भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 16

16.1

ततः किराताधिपतेर् अलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः
स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥

16.2

मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः
सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ॥

16.3

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा
महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥

16.4

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति
विभिन्नमर्यादम् इहातनोति नाश्वीयम् आशा जलधेर् इवाम्भः ॥

16.5

हताहतेत्य् उद्धतभीष्मघोषैः समुज्झिता योद्धृभिर् अभ्यमित्रम्
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥

16.6

अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालम् इवान्तकस्य
रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥

16.7

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम्
नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ॥

16.8

रथाङ्गसंक्रीडितम् अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि
संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥

16.9

अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम्
मूर्छान्तरायं मुहुर् उच्छिनत्ति नासारशीतं करिशीकराम्भः ॥

16.10

असृङ्नदीनाम् उपचीयमानैर् विदारयद्भिः पदवीं ध्वजिन्याः
उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैर् इवाश्यानघनैस् तटानि ॥

16.11

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥

16.12

निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण
अर्कत्विषोन्मीलितम् अभ्युदेति न खण्डम् आखण्डलकार्मुकस्य ॥

16.13

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन
नावर्तमाना निनदन्ति भीमम् अपां निधेर् आप इव ध्वजिन्यः ॥

16.14

महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम्
आमूललूनैर् अतिमन्युनेव मातङ्गहस्तैर् व्रियते न पन्थाः ॥

16.15

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः
न बर्हभारः पतितस्य शङ्कोर् निषादिवक्षःस्थलम् आतनोति ॥

16.16

उज्झत्सु संहार इवास्तसंख्यम् अह्नाय तेजस्विषु जीवितानि
लोकत्रयास्वादनलोलजिह्वं न व्याददात्य् आननम् अत्र मृत्युः ॥

16.17

इयं च दुर्वारमहारथानाम् आक्षिप्य वीर्यं महतां बलानाम्
शक्तिर् ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥

16.18

माया स्विद् एषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यम् उताहम् अन्यः
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥

16.19

पुंसः पदं मध्यमम् उत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः
नूनं तथा नैषा यथास्य वेषः प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा ॥

16.20

धनुः प्रबन्धध्वनितं रुषेव सकृद् विकृष्टा विततेव मौर्वी
संधानम् उत्कर्षम् इव व्युदस्य मुष्टेर् असम्भेद इवापवर्गे ॥

16.21

अंसाव् अवष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः
धृता विकारांस् त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥

16.22

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः
स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥

16.23

परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे
भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा न सम्भवत्य् एव वनेचरेषु ॥

16.24

अप्राकृतस्याहवदुर्मदस्य निवार्यम् अस्यास्त्रबलेन वीर्यम्
अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् महापकाराय रिपोर् विवृद्धिः ॥

16.25

स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः
प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥

16.26

प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥

16.27

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥

16.28

गुरुस्थिराण्य् उत्तमवंशजत्वाद् विज्ञातसाराण्य् अनुशीलनेन
केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥

16.29

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे
अतर्कितं पाणितलान् निपेतुः क्रियाफलानीव तदायुधानि ॥

16.30

अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम्
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥

16.31

तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः
सुमेरुशृङ्गाद् इव बिम्बम् आर्कं पिशङ्गम् उच्चैर् उदियाय तेजः ॥

16.32

छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिर् इवापविद्याम्
ययौ विकासं द्युतिर् इन्दुमौलेर् आलोकम् अभ्यादिशती गणेभ्यः ॥

16.33

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या
निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥

16.34

पृथग्विधान्य् अस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥

16.35

द्यौर् उन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर् मयूखैः
क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥

16.36

महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे
भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥

16.37

जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं लसत्तडिल्लोलविषानलानि
त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस् तत्पदवीं विवव्रे ॥

16.38

दिङ्नागहस्ताकृतिम् उद्वहद्भिर् भोगैः प्रशस्तासितरत्ननीलैः
रराज सर्पावलिर् उल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥

16.39

निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम्
गच्छन्न् इवास्तं वपुर् अभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ॥

16.40

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥

16.41

आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम्
वृतं नभो भोगिकुलैर् अवस्थां परोपरुद्धस्य पुरस्य भेजे ॥

16.42

तम् आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥

16.43

प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजाम् अपि लोचनानि
गरुत्मता संहतिभिर् विहायः क्षणप्रकाशाभिर् इवावतेने ॥

16.44

ततः सुपर्णव्रजपक्षजन्मा नानागतिर् मण्डलयञ् जवेन
जरत्तृणानीव वियन् निनाय वनस्पतीनां गहनानि वायुः ॥

16.45

मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम्
व्यूढैर् उरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥

16.46

दरीमुखैर् आसवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥

16.47

प्रवृत्तनक्तंदिवसंधिदीप्तैर् नभस्तलं गां च पिशङ्गयष्टिः
अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥

16.48

स भोगसंघः शमम् उग्रधाम्नां सैन्येन निन्ये विनतासुतानाम्
महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥

16.49

साफल्यम् अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम्
अनिन्धनस्य प्रसभं समन्युः समाददे ऽस्त्रं ज्वलनस्य जिष्णुः ॥

16.50

ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् ज्वालासटैर् लङ्घितमेघपङ्क्तिः
आयस्तसिंहाकृतिर् उत्पपात प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥

16.51

भित्त्वेव भाभिः सवितुर् मयूखाञ् जज्वाल विष्वग् विसृतस्फुलिङ्गः
विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥

16.52

चयान् इवाद्रीन् इव तुङ्गशृङ्गान् क्वचित् पुराणीव हिरण्मयानि
महावनानीव च किंशुकानाम् अत्तान वह्निः पवनानुवृत्त्या ॥

16.53

मुहुश् चलत्पल्लवलोहिनीभिर् उच्चैः शिखाभिः शिखिनो ऽवलीढाः
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥

16.54

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे
पिनाकिना हूतमहाम्बुवाहम् अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥

16.55

ततो धरित्रीधरतुल्यरोधसस् तडिल्लतालिङ्गितनीलमूर्तयः
अधोमुखाकाशसरिन्निपातिनीर् अपः प्रसक्तं मुमुचुः पयोमुचः ॥

16.56

पराहतध्वस्तशिखे शिखावतो वपुष्य् अधिक्षिप्तसमिद्धतेजसि
कृतास्पदास् तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥

16.57

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम्
व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं जलैर् वितेने दिवि धूमसंततिः ॥

16.58

स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः
असंस्थिताम् आदधिरे विभावसोर् विचित्रचीनांशुकचारुतां त्विषः ॥

16.59

जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः
प्रशान्तिम् एष्यन् धृतधूममण्डलो बभूव भूयान् इव तत्र पावकः ॥

16.60

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर् विभिन्नाः पयसां प्रपेदिरे
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥

16.61

उपैत्य् अनन्तद्युतिर् अप्य् असंशयं विभिन्नमूलो ऽनुदयाय संक्षयम्
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥

16.62

अथ विहितविधेयैर् आशु मुक्ता वितानैर् असितनगनितम्बश्यामभासां घनानाम्
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥

16.63

इति विविधम् उदासे सव्यसाची यद् अस्त्रं बहुसमरनयज्ञः सादयिष्यन्न् अरातिम्
विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः ॥

16.64

वीतप्रभावतनुर् अप्य् अतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम्
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर् वर्षिष्यता दिनकृतेव जलेषु लोकः ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc