भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 21-40

21

धर्मार्थकाममोक्षाणां नान्योपायस् तु विद्यते
सत्यं ब्रवीमि देवेश हृषीकेशार्चनाहते.

22

तस्य यज्ञवराहस्य विष्णोर् अमिततेजसः
प्रणामं ये ऽपि कुर्वन्ति तेषाम् अपि नमो नमः.

23

मरीचिः:
अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज
न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम्.

24

अत्रिः:
परः पराणां पुरुषस् तुष्टो यस्य जनार्दनः
स चा ऽप्नोत्य् अक्षयं स्थानम् एतत् सत्यं मयोदितम्.

25

अङ्गिराः:
यस्यान्तः सर्वम् एवेदम् अच्युतस्याख्ययात्मनः
तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि.

26

पुलहः:
परं ब्रह्म परं धाम यो ऽसौ ब्रह्म सनातनम्
तम् आराध्य हरिं याति मुक्तिम् अप्य् अतिदुर्लभाम्.

27

ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्पतिम्
प्राप यज्ञपतिं विष्णुं तम् आराधय सुव्रत.

28

प्राप्नोत्य् आराधिते विष्णौ मनसा यद् यद् इच्छति
त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरान्.

29

ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम्
सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते.

30

ततो ऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परम्
ततः संकर्षणं देवं वासुदेवं परात् परम्.

31

वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः
वासुदेवं प्रविष्टानां पुनर् आवर्तनं कुतः.

32

आत्रेयः:
यो यान् इच्छेन् नरः कामान् नारी वा वरवर्णिनी
तान् समाप्नोति विपुलान् समाराध्य जनार्धनम्.

33

पुलह सग्ते:
ब्रह्मा:
बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि
वासुदेवम् अनाराध्य को मोक्षं गन्तुम् इच्छति.

34

शंकरः:
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते
प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्.

35

न ह्य् अपुण्यवतां लोके मूढानां कुटिलात्मनां
भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा.

36

तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः
जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्.

37

प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते
न कश्चित् स्मरते देवं कृष्णं कलिमलापहम्.

38

न कलौ देवदेवस्य जन्मदुःखापहारिणः
करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः.

39

ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना
ते प्रयान्ति भवं त्यक्त्वा विष्णुलोकम् अनामयम्.

40

गर्भजन्मजरारोगदुःख संसारबन्धनैः
न बाध्यते नरो नित्यं वासुदेवम् अनुस्मरन्.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc