कृष्णामृतमहार्णव · श्लोक 1-20
कृष्णामृतमहार्णवः
ओं.
अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः
यो ददात्य् अमृतत्वं हि स मां रक्षतु केशवः.
तापत्रयेण संतप्तं यद् एतद् अखिलं जगत्
वक्ष्यामि शान्तये ह्य् अस्य कृष्णामृतमहार्णवम्.
ते नराः पशवो लोके किं तेषां जीवने फलम्
यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः.
संसारे ऽस्मिन् महाघोरे जन्मरोगभयाकुले
अयम् एको महाभागः पूज्यते यद् अधोक्षजः.
स नाम सुकृती लोके कुलं तेन ह्य् अलंकृतम्
आधारः सर्वभूतानां येन विष्णुः प्रसादितः.
यज्ञानां तपसां चैव शुभानां चैव कर्मणां
तद्विशिष्टफलं नृणां सदैवाराधनं हरेः.
कलौ कलिमलध्वंसिसर्वपापहरं हरिम्
ये ऽर्चयन्ति नरा नित्यं ते ऽपि वन्द्या यथा हरिः.
नास्ति श्रेयस्करं नृणां विष्णोर् आराधनान् मुने
युगे ऽस्मिंस् तामसे लोके सततं पूज्यते नृभिः.
अर्चिते सर्वदेवेशे शङ्कचक्रगदाधरे
अर्चिताः सर्वदेवाः स्युर् यतः सर्वगतो हरिः.
स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते
केशवे कंसकेशिघ्ने न याति नरकं नरः.
सकृद् अभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः
मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्.
सकृद् अभ्यर्चितो येन हेळया ऽपि नमस्कृतः
स याति परमं स्थानं यत् सुरैर् अपि दुर्लभम्.
नारदः:
समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः
साक्षाद् भगवतो विष्णोः पूजनं जन्मनः फलम्.
पुलस्त्यः:
भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः
हरिर् ददाति हि फलं सर्वयज्ञैश् च दुर्लभम्.
विधिना देवदेवेशः शङ्खचक्रधरो हरिः
फलं ददाति सुलभं सलिलेनापि पूजितः.
नरके पच्यमानस् तु यमेन परिभाषितः
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः.
धर्मः:
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः
स्मरणान् मुक्तिदो नृणां स त्वया किं न पूजितः.
द्रव्याणाम् अप्य् अभावे तु सलिलेनापि पूजितः
यो ददाति स्वकं स्थानं स त्वया किं न पूजितः.
गर्भस्थितामृता वा ऽपि मुषितास्ते सुदूषिताः
न प्राप्ता यैर् हरेर् दीक्षा सर्वदुःखविमोचनी.
मार्कण्डेयः:
सकृद् अभ्यर्चितो येन देवदेवो जनार्दनः
यत् कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0