कृष्णामृतमहार्णव · श्लोक 41-60
यममार्गां महाघोरं नरकाणि यमं तथा
स्वप्ने ऽपि च न पश्येत यः स्मरेद् गरुडध्वजम्.
हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः
पादोदकं च निर्माल्यं मस्तके यस्य सो ऽच्युतः.
गोविन्दस्मरणं पुंसां पापराशिमहाचलम्
असंशयं दहत्य् आशु तूलराशिम् इवानलः.
अगस्त्यः:
स्मरणाद् एव कृष्णस्य पापसङ्घातपञ्जरम्
शतधा भेदम् आयाति गिरिर् वज्रहतो तथा.
कृष्णे रताः कृष्णम् अनुस्मरन्तः तद् भावितास् तद् गतमानसाश् च.
ते भिन्नदेहाः प्रविशन्ति विष्णुं हविर् यथा मन्त्रहुतं हुताशे.
सा हानिस् तन् महत् छिद्रं सा चान्धजडमूकता
यन् मुहूर्तं क्षणं वा ऽपि वासुदेवो न चिन्त्यते.
नारायणो नाम नरो नराणां प्रसंह्य चोरः कथितः पृथिव्याम्
अनेकजन्मार्जितपापसञ्चयं दहत्य् अशेषं स्मृतमात्रयैव.
यस्य संस्मरणाद् एव वासुदेवस्य शार्ङ्गिणः
कोटिजन्मार्जितं पापं तक्षणाद् एव नश्यति.
किं तस्य बहुभिस् तीर्थैः किं तपोभिः किम् अध्वरैः
यो नित्यं ध्यायते देवं नारायणम् अनन्यधीः.
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति.
हे चित्त चिन्तय स्वेह वासुदेवम् अहर्निशम्
नूनं यश् चिन्तितः पुंसां हन्ति संसारबन्धनम्.
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा.
स्मृते सकलकल्याणभाजनं यत्र जायते
पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम्.
वेदेषु यज्ञेषु तपसु चैव दानेषु तीर्थेषु व्रतेषु चैव
इष्टेषु पूर्तेषु च यत् प्रदिष्टं पुण्यं स्मृते तत् खलु वासुदेवे.
और्वः:
आराधयैव नरो विष्णुं मनसो यद् यद् इच्छति
फलं प्राप्नोत्य् अविकलं भूरि स्वल्पम् अथापि वा.
यन् नामकीर्तनं भक्त्या विलायनम् अनुत्तमम्
मैत्रेयाशेषपापानां धातूनाम् इव पावकः.
कलिकल्मषम् अत्युग्रं नरकार्तिप्रदं नृणाम्
प्रयाति विलयं सद्यः सकृत् संकीर्तिते ऽच्युते.
अनायासेन चा ऽयान्ति मुक्तिं केशवम् आस्रिताः
तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः.
चतुस्सागरम् आसाद्य जम्बूद्वीपोत्तमे क्वचित्
न पुमान् केशवाद् अन्यः सर्वपापचिकित्सकः.
यद् अभ्यर्च्य हरिं भक्त्या कृते वर्षशतैर् अपि
फलं प्राप्नोत्य् अविकलं कलौ संकीर्त्य केशवम्.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0