भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 101-120

101

भक्त्या वा यदि वा ऽभक्त्या चक्राङ्कितशिलाम् प्रति
दर्शनं स्पर्शनं वा ऽपि सर्वपापप्रणाशनम्.

102

साळग्रामोद्भवो देवो देवो द्वारवतीभवः
उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति.

103

म्लेच्छदेशे ऽशुचौ वा ऽपि चक्राङ्को यत्र तिष्ठति
योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे.

104

शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डितम्
यत्रापि नीयते तत्र वारणस्या शताधिकम्.

105

साळग्रामोद्भवो देवो देवो द्वारवतीभवः
उभयोः संगमो यत्र तत्र मुक्तिर् न संशयः.

106

हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः
स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्.

107

हरिर् याति हरिर् याति दस्युव्याजेन यो वदेत्
सो ऽपि सद्गतिम् आप्नोति गतिं सुकृतिनो यथा.

108

वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते
त्यक्त्वा ऽमृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्.

109

त्यक्त्वामृतं यथा कश्चिद् अन्यपानं पिबेन् नरः
तथा हरिं परित्यज्य चान्यं देवम् उपासते.

110

स्वधर्मं तु परित्यज्य परधर्मं यथा चरेत्
तथा हरिं परित्यज्य चान्यं देवम् उपासते.

111

गां च त्यक्त्वा विमूढात्मा गर्दभीं वन्दते यथा
तथा हरिं परित्यज्य चान्यं देवम् उपासते.

112

वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः.

113

यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः
तथा हरिं परित्यज्य यो ऽन्यं देवम् उपासते.

114

स्वमातरं परित्यज्य श्वपाकीं वन्दते तथा
तथा हरिं परित्यज्य यो ऽन्यं देवम् उपासते.

115

यावत् स्वस्थम् इदं पिण्डं निरुजं करणान्वितम्
तावत् कुरुष्वा ऽत्महितं पश्चात् तापेन तप्यसे.

116

यावत् स्वास्थ्यं शरीरेषु करणेषु च पाटवम्
तावद् अर्चय गोविन्दम् आयुश्यं सार्थकं कुरु.

117

स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च
अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के.

118

यावच् चिन्तयते जन्तुर् विषयान् विषसन्निभान्
तावच् चेत् स्मरते विष्णुं को न मुच्येत बन्धनात्.

119

यावत् प्रलपते जन्तुर् विषयान् विषसन्निभान्
तावच् चेत् स्मरते विष्णुं को न मुच्येत बन्धनात्.

120

सूत उवाच:
ज्ञात्वा विप्रास् तिथिं सम्यग् दैवज्ञैः समुदीरिताम्
कर्तव्य उपवासश् च अन्यथा नरकं व्रजेत्.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc