कृष्णामृतमहार्णव · श्लोक 121-140
क्षये वा ऽप्य् अथवा वृद्धौ सम्प्राप्ते वा दिनक्षये
उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्.
पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति
संततेस् तु विनाशाय सम्पदो हरणाय च.
कलावेधे तु विप्रेन्द्रा दशम्यैकादशीं त्यजेत्
सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत्.
श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत्
एकादशीं द्विजश्रेष्ठाः पक्षयोर् उभयोर् अपि.
तस्माद् विप्रा न विद्धा हि कर्तव्यैकादसी क्वचित्
विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः.
जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः
तत् सर्वं विलयं याति तमः सूर्योदये यथा.
एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर् भवेत्
उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्.
प्रतिपत्प्रभृतयः सर्वा उदयाद् उदयाद् रवेः
सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः.
अरुणोदयकाले तु दशमी यदि दृश्यते
पापमूलं तदा ज्ञेयम् एकादश्युपवासनम्.
अरुणोदयकाले तु दशमी यदि दृश्यते
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी.
चतस्त्रो घटिकाः प्रातर् अरुणोदय उच्यते
यतीनां स्नानकालो ऽयं गङ्गाम्भःसदृशः स्मृतः.
उदयात् प्राग् यदा विप्रा मुहूर्तद्वयसंयुता
सम्पूर्णैकादशी नाम तत्रैवोपवसेद् व्रती.
उदयात् प्राक् त्रिघटिका व्यापिन्य् एकादशी यदा
सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थनाशिनी.
पुत्रपौत्रविवृद्ध्यर्थं द्वादश्याम् उपवासयेत्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणं.
उदयात् प्राग् द्विघटिकाव्यापिन्येकादशी यदा
सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः.
पुत्रराज्यविवृद्ध्यर्थं द्वादश्याम् उपवासनम्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्.
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता
तस्याः पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत्.
बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु
उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारङम्.
एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा
उपोष्या द्वादशी पुण्या पक्षयोर् उभयोर् अपि.
उपरागसहस्राणि व्यतीपातायुतानि च
अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0