भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 141-160

141

शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि
विषं तु दशमी ज्ञेया ऽमृतं चैकादशी तिथिः.
विषप्रधाना वर्ज्या सा ऽमृता ग्राह्या प्रधानतः.

142

द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम्
यः कुर्यान् मन्दबुद्धित्वान् निरयं सो ऽधिगच्छति.

143

यानि कानि च वाक्यानि विद्धोपास्यापराणि तु
धनदार्चापराणि स्युर् वैष्णवी न दशायुता.

144

अथवा मोहनार्थाय मोहिन्या भगवान् हरिः
अर्थितः कारयाम् आस व्यासरूपी जनार्दनः.

145

धनदार्चाविवृद्ध्यर्थं महावित्तलयस्य च
असुराणां मोहनार्थं पाषण्डानां विवृद्धये
आत्मस्वरूपाविज्ञप्त्यै स्वरूपाप्राप्तये तथा.

146

एवं विद्धां परित्यज्य द्वादश्याम् उपवासने
कोटिजन्मार्जितं पापम् एकयैव विनश्यति
ततः कोटिगुणं वा ऽपि निषिद्धस्येतरैर् जनैः.

147

यद् अनादिकृतं पापं तद् ऊर्ध्वं यत् करिष्यति
तत् सर्वं विलयं याति परेषाम् उपवासनात्
न च तस्मात् प्रियतमः केशवस्य ममापि वा.

148

एकादश्या ह्य् अवेधे तु द्वादशीं न परित्यजेत्
पारणे मरणे चैव तिथिस् तात्कालिकी स्मृता.

149

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस् तथा
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा.

150

अभर्तृका तथा ऽन्ये वा सूतवैदेहिकादयः
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि.

151

एकादश्यां तु यो भुङ्क्ते मोहेना ऽवृतचेतनः
शुक्लायाम् अथ कृष्णायां निरयं याति स ध्रुवम्.

152

विवेचयति यो मोहाच् छुक्ला कृष्णेति पापकृत्
एकादशीं स वै याति निरयं नात्र संशयः.

153

यथा गौर् नैव हन्तव्या शुक्ला कृष्णेति भामिनि
एकदाश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि.

154

यानि कानि च वाक्यानि कृष्णैकादशिवर्जने
भरण्यादिनिषेधे ऽपि तानि काम्यफलार्थिनाम्.

155

कामिनो ऽपि हि नित्यार्थं कुर्युर् एवोपवासनम्
प्रीणनार्थं हरेर् नित्यं न तु कामव्यपेक्षया.

156

तस्माच् छुक्लाम् अथो कृष्णां भरण्यादियुताम् अपि
प्रत्यवायनिषेधार्थम् उपवासीत नित्यशः
प्रीणनार्थं हरेश् वापि विष्णुलोकस्य चा ऽप्तये.

157

कला वा घटिका वा ऽपि अपरे द्वादशी यदि
द्वादशद्वादशीर् हन्ति पूर्वेद्युः पारणे कृते.

158

अतिरिक्ता द्वादशी चेत् स तां नोपोषयेद् यदि
द्वादशद्वादशीर् हन्ति द्वादशी चातिलङ्घिता.

159

द्वादश्याम् अतिरिक्तायां यो भुङ्क्ते पूर्ववासरे
द्वादशद्वादशीर् हन्ति द्वादशीं न परित्यजेत्.

160

द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc