क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 77
व्यतिरेकात्मिका व्याप्तिर् आक्षिप्तान्वयरूपिणी । वैधर्म्यवति दृष्टान्ते सत्त्वहेतोर् इहोच्यते ।
यत् सत् तत् क्षणिकम् । यथा घटः । सन्तश् चामी विवादास्पदीभूताः पदार्था इति स्वभावहेतुः ।
न तावद् अस्यासिद्धिः सम्भवति । यथायोगं प्रत्यक्षानुमानप्रमाणप्रतीते धर्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात् ।
न च विरुद्धानैकान्तिकते । व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तेः प्रसाधनात् ।
यस्य क्रमाक्रमौ न विद्येते न तस्यार्थक्रियासामर्थ्यम् । यथा शशविषाणस्य । न विद्येते चाक्षणिकस्य क्रमाक्रमाव् इति व्यापकानुपलम्भः ।
न तावद् अयम् असिद्धो हेतुः । अक्षणिके धर्मिणि क्रमाक्रमसद्भावायोगात् । तथा हि प्राप्तापरकालयोर् एकत्वे नित्यत्वम् । तस्य क्रमाक्रमयोगे क्षणद्वये ऽप्य् अवश्यं भेदः । भेदाभेदयोश् च परस्परविरोधात् कुतो ऽक्षणिके क्रमाक्रमसम्भवः । क्षणद्वये ऽपि भेदे क्रमाक्रमयोगः । अभेदे हि प्रथम एव क्षणे शक्तत्वाद् । भाविनो ऽपि कार्यस्य करणप्रसङ्गे कथं कार्यान्तरकरणे क्रमान्तरावकाशः । न चाक्षणिकस्याक्रमेणैव सकलस्वकार्यं कृत्वा स्वास्थ्यम् । क्षणान्तरे ऽपि शक्तत्वात् पुनस् तत्कार्यकरणप्रसङ्गात् ।
तस्माद् अक्षणिकम् इति पूर्वापरकालयोर् अभेदः । क्रमाक्रमयोग इति पूर्वापरकालयोर् भेदः । अनयोश् च परस्परपरिहारस्थितिलक्षणो विरोधः ।
तद् अयम् अक्षणिके धर्मिणि क्रमाक्रमाभावलक्षणो हेतुर् नासिद्धो वक्तव्यः । क्रमाक्रमयोगित्वाक्षणिकत्वयोर् विरोधाद् एव ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0