भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 221-229

221

जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्य् अपि
न तु कल्पसहस्रैस् तु भक्तिहीनस्य केशवे.

222

किं तेन जातमात्रेण भूभारेणान्नशत्रुणा
यो जातो नार्चयेद् विष्णुं न स्मरेन् नापि कीर्तयेत्.

223

यो ददाति द्विजातिभ्यश् चन्दनं गोपिमर्दितम्
अपि सर्षपमात्रेण पुनात्य् आसप्तमं कुलम्.

224

ज्ञानी च कर्माणि सदो ऽदितानि
कुर्याद् अकामः सततं भवेत्.

225

अतीतानागतज्ञानी त्रैलोक्योद्वरणक्षमः
एतादृशो ऽपि ना ऽचारं श्रौतं स्मार्तं परित्यजेत्.

226

यद् एव विद्यया करोति श्रद्धयोपनिषदा
सद् एव वीर्यवत्तरं भवति.

227

कुर्वन् एवेह कर्माणि जिजीविषेच् छतं समाः
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे.

228

आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च
वेदप्रणिहितो धर्मो ह्य् अधर्मस् तद्विपर्ययः.

229

निष्कामं ज्ञानपूर्वं तु निवृत्तम् इह चोच्यते
निवृत्तं सेवमानस् तु ब्रह्माभ्येति सनातनम्.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc