वैतां तु महावस्थां सिद्धे[र्] भ्रान्तिं न कारयेत्
अवश्यं याति खेचक्रे ह्य् उक्तकालं कुलेश्वरि ॥
एषावस्था समासाद्य दशावस्था[स्] त्यजेत् पुनः
गुणान् उत्पादयित्वा तु अनाहतपदं व्रजेत् ॥
अथान्यत् परमं वक्ष्ये मणिपूरं यथा स्थितम्
तथा त्वं शृणु कल्याणि कल्याणानन्दवर्धनम् ॥
स्थितं द्वादशभेदेन सोमेशादौ शिखान्तिकम्
नाभ्युदरनितम्बोरु जङ्घाङ्घ्रीम् अनुक्रमात् ॥
कुलनाथमहेशस्य संस्थितो मणिपूरकः
तनुचक्रे समावृत्य यथावस्थं तथा शृणु ॥
सोमेशोदरसंस्थं तु द्वादशार्चिसमन्वितम्
द्वीपक्षेत्रसमायुक्तं तद् एवान्यान् विलक्षयेत् ॥
लाङ्गली दक्षिणे कुक्षौ वामे दारुकजं विभुम्
अर्धनारीश्वरं नाभौ स्वचक्रपरिवारितम् ॥
दक्षिणेन ह्य् उमाकान्तं नितम्बे वामतो ऽषढिम्
डिण्डित्रियुगलोरुभ्यां जानुभ्यां मीनमेषकौ ॥
लोहिताख्यं शिखीनाथं दक्षादौ वामम् आश्रितौ
पीठनाथं तथा क्षेत्रं द्वीपं द्वीपाधिपैः सह ॥
मणिवद् द्योतयन्तं तु पूरयन्तं दिशो दश
सूर्यकान्तिमणिप्रख्यं भास्करेव प्रपश्यते ॥
कालसङ्ख्याकरं देवं कलैर् द्वादशभिर् युतम्
पीठनाथं तु द्वीपस्थं मासमासादितः क्रमात् ॥
पूरयेद् वर्षसन्तानं युगमन्वन्तराणि च
कल्पं चेति महाकल्पं मणिद्वादशभिः खिलम् ॥
यतः पूरयेद् विश्वात्मा तेनेदं मणिपूरकम्
शक्तिमार्गप्रपन्नानां भुक्तिमुक्तिफलप्रदम् ॥
एकैकं चिन्तयेच् चक्रं नाथाज्ञा ह्य् उपदेशतः
भवन्ति सर्वसिद्धीनि उत्तमाधममध्यमाः ॥
मणिपूरक पादस्थं पीठेश्वरसमन्वितम्
द्वीपद्वीपाधिपैर् युक्तं मासम् एकं यदाभ्यसेत् ॥
पादचारि जगत् सर्वं क्षोभयेद् अविचारतः
पूजाध्यानसमाधिस्थः शक्तिमार्गेण योगवित् ॥
षण्मासेन अवश्यं हि वत्सरान्तं न संशयः
अन्यच् छीघ्रगतिस् तस्य आत्मनः सम्प्रवर्तते ॥
पादुके पादलेपं वा मनोवेगः प्रजायते
एवं जानुनि अभ्यासाद् भूतवेतालनयकः ॥
कुरुते विविधाश्चर्यं कल्पस्थायी भवेत् तु सः
आत्मवन्तो महोत्साह ऊरुभ्यां उरगेश्वरः ॥
किं तु तद्द्विगुणेनैव कालेन प्रथमादितः
क्रमेण सिध्यते सर्वम् आद्यन्तेन विलक्षयेत् ॥
नितम्बाभ्यासयोगेन गुह्यकानां पतिर् भवेत्
यक्षविद्याधराणं च प्रेतपैशाचराक्षसाम् ॥
क्रीडते नायको भूत्वा पूर्वमार्गविधौ स्थितः
कुक्षिमार्गगते चक्रे अभ्यसन्तः श्रियं लभेत् ॥
किन्नरेन्द्र सगन्धर्वो लोकालोकेषु पूज्यते
वायुवद् भ्रमते सो हि सर्वत्रैवम् अशङ्कितः ॥
मध्यनाभिगते चक्रे मूलमेढ्रे यदाभ्यसेत्
शान्तिपुष्टिवशाकर्षं सर्वज्ञत्वं पृथुश्रियम् ॥
सकृत्संस्मरणाद् एवम् अभ्यसन्तः खगेश्वरः
ब्रह्माण्डान्तरनिःशेषं भ्रमते कामरूपिणः ॥
साङ्ख्यज्ञानविदो भूत्वा विचरेत् स्वपुरं पुनह्
अथ स्पष्टतरं देवि शक्तित्यागं शृणुष्व मे ॥
यद् एतत् परमं बीजं हंसाख्यं हृदि संस्थितम्
विना तेनोपलब्धिं च न जानाति कदाचन ॥
तस्य रूपत्रयं भद्रे नादं संयोगम् एव च
वियोगं चेति सुश्रोणि लक्षणीयं प्रयत्नतः ॥
चैतन्यत्रितयं चात्र आत्मशक्तिशिवात्मकम्
अविनाभावयोगेन चैतन्यत्रितयस्थितम् ॥
तेनोपचर्यते भद्रे हंसदेवः परापरः
सङ्कोचे तु परा शक्तिर् विकासे भैरवः स्मृतः ॥
मध्ये आत्मा सदा तिष्ठेत् पूर्यष्टकसमन्वितः
विकासश् चोर्ध्वनाडिस् तु सङ्कोचोऽधः प्रकीर्तितः ॥
मध्ये नाभिर् इति प्रोक्तस् त्रयम् एतत् सुदुर्लभम्
ऊर्ध्वनाडीनिरोधेन अधोनाडीनिकुञ्चनात् ॥
मध्ये चित्तं समादाय मथनं तत्र कारयेत्
योनिमध्यगतं लिङ्गं योन्योदरपुटीकृतम् ॥
तन्मध्ये चात्मनो रूपं लक्षयेत पुनः पुनः
मथनं ह्य् एतद् आख्यातम् अज्ञानमलनाशनम् ॥
मध्यमन्थानयोगेन ज्ञानाग्निर् ज्वलते किल
ज्वलिते तु तदा वह्नौ ज्योतिर् एवं प्रवर्धते ॥
प्रवर्धनान् महाज्योतेर् आनन्दम् उपजायते
मथनाद् भगलिङ्गाभ्यां यथानन्दः प्रजायते ॥
मथनाच् छिवशक्त्योस् तु तथानन्दः प्रजायते
निश्चयत्वं भवेद् देवि शिवशक्त्योर् अभेदतः ॥
मथनं ह्य् एतद् एवोक्तम् अमृतोत्पादकं प्रिये
तेनामृतेन चात्मानं प्लाव्यमानं विचिन्तयेत् ॥
एषा सा परमा वृत्तिः परतत्त्वम् इदं स्मृतम्
एतत् तत् परमं ब्रह्म परमानन्दलक्षणम् ॥
तद् आनन्दपरानन्दं शक्तित्यागम् इति स्मृतम्
एष ते मणिपूरस् तु सरहस्यं प्रकाशितम् ॥
गोपितं पूर्वतन्त्रेषु कुब्जि तुभ्यं प्रकाशितम्
द्वीपमार्गविभागेन पीठनाथक्रमेण तु ॥
दुर्लभं सिद्धमार्गस्य किं पुनस् त्व् इतरेषु च
उक्तकालेन सिध्यन्ति अवश्यं नानृतं वचः ॥
शृणु देवि यथावस्थं स्वाधिष्ठानं वदामि ते
कलाकलितदेहस्य यथास्थानं निगद्यते ॥
पूर्वम् एकार्णवे घोरे तमोभूते जगत्त्रये
लिङ्गरूपधरश् चाहं परेच्छावशवर्तिनः ॥
षण्मुखः कालरूपो ऽहं लिङ्गाकारो व्यवस्थितः
षट्कलाभिर् वृतो नित्यं विश्वमध्ये रमाम्य् अहम् ॥
षट्कौषिकेन युक्तो ऽहं पिण्डो ऽहं ऽनङ्गवर्चसः
ततः प्रवर्तिता सृष्टिर् ममेच्छा तु पुनः प्रिये ॥
ब्रह्मविष्ण्वादिभिः सिद्धैः पूजिताराधित[ः] स्तुतः
ततो ऽहं वरम् आपन्नस् तेषु भावानुवर्तिनाम् ॥
षडस्रं चतुरस्रं तु आत्मानं च समर्पितम्
तेन ते कारणत्वेन सृष्टिकृत् कारणेश्वराः ॥
हर्ता कर्ता स्वतन्त्रास् ते मद्रूपगुणचेतसः
पुनः स्तोत्रं समारब्धं तैस् तु नाथैः पुनर् ह्य् अह् अम् ॥
यावन् ऽनेकविधानेन तावत् तेषां वरप्रदः
पुनः सन्तोषितो ऽतीव वरं प्रार्थय पुष्कलम् ॥
तैर् उक्तं देवदेवेश लिङ्गेदं सर्वतोमुखम्
येन पूज्यो भवामीह तद् वरं दद मे प्रभो ॥
अस्य लिङ्गस्य माहात्म्यं व्याप्तिभूतं यथास्थितम्
तथा कुरु महेशान जानीमो निश्चयं यथा ॥
ततस् तेषां महादेवि व्याप्तिमार्ग[ः] प्रदर्शितः
व्यक्तलिङ्गं कृतं पश्चात् षडध्वगुणगोचरम् ॥
षडध्वरोपदेशेन तनुस् तेषां प्रदर्शिता
द्विरण्डेन कृतं देहं शेषा वक्त्राणि चोर्ध्वतः ॥
वामादिक्रमयोगेन सञ्जातानि विदुर् बुधाः
छगलण्डोत्तरं वक्त्रं महाकालोर्ध्वतः स्थितः ॥
वालिवक्त्रं भवेत् पूर्वं पुरुषं जीवरूपिणम्
भुजङ्गं दक्षिने क्रूरं नागरूपं महद्भुतम् ॥
पश्चिमं तु पिनाकाख्यं निवृत्तिस्थं नियामकम्
अविद्याख्यं पुरा प्रोक्तं क्षणध्वंसीविनाशकम् ॥
अत्र मध्ये त्रयं श्रेष्ठम् अविनाशाक्षयाव्ययम्
माया शम्भुश् च पुरुषं क्षीयते न कदाचन ॥
पञ्चवक्त्रतनूद्भूतं षट्कौषकुलसम्भवम्
तेषां प्रदर्शितं रूपं कलाध्वं कुलनायकम् ॥
साधितो ऽहं त्वया विष्णो निश्चलेनान्तरात्मना
भावाधिष्ठानयोगेन तेनेदं दर्शितं मया ॥
स्वाधिष्ठानं परं योगं प्रविश्य मम सर्वथा
लिङ्गं प्रविश्य मेधावी येन पूज्यो भविष्यसि ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0