कृष्णामृतमहार्णव · श्लोक 81-100
वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम्
ऋषित्वम् अपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्.
विचित्ररत्नपर्यङ्के महाभोगेन भोगिनः
रमन्ते नाकनारीभिः केशवस्मरणात् फलम्.
अश्वमेधसहस्राणां यः सहस्रं समाचरेत्
नासौ तत् फलम् आप्नोति तद्भक्तैर् यद् अवाप्यते.
रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान् मुकुलीकुरुध्वे
क्रियाजुषां को भवतां प्रयासः फलं हि यत् पदम् अच्युतस्य.
विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणम्
अश्वमेधसहस्रस्य फलम् आप्नोति मानवः.
प्रदक्षिणं तु यः कुर्याद् हरिभक्त्या समन्वितः
हंसयुक्तिविमानेन विष्णुलोकं स गच्छति.
तीर्थकोटिसहस्राणि व्रतकोटिशतानि च
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्.
उरसा शिरसा दृष्ट्या मनसा वचसा तथा
पद्भ्यां कराभ्यां जानुभ्यां प्रणामो ऽष्टाङ्ग ईरितः.
शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गपाणये
शातजन्मार्जितं पापं नश्यत्य् एव न संशयः.
संसारार्णवम् अग्रानां नराणां पापकर्मणाम्
नान्यो धर्त्ता जगन्नाथं मुक्त्वा नारायणं परम्.
रेणुकुण्ठिगात्रस्य कणा यावन्ति भारत
तावद् वर्षसहस्राणि विष्णुलोके महीयते.
पावनं विष्णुनैवेद्यं सुभोज्यम् ऋषिभिः स्मृतम्
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्.
कोट्यैन्दवसहस्रैस् तु मासोपोषणकोटिभिः
यत् फलं लभ्यते पुम्भिर् विष्णोर् नैवेद्य भक्षणात्.
त्रिरात्रफलदा नद्यो याः काश्चिद् असमुद्रगाः
समुद्रगास् तु पक्षस्य मासस्य सरितां पतिः.
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडसीम्.
गण्गाप्रयागगयपुष्करनैमिशानि संसेवितानि बहुशः कुरुजाङ्गलानि
कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः.
यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि वै
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्.
स्नानं पादोदकं विष्णोः पिबन् शिरसि धारयन्
सर्व पापविनिर्मुक्तो वैष्णवीं सिद्धिम् आप्नुयात्.
यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम्
नैवेद्यं धूपशेषं च आरार्त्तिश् च तथा हरेः.
तुलस्यास् तु रजोजुष्टं नैवेद्यस्य च भक्षणम्
निर्माल्यं शिरसा धार्यं महापातकनाशनम्.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0