भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 14

14.1

ततः किरातस्य वचोभिर् उद्धतैः पराहतः शैल इवार्णवाम्बुभिः
जहौ न धैर्यं कुपितो ऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥

14.2

सलेशम् उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥

14.3

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम्
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥

14.4

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये
नयन्ति तेष्व् अप्य् उपपन्ननैपुणा गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥

14.5

स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेर् अपरे विपश्चितः
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥

14.6

समस्य सम्पादयता गुणैर् इमां त्वया समारोपितभार भारतीम्
प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥

14.7

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम्
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यम् इवावभासते ॥

14.8

विरोधि सिद्धेर् इति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः
हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपो ऽनुजीविना ॥

14.9

ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः
न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्य् अपायं हि सताम् अतिक्रमः ॥

14.10

अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता
अनादृतस्यामरसायकेष्व् अपि स्थिता कथं शैलजनाशुगे धृतिः ॥

14.11

यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्य् अदोषेण तिरस्कृता वयम्
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव भाषते ॥

14.12

गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम्
द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर् विवृणोति वागसिः ॥

14.13

वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते
प्रहीयताम् अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥

14.14

न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा
जिघांसुर् अस्मान् निहतो मया मृगो व्रताभिरक्षा हि सताम् अलंक्रिया ॥

14.15

मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः
कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥

14.16

अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर् महताम् अकृत्रिमा
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥

14.17

अथो शरस् तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम्
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्व् अधिका चमूपतेः ॥

14.18

यद् आत्थ कामं भवता स याच्यताम् इति क्षमं नैतद् अनल्पचेतसाम्
कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥

14.19

अभूतम् आसज्य विरुद्धम् ईहितं बलाद् अलभ्यं तव लिप्सते नृपः
विजानतो ऽपि ह्य् अनयस्य रौद्रतां भवत्य् अपाये परिमोहिनी मतिः ॥

14.20

असिः शरा वर्म धनुश् च नोच्चकैर् विविच्य किं प्रार्थितम् ईश्वरेण ते
अथास्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥

14.21

सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस् तपस्यते
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ॥

14.22

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः
सहापकृष्टैर् महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥

14.23

परो ऽवजानाति यद् अज्ञताजडस् तद् उन्नतानां न विहन्ति धीरताम्
समानवीर्यान्वयपौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥

14.24

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥

14.25

मया मृगान् हन्तुर् अनेन हेतुना विरुद्धम् आक्षेपवचस् तितिक्षितम्
शरार्थम् एष्यत्य् अथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥

14.26

इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा
ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥

14.27

ततो ऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः
युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ॥

14.28

रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥

14.29

जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः
असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गाम् अवतस्तरे दिशः ॥

14.30

निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम्
वनेसदां हेतिषु भिन्नविग्रहैर् विपुस्फुरे रश्मिमतो मरीचिभिः ॥

14.31

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः
वितत्य पक्षद्वयम् आयतं बभौ विभुर् गुणानाम् उपरीव मध्यगः ॥

14.32

सुगेषु दुर्गेषु च तुल्यविक्रमैर् जवाद् अहंपूर्विकया यियासुभिः
गणैर् अविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ॥

14.33

तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम्
किरातसैन्यैर् अपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥

14.34

पृथूरुपर्यस्तबृहल्लताततिर् जवानिलाघूर्णितशालचन्दना
गणाधिपानां परितः प्रसारिणी वनान्य् अवाञ्चीव चकार संहतिः ॥

14.35

ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम्
परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ॥

14.36

अनादरोपात्तधृतैकसायकं जये ऽनुकूले सुहृदीव सस्पृहम्
शनैर् अपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥

14.37

निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि
अलङ्घनीयं प्रकृताव् अपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ॥

14.38

उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ॥

14.39

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा
वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ॥

14.40

महर्षभस्कन्धम् अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतो ऽर्णवाद् इव ॥

14.41

हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥

14.42

गुरुक्रियारम्भफलैर् अलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः
गणाः समासेदुर् अनीलवाजिनं तपात्यये तोयघना घना इव ॥

14.43

यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे
ययुः क्षणाद् अप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥

14.44

ततः प्रजह्रे समम् एव तत्र तैर् अपेक्षितान्योन्यबलोपपत्तिभिः
महोदयानाम् अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥

14.45

किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुर् उपात्तरंहसः
महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥

14.46

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैर् उन्नमितेन सानुषु
धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर् दिशः ॥

14.47

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा
महीयसी वृष्टिर् इवानिलेरिता रवं वितेने गणमार्गणावलिः ॥

14.48

त्रयीम् ऋतूनाम् अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः
रणाय जिष्णोर् विदुषेव सत्वरं घनत्वम् ईये शिथिलेन वर्मणा ॥

14.49

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुर् दुधूषतः
सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर् विनिपातशंसिनी ॥

14.50

दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेर् आकुलयन्न् इवानिलम्
मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥

14.51

विमुक्तम् आशंसितशत्रुनिर्जयैर् अनेकम् एकावसरं वनेचरैः
स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥

14.52

गतैः परेषाम् अविभावनीयतां निवारयद्भिर् विपदं विदूरगैः
भृशं बभूवोपचितो बृहत्फलैः शरैर् उपायैर् इव पाण्डुनन्दनः ॥

14.53

दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः
सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे ॥

14.54

गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैर् अपि
जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैर् इव तस्य पत्त्रिभिः ॥

14.55

द्विषां क्षतीर् याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे
न तासु पेते विशिखैः पुनर् मुनेर् अरुंतुदत्वं महतां ह्य् अगोचरः ॥

14.56

समुज्झिता यावदराति निर्यती सहैव चापान् मुनिबाणसंहतिः
प्रभा हिमांशोर् इव पङ्कजावलिं निनाय संकोचम् उमापतेश् चमूम् ॥

14.57

अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम्
प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ॥

14.58

शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम्
तम् एकदेशस्थम् अनेकदेशगा निदध्युर् अर्कं युगपत् प्रजा इव ॥

14.59

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता
विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥

14.60

तपोबलेनैष विधाय भूयसीस् तनूर् अदृश्याः स्विद् इषून् निरस्यति
अमुष्य मायाविहतं निहन्ति नः प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥

14.61

हृता गुणैर् अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः
कथं न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेर् इवोर्मयः ॥

14.62

जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा
तताप कीर्णा नृपसूनुमार्गणैर् इति प्रतर्काकुलिता पताकिनी ॥

14.63

अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः
बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥

14.64

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः
रविकरग्लपितैर् इव वारिभिः शिवबलैः परिमण्डलता दधे ॥

14.65

प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ
कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc