कृष्णामृतमहार्णव · श्लोक 61-80
क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे
तदा न कीर्तयेत् कश्चिन् मुक्तिदं देवम् अच्युतम्.
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः
पुमान् विमुच्यते सद्यः सिंहत्रस्तमृगैर् इव.
नारायणेति मन्त्रो ऽस्ति वाग् अस्ति वशवर्तिनी
तथा ऽपि नरके घोरे मज्जन्तीत्य् एतद् अद्भुतम्.
आर्ता विषण्णाः शिथिलाश् च भीता घोरेषु च व्याधिषु वर्तमानाः
संकीर्त्य नारायङशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति.
कौशिकः:
सकृद् उच्चारितं यैस् तु कृष्णेति न विशन्ति ते
गर्भागारं गृहं मातुर् यमलोकं च दुस्सहम्.
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्
क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम्.
बुद्ध्या बुद्ध्वा वदस्वैनं हरिर् इत्य् अक्षरद्वयम्
स्मरणाद् एव कृष्णस्य न पुनर्जायते क्वचित्.
हे जिह्वे मम निस्नेहे हरिं किं नुन भाषसे
हरिं वदस्व कल्याणि संसारोदधिनौर् हरिः.
असारे खलु संसारे सारात् सारतरो हरिः
पुण्यहीना न विन्दन्ति सारङ्गाश् च यथा जलम्.
कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण वा
जिह्वाग्रे वर्तते तस्य हरिर् इत्य् अक्षरद्वयम्.
ब्रह्मोवाच:
असारे खलु संसारे सारम् एकं निरूपितम्
समस्तलोकनाथस्य सारम् आराधनं हरेः.
सा जिह्वा या हरिं स्तौति तच् चित्तं यत् तदर्पणम्
ताव् एव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ.
यस् तु विष्णुपरो नित्यं दृढभक्तिर् जितेन्द्रियः
स्वगृहे ऽपि वसन् याति तद् विष्णोः परमं पदम्.
शङ्करः:
साधु साधु महाभाग साधु दानवनाशन्
यन् मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति.
निमिषं निमिषार्धं वा मुहूर्तम् अपि भार्गव
नादग्धाशेषपापानां भक्ति भवति केशवे.
किं तेन मनसा कार्यं यन् न तिष्ठति केशवे
मनो मुक्तिफलावाप्त्यौ कारणं सप्रयोजनम्.
रोगो नाम न सा जिह्वा यया न स्तूयते हरिः
गर्तौ नाम न तौ कर्णौ याभ्यां तत् कर्म न श्रुतम्.
नूनं तत् कण्ठशालूकम् अथवा ऽप्य् उपजिह्विका
रोगो नाम न सा जिह्वा या न वक्ति हरेर् गुणान्.
भारभूतैः कार्यम् एभिः किं तस्य नृपशोर् द्विज
चरणौ तौ तु सफलौ केशवालयगामिनौ
ते च नेत्रे महाभाग याभ्यां सन्दृश्यते हरिः.
किं तस्य चरणैः कार्यं वृथासञ्चरणैर् द्विज
यैर् हि न व्रजते जन्तुः केशवालयदर्शने.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0