भाषा

ENहिગુ
ग्रंथ पाठ

काव्यप्रकाश (टीका सहित) · अध्याय 5

5.1

एवम् अनेन प्रकारेण, अवान्तरभेदगणने ऽतिप्रभूततरा गणना ।
तथाहि--शृङ्गारस्यैव भेदप्रभेदसणनायामानन्त्यम् ।
का गणना तु सर्वैषाम् ।
संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः ।
व्यह्ग्यस्य त्रिरूपत्वात् ।
तथाहि--किंचिद्वाच्यतां सहते किंचिच्वन्यथा ।
तत्र वाच्यतासहमविचित्रं विचित्रं चेति ।
अविचित्रं वस्तुमात्रम् विचित्रं त्वलंकाररुपम् ।
यद्यपि प्रादान्येन तदलंकार्यम् तथापि ब्राह्नणश्रमणन्यायेन तथोच्यते ।
रसादिलक्षणस्त्वर्थः स्वप्ने ऽपि न वाच्यः ।
स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत ।
न चाभिधीयते ।
तत्प्रयोगे ऽपि विबावाद्याप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगे ऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्वेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते, इति निश्वीयते तेनासौ व्यह्ग्य एव ।
मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः ।
अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम् ।
शब्दशक्तिमूले तु, अभिधाया नियन्त्रणेननानभिधेयस्यार्थान्तरस्य तेन सहोपमादेरलंकारस्य च निर्विवादं व्यङ्ग्यत्वम् ।
अर्थशक्तिमूले ऽपि वेशेषे संकेतः कर्तुं न युज्यते, इति सामान्यरूपाणां पदार्थानामाकाङ्क्षासंनिधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थो ऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्याभिधेयतायाम् ।
ये ऽप्याहुः "शब्दबृद्धाभिधेयांश्व प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्व प्रतिपन्नत्वमनुमानेन चेष्टया

5.2

अन्यथानुपपच्या तु बोधेच्छक्तिं दुयात्मिकाम् ।
अर्थापच्यावबोधेत संबन्धं त्रिप्रमाणकम्

5.5

इति प्रतिपादितदिशा "देवदत्त गामानयऽ; इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सतिऽ; अनेनास्माद्वाक्यादेवंविधो ऽर्थः प्रतिपन्नःऽ; इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापच्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते ।
परतः "चैत्र गामानय देवदत्त, अश्वमानय देवदत्त गां नयऽ; इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति, अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानापन्वितैः पदार्थेरन्वितानामेव संकेतो गृह्यते, इति विशिष्टा एव पदार्था वाक्यार्थः ।
न तु पदार्थानां वैशिष्ट्यम् ।
यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येनैतानि पदानि निश्वीयन्ते, इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः ।
तेषामपि मते सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतो ऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे, अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्वर्चा ।
अनन्वितो ऽर्थो ऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने, अन्वितविशेषस्त्ववाच्य एव इत्युभयनये ऽप्यपदार्थ एव वाक्यार्थः ।
यदप्युच्यते "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्तेऽ; इति ।
तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य प्रकाशकत्वान्न कारकत्वम् ।
ज्ञापकत्वं तु-अज्ञातस्य कथम् ज्ञातत्वं च संकेतेनैव स चान्वितमात्रे ।
एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्वितम् तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्तेऽ; इत्यविचारिताभिधानम् ।
ये त्वभिदधति "सो ऽयमिषोरिव दीर्घदीर्घतरो व्यापारःऽ; इति "यत्परः शब्दः स शब्दार्थःऽ; इति च विधिरेवात्र वाच्य इति ।
ते ऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रियाः ।
तथाहि "भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यतेऽ; इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्नुवन्ति ।
ततश्वादग्धदहनन्यायेन यावदप्राप्तं तावदप्राप्तं तावद्विधीयते ।
यथा-ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे "लोहितोष्णीषा ऋत्विजः प्रचरन्ति" इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम् ।
हवनस्यान्यतः सिद्धेः "दध्ना जुहोति" इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥
क्वचिदुभयविधिः ।
क्वचित्त्रिविधिरपि ।
यथा-"रक्तं पटं वयःऽ; इत्यादौ, एकविधिर्द्विविधिस्त्रिविधिर्वा ततश्व "यदेव विधेयं तत्रैव तात्पर्यम्ऽ; इत्युपात्तस्यैव शब्दस्यार्थे तात्पर्यं न तु प्रतीतमात्रे ।
एवं हि "पूर्वो धावतिऽ; इत्यादावपराद्यर्थे ऽपि क्वचित्तात्पर्यंस्यात् ।
यत्तु "विषं भक्षय मा चास्य गृहे भुङ्क्थाःऽ; इत्यत्र "एतद्गृहे न भोक्तव्यम्ऽ; इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः, न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता सल्प नीयेति "विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाःऽ; इति, उपात्तशब्दार्थे, एव तात्पर्यम् ।
यदि चशब्दश्रुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः, ततः कथं "ब्राह्नण पुत्रस्ते जातः, ब्राह्नण कन्या ते गर्भिणीऽ; इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् कस्माच्च लक्षणा लक्षणीये ऽप्यर्थे दीर्घदीर्घतराभिधाव्यापारेणैव प्रतीतिसिद्धेः ।
किमितिच श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादे ऽपि विधेरपि सिद्धं व्यङ्ग्चत्वम् ।
किं च "कुरु रुचिम्ऽ; इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् ।
न ह्नत्रासभ्यो ऽर्थः पदार्थान्तरैरन्वितः, इत्यनभिधेय एवेति, एवमादि, अपरित्याज्यं स्यात् ।
यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं सष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् ।
न चानुपपन्नम् सर्वस्यैव विभक्ततया प्रतिभासात् ।
वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ।
"द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
ऽ; इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ।
अपि च वाच्यो ऽर्थः सर्वान प्रतिपत्त्ट्टन् प्रति, एकरूप एवेति नियतो ऽसौ ।
न हि "गतो ऽस्तमर्कःऽइत्यादौ वाच्यो ऽर्थः क्वचिदन्यथा भवति ।
प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते ।
तथा च "गतो ऽस्तमर्कःऽ; इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति, अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामहे, इति सांध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति संतापो ऽदुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतो ऽद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्ये ऽर्थः, तत्र तत्र प्रतिभाति ।
वाच्यव्यङ्ग्ययोः निःशेषेत्यादौ निषेधविध्यात्मना, "मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ 133" ॥
इत्यादौ संशयशान्तशङ्गार्यन्तरगतनिश्वयरूपेण, "कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूध्ना विद्विषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ 134" ॥
इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पूर्वपश्वाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाशयत्वेन च, आश्रयस्य शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्व करणात् कार्यस्य गतो ऽस्तमर्क इत्यादौ प्रदर्शितनयेन संख्यायाः, "कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरं ।
सभमरपडमग्घाइणि वारिअवामे सहसु एण्हिं ॥ 135" ॥
इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदे ऽपि यद्येकत्वम् तत् क्वचिदपि नीलपीतादौ भेदो न स्यात् ।
उक्तं हि "अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्व" इति ।
वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम् ।

किं च वाणीरकुडंग्वित्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूपे, एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्ग्ये ऽतात्पर्यभूतो ऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति ।
ननु "रामो ऽस्मि सर्वं सहेऽ; इति "रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्ऽ; इति "रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्ऽ; इत्यादौ लक्षणीयो ऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्व भवति तदवगमश्व शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्वेति को ऽयं नूतनः प्रतीयमानो नाम ।
उच्यते--लक्षणीयस्यार्थस्य नानात्वे ऽपि, अनेकार्थशब्दाभिधेयवन्नियतत्वमेव ।
न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते ।
प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियतसंबन्धः, अनियतसंबन्धः संबद्धसंबन्धस्व द्योत्यते ।
न च "अत्ता एत्थ णिमञ्जै एत्थ अहं दिअहए पलोएहि ।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥ 136" ॥
इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः ।
तत्कथमत्र लक्षणा ।
लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् ।
यथा च समयसव्यपेक्षा, अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा, अत एवाभिधापुच्छभूता सेत्याहुः ।
न च लक्षणात्मकमेव ध्वननम् तदनुगमेन तस्य दर्शनात् ।
न च तदनुगतमेव, अभिधावलम्बनेनापि तस्य भावात् ।
न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः, न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेरिति, अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारो ऽनपह्नवनीय एव ।
तत्र "अत्ता, एत्थ" इत्यादौ नियतसंबन्धः "कस्स व ण होइ रोसो" इत्यादौ, अनियतसंबन्धः ।
"विपरीअरए लच्छी बम्हं दट्ठूण णाहिकमलठ्ठं ।
हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ॥ 137" ॥
इत्यादौ संबद्धसंबन्धः ।
अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते तन्निमीलनेन सूर्यास्तमयः, तेन पझस्य संकोचः, ततो ब्रह्नणः स्थगमन् तत्र सति गोप्याङ्गस्यादर्शनेन, अनिर्यन्त्रणं निधुवनविलसितमिति ।
"अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः, वाक्यमेव च वाचकम्ऽ; इति ये ऽप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षे ऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव ।
ननु वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्वित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् ।
एवं च संबन्धात् व्यङ्ग्यव्यञ्जकभावो ऽप्रतिबन्धे ऽवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिह्गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति ।
तथाहि-- "भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण ।
गोलाणैकच्छकुडंगवासिणा दरिअसीहेण ॥ 138" ॥
अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति ।
यत् यत् भीरुभ्रमणं तत्तद्भयकारणनिवृच्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।
अत्रोच्यते--भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण, अन्येन चैवंभूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः शुनो बिभ्यदपि वीरत्वेन सिंहान्न बिभेतीति विरुद्धो ऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्वितः, अपि तु वचनात् न चवचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धश्व तत्कथमेवंविधाद्धेतोः साध्यसिद्धिः ।
तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतो ऽपि भवन्ति, अतश्वात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे, एव प्रतिबद्धानीत्यनैकान्तिकानि ।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् ।
न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम् ।
एवंविधादर्थादेवंविधो ऽर्थ उपपच्यनपेक्षत्वे ऽपि प्रकाशते, इति व्यक्तिवादिनः पुनस्तत् अदूषणम् ॥
इति काव्यप्रकाशे धवनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः

5.48

॥ अथ षष्ठ उल्लासः ॥
(सू- 70)
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्वित्रार्थशब्दयोः

5.139

न तु शब्दचित्रे ऽर्थस्याचित्रत्वम् अर्थचित्रे वा शब्दस्य ।
तथा चोक्तम् "रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकादिमलंकारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥
तदेतदाहुः सौशब्द्यं नार्थन्युत्पत्तिरीदृशी ।
शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः" ॥
इति ॥
शब्दचित्रं यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः

5.140

अर्थचित्रं यथा ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्व ।
नीयाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति

5.6

यद्यपि सर्वत्र काव्ये ऽन्ततः, विभावादिरूपतयैव पर्यवसानम् तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम् ।
अत्र च शब्दार्थालंकारभेदाद्बहवो भेदाः, ते चालंकारनिर्णये निर्णेष्यन्ते ॥
इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः

5.49

॥ अथ सप्तम उल्लासः ॥
काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह (सू- 71)
मुश्यार्थहतिर्देषो रसश्व मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः

5.50

हतीरपकर्षः ।
शब्दाद्याः, इत्याद्यग्रहणाद्वर्णरचने ।
विशेषलक्षणमाह (सू- 72)
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्र युक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम्

5.51

संदिग्धमप्रतीतं ग्राम्यं नोयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्वमतिकृत्समासगतमेव

5.141

(1) "श्रुतिकटुऽ; परुषवर्णरूपं दुष्टं यथा अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा

5.142

अत्र कार्तार्थ्यमिति ॥
(2) "च्युतसंस्कृतिऽ; व्याकरणलक्षणहीनं यथा एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः

5.143

अत्रानुनाथते, इति ।
"सर्पिषो नाथतेऽ; इत्यादाविवाशिष्येव नाथतेरात्मनेपदं विहितम् "आशिषि नाथः" इति ।
अत्र तु याचनमर्थः ।
तस्मात् "अनुनाथति स्तनयुगम्ऽ; इति पठनीयम् ।
(3) "अप्रयुक्तंऽ; तथा, आम्नातमपि कविभिर्नादृतम् ।
यथा यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतो ऽस्य पिशाचो राक्षसो ऽथ वा

5.144

अत्र दैवतशब्दो "दैवतानि पुंसि वाऽ; इति पुंस्याम्नातो ऽपि न केनचित्प्रयुज्यते ।
(4) "असमर्थंऽ; यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः ।
यथा तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः ।
सुनस्रोतस्विनीमेष हन्ति संप्रति सादरम्

5.145

अत्र हन्तीति गमनार्थम् ॥
(5) "निहतार्थंऽ; यदुभयार्थमप्रसिद्धे ऽर्थे प्रयुक्तम् ।
यथा यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन ।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा

5.146

अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोञ्ज्वलीकृतत्वरूपो ऽर्थो व्यवधीयते ।
(6) "अनुचितार्थंऽ; यथा तपस्विभिर्या सुचिरेण लब्यते प्रयत्नतः सत्त्रिभिरिष्यते च या ।
प्रयान्ति तामाशु गतिं यशस्विनो रणास्वमेधे पशुतामुपागताः

5.147

अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् ॥
(7) "निरर्थकंऽ; पादपुरणमात्रप्रयोजनं चादिपदम् ।
यथा उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन

5.148

अत्र हिशब्दः ॥
(8) "अवाचकंऽ; यथा अवन्धयकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः

5.149

अत्र जन्तुपदमदातर्यर्थे विवक्षितम् तत्र च नाभिधायकम् ।
यथा वा हाधिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् ।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोको ऽधुना

5.150

अत्र दिनमिति प्रकाशमयमित्यर्थे ऽवाचकम् ।
यच्चोपसर्गसंसर्गादर्थान्तरगतम् ।
यथा जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः

5.151

अत्र दधदित्यर्थे विदधदिति ॥
(9) "अश्लीलम्ऽ; त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् ।
यथा साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः को ऽन्यः सहेतारालितां भ्रुवम्

5.152

(1) लीलातामरसाहतो ऽन्यवनितानिःशह्कदष्टाधरः कश्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता

5.153

(2) मृदुपवनविभिन्नो मत्प्रियाया निनाशात् घनरुचिरकलापो निःसपत्नो ऽद्य जातः ।
रतिविगलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बर्ही

5.154

(3) एषु साधनवायुविनाशशब्दाः, व्रीडादिव्यञ्जकाः ॥
(10) "संदिग्धंऽ; यथा आलिङ्गितस्तत्रभवान् संपराये जयश्रिया ।
आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु

5.155

अत्र वन्द्यां किं हठहृतमहिलायाम् किं वा नमस्यामिति संदेहः ॥
(11) "अप्रतीतंऽ; यत्केवले शास्त्रे प्रसिद्धम् ।
यथा सम्यग्ज्ञानमाहाज्योतिर्दलिताशयताजुषः ।
विधीयमानमप्येतन्न भवेत्कर्म बन्धनम्

5.156

अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः ॥
(12) "ग्राम्यंऽ; यत्केवले लोके स्थितम् ।
यथा राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभा कटिश्व हरते मनः

5.157

अत्र कटिरिति ॥
(13) "नेयार्थंऽ; "निरूढा लक्षणाः काश्वित् सामर्थ्यादभिधानवत् ।
क्रियन्ते सांप्रतं काश्वित् काश्विन्नैव त्वशक्तितः" ॥
इति यन्निषिद्धं लाक्षणिकम् ।
यथा शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम् ।
करोति ते मुखं तन्वि चपेटापातनातिथिम्

5.158

अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते ॥
अथ समासगतमेव दुष्टमिति संबन्धः, अन्यत् केवलं समासगतं च ॥
(14) "क्लिष्टंऽ; यतः, अर्थप्रतिपत्तिर्व्यवहिता ।
यथा अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः ।
सदृशं शोभते ऽत्यर्थं भूपाल तव चेष्टितम्

5.159

अत्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्घमेन भासिभिः कुमुदैरित्यर्थः ॥
(15) "अविमृष्टविधेयांशंऽ; अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् ।
यथा मूर्ध्नमुद्वृत्तकृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा- धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासौल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमतत् फलमिह नगरीरक्षणे यत् प्रयासः

5.160

अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम् ।
यथा वा स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य

5.161

अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् ।
मौर्वीं द्वितीयामिति युक्तः पाठः ।
यथा वा वपुर्विरूपाक्षणलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने

5.162

अत्र "अलक्षिता जनिःऽ; इति वाच्यम् ।
यथा वा आनन्दसिन्धुरतिचापलशालिचित्तसंदाननैकसदनं क्षणमप्यमुक्ता ।
या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति धिग्धिगस्मान्

5.163

अत्र "न मुक्ताऽ; इति निषेधो विधेयः ।
यथा नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी

5.164

इत्यत्र ।
न त्वमुक्ततानुवादेनान्यदत्र किंचिद्विहितम् ।
यथा जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत्

5.165

इत्यत्र, अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि ॥
(16) "विरुद्धमतिकृत्ऽ; यथा सुधाकरकराकारविशारदविचेष्टितः ।
अकार्यमित्रमेको ऽसौ तस्य किं वर्णयामहे

5.166

अत्र "कार्ंय विना मित्रम्ऽ; इति विवक्षितम् "अकार्ये मित्रम् इतिऽ; तु प्रतीतिः ।
यथा वा चिरकालपरिप्राप्तलोचनानन्ददायिनः ।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम्

5.167

अत्र "कण्ठग्रहम्ऽ; इति वाच्यम् ।
यथा वा न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनः तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः ।
तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियो ऽहमथ वा शिष्यः कथं विस्मृतः

5.168

अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति यथा वा गोरपि यद्वाहनतां प्राप्तवतः सो ऽपि गिरिसुतासिंहः ।
सविधे निरहंकारः पायाद्वः सो ऽम्बिकारमणः

5.169

अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति ॥
"श्रुतिकटुऽ; समासगतं यथा सा दूरे च सुधासान्द्रतरङ्गितविलोचना ।
बर्हिनिर्ह्रादनार्हे ऽयं कालश्व समुपागतः

5.52

एवमन्यदपि ज्ञेयम् ॥
(सू- 47)
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषा सन्त्येते पदस्यांशे ऽपि केचन

5.170

केचन न पुनः सर्वे ।
क्रमेणोदाहरणम् सो ऽध्यैष्ट वेदांस्त्रिदशानयष्ट पित्ट्टनतार्प्सीत्सममंस्त बन्धून् ।
व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्व

5.171

स रातु वो दुश्व्यवनो भावुकानां परंपराम् ।
अनेडमूकताद्यैश्व द्यतु दोषैरसंमतान्

5.172

अत्र दुश्व्यवन इन्द्रः, अनेडमूको मूकबधिरः ॥
सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः ।
अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः

5.173

अत्र सायकादयः शब्दाः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धाः ॥
कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो ।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह

5.174

अत्र कुविन्दादिशब्दो ऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्युनुचितार्थः ।
प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् ।
निद्रां सहस्रपर्णानां पलायनपरायणाम्

5.175

अत्र प्राभ्रभ्राड्विष्णुधामविषमाश्वनिद्रापर्णशब्दाः प्रकृष्टजलदगगनसप्ताश्वसंकोचदलानामवाचकाः ॥
भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहरणोत्साहवती मोहनमादधौ

5.176

अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः ।
ते ऽन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्चते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम्

5.177

अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम्

5.178

अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ॥
सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः ।
मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम्

5.179

अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः, इति संदेहः ॥
तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।
दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे

5.180

अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः ॥
ताम्बूलभृतगल्लो ऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा

5.181

अत्र गल्लादयः शब्दाः ग्राम्याः ॥
वस्त्रवैदूर्यचरणैः क्षतसच्वरजःपरा ।
निष्कम्पा रचिता नेत्रयुद्धं वेदय सांप्रतम्

5.182

अत्राम्बाररत्नपादैः क्षततमा, अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता ॥
धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्

5.183

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् ॥
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहौ रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः

5.184

अत्र "अयमेव न्यक्कारःऽ; इति वाच्यम् ।
उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम् ।
अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य ।
यथा वा अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् ।
विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति यो ऽसौ सुभगे तवागतः

5.185

अत्र यो ऽसाविति पदद्वयमनुवाद्यमोत्रप्रतीतिकृत् ।
तथाहि--प्रक्रान्तप्रसिद्धानुभूतार्थविष्यस्तच्छब्दो यच्छब्दोपादानं नापेक्षते ।
क्रमेणोदाहरणम् ।
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताम्यामुभाब्यामन्वियेष सः

5.186

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी

5.187

उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि

5.188

यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते ।
यथा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः

5.189

प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः ।
यथा अत्रैव श्लोके, आद्यपादयोर्व्यतयासे ।
द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् ।
अनुपादाने ऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते ।
यथा ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते ऽस्ति मम को ऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी

5.190

अत्र य उत्पत्स्यते तं प्रतीति ।
एवं च तच्छब्दानुपादाने ऽत्र साकाङ्क्षत्वम् ।
न चासाविति तच्छब्दार्थमाह ।
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः

5.191

अत्र हि न तच्छब्दार्थप्रतीतिः ।
प्रतीतौ वा करकालकरालदोःसहायो युधि यो ऽसौ विजयार्जुनैकमल्लः ।
यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात्

5.192

अत्र स इत्यस्यानर्थक्यं स्यात् ।
अथ यो ऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
आत्मपक्षरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्

5.193

इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते, इति, उच्यते ।
तर्ह्यत्रेव वाक्यान्तरे, उपादानमर्हति न तत्रैव ।
यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति ।
यथा यत्तदूर्जितमत्युग्रं क्षात्रं तेजो ऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम्

5.194

इत्यत्र तच्छब्दः ।
ननु कथम् कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय

5.195

अत्र यद्यदित्युक्त्वा तन्मे, इत्युक्तम् ।
उच्यते--यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् तथाभूतमेव तच्छब्देन परामृश्यते ।
यथा वा किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजो ऽसौ गुरुर्- माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम्

5.196

अत्रार्यस्येति तातस्येति च वाच्यम् न त्वनयोः समासे गुणीभावः कार्यः ।
एवं समासान्तरे ऽप्युदाहार्यम् ॥
विरुद्धमतिकृद्यथा श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः ।
विग्रहक्षपणेनाद्य शेरते ते गतासुखाः

5.197

अत्र क्षणादिगुणयुक्ताः सुखमासते, इति विवक्षिते हता इति विरुद्धा प्रतीतिः ॥
पदैकदेशे यथासंभवं क्रमेणोदाहरणम् अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात्संगमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तच्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा

5.198

अत्र त्वादिति ।
यथा वा तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थो ऽयमर्थान्तरलभ्य एव ।
अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः

5.199

अत्र द्ध्यै ब्ध्यै, इति कटु ॥
यश्वाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभार्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्

5.200

अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः ॥
आदावञ्जनपुज्जलिप्तवपुषां श्वासानिल्लोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा

5.201

अत्र दृशामिति बहुवचनं निरर्थकम् ।
कुरङ्गेक्षणाया एकस्या एवोपादानात् ।
न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम् व्यापाराणामनुपात्तत्वात् ।
न च व्यापारे ऽत्र दृक्शब्दो वर्तते ।
अत्रैव "कुरुतेऽ; इत्यात्मनेपदमप्यनर्थकम् ।
प्रधानक्रियाफलस्य कर्त्रसंबन्धे कर्तरभिप्रायक्रियाफलाभावात् ॥
चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः

5.202

अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः ।
परमार्थतः सहृदयं वहति पुनः कालकूटघटितमिव

5.203

अत्र पेलवशब्दः ॥
यः पूयते सुरसरिन्मुखतीर्थसार्थस्नानेन शास्त्रपरिशीलनकीलनेन ।
सौजन्यमान्यजनिरूर्जितमूर्जितानां सो ऽयं दृशोः पतति कस्यचिदेव पुंसः

5.204

अत्र पूयशब्दः ॥
विनयप्रणयैककेतनं सततं यो ऽभवदङ्ग तादृशः ।
कथमद्य स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः

5.205

अथ प्रेतशब्दः ॥
कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह

5.206

अत्र किं पूर्वं साधुः, उत साधुषु चरतीति संदेहः ॥
किमुच्यते ऽस्य भूपालमौलिमालामहामणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते

5.53

अत्र वचःशब्देन गीःशब्दो लक्ष्यते ।
अत्र खलु न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते ।
जलध्यादावुत्तरपदेमेव वडवानलादौ पूर्वपदमेव ॥
यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः, तथाप्यन्यैरालंकारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः ॥
(सू- 75)
प्रतिकूलवक्तुंपहतलुप्तावेसर्गं विसंधि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम्

5.54

अर्धान्तरैकवाचकम भवन्मतयोगमनबिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम्

5.207

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
(1) रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं प्रतीकूलवर्णम् ।
यथा शृङ्गारे अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर

5.208

रौर्दे यथा देशः सो ऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्र्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः

5.209

अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् ।
यथा प्रागप्राप्तनिशुम्भशांभवधनुर्द्वेधाविधानिर्भवत्- क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात् ।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते

5.210

यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥
(2) उपहत उत्वं प्राप्तो (3) लुप्तो वा विसर्गो यत्र तत् ।
यथा धीरो विनीतो निपुणो वराकारो नृपो ऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः

5.211

(4) विसंधि संधेर्वैरूप्यम् विश्लेषो ऽश्लीलत्वं कष्टत्वं च ।
तत्राद्यं यथा राजन्विभान्ति भवतश्वरितानि तानि इन्दोर्द्युतिं दधति यानि रसातले ऽन्तः ।
धीयोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः

5.212

यथा वा तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ॥
निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः

5.213

संहितां न करोमीते स्वेच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत् ॥
वेगादुड्डीय गगने चलण्डामरचेष्टितः ।
अयमुत्तपते पत्त्री ततो ऽत्रैव रुचिङ्कुरु

5.214

अत्र संधावश्लीलता ॥
उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्

5.215

(4) हतं लक्षणानुसरणे ऽप्यश्रव्यम् अप्राप्तगुरुभावान्तलधु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् ।
क्रमेणोदाहरणम्-- अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तराविज्जनो वदतु यदुहान्यत्स्वादु स्यात्प्रियादशनच्छदात्

5.216

अत्र "यदिहान्यत्स्वादु स्यात्ऽ; इत्य श्रव्यम् ।
यथा वा जं परिहरिउं तीरै मणअं पि ण सुन्दरत्तणगुणेण ।
अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो

5.217

अत्र द्वितीयतृतीयगणौ सकारभकारौ ।
विकसिदसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः

5.218

अत्र हारिशब्दः ।
हारिप्रमुदितसौरभेति पाठो युक्तः ।
यथा वा अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां च

5.219

अत्र "वस्त्राण्यपिऽ; इति पाठे लघुरपि गुरुतां भजते ॥
हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते

5.220

हास्यरसव्यञ्जकमेतद्वृत्तम् (6) न्यूनपदं यथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु

5.221

अत्रास्माभिरिति "खिन्ने" इत्यस्मात्पूर्वमित्थमिति च ॥
(7) अधिकं यथा स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतच्वः ।
अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स को ऽपि

5.222

अत्र, आकुतिशब्दः ।
यथा वा इदमनुचितमक्रमश्व पुंसां यदिह जरास्वपि मान्मथा विकाराः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा

5.223

अत्र कृतमिति ।
कृतं प्रत्युत प्रक्रमभङ्गमावहति ।
तथा च "यदपि च न कुरङ्गलोचनानाम्ऽ; इति पाठे निराकाङ्क्षैव प्रतीतिः ॥
(8) कथितपदं यथा अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्

5.224

अत्र लीलेति ॥
(9) पतत्प्रकर्षं यथा कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते

5.225

(10) समाप्तपुनरात्तं यथा क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः ।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण- क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः

5.226

(11) द्वितीयार्धगतैकवाचकशेषप्रथमार्ंध यथा मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः ।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च

5.227

(12) अभवन् मतः (इष्टः) योगः (संबन्धः) यत्र तत् ।
यथा येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिर्- लीलापानभुवश्व नन्दनवनच्छायासु यैः कल्पिताः ।
येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोष्कारि विहितं किंचित्प्रवादोचितम्

5.228

अत्र "गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्" इत्युक्तनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेषस्याप्रतीतिरिति ।
"क्षपाचारिभिःऽ; इति पाठे युज्यते समन्वयः ।
यथा वा त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम् अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया

5.229

अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति ।
"चेत्स्यात्ऽ; इति युक्तः पाठः ।
यथा वा संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्

5.230

अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम् ।
न च यच्छब्दार्थस्ताद्विशेषणं वा कोदण्डादि ।
न च केन केनेत्यादि प्रश्नः ।
यथा वा "चापाचार्यस्त्रिपुरविजयी-"

5.231

इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् ।
कृतवतेति परशौ सा प्रतीयते ।
"कृतवतःऽ; इति तु पाठे मतयोगो भवति ।
यथा वा चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजयन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः

5.232

अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सवैः संयुज्यते ।
यथा वा जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः

5.233

अत्र दण्डपादगता निजतनुः प्रतीयते भवान्याः संबन्धिनी तु विवक्षिता ॥
(13) अवश्यवक्तव्यमनुक्तं यत्र ।
यथा अप्राकृतस्य चरितातिशयैश्व दृष्टैरत्यद्भुतैरपहृतस्य तथापि नास्था ।
को ऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः

5.234

अत्र "अपहृतो ऽस्मिऽ; इत्यपहृतत्वस्य विधिर्वाच्यः, तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः ।
यता वा एषो ऽहमद्रितनयामुखपझजन्मा प्राप्तः सुरासुरमनोरथदूरबतीं ।
स्वप्ने ऽनिरुद्धघटनाधिगताभिरूपलक्ष्भीफलामसुरराजसुतां विधाय

5.235

अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः ।
यथा वा त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्भुखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः

5.236

अत्र "अपराधस्य लवमपिऽ; इति वाच्यम् ॥
(14) अस्थानस्थपदं यथा प्रियेण संग्रथ्य विपक्षसंनिधानुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु

5.237

अत्र "काचिन्न विजहौऽ; इति वाच्यम् ।
यथा वा लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् ।
पार्वत्या नखलक्ष्मशह्कितसखीनर्मस्मितह्रीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः

5.238

अत्र नखलक्ष्मेत्यतः पूर्वं "कुटिलताम्र-" इति वाच्यम् ॥
(15) अस्थानस्थसमासं यथा अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी

5.239

अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥
(16) संकीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति ।
यथा किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् ।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम्

5.240

अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पस्यसि, इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति ।
एकवाक्यतायां तु क्लिष्टमिति भेदः ॥
(17) गार्भितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति ।
यथा परापकारनिरतैर्दुर्जनैः सह संगतिः ।
वदामि भवतस्तच्वं न विधेया कदाचन

5.241

अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः ।
यथा वा लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किंचिद्गणयति विदितं ते ऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः

5.242

अत्र "विदितं ते ऽस्तुऽ; इति एतत्कृतम् ।
प्रत्युत लक्ष्मीस्ततो ऽपसरतीति विरुद्धमतिकृत् ॥
(18) "मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितभणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ॥
इति प्रसिद्धिमतिक्रान्तम् ।
यथा महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः ।
रवःश्रवणभैरवः स्थगितरोदसीकन्दरः कुतो ऽद्य समरोदधेरयमभूतपूर्वः पुरः

5.243

अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे ॥
(19) भग्नः प्रक्रमः प्रस्तावः, यत्र ।
यथा नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति

5.244

अत्र "गतेऽ; इति प्रक्रान्ते "याताऽ; इति प्रकृतेः ।
"गता निशापिऽ; इति तु युक्तम् ।
ननु "नैकं पदं द्विः प्रयोज्यं प्रायेणऽ; इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् ।
तत्कथमेकस्य पदस्य द्विःप्रयोगः, ।
उच्यते ।
उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः ।
तथाहि--उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता

5.245

अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थो ऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति ॥
यथा वा यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः

5.246

अत्र प्रत्ययस्य ।
"सुखमीहितुं वाऽ; इति युक्तः पाठः ।
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः

5.247

अत्र सर्वनाम्नः ।
"अनेन विसृष्टाःऽ; इति तु वाच्यम् ।
महीभृतः पुत्रवतो ऽपि दृष्टिस्तस्मिन्नपबत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा

5.248

अत्र पर्यायस्य ।
"महीभृतो ऽपत्यवतो ऽपिऽ; इति युक्तम् ।
"अत्र सत्यपि पुत्रे कन्यारूपे ऽप्यपत्ये स्नेहो ऽभूत्ऽ; इति केचित्समर्थयन्ते ।
विपदो ऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः

5.249

अत्रोपसर्गस्य पर्ययस्य च ।
"तदभिभवः कुरुते निरायतिम् ।
लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः ॥
ऽ; इति युक्तम् ।
काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मी- रश्रीकाः काश्विदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसच्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसः

5.250

अत्र वचनस्य ।
"काश्वित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेनदुशोभा निःश्रीकाःऽ; इति "कम्पमानाःऽ; इत्यत्र "कम्पमापुःऽ; इति च पठनीयम् ।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम् ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विक्षान्तिं लभतामिदं च शिथिलझ्याबन्धमस्मद्धनुः

5.251

अत्र कारकस्य ।
" विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्ऽ; इत्यदुष्टम् ।
अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति ।
अमिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च

5.252

अत्र क्रमस्य ।
पादोपसंग्रहणायेति पूर्वं वाच्यम् ।
एवमन्यदप्यनुसर्तव्यम् ॥
(20) अविद्यमानः क्रमो यत्र ।
यथा द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः तव्मस्य लोकस्य च नेत्रकौमुदू

5.253

अत्र त्वंशब्दानन्तरं चकारो युक्तः ।
यथा वा शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ दोषाकरश्री- र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खह्गयष्टिः ।
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्

5.254

अत्र "इत्थं प्रोच्येवऽ; इति न्याय्यम् ।
तथा "लग्नं रागावृताह्ग्या- ॥
ऽ; 253 (क) ॥
इत्यादौ "इति श्रीनियोगात्ऽ; इति वाच्यम् ॥
(21) अमतः प्रकृतविरुद्धः परार्थो यत्र ।
यथा राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा

5.55

अत्र प्रकृते रसे वलिरुद्धस्य शृङ्गारस्य व्यज्जको ऽपरो ऽर्थः ।
अर्थदोषानाह (सू- 76)
अर्थो ऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः

5.56

संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्व ।
अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः

5.57

साकाह्क्षो ऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्वः ।
विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतो ऽश्लीलः

5.255

दुष्ट इति संबध्यते ।
क्रमेणोदाहरणम्-- (1) अतिविततगगनसरणिप्रसरणपरिमुक्तविक्षमानन्दः ।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति

5.256

अत्रातिविततत्वादयो ऽनुपादाने ऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः, न त्वसंगताः पुनरुक्ता वा ॥
(2) सदा मध्ये यासामियममृतनिस्यन्दसुरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् ।
प्रसादं ता एता घनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः

5.257

अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः, गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रसन्ना भवन्तु ।
यासामादित्यप्रभाणां मध्ये त्रिपथगा वहतिताः, मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥
(3) जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः

5.258

अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम् ॥
(4) कृतमनुमतमित्यादि

5.259

अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः ।
यथा वा अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थिते ऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
कर्णालं कंभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः

5.260

अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥
(5) भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव ।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम्

5.261

अत्र मातह्गस्य प्राङ्निर्देशो युक्तः ।
(6) स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते ।
तदयि सांप्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम्

5.262

एषो ऽविदग्धः ॥
(7) मात्सर्यमुत्सार्येत्यादि

5.263

अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्वयः ॥
(8) गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्विन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते

5.264

अत्र शस्त्रमोचने हेतुर्नोपात्तः ॥
(9) इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् ।
इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम्

5.265

अत्र कामस्य चक्र लोके ऽप्रसिद्धम् ।
यथा वा (9 अ) उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवाद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः

5.266

अत्र पादाघातेनाशोकस्य पुष्पोद्घमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः ।
(सुसितवसनालंकारायां कदायन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतो ऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः

5.267

अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुप्टम् ॥)॥
(10) सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च

5.268

ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम् ।
(10 अ) अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते ।
षाड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना

5.269

एतत् अर्थशास्त्रेण ।
(10 आ) विधाय दूरे केयूरमनङ्गाङ्गणमह्गना ।
बभार कान्तेन कृतां करजोल्लेखमालिकाम्

5.270

अत्र केयूरपदे नखक्षतं न विहितमिति, एतत्कामशास्त्रेण ।
(10 इ) अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे ।
आसादयन्नभिमतामधुना विवेकख्यातिं समाधिधनमौलिमणिर्विमुक्तः

5.271

अत्र विवेकख्यातिस्ततः संप्रज्ञातसमाधिः पश्वादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ एतत् योगशास्त्रेण ।
एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥
(11) प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।
संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्

5.272

अत्र ततः किमिति न नवीकृतम् ।
(तत्तु यथा यदि दहत्यनलो ऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता

5.273

)॥
(12) यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधे- रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
याताः प्राणभृतां मनोरथगतीरुल्लह्घ्य यत्संपद- स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम्

5.274

अत्र "छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिताऽ; इति सनियमत्वं वाच्यम् ॥
(13) वक्त्राम्भोजं सरस्वत्य धिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छे ऽन्तर्मानसे ऽस्मिन् कथमवनिपते ते ऽम्बुपानाभिलाषः

5.275

अत्र "शोण एवऽ; इति नियमो न वाच्यः ॥
(14) श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर्- मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् ।
चन्द्रं चूर्णयत श्रणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्र्मुद्राङ्किताः

5.276

अत्र "ज्यौत्स्नीम्ऽ; इति श्यामाविशेषो वाच्यः ॥
(15) क्ललोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि

5.277

अत्र "एकेन किं न विहितो भवतः स नामऽ; इति सामान्यं वाच्यम् ।
(16) अर्थित्वे प्रकटीकृते ऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्फं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते

5.278

अत्र स्त्रीरत्नम् "उपेक्षितुम्ऽ; इत्याकाङ्क्षति ।
नहि परस्येत्यनेन संबन्धो योग्यः ॥
(17) आज्ञा शक्रशिखामणिप्रणयिनी शास्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः

5.279

अत्र "स्याच्चेदेष न रावणःऽ; इत्यत्र, एव समाप्यम् ।
(18) श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा ।
निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता

5.280

अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् ।
(19) लग्नं रागावृताङ्ग्या-

5.281

इत्यत्र विदितं ते ऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते ॥
(20) प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डवं भुबनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दो ऽशालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः

5.282

अत्र "शयितः प्रयत्नेन बोध्यसेऽ; इति विधेयम् ।
यथा वा वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं तेग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
ते ऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते

5.283

अत्र वाताहारादित्रयं व्युत्क्रमे वाच्यम् ।
(21) अरे रामाहस्ताभरण भसलश्रेणिशरण स्मारक्रीडाव्रीडाशमन विरहिप्राणदमन ।
सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदो ऽहं मोहं श्लथय कथय क्वेन्दुवदना

5.284

अत्र "विरहिप्राणदमनऽ; इति नानुवाद्यम् ॥
(22) लग्नं रागावृताङ्ग्येत्यादि

5.285

अत्र "विदितं ते ऽस्तुऽ; इत्युपसंहृतो ऽपि तेनेत्यादिना पुनरुपात्तः ॥
(23) हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथास्य जायते पातो न तता पुनरुन्नतिः

5.286

अत्र पुंव्यज्जनस्यापि प्रतीतिः ।
यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम् ॥
(सू- 77)
कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
संनिधानादिबोधार्थम्
अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये ।
यथा अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
तथैव शोभते ऽत्यर्थमस्याः श्रवणकुण्डलम्

5.287

अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुर्भृङ्गमुखराः शिरःशेखरशालिनः

5.288

अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रतीत्यर्थाः ॥
विदीर्णाभिमुखारातिकराले संगरान्तरे ।
धनुर्ज्याकिणचिह्वेन दोष्णा विस्फुरितं तव

5.289

अत्र धनुःशब्द आरूढत्वावगतये ।
अन्यत्र तु ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वत्त्कपरंपरेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात्

5.290

इत्यत्र केवलो ज्याशब्दः ।
प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम्

5.291

अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः ।
सौन्दर्यसंपत् तारुण्यं यस्यास्ते ते च विभ्रमाः ।
षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे

5.58

अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः ।
निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते ॥
(सू- 78)
स्थितेष्वेतत्समर्थनम्

5.292

न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते ।
जगाद मधुरां वाचं विशदाक्षरशालिनीम्

5.293

इत्यादौ क्रियाविशेषणत्वे ऽपि विवक्षितार्थप्रतीतिसिद्धौ "गतार्थस्यापि विशेष्यस्य विशेषणदानार्ंथ क्वचित्प्रयोगः कार्यः" इति न युक्तम् ।
युक्तत्वे वा चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् ।
पादाभ्यां दूरमध्वानं ब्रजन्नेष न खिद्यते

5.294

इत्युदाहार्यम् ॥
(सू- 79)
ख्याते ऽर्थे निर्हेतोरदुष्टता
यथा चन्द्रं गता पझगुणान्न भुह्क्ते पझाश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः

5.295

अत्र रात्रौ पझस्य संकोचः, दिवा चन्दरमसश्व निष्प्रभत्वं लोकप्रसिद्धमिति "न भुङ्क्तेऽ; इति हेतुं नापेक्षते ॥
(सू- 80)
(अ)नुकरणे तु सर्वेषाम् ।
सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् ।
यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् ।
पश्यैष च गवित्याह सुत्रामाणं यजेति च

5.59

(सू- 81)
वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ

5.296

वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिम्ना दोषो ऽपि क्वचिद्गुणः क्वचिन्न दोषो न गुणः ।
तत्र वैयाकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्ग्ये कष्टत्वं गुणः ।
क्रमेणोदाहरणम्-- दीधीङ्वेवीङ्समः कश्विद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्विद्यत्र संनिहिते न ते

5.297

यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदास्मार्षं समस्प्राक्षं च संमदम्

5.298

अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेह्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्मारघोरोल्लस- द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति

5.299

वाच्यवशाद्यथा मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजथ किं शून्येषु शूरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः सिन्धुध्वानिनि हुङ्कृते स्फुरति यत् तद्गर्जितं गर्जितम्

5.300

अत्र सिंहे वाच्ये परुषाः शब्दाः ॥
प्रकरणवशाद्यथा रक्ताशोक कृशोदही क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः ।
उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्घमो ऽयं कुतः

5.301

अत्र शिरोधूननेन कुपितस्य वचसि ॥
क्वचिन्नीरसे न गुणो न दोषः ।
यथा शीर्णग्राणाङ्ग्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वो ऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेर्- दत्तार्घाः सिद्धसंघर्विदधतु घृणयः शीघ्रमंहोविघातम्

5.302

अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ ।
यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्वोद्वृत्तभुजङ्गहारवलयोगङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामाराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः

5.303

अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ ।
अश्लीलं क्वचिद्गुणः ।
यथा सुरतारम्भगोष्ट्याम् "व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितौ करिहस्तेन संबाधे संबाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते

5.304

शमकथासु उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते

5.305

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्व स्वस्था भवन्तु कुरुराजसुताः सभृत्याः

5.306

अत्र भाव्यमङ्गलसूचकम् ॥
संदिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृच्वेन व्याजस्तुतिपर्यवसायित्वे गुणः ।
यथा पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम्

5.307

प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः ।
यथा आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सच्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- त्तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्

5.308

स्वयं वा परामर्शे ।
यथा षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः ।
अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः

5.309

अधमप्रकृत्युक्तिषु ग्राम्यो गुणः ।
यथा फुल्लुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविऐल्लपसूणपुञ्जा

5.310

अत्र कलमभक्तमहिषीदधिशब्दा ग्रम्या अपि विदूषकोक्तौ ॥
न्यूनपदं क्वचिद्गुणः ।
यथा गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्

5.311

क्वचिन्न गुणो न दोषः ।
यथा तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः

5.312

अत्र पिहितेत्यतो ऽनन्तरं "नैतद्यतःऽ; इत्येतैर्न्यूनैः पदैर्विंशेषबुद्धेरकरणान्न गुणः ।
उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते, इति न दोषः ।
अधिकपदं क्वचिद्गुणः ।
यथा यद्वञ्चनाहितमतिर्बहु चाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
तत्साधवो न न विदन्ति विदन्ति किंतु कर्तुं वृथा प्रणयमस्य न पारयन्ति

5.313

अत्र "विदन्तिऽ; इति द्वितीयमन्ययोगव्यवच्छेदपरम् ।
यथा वा वद वद जितः स शत्रुर्न हतो जल्पंश्व तव तवास्मीति ।
चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे

5.314

इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥
कथितपदं क्वचिद्गुणः, लाटानुप्रासे, अर्थान्तरसंक्रमितवाच्ये विहितस्यानुवाद्यत्वे च ।
क्रमेणोदाहरणम्-- सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य

5.315

ताला जाअंति गुणा जाला दे सहिअएहिं धेप्पन्ति ।
रैकिरणाणुग्गहिआइं होन्ति कमलाइं कमलाइं

5.316

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि संपदः

5.317

पतत्प्रकर्षमपि क्वचिद्गुणः ।
यथा, उदाहृते प्रागप्राप्तेत्यादौ

5.318

समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः ।
यत्र न विशेषणमात्रदानार्थं पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते ।
यथा, अत्रैव प्रागप्राप्तेत्यादौ

5.319

अपदस्थसमासं क्वचिद्गुणः यथा, उदाहृते रक्ताशेकेत्यादौ

5.320

गर्भितं तथैव ।
यथा हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि ।
सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि

5.60

अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय ।
एवमन्यदपि लक्ष्याल्लक्ष्यम् ॥
(सू- 82)
व्यभिचारिरसस्थायिबावानां शब्दवाच्यता ।
कष्टकल्पनया व्यत्त्किरनुबावविभावयोः

5.61

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः

5.62

अङ्गिनो ऽननुसंधानं प्रकृतीनां विपर्ययः ।
अनह्गस्याभिधानं च रसे दोषाः स्युरीदृशाः

5.321

(1) स्वशब्दोपादानं व्यभिचारिणो यथा सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भूजगे सविस्मयरसा चन्द्रे ऽमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः

5.322

अत्र व्रीजादीनाम् ।
"व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रे ऽमृतस्यन्दिनि ।
मीलद्भ्रूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरेऽ; इत्यादि तु युक्तम् ॥
(2) रसस्य स्वशप्देन वा वाच्यत्वम् ।
क्रमेणोदाहरणम्-- तामनह्गजयमङ्गलश्रियं किंचिदुच्चभूजमूललोकिताम् ।
नेत्रयोः कृतवतो ऽस्य गोचरे को ऽप्यजायत रसो निरन्तरः

5.323

आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष बाल्यमतिष्त्य विवर्तमानः शृह्गारसीमनि तरङ्गितमातनोति

5.324

(3) स्थायिनो यथा संप्रहारे प्रहरणैः प्रहाराणा परसपरम् ठणत्कारैः श्रुतिकतैरुत्साहस्तस्त को ऽप्यभूत्

5.325

अत्रोत्माहस्य ॥
(4) कर्पूरधूलिधवलद्युतिपूरधौतदिङ्नण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरोंऽगुकनिवेशविशेषकॢप्तिव्यक्तससस्तनोन्नतिरभून्नयानपो सा

5.326

अत्रोद्दीपनालम्बनरूपाः सृङ्गायोग्या विभावा अनुभावपरलपसाचयिनः स्थिता इति पष्टकल्पना ॥
(5) परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः

5.327

अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः ॥
(6) प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चति वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः

5.328

अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्व व्यभिचारी, उपात्तः ॥
णिहुअरमणम्मि लोअणपहम्मि पडिए गुरुअणमज्झम्मि ।
सअलपरिहारहिअआ वणगमणं एव्व महै वहू

5.329

अत्र सकलपरिहारवनगमने शान्तानुभावौ ।
इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः ॥
(7) दीप्तिः पुनःपुनर्यथा कुमारसंभवे रतिविलापे ॥
(8) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीये ऽङ्के ऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुयार्धेनस्य शृङ्गारवर्णनम् ॥
(9) अकाण्डे छेदो यथा वीरचरिते द्वितीये ऽङ्के राघवभार्गवयोर्धाराधिरूढं वीररसे "कङ्कणमोजनाय गच्छामिऽ; इति राघवस्योक्तौ ॥
(10) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् ।
यथा हयग्रीववधे हयग्रीवस्य ॥
(11) अङ्गिनो ऽननुसंधानम् ।
यथा रत्नावल्यां चतुर्थे ऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ॥
(12) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्व वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः, उत्तमाधममध्ममाश्व ।
तत्र रतिहासशोकाद्भुतानि, अदिव्यात्तमप्रकृतिवत् दिव्येष्वपि ।
किं तु रतिः संभोगशृङ्गाररूपां, उत्तमदेवताविषया न वर्णनीया ।
तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् ।
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार

5.330

इत्युक्तवत् भ्रुकुठ्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगनसमुद्रोल्लङ्घनाद्युत्साहश्व दिव्येष्वेव ।
अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्द्धव्यम् ।
अधिकं निबध्यमानमसत्यप्रतिभासेन "नायकवद्वर्तितव्यं न प्रतिनायकवत्ऽ; इत्युपदेशे न पर्यवस्येत् ।
दिव्यादिव्येषु, उभयथापि ।
एवमुक्तस्यौचित्यस्य दिव्यादीनामिव दीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः ।
तत्रभवन् भगवन्नित्युत्तमेन न, अधमेन मुनिप्रभृतौ न राजादौ भट्टारकेति नोत्तमेति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम् ।
एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम् ॥
(13) अनह्गस्य रसानुपकारकस्य वर्णनम् ।
यथा कर्पूरमञ्जर्यां नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥
"ईदृशाः" इति ।
नायिकापादप्रहारादिना नायककोपादिवर्णनम् ।
उक्तं हि ध्वनिकृता "अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा" ॥
इति ॥
इदानीं क्वचिददोषा अप्येते, इत्युच्यन्ते ।
(सू- 83)
न दोषः स्वपदेनोक्तावपि संचारिणः क्वचित् ।
यथा औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः

5.63

अत्रौत्सुक्यशब्द इव तदनुभावो न तथाप्रतीतिकृत् ।
अत एव "दूरादुत्सुकम्ऽ; इत्यादौ व्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनामिवपोत्सुकत्वानुभावस्य सहसाप्रसरणादिरूपस्य तथा- प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ॥
(सू- 84)
संचार्यादोर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा

5.331

बाध्यत्वेनोक्तिर्न परमदोषः, यावत् प्रकृतरसपरिपोषकृत् ।
यथा "क्वाकार्यं शशलक्ष्मणः क्व च कुलम्ऽ; इत्यादौ

5.332

अत्र वितर्कादिषु, उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥
पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः

5.333

इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्

5.64

इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्तम् ।
जीवितादपि, अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभह्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः ।
न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् ।
नापि काव्यशोभाकरणम् रसान्तरादनुप्रासमात्राद्वा तथाभावात् ॥
(सू- 85)
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः

5.334

वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः ।
शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य जीमूतवाहनस्य "अहो गीतम् अहो वादित्रम्ऽ; इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रतिशृह्गारो निबद्धः ।
न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते ।
यथा भूरेणुदिग्धान् नवपारिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः

5.335

सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्वन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥ 334 (अ) ॥
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानान् ललन्ह्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन्

5.65

अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः ।
(सू- 86)
स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम्

5.336

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजधनस्पर्शी नीवीविस्रंसनः करः

5.337

एतत् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ ।
अत्र पूर्वावस्थास्मरणं षृङ्गाराङ्गमपि करुणं परिपोषयति ॥
दन्तक्षतानि करजैश्व विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि

5.338

अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य ।
यथा वा परः शृङ्गारी तदवलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा ॥
क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना ।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्यो ऽधुना दावाग्रिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव

5.339

अत्र चाटुके राजविषया रतिः प्रतीयते ।
तत्र करुण इव शङ्गारो ऽप्यङ्गमिति तयोर्न विरोधः ।
यथा एहि गच्छ पतोत्तिष्ट वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः

5.340

इत्यत्र, एहीति क्रीढन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागमनगमनयोर्न विरोधः ।
क्षिप्तो हस्तावलग्रः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः

5.7

इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणो ऽङ्गम् तस्य तु शृङ्गारः, तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव ।
अथवा प्राक् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्बल्यते ।
उक्तं हि "गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्ततेऽ; ॥
इति ॥
प्राक् प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः, नाप्यङ्गाङ्गिभावो भवति, इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ॥
इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः

5.66

॥ अथ अष्टम उल्लासः ॥
एवं दोषानुक्त्वा गुणालंकारविवेकमाह (सू- 87)
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः

5.67

आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् ।
क्वचितु शौर्यादिसमुचितस्याकारमहच्वादेर्दर्शनात् "आकार एवास्य शूरःऽ; इत्यादेर्व्यवहारादन्यत्राशूरे ऽपि वितताकृतित्वमात्रेण "शूरःऽ; इति क्वापि शूरे ऽपि मूर्तिलाघवमात्रेण "अशूरःऽ; इति, अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिवन्ध्या व्यवहरन्ति, अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः ।
यथैषां व्यञ्जकत्वम् तथोदाहरिष्यते ॥
(सू- 88)
उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलंकारास्ते ऽनुप्रासोपमादयः

5.341

ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणो ऽपि, उपकारका हारादय इवालंकाराः ।
यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः ।
क्वचित्तु सन्तमपि नोपकुर्वन्ति ।
यथाक्रममुदाहरणानि-- अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैः इति वदति दिवानिशं बाला

5.342

इत्यादौ वाचकमुखेन मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती

5.343

इत्यादौ वाच्यमुखेनालंकारौ रसमुपकुरुतः ॥
चित्ते विहट्टदि ण टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसुं ।
बोलम्मि वट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी

5.344

इत्यादौ वाचकमेव ।
मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः

5.345

इत्यादौ वाच्यमेव न तु रसम् ।
अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा ॥
एष एव च गुणालंकारप्रविभागः ।
एवं च "समवायवृच्या शौर्यादयः संयोगवच्यातु हारादय इत्यस्तु गुणालंकाराणां भेदः, ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समबायवृच्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः" इत्यभिधानमसत् ॥
यदप्युक्तम् "काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः" इति तदपि न युक्तम् ।
यतः किं समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः ।
यदि समस्तैः, तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा ।
अत कतिपयैः, ततः अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः

5.346

इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः ।
स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी ।
अस्या रदच्छदरसो न्यक्करोतितरां सुधाम्

5.68

इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ ॥
इदानीं गुणानां भेदमाह (सू- 89)
माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
एषां क्रमेण लक्षणमाह (सू- 90)
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम्

5.69

शृङ्गारे अर्थात् संभोगे ।
द्रुतिर्गलितत्वमिव ।
श्रव्यत्वं पुनरोजःप्रसादयोरपि ॥
(सू- 91)
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
अत्यन्तद्रुतिहेतुत्वात् ॥
(सू- 92)
दीप्त्यात्मविस्तृतेर्हेतुरोज वीररसस्थिति

5.70

चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः ॥
(सू- 93)
बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
वीराद्बीभत्से ततो रौद्रे सातिशयमोजः ॥
(सू- 94)
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः

5.71

(सू- 95)
व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।
अन्यदिति ।
व्याप्यमिह चित्तम् ।
सर्वत्रेति ।
सर्वेषु रसेषु सर्वासु रचनासु च ॥
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता

5.72

गुणवृच्या, उपचारेण ।
तेषां गुणानाम् ।
आकारे शौर्यस्येव ॥
कुतस्त्रय एव न दश इत्याह (सू- 96)
केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचित् न ततो दश

5.73

बहूनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्वारोहावरोहक्रमरूपः समाधिः, या च विकटत्वलक्षणा, उदारता यश्वौजोमिश्रितशैथिल्यात्मा प्रसादः, तेषामोजस्यन्तर्भावः ।
पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम् ।
प्रसादेनार्थव्यक्तिर्गृहीता ।
मार्गाभेदरूपा समताक्वचिद्दोषः ।
तथाहि "मातङ्गाः किमु वल्गितैःऽ; इत्यादौ सिंहाभिधाने मसृणमार्गत्यागौ गुणः ।
कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्व स्वीकृता ।
एवं न दश शब्दगुणाः ॥
"पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥
ऽ; इति या प्रौढिः ओज इत्युक्तं तत् वैचित्र्यमात्रम् न गुणः ।
तदभावे ऽपि काव्यव्यवहारप्रवृत्तेः ।
अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरुपं सौकुमार्यम् अग्राम्यत्वरुपा, उदारता च स्वीकृतानि ।
अभिधास्यमानस्वभावोक्त्यलंकारेण रसध्वनिगुणीभूतव्यह्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा, अर्थव्यक्तिः, दीप्तरसत्वरुपा कान्तिश्व स्वीकृता ।
क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषो ऽपि विचित्रत्वमात्रम् ।
अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः ।
कः खल्वनुन्मत्तो ऽन्यस्य प्रस्यावे ऽन्यदभिदध्यात् ।
अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः ॥
(सू- 97)
तेन नार्थगुणा वाच्याः वाच्याः वक्तव्याः ॥
(सू- 98)
प्रोक्ताः शब्दगुणाश्व ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः

5.74

के कस्य इत्याह (सू- 99)
मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा

5.347

टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः, तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः, तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका ।
उदाहरणम् अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः ।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि

5.75

(सू- 100)
योग आद्यतृतीयाब्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्ध्यं गुम्फ उद्धत ओजसि

5.348

वर्गप्रथमतृतीयाभ्यामन्त्ययोः, द्वितीयचतुर्थयोः, रेफेण, अध उपरि, उभयत्र वा यस्य कस्यचित् तुल्ययोः, तेन तस्यैव संबन्धः टवर्गो ऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः, विकटा संघटना, ओजसः ।
उदाहरणम्--मूर्ध्नामुद्वृत्तकृत्तेत्यादि

5.76

(सू- 101)
श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः

5.349

समग्राणां रसानां संघटनानां च ।
उदाहरणम् परिम्लानं पीनस्तनजघनसंगादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्र्लथभुजलताक्षेपवलनैः कृशाह्ग्याः संतापं वदति बिसिनीपत्रशयनम्

5.77

यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि (सू- 102)
वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते

5.350

क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः ।
यथा मन्तायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रडूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽसौ

5.351

अत्र हि न वाच्यं क्रोधादिब्यञ्जकम् ।
अभिनेयार्थं च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः ।
वक्ता चात्र भीमसेनः ॥
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रजनादयः ।
यथा प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात- त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भांकारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाह्गम्

5.8

क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते ।
तथाहि--आख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः कथायां रौद्रे ऽपि नात्यन्तमुद्धताः, नाटकादौ रौद्रे ऽपि न दीर्घसमासादयः ।
एवमन्यदप्यौचित्यमनुसर्तव्यम् ॥
इति काव्यप्रकाशे गुणालंकारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः

5.78

॥
॥ अथ नवम उल्लासः ॥
गुणविवेचने कृते ऽलंकाराः प्राप्तावसराः, इति संप्रति शब्दालंकारानाह (सू- 103)
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा

5.352

तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्व ।
तत्र पदभङ्गश्लेषेण यथा नारीणामनुकूलमाचरसि चेज्जानासि कश्वेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः

5.353

अभङ्गश्लेषेण यथा अहो केनेदृशी बुद्धिर्वारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित्

5.354

काक्वा यथा गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमये ऽसौ

5.355

(सू- 104)
वर्णसाम्यमनुप्रासः
स्वरवैसादृश्ये ऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् ।
रसाद्यनुगतः प्रकृष्टो न्यासो ऽनुप्रासः ।
(सू- 105)
छेकवृत्तिगतो द्विधा ।
छेकाः, विदग्धाः ।
वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः ।
गत इति छेकानुप्रासो वृच्यनुप्रासश्व ।
किं तयोः स्वरूपम्, इत्याह--
(सू- 106)
सो ऽनेकस्य सकृत्पूर्वः
अनेकस्य, अर्थात व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः ।
उदाहरणम् ततो ऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्

5.79

(सू- 107)
एकस्याप्यसकृत्परः

5.80

एकस्य, अपिशब्दादनेकस्य व्यज्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृच्यनुप्रासः ।
तत्र (सू- 108)
माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते ।
(सू- 109)
ओजःप्रकाशकैस्तैस्तु परुषा
उभयत्रापि प्रागुदाहृतम् ।
(सू- 110)
कोमला परैः

5.356

परैः शेषैः ।
तामेव केचित् ग्राम्येति वदन्ति ।
उदाहरणम् अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला

5.81

(सू- 111)
केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः ।
एतास्तिस्रो वृत्तयः, वामनादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ॥
(सू- 112)
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः

5.357

शब्दगतो ऽनुप्रासः शब्दार्थयोरभेदे ऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः ।
एष पदानुप्रास इत्यन्ये ॥
(सू- 113)
पदानां सः
स इति लाटानुप्रासः ।
उदाहरणम् यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य

5.358

(सू- 114)
पदस्यापि
अपिशब्देन स इति समुच्चीयते ।
उदाहरणम् वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः ।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत्

5.359

(सू- 115)
वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृच्यवृच्योश्च
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् ।
उदाहरणम् सितकरकररुचितविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य

5.82

(सू- 116)
तदेवं पञ्चधा मतः

5.83

(सू- 117)
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः ।
यमकम्
समरसमरसो ऽयमित्यादावेकेषामर्थवच्वे, अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति, अर्थे सतीत्युक्तम् ।
सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।
(सू- 118)
पादतद्भागवृत्ति तद्यात्यनेकताम्

5.360

प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्वतुर्थे प्रथमस्त्रिष्वपीति सप्त ।
प्रथमो द्वितीये तृतीयश्वतुर्थे प्रथमश्वतुर्थे द्वितीयस्तृतीये, इति द्वे ।
तदेवं पादजं नवभेदम् ।
अर्धावृत्तिः श्लोकावृत्तिश्वेति द्वे ।
द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागो ऽन्तभागेष्विति विंशतिर्बेदाः श्लोकान्तरे हि नासौ भागावृत्तिः ।
त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत् ।
प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते, आद्यार्धादिभागे यम्यते, इत्याद्यन्वर्थतानुसरणेनानेकभेदम् अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः, मध्यांदिकम् आदिपध्यम् अन्तमध्यम् मध्यान्तिकं तेषां समुच्चयः ।
तथा तस्मिन्नेव पादे, आद्यादिभागानां मध्यादिभागेषु,अनियते च स्थाने, आवृत्तिरिति प्रभूततमभेदम् ।
तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम् ।
दिङ्बात्रमुदाह्रियते सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणो ऽमायस्ततस्त्वं पृथिवीं जय

5.361

विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनो ऽदीयत मानसादरं महाजनोदी यतमानसादरम्

5.362

स त्वारम्भरतो ऽवश्यमबलं विततारवम् ।
सर्वदा रणमानैषीदवानलसमस्थितः

5.363

सच्वारम्भरतो ऽवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः

5.364

अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम्

5.365

यदानतो ऽयदानतो नयात्ययं न यात्ययम् ।
शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम्

5.366

सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति ।
सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति

5.367

ससार साकं दर्पेण कंदर्पेण ससारसा ।
शरन्नवाना विभ्राणा नाबिभ्राणा शरन्नवा

5.368

मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् ।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत्

5.84

एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम् ॥
(सू- 119)
वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषो ऽसावक्षरादिभिरष्टधा

5.369

"अर्थभेदेन शब्दभेदःऽ; इति दर्शने "काव्यमार्गे स्वरो न गण्यतेऽ; इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः ।
स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा ।
क्रमेणोदाहरणम्-- अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी

5.370

पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम्

5.371

भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः

5.372

एष वचनश्लेषो ऽपि ।
महदेसुरसंधम्मे तमवसमासंगमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसरौमे सहमा

5.373

अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः

5.374

रजनिरमणमौलेः पादपझावलोकक्षणसमयपराप्तापूर्वसंपत्सहस्रम् ।
प्रमथनिवहमध्ये जातुचिच्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे

5.375

सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसांमुख्यमायासि तनुवर्तनम्

5.376

(सू- 120)
भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।
नवमो ऽपीत्यपिर्भिन्नक्रमः ।
उदाहरणम्-- यो ऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः ।
शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते

5.377

अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥
ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धे ऽलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषो ऽर्थश्लेषश्वेति द्विविधो ऽप्यर्थालंकारमध्ये परिगणितो ऽन्यैरिति कथमयं शब्दालंकारः ।
उच्यते--इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभागः सः, अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते ।
तथाहि--कष्टत्वादिगाढत्वाद्यनुप्रासादयः, व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधाय् इत्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
स्वयं च पल्लवाताम्रभास्वत्करविरीजिता ।
इत्यभङ्गः प्रभातसंध्येवास्वापफललुब्धेहितप्रदा

5.378

इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम् ।
अर्थश्लेषस्य तु स विषयः, यत्र शब्दपरिवर्तने ऽपि न श्लेषत्वखण्डना ।
यथा स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च

5.379

न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा ।
तथाहि--यथा "कमलमिव मुखं मनोज्ञमेतत्कचतितराम्ऽ; इत्यादौ गुणसाम्ये क्रियासाम्ये, उभयसाम्ये वा, उपमा ।
तथा "सकलकलं पुरमेतञ्जातं संप्रति सुधाशुबिम्बमिवऽ; इत्यादौ शब्दमात्रसाम्ये ऽपि सायुक्तैव ।
तथा ह्युक्तं रुद्रटेन "स्फुटमर्थालंकारावेतावुतावुपमासमुच्चयौ किं तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः" ॥
इति ।
न च "कमलमिव मुखम्ऽ; इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः ॥
देव त्वमेव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः

5.380

इत्यादिः श्लेषस्य चोपमाद्यलंकारविविक्तो ऽस्ति विषय इति ।
द्वयोर्योगे, संकर एव ।
उपपत्तिपर्यालोचने तु, उपमाया एवायं युक्तो विषयः ।
अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् ।
न च "अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुकाऽ; इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः ।
न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् ।
न च विरोधाबास इव विरोधः श्लेषाभासः श्लेषः ।
तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलंकारान्तरमेव ।
तथा च सद्वंशमुक्तामणिः

5.381

नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान्

5.382

अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्वित्रा तथापि न समागमः

5.383

आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्वित्रमच्युतशरो लक्ष्यमबाङ्क्षीन्नमस्तस्मै

5.85

इत्यादौविलष्टपरम्परिनरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितम् न तु श्लेषत्वम् ॥
शब्द श्लेष इति चोच्यते, अर्थालंकारमध्ये च लक्ष्यते, इति को ऽयं नयः ।
किं च वैचित्र्यमलंकार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालंकारभूमिः ।
अर्थमुस्वप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति ते ऽप्यर्थालंकाराः किं नेच्यन्ते ।
रसादिव्यज्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वे ऽपि ह्यनुप्रासादीनामलंकारता ।
शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता ।
अर्थगुणदोषालंकाराणां शब्दापेक्षयैव व्यवस्थितिरिति ते ऽपि शब्दगतत्वेनोच्यन्ताम् ।
"विधौ वक्रे मूर्ध्निऽ; इत्यादौ च वर्णादिश्लेषे, एकप्रयत्नोच्चार्यत्वे ऽर्थश्लेषत्वं शब्दभेदे ऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम् ॥
(सू- 121)
तच्चित्रं यत्र वर्णानां खढ्गाद्याकृतिहेतुता

5.384

संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपझाद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् ।
कष्टं काव्यमेतदिति दिङ्भात्रं प्रदर्श्यंते ।
उदाहरणम्-- मारारिशक्ररामेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदार्तिहरणक्षणा

5.385

माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा

5.386

(खड्गबन्धः) सरला बहुलारम्भतरलालिबलारवा ।
वारलाबहुलामन्दकरलाबहुलामला

5.387

(मुरजबन्धः) भासते प्रतिभासार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा बत ते सभा

5.388

(पझबन्धः) रसासार रसा सारसायताक्ष क्षतायसा ।
सातावात तवातासा रक्षतस्त्वस्त्वतंक्षर

5.389

(सर्वतोभद्रम्) संभविनो ऽप्यन्ते प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते ॥
(सू- 122)
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव
भिन्नरूपसार्थकानर्थकश्ब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः ।
स च (सू- 123)
शब्दस्य
सभह्गाभङ्गरूपकेवलशब्दनिष्ठः ।
उदाहरणम्-- अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः

5.390

चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः

5.86

(सू- 124)
तथा शब्दार्थयोरयम्

5.391

उदाहरणम्-- तनुवपुरजघन्यो ऽसौ करिकुञ्जररुधिररक्तखरनखरः ।
तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः

5.87

अत्रैक्समिन् पदे परिवर्तिंते नालंकार इति शब्दाश्रयः, अपरस्मिस्तु परिवर्तिते ऽपि स न हीयते, इत्यर्थनिष्ठ इत्युभयालंकारो ऽयम् ॥
इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम नवम उल्लासः ॥
॥ अथ दशम उल्लासः ॥
अर्थालंकारानाह-- (सू- 125)
साधर्म्यमुपमा भेदे
उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा ।
भेदग्रहणमनन्वयव्यवच्छेदाय ॥
(सू- 126)
पूर्णा लुप्ता च उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानुमुपादाने पूर्णा, एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता ।
(सू- 127)
अग्रिमा पूर्णा ।
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा

5.392

यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत् संबन्दं प्रतिपादयन्तीति तत्सद्भावे श्रौती, उपमा ।
तथैव "तत्र तस्येव" इत्यनेनेवार्थे विहितस्य वतेरुपादाने ॥
"तेन तुल्यं मुखम्ऽ; इत्यादावुपमेये, एव "तत्तुल्यमस्यऽ; इत्यादौ चोपमाने, एव "इदं च तच्च तुल्यम्ऽ; इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशब्दोपादाने, आर्थी तद्वत् "तेन तुल्यं क्रिया चेद्वतिःऽ; इत्यनेन विहितस्य वतेः स्थितौ ।
"इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च" इति नित्यसमासे, इवशब्दयोगे समासगा ।
क्रमेणोदाहरणम्-- स्वप्ने ऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति ।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा

5.393

चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति ।
सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते

5.394

अत्यायतैर्नियमकारिभिरूद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार

5.395

अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः ।
सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर न कस्य

5.396

गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् ।
दुरालोकः स समरे निदाघाम्वररत्नवत्

5.397

स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः, तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम्, वैचित्र्यं चालंकारः, तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः ।
न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव ।
रसादिस्तु व्यङ्ग्यो ऽर्थो ऽलंकारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलंकारा उदाहृताः ।
तद्रहितत्वेन तु, उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम् ॥
(सू- 128)
तद्वत् धर्मस्य लोपे स्यात् न श्रौती तद्धिते पुनः ।
धर्मः साधारणः ।
तद्धिते कल्पबादौ त्वार्थ्येव ।
तेन पञ्च ।
उदाहरणम्-- धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः करणीयं वचश्वेतः सत्यं तस्यामृतं यथा

5.398

आकृष्टकरवालो ऽसौ संपराये परिभ्रमन् ।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः

5.399

करवालैवाचारस्तस्य वागमृतोपमा ।
विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे

5.88

(सू- 129)
उपमानानुपादाने वाक्यगाथ समासगा

5.400

सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स ।
दीसै अह व णिसम्मै सरिसं अंसंसमेत्तेण

5.401

कव्वस्सेत्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे, एषैव समासगा ॥
(सू- 130)
वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि
वाशब्दः, उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् समासेन सर्मणो ऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकर्त्रोरुपपदयोर्णमुला च भवेत् ॥
उदाहरणम्-- ततः सुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता

5.402

तथा असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शने ऽयमासीत्

5.403

पैरं सुतीयति जनं समरान्तरे ऽसावन्तः पुरीयति विचित्रचरित्रचुञ्चुः ।
नारीयते समारसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना

5.404

मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे ।
स पुनः पार्थसंचारं संचरत्यवनीपतिः

5.89

(सू- 131)
एतद्द्विलोपे क्विप्समासगा

5.405

एतयोर्धर्मवाद्योः ।
उदाहरणम्-- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि

5.406

परिपन्थिमनोराज्यशतैरपि दुराक्रमः ।
संपरायप्रवृत्तौऽसौ राजते राजकुञ्जरः

5.407

(सू- 132)
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
टुण्टुण्णन्तो मरिहसि कण्टअकलिआइं केऐवणाइं ।
माहैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि

5.408

कुसुमेण सममिति पाठे वाक्यगा ।
(सू- 133)
क्यचि वाद्युपमेयासे
आसे निरासे ।
अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति

5.90

अत्रात्मा, उपमेयः ।
(सू- 134)
त्रिलोपे च समासगा

5.409

त्रयाणां वादिधर्मोपमानानाम् ।
उदाहरणम्-- तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा ।
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः

5.410

अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः, तदेदमुदाहरणम् ॥
क्रूरस्याचारस्यायःशूलतयाध्यवसायात् अयःशूलेनान्विच्छति "आयःशूलिकःऽ; इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा ।
एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः ॥
अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
मम्लौ साथ विषादेन पझिनीव हिमाम्भसा

5.411

इत्यभिन्ने साधारणे धर्मे, ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी

5.412

इति भेन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा ।
यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे, अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला

5.413

मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता ।
तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम्

5.414

इत्यादिका रशनोपमा च न लक्षिता, एवंविधवैचित्र्यसहस्रसंभवात् उक्तभेदानतिक्रमाच्च ॥
(सू- 135)
उपमानोपबमेयत्वे, एकस्यैवैकवाक्यगे ।
अनन्वयः
उपमानान्तरसंबन्धाभावो ऽनन्वयः ।
उदाहरणम्-- न केवलं भाति नितान्तकान्तिर्निंतम्बिनी सैव नितम्बिनीव ।
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः

5.91

(सू- 136)
विपर्यास उपमेयोपमा तयोः

5.415

तयोः, उपमानोपमेययोः ।
परिवृत्तिः, अर्थात् वाक्यद्वये ।
इतरोपमानव्यवच्छेदपरा, उपमेयेनोपमा, इति, उपमेयोपमा ।
उदाहरणम्-- कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृचिर्धृतिरिव धरणी सततं विभाति बत यस्य

5.416

(सू- 137)
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
समेन, उपमानेन ।
उदारहणम्-- उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्तोरिन्तीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षा- ल्लग्रा मन्ये ललिततनु ते पादयोः पझलक्ष्मीः

5.417

लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दष्टिर्विफलतां गता

5.92

इत्यादौ व्यापनादि लेपनादिरूपतया संभावितम् ॥
(सू- 138)
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः

5.418

भेदीक्तौ यथा अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः

5.419

भेधोक्तावित्यनेन न केवलमयं निश्वयगर्भो यावन्निस्वयान्तो ऽपि संदेहः स्वीकृतः ।
यथा इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्वितं परतः

5.420

किं तु निश्वयगर्भ इव नात्र निश्वयः प्रतीयमान इति, उपेक्षितो भट्टोद्भटेन ।
तदनुक्तौ यथा अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः

5.93

(सू- 139)
तद्रूपकमभेदो य उपमानोपमेययोः ।
अतिसाम्यात् अनपह्नुतभेदयोः, अभेदः ।
(सू- 140)
समस्तवस्तुविषयं श्रौता आरोपिता यदा

5.421

आरोपविषया इव आरोप्यमाणाः, यदा शब्दोपात्ताः, तदा समस्तानि वस्तूनि विषयो ऽस्येति समस्तवस्तुविषयम् ।
आरोपिता इति बहुवचनमविवक्षितम् ।
यथा ज्योत्स्नाभस्मच्छुरणदवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्दर्मुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन

5.422

अत्र पादत्रये, अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्संकराशङ्का न कार्या ॥
(सू- 141)
श्रौता आर्थाश्व ते यस्मिन्नेकदेशविवर्ति तत् ।
केचिदारोप्यमाणाः शब्दोपात्ताः कोचिदर्थसामर्थ्यादवसेयाः, इत्येकदेशविवर्तनात् एकदेशविवर्ति ।
यथा जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम् ।
रससंमुही वि सहसा परंमुही होइ रिउसेणा

5.423

अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्म् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्व प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते, इति, एकदेशे विशेषेण वर्तनादेकदेशविवर्ति ।
(सू- 142)
साङ्गमेतत्
उक्तद्विभेदं सावयवम् ॥
(सू- 143)
निरङ्गं तु शुद्धम्
यथा कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्रयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तो ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम

5.94

(सू- 144)
माला तु पूर्ववत्

5.424

मालोपमायामिवैकस्मिन् बहव आरोपिताः ।
यथा सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया

5.95

(सू- 145)
नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत् परंपरितं श्लिष्टे वाचके भेदभाजि वा

5.425

यथा विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्खीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः

5.426

अत्र मानसमेव मानसम् कमलायाः संकोच एव कमलानामसंकोचः, दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीतिः, विजयः परपराभव एव विजयो ऽजुनः, एवमारोपणनिमित्तो हंसादेरारोपः ।
यद्यपि शब्दार्थालंकारो ऽयमित्युक्तम् वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः, एकदेशविवर्ति हीदमन्यैरभिधीयते ।
भेदभाजि यथा आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्ढमहसो लीलोपधानं श्रियः ।
संग्रामामृतसागरप्रमथनक्रीडाविदौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदसते भुजः

5.427

अत्र जयोदेर्भिन्नशब्दवाच्यस्य कुज्जरत्वाद्यारोपे भुजस्य, आलानत्वाद्यारोपो युज्यते ।
अलौकिकमहालोकप्रकाशितजगत्र्रयः ।
स्तूयते देव सद्वंसमुक्तारत्नं न कैर्भवान्

5.428

निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः

5.429

इति च, अमालारूपकमपि परंपरितं द्रष्टव्यम् ॥
किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति ।
नलिनीनां कमलमुस्वैः मुखेन्दुभिर्योषितां मदनः

5.430

इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ॥
(सू- 146)
प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते सा तु, अपह्नुतिः ।
उदाहरणम्-- अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाह्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्तशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि

5.431

इत्थं वा बत सखि कियदेतत् पश्य वैरं स्मरस्य प्रियविरहकृशे ऽस्मिन् रागिलोके तथा हि ।
उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम्

5.432

अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः ।
एवं वा अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृषुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रतमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः

5.96

अत्र न रोमावलिः, धूमशिखेयमिति प्रतिपत्तिः ।
एवमियं भङ्ग्यन्तरैरप्यूह्या ॥
(सू- 147)
श्लेषः स वाक्ये, एकस्मिन् यत्रानेकार्थता भवेत्

5.433

एकार्थप्रतिपादकानामव शब्दानां यत्रानेको ऽर्थः स श्लेषः ।
उदाहरणम्-- उदयमयते दिङ्भालिन्यं निराकुरुतेतराम् नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनम् वत बत लसत्तेजःपुञ्जो विभाति विभाकरः

5.434

अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ ॥
(सू- 148)
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः
प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्मयात् न तु विशेष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानम् सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः ।
उदाहरणम्--लहिऊण तुज्झ बाहुफ्फंसं जीए स को वि उल्लासो ।
जअलच्छी तुह विरहे ण हूज्जला दुब्बला णं सा

5.97

अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ॥
(सू- 149)
निदर्शना ।
अभवनवस्तुसंबन्द उपमापरिकल्पकः

5.435

निदर्शनं दृष्टान्तकरणम् ।
उदाहरणम्-- क्वसूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्

5.436

अत्र, उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति ।
यथा वा उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्विघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्

5.437

अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् ।
दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कविम्बम् ।
मेरुं लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान् गदितुमुद्यममादधाति

5.438

इत्यादौ मालारूपापायेषा द्रष्टव्या ॥
(सू- 150)
स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।
क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते सा, अपरा निदर्शना ।
यथा उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतो दृषत्कणश्वारुमारुतधुतः पतत्यधः

5.98

अत्र पातक्रियया पतनस्य लाघवे सति, उन्नतपदप्राप्तिरूपस्य च संबन्धः ख्याप्यते ॥
(सू- 151)
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया

5.99

अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपो ऽप्रस्तुतप्रशंसा ।
(सू- 152)
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा

5.439

तदन्यस्य कारणादेः ।
क्रमेणोदाहरणम्-- याता किं न मिलन्ति सुन्दरि पुनश्विन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः

5.440

अत्र प्रस्थानात्किमिति निवृत्तो ऽसीति कार्ये पृष्टे कारणमभिहितम् ।
राजन्तराजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्यं नाथ शुकस्तावारिभवने मुक्तो ऽध्वगैः पञ्जरात् चित्रस्थानवलोक्य शून्यवलभावेकैकमाबाषते

5.441

अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः, इति कारणे प्रस्तुते कार्यमुक्तम् ।
एतत्तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा

5.442

अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।
सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः ।
स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः

5.443

अत्र "कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत् त्वमेव श्लाघ्यःऽ; इति विशेषे प्रकृते सामान्यममिहितम् ।
तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः ।
श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः ।
क्रमेणोदाहरणम्-- पुंस्त्वादपि प्रविचलेत् यदि यद्यधो ऽपि यायात् यदि प्रणयने नमहानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन

5.444

येनास्यभ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग् अस्त्वेनं जडधामता तु भवतो यद् व्याम्नि विस्फूर्जसे

5.445

आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च

5.446

इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति ।
यथा अब्धेरम्भः स्थगितभुवनाबोगपातालकुक्षेः पोतोपाया इह हि बहवो लङ्घने ऽपि क्षमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं को नाम स्यादवटकुहरालोकने ऽप्यस्य कल्पः

5.447

क्वचिदध्यारोपेणैव ।
यथा कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे

5.448

क्वचिदंशेष्वध्यारोपेण ।
यथा सो ऽपूर्वो रसनाविपर्ययविधिः तत् कर्णयोश्वापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयकोक्तेन वा ।
सर्वं विस्मृतवानसि भ्रमर हे यद्वारणो ऽद्याप्यसौ अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः

5.100

अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तम् ॥
(सू- 153)
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम्

5.449

कार्यकारणयोर्यश्व पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा
उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका ।
यथा कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरंपरां केयम्

5.450

अत्र मुखादि कमलादिरूपतयाध्यवसितम् ।
यच्च तदेवान्यत्वेनाध्यवसीयते सा, अपरा ।
यथा अण्णं लडहत्तणअं अण्णा विअ का वि वत्तणच्छाआ ।
सामा सामण्णपआवैणो रेह च्चिअ ण होई

5.451

"यद्यर्थस्यऽ; यदिशब्देन चेच्छब्देन वा, उक्तौ यत् कल्पनम् (अर्थात् असंभविनो ऽर्थस्य) सा तृतीया ।
यथा राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराबवमवाप्नुयात्

5.452

कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी ।
यथा हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता

5.101

(सू- 154)
प्रतिवस्तूपमा तु सा

5.453

सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
साधारणो धर्मः, उपमेयवाक्ये, उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शब्दभेदेन यत् उपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा ।
यथा देवीभावं गमिता परिवारपदं कथं भजत्वेषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम्

5.454

यदि दहत्यनलो ऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता

5.102

इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या ।
एवमन्यत्राप्यनुसर्तव्यम् ॥
(सू- 155)
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्

5.455

एतेषां साधारणधर्मादीनाम दृष्टो ऽन्तः निश्वयो यत्र स दृष्टान्तः ।
त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांसोर्विकसति कुसुमं कुमुद्धत्याः

5.456

एष साधर्म्येण ।
वैधर्म्येण तु तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः ।
भटाः परेषां विशरारुतामगुः, दधत्यवाते स्थिरतां हि पांसवः

5.103

(सू- 156)
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम्

5.457

प्राकरणिकाप्राकरणिकानाम अर्थात् उपमानोपमेयानाम् धर्मः क्रियादिः, एकवारमेव यत् उपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनात् दीपकम् ।
यथा किवणाणं धणं णाआणं फणमणी केशराइं सीहाणं ।
कुलबालिआणं त्थणआ कुत्तो चिप्पन्ति अमुआणं

5.458

कारकस्य च बह्वीषु क्रियासु सकृद्वृत्तिर्दीपकम् ।
यथा स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने

5.459

(सू- 157)
मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।
पूवेंण पूर्वेण वस्तुना, उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम् ।
यथा संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रडलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्

5.104

(सू- 158)
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता

5.460

नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा ।
क्रमेणोदाहरणम्-- पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः

5.461

कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्द्दशोः पुरः का ।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य

5.462

(सू- 159)
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
अन्यस्योपमेयस्य व्यतिरेक आधिक्यम् ।
क्षीणः क्षीणो ऽपि शशी भूयो भूयो ऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु

5.105

इत्यादानुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम् तदयुक्तम् अत्र यौवनगतास्थैर्याधिक्यं हि विवक्षितम् ।
(सू- 160)
हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते

5.463

शब्दार्थाब्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
व्यतिरेकस्य हेतुः, उपमेयगतमुत्कर्षनिमित्तम् उपमानगतमपकर्षकारणम् तयोर्द्वयोरुक्तिः, एकतरस्य द्वयोर्वा, अनुक्तिरित्यनुक्तित्रयम् एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते, आर्थेन च क्रमेणोक्ताश्वत्वार एव भेदाः, आक्षिप्ते चौपम्ये तावन्त एव, एवं द्वादश ।
एते श्लेषे ऽपि भवन्तीति चतुर्विंशतिर्भेदाः ।
क्रमेणोदाहरणम्-- असिमात्रसहायस्य प्रभूतारिपराभवे ।
अन्यतुच्छजनस्येव न स्मयो ऽस्य महाधृतेः

5.464

अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादाने ऽन्यत् भेदत्रयम् ।
एवमन्येष्वपि द्रष्टव्यम् ।
अत्र, इवाशब्दस्य सद्भावाच्छाब्दमौपम्यम् ।
असिमात्रसहायो ऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वो ऽयं महाधृतिः

5.465

अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम् ।
इयं सुनयना दासीकृततामरसश्रिया ।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम्

5.466

अत्रेवादितुल्यादिपदविरहेण, आक्षिप्तैवोपमा ।
जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः

5.467

अत्रेवार्थे वतिः, गुणशब्दः श्लिष्टः शाब्दमौपम्यम् ।
अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवज्जातु कलावैकल्यमागतः

5.468

अ6 तुल्यार्थे वतिः कलाशब्दः श्लिष्टः ।
मालाप्रतिकस्तूपमावत् मालाव्यतिरेको ऽपि संभवति ।
तस्यापि भेदा एवमूह्याः ।
दिङ्भात्रमुदाह्वियते ।
यथा हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः ।
रविवन्न चातिदुःसहकरतापितभूः कदाचिदसि

5.469

अत्र तुल्यार्थे वतिः विषमादयश्व शब्दाः श्लिष्टाः ।
नित्योदितप्रतापेन त्रियामामीलितप्रभः ।
भास्वतानेन भूपेन भास्वानेष विनिर्जितः

5.470

अत्र ह्याक्षिप्तैवोपमा भास्वतेति श्लिष्टः ।
यथा वा स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम् ।
यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम्

5.106

अत्रेवादीनां तुल्यादीनां च पदानामभावे ऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते ।
एवंजातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादाने ऽन्ये ऽपि भेदाः संभवन्ति ।
ते ऽपि, अनयैव दिशा द्रष्टव्याः ॥
(सू- 161)
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया

5.471

वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य, अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्वेति द्विधा, आक्षेपः ।
क्रमेणोदाहरणम्-- ए एहि किंपि कीएवि कएण णिक्विव भणामि अलमह वा ।
अविआरिअकज्जारम्भआरिणी मरौ ण भणिस्सं

5.472

ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः ।
अन्यर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर- व्यापाराय भवन्ति इन्त हन्त किमनेनोक्तेन न ब्रूमहे

5.107

(सू- 162)
क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना

5.473

हेतुरूपक्रियायाः, निषेधे ऽपि तत्फलप्रकाशनं विभावना ।
यथा कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि ।
परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा

5.474

(सू- 163)
विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः ।
अनुक्तनिमित्ता, उक्तनिमित्ता, अचिन्त्यनिमित्ता च ।
क्रमेणोदारहणम्-- निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतो ऽङ्गना सा

5.475

कर्पूर इव दग्धो ऽपि शक्तिमान् यो जने जने ।
नमो ऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे

5.476

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शंभुना न बलं हृतम्

5.108

(सू- 164)
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः

5.477

यथा एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च

5.109

(सू- 165)
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा

5.478

साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सो ऽर्थान्तरन्यासः ।
क्रमेणोदाहणम्-- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम्

5.479

सुसितवसनालंकारायां कदाचन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतो ऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः

5.480

गुणानामेव दौरात्म्यात् धुरि धुर्यो नियुज्यते ।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः

5.481

अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः

5.110

(सू- 166)
विरोधः सो ऽविरोधे ऽपि विरुद्धत्वेन यद्वचः ।
वस्तुवृत्तेनाविरोधे ऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।
(सू- 167)
जातिश्वतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणस्त्रिभिः

5.482

क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
क्रमेणोदाहरणम्-- अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः ।
सुभग कुरङ्गदृशो ऽस्या विधिवशतस्त्वद्वियोगपविपाते

5.483

गिरयो ऽप्यनुन्नतियुजो मरुदप्यचलो ऽब्धयो ऽप्यगम्भीराः ।
विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम्

5.484

येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधर- स्तीक्ष्णः सो ऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च ।
तेषां संगरसह्गसक्तमनसां राज्ञां त्वया भूपते पांसूनां पटलैः प्रशाधनविधिर्निर्वर्त्यते कौतुकम्

5.485

सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् ।
अवसरवशतः शफरो जनार्दनः सो ऽपि चित्रमिदम्

5.486

सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते ।
द्विजपत्नीनां पठिनाः सति भवति कराः सरोजसुकुमाराः

5.487

पेशलमपि खलवचनं दहतितरां मानसं सतच्वविदाम् ।
परुषमषि सुजनवाक्यं मलयजरसवत् प्रमोदयति

5.488

क्रौञ्चाद्रिरुद्दामदृषद्दृढो ऽसौ यन्मार्गणानर्गलशातपाते ।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः

5.489

परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवात् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः को ऽप्यन्तर्जढयति च तापं च कुरुते

5.490

अयं वारामेकी निलय इति रत्नाकर इति श्रितो ऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः

5.491

समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि तटजुषि शंकरचूडापगापि कालिन्दी

5.111

(सू- 168)
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्

5.492

स्वयोस्तदेकाश्रययोः ।
रूपं वर्णः संस्थानं च ।
उदाहरणम्-- पश्वादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैः आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलखति शयनादुत्थितः क्ष्मां खुरेण

5.493

(सू- 169)
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
व्याजरूपा व्याजेन वा स्तुतिः ।
क्रमेणोदाहरणम्-- हित्वा त्वामुपरोधवनध्यमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते ।
यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः

5.494

हे हेलाजितबौधिसच्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो- भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः

5.112

(सू- 170)
सा सहौक्तिः सहार्थस्य बलादेकं द्विवाचकम्

5.495

एकार्थाबिधायकमपि सहार्थबलात् यत् उभयस्याप्यवगमकं सा सहोक्तिः ।
यथा सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं बाप्पधारा गलन्ति ।
तुह सुहअ विओए तीअ उव्विग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा

5.496

श्वासदण्डादिगतं दीर्गत्वादि शाब्दम् दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते ॥
(सू- 171)
विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।
क्वचिदशोभनः क्वचिच्छोभनः ।
क्रमेणोदाहरणम्-- अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः

5.497

मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयो ऽयं सुहृदा तेन विना नरेन्द्रसूनुः

5.113

(सू- 172)
परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः

5.498

परिवृत्तिरलंकारः ।
उदाहरणम्-- लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् ।
लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम्

5.499

अत्र प्रथमे ऽर्धे समेन समस्य द्वितीये, उत्तमेन न्यूनस्य ।
नानाविधप्रहरणैर्नृप संप्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान् ।
दृपातारिवीरविसरेण वसुंधरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा

5.500

अत्र न्यूनेनोत्तमस्य ॥
(सू- 173)
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकम्
भूताश्व भाविनश्वेति द्वन्द्वः ।
भावः कवेरभिप्रायो ऽत्रास्तीति भाविकम् ।
उदाहरणम्-- आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम्

5.114

आद्ये भूतस्य द्वितीये भाविनो दर्शनम् ॥
(सू- 174)
काव्यलिङ्गं हेतोर्वाक्यपदार्थता

5.501

वाक्यार्थता यथा वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् ।
नमन् मुक्तः संप्रत्यहमतनुरग्रे ऽप्यनतिभाक् महेश क्षन्तव्यं तदिदमपराधद्वयमपि

5.502

अनेकपदार्थता यथा प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः

5.503

एकपदार्थता यथा भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरंपरां गिरिसुताकान्तालयालंकृतिम् ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे

5.504

एषु, अपराधद्वये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षेपः, महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः ॥
(सू- 175)
पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।
वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनं तत् पर्यायेण, भङ्ग्यन्तरेण कथनात् पर्यायोक्तम् ।
उदाहरणम्-- यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता ।
मदेनैरावणमुखे मानेन हृदये हरेः

5.505

अत्र, ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते तेन यदेवोच्यते तदेव व्यङ्ग्यम् ।
यथा तु व्यङ्ग्यं न तथोच्यते ।
यथा गवि शुक्ले चलति दृष्टे "गौः शुक्लश्वलतिऽ; इति विकल्पः ।
यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा ।
यतो ऽभिन्नासंसृष्टत्वेनदृष्टम् ।
भेदसंसर्गाभ्यां विकल्पयति ॥
(सू- 176)
उदात्तं वस्तुनः संपत्
संपत् समृद्धियोगः ।
यथा मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्ग्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम्

5.115

(सू- 177)
महतां चोपलक्षणम्

5.506

उपलक्षणमङ्गभावः, अर्थादुपलक्षणीये ऽर्थे ।
उदाहरणम्-- तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी ।
निवसन् बाहुसहायश्वकार रक्षःक्षयं रामः

5.507

न चात्र वीरो रसः, तस्येहाङ्गत्वात् ॥
(सू- 178)
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयो ऽसौ
तस्य प्रस्तुतस्य कार्यस्य, एकस्मिन् साधके स्थिते साधकान्तराणि यत्र संभवन्ति स समुच्चयः ।
उदाहरणम्-- दुर्वाराः स्महमार्गणाः प्रियतमो दूरे मनो ऽत्युत्सुकं गाढं प्रेण नवं वयो ऽतिकठिनाः प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तो ऽक्षमो नो सख्यश्वतुराः कथं नु विरहः सोढव्य इत्थं शठः

5.508

अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्यादि, उपात्तम् ।
एष एव समुच्चयः सद्योगे ऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक्लक्ष्यते ।
तथाहि-- कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः

5.509

अत्र सतां योगः ।
उक्तोदाहरणे त्वसतां योगः ।
शशी दिवसधूसरो गलतयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे

5.116

अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः ।
(सू- 179)
स त्वन्यो युगपद् या गुणक्रियाः

5.510

गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः ।
क्रमेणोदाहरणम्-- विदलितसगलारिकुलं तव बलमिदमभवदाशु विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि

5.511

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः

5.512

कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः ।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः

5.513

"धुनोति चासिं तनुते च कीर्तिम्ऽ; इत्यादेः "कृपाणपाणिश्व भवान् रणक्षितौ ससाधुवादाश्व सुराः सुरालयेऽ; इत्यादेश्व दर्शनात् "व्यधिकरणेऽ; इति "एकस्मिन् देशेऽ; इति च न वाच्यम् ॥
(सू- 180)
एकं क्रमेणानेकस्मिन् पर्यायः
एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः ।
क्रमेणोदाहरणम्-- नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणो ऽथ कण्ठे ऽधुना वससि वाचि पुनः खलानाम्

5.514

बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हदये ऽप्येष मृगशावाक्षि लक्ष्यते

5.515

रागस्य वस्तुतो भेदे ऽप्येकतया ध्यवसितत्वादेकत्वमविरुद्धम् ।
तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण

5.516

(सू- 181)
अन्यस्ततो ऽन्यथा ।
अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सो ऽन्यः ।
क्रमेणोदाहरणम्-- मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति ।
अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव

5.517

तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः ।
स क्षुद्रो मुकलध्वनिः कलमिदं संगीतकं योषिताम् आश्वर्यं दिवसैर्द्विजो ऽमियतीं भूमिं समारोपितः

5.117

अत्र, एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्तिः ॥
(सू- 182)
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः

5.518

पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् ।
धर्मिणि, अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम् ।
यथा यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः

5.519

साध्यसाधनयोः पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम् ॥
(सू- 183)
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
अर्थाद्विशेष्यस्य ।
उदाहरणम्-- महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम्

5.118

यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः, तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलंकारमध्ये गणितः ॥
(सू- 184)
व्याजौक्तिश्छझनोद्भिन्नवस्तुरूपनिगूहनम्

5.520

निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः ।
न चैषापह्नुतिः प्रकृताप्रकृतोभयनिष्ठस्य साम्यस्येहासंभवात् ।
उदाहरणम्-- शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-- रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः

5.119

अत्र पुलकवेपथू साचिकरूपतया प्रसृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्तिं प्रयोजयतः ॥
(सू- 185)
किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता

5.521

प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृशवस्त्वन्तरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसंख्या ।
अत्र च कथनं प्रश्नपूर्वकं तदन्यथा व परिदृष्टम् ।
तथा, उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः ।
क्रमेणोदाहरणम्-- किमासेव्य पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः ।
किमाराध्यं पुण्यं किमबिलषणीयं च करुणा यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति

5.522

किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्

5.523

कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति

5.524

भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्

5.525

(सू- 186)
यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात्
उत्तरमुत्तरं प्रति यथोत्तरम् ।
उदाहरणम्-- जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि संपदः

5.526

"हेतुमता सह हेतोरभिधानमभेदतो हेतुः" ।
इति हेत्वलंकारो न लक्षितः ।
आयुर्घृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् ।
अविरलकमलविकासः सकलालिमदश्व कोकिलानन्दः ।
रम्यो ऽयमेति संप्रति लोकोत्कण्ठाकरः कालः

5.120

इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलंकारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः ॥
(सू- 187)
क्रियया तु परस्परम्

5.527

वस्तुनोर्जनने ऽन्योयन्यम्
अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति, अन्योन्यनामा, अलंकारः ।
उदाहरणम्-- हंसाणं सरोहिं सिरी सारिज्जै अह सराण हंसेहिं ।
अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति

5.121

अत्रोभयेषामपि परस्परजनकता मिथःश्रीसारतासंपादनद्वारेण ॥
(सू- 188)
उत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति

5.528

असकृद् यद् असंभाव्यमुत्तरं स्यात् तदुत्तरम् ।
प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम् ।
उदाहरणम्-- वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वग्घकित्ती अ ।
जाव लुलिआलअमुही घरम्मि परिसक्कए सोण्हा

5.529

हस्तिदन्तव्याध्रकृत्तीनामहमर्थी ताः, मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते ।
न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः ।
नहि प्रश्नस्य प्रतिवचनं जनको हेतुः ।
नापीदमनुमानम् एकधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्यलंकारान्तरामेवोत्तरं साधीयः ।
प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असंभाव्यरूपं प्रतिवजनं स्यात् तत् अपरमुत्तरम् ।
अनयोश्व सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् ।
उदाहरणम्-- का विसमा देव्वगई किं लद्धं जं जणो गुणग्गाही ।
किं सोख्खं सुकलत्तं किं दुक्खं जं खलो लोओ

5.122

प्रश्नपरिसंख्यायामन्यव्यपोहे, एव तात्पर्यम् ।
इह तु वाच्ये, एव विश्रान्तिरित्यनयोर्विवेकः ॥
(सू- 189)
कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते

5.530

धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।
कुतो ऽपि, आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः ।
उदाहरणम्-- वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि पण्ठे ।
पुंस्त्वं तन्व्या व्यज्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख

5.531

अत्र, आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम् ।
पुंसामेव कृपाणपाणिता योग्यत्वात् ।
यथा वा संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
ईषन्नेत्रार्पिताकूतं लीलापझं निमीलितम्

5.123

अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतीपादितः ॥
(सू- 190)
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः

5.532

परः पर्यन्तभागः, अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः ।
उदाहरणम्-- राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्

5.124

(सू- 191)
भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः

5.533

इह यद्देशं करणम् तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् यथा धूमादि ।
यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागात् असंगतिः ।
उदाहरणम्-- जस्सेअ वणो तस्सेअ वेअणा भणै तं जणो अलिअं ।
दन्तक्खअं अवोले बहूए वेअणा सवत्तीणं

5.534

एषा च विरोधबाधिनी न विरोधःष भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात् ।
विरोधे तु विरोधित्वम् एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः ।
तथा चैवं निदर्शितम् ॥
(सू- 192)
समाधिः सुकरं कार्यं कारणान्तरयोगतः ।
साधनान्तरोपकृतेन कर्त्रा यद् अक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम ।
उदाहरणम्-- मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्

5.125

(सू- 193)
समं योग्यतया योगो यदि संभावितः क्वचित्

5.535

इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगे ऽसद्योगे च ।
उदाहरणम्-- धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवो ऽप्ययमनुपमो दत्तपत्रः स्मरस्य ।
जातं दैवात्सदृशमनयोः संगतं यत् तदेत- च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्

5.536

चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता ।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः

5.126

(सू- 194)
क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्व यद्भवेत्

5.127

गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः

5.537

द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयतेझ्र्1ट यच्च किंचिदारभमाणः कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत यावदप्रार्थितमप्यनर्थं विषयमासादयेत् झ्र्2ट तथा सत्यपि कार्यस्य कारणरूपानुकारे तत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः झ्र्3क्ष्4ट स समविपयर्यात्मा चतूरूषो विषमः ।
क्रमेणोदाहरणम्-- शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना ।
अयं क्व च कुकूलाग्निकर्कशो मदनानलः

5.538

सिंहिकासुतसंत्रस्तः शशः शीताशुमाश्रितः ।
जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः

5.539

सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूतै

5.540

आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे

5.541

अत्रानन्ददानं शलीलतापेन विरुध्यते ।
एवम् विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा

5.128

इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम् ॥
(सू- 195)
महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्याधिकं तु तत्

5.542

आश्रितम् आधेयम् आश्रयस्तदाधारः, तयोर्महतोरपि विषये तदपेक्षया तनू, अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रजतः, तदिदं द्विविधम् अधिकं नाम ।
क्रमेणोदाहरणम्-- अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्यो ऽपि यशोराशिर्यदत्र ते

5.543

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः

5.129

(सू- 196)
प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते

5.544

न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तत् अनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते ।
यथा, अनीके, अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयो ऽन्यो विजीयते, इत्यर्थः ।
उदाहरणम्-- त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता ।
पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः

5.545

यथा वा यस्य किंचिदपकर्तुमक्षमः कायनिग्रहकृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते

5.130

इन्देरत्र तदीयता संबन्धिसंबन्धात् ॥
(सू- 197)
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम्

5.546

सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत् किंचित् केनचिद्वस्तु वस्तुस्थित्यैव बलीयस्ताया तिरोधीयते तत् मीलितमिति द्विधा स्मरन्ति ।
क्रमेणोदाहरणम्-- अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः कृतपदो ऽपि संलक्ष्यते

5.547

अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकम् साधारणं च महोदयेन तत्राप्येतस्य दर्शनात् ।
ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते ।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधो ऽप्यभिज्ञः

5.131

अत्र तु सामर्थ्यादवसितस्य शैत्यस्य, आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात् ॥
(सू- 198)
स्थाप्यते ऽपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा

5.548

पूर्व पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा संभवति सा द्विधा बुधैरेकावली भण्यते ।
क्रमेणोदाहरणम्-- पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपूरस्कृताङ्ग्यः ।
रूपं समुन्मीलितसद्विलासम् अस्त्रं विलासः कुसुमायुधस्य

5.549

न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तत् यदलीनषट्पदम् ।
न षट्मदो ऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः

5.550

पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम् तस्य विलासाः, तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते ।
उत्तरत्र प्रतिषेधे ऽप्येवं योज्यम् ॥
(सू- 199)
यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणम्
यः पदार्थः केनचिदाकारेण नियतः, यदा कदाचित् अनुभूतो ऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत् तथैव स्मर्यते तत् भवेत् स्मरणम् ।
उदाहरणम्-- निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः ।
तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम्

5.551

यथा वा करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स ।
समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चं

5.552

(सू- 200)
भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने । 132 ॥
तदिति अन्यत् अप्राकरणिकं निर्दिश्यते ।
तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते ।
तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरणिकतया संवेदनम् स भ्रान्तिमान् ।
न चेष रुपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च, अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् ।
उदाहरणम्-- कपाले मार्जारः पय इति करान् लेढि शशिन- स्तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्वन्द्रो जगदिदमहो विप्लवयति

5.133

(सू- 201)
आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम्

5.553

अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य, उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योपमानप्रतिकूलवर्तित्वात् उभयरूपं प्रतीपम् ।
क्रमेणोदाहरणम्-- लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः

5.554

ए एहि दाव सुन्दरि कण्णं दाऊण सुणसू वअणिज्जं ।
तुज्झ मुहेण किसोअरि चंदो उभमिज्जै जणेण

5.555

अत्र मुखेनोपमीयमानस्य शशिनः स्व्पतरगुणत्वात् उपमित्यनिष्पच्या "वअणिज्जम्ऽ; इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः ।
क्वचित्तु निष्पन्नैवोपमितिक्रिया, अनादरनिबन्धनम् ।
यथा गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि मुग्धे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि

5.556

इहोपमेयीकरणमेवोत्पलानामनादरः ।
अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि, अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम् ।
यथा अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवने ऽस्मिन् वचनानि दुर्जनानाम्

5.134

अत्र हालाहतस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् ॥
(सू- 202)
प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम्

5.557

अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन संपृक्तमपरित्यक्रनिजगुणमेव तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम् ।
उदाहरणम्-- मलयजरसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः ।
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियो ऽभिसारिकाः

5.558

अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः, अत एव पृथग्भावेन न तयोरुपलक्षणम् ।
यथा वा वेत्रत्वचा तुल्यरुचां वधुनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गा सहेलं यदि नापतिष्यन् को ऽवेदयिष्यन्नवचम्पकानि

5.135

अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्व बादायोगात् ॥
(सू- 203)
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा

5.136

अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः

5.559

प्रसिद्धाधारपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः ।
उदाहरणम्-- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः

5.560

एकमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः ।
उदाहरणम्-- सा वसै तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेशु ।
अह्नारिसाण सुन्दर ओसासो कत्थ पावाणं

5.561

यदपि किंचिद्रभसेत, आरभमाणस्तेनैव यत्नेनाशक्यपरि कार्यान्तरमारभते सो ऽपरो विशेषः ।
उदाहरणम्-- स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्व

5.562

यथा वा गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृनम्

5.137

सर्वत्र, एवंविधविषये ऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्रायेणालंकारत्वायोगात् ।
अत एवोक्तम् "सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नो ऽस्यां कविना कार्यः को ऽलंकारो ऽनया विना" ॥
इति ॥
(सू- 204)
स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः

5.563

वस्तु तिरस्कतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेवयत्समासादयति स तद्गुणः, तस्याप्रकृतस्य गुणो ऽत्रास्तीति ।
उदाहरणम्-- विमिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः

5.564

अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता ॥
(सू- 205)
तद्रूपाननुहारश्वेदस्य तत् स्यादतदागुणः ।
यदि तु तदीयं वर्णं संभन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृह्णीयात् तदा भवेदतद्गुणो नाम ।
उदाहरणम्-- धवलोसि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअं ।
राअभरपिए वि हिअए सुहअ णिहित्तो ण रत्तोसि

5.565

अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः ।
किंच तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते ।
तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुतो ऽपि निमित्तात् नानुविधीयते सो ऽतद्गुण इत्यपि प्रतिपत्तव्यम् ।
यथा गाङ्गमम्बु सिदमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते

5.131

(सू- 206)
यद्यथा साधितं केनाप्यपरेण तदन्यथा

5.566

तथैव यद्विधीयेत स व्याघात इति स्मृतः ।
येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तदुपायकमेब यत् अन्यथाकरणम् स साधितवस्तुव्याहतिहेतुत्वात् व्याघातः ।
उदाहरणम्-- दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः

5.139

(सू- 207)
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः

5.567

एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवमन्योन्यनिरपेक्षतया यत् एकत्र शब्दभागे एव, अर्थविषये, एव, उभयत्रापि वा, अवस्थानम् सा, एकार्थसमवायस्वभावा संसृष्टिः ।
तत्र शब्दालंकारसंसृष्टिर्यथा वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया

5.568

अर्थालंकारसंसृष्टिस्तु लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता

5.569

पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः, उत्तरत्र तु तथाविधे, उपमोत्प्रेक्षे ।
शब्दार्थालंकारयोस्तु संसृष्टिः ।
सो णत्थि एत्थ गामे जो एअं महमहन्तलाअण्णं ।
तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारेइ

5.570

अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे ।
संसर्गश्व तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात् ॥
(सू- 208)
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः ।
एते, एव यत्रात्मनि, अनासादितस्वतन्त्रभावाः परस्परम् अनुग्राह्यानुग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात् संकरः ।
उदाहरणम्-- आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते ।
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति

5.571

अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम् तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः ।
यथा वा जटाभाभिर्माभिः करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः ।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति

5.572

उपमा रूपकम् उत्प्रेक्षा श्लेषश्वेति चत्वारो ऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते ।
कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते ।
अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः ।
श्लेषच्छायया तु कलङ्कस्य करधारणम् असदेव प्रत्यासच्या, उपचर्य योज्यतेशशाङ्केन केवलं कलङ्कस्य मूर्त्यैव, उद्वहनात् ।
कलङ्को ऽक्षवलयमिवेति तु, अपमायां कलङ्कस्य, उत्कटतया प्रतिपत्तिः ।
न चास्य करधृतत्वं तच्वतो ऽस्तीति मुख्ये ऽप्युपचार एव शरणं स्यात् ।
एवंरूपश्व संकरः शब्दालंकारयोरपि परिदृश्यते ।
यथा राजति तटीयमभिहतदानवरासातिपातिसारावनदाः गजता च यूथमविरतदानवरा सातिपाति सारा वनदा

5.140

अत्र यमकमनुलोमप्रतिलोमश्व चित्रभेदः पादद्वयगते परस्परापेक्षे ।
(सू- 209)
एकस्य च ग्रहे न्यायदोषाभावादनिश्वयः

5.573

द्वयोर्बहूनां वा, अलंकाराणामेकत्र कमावेशे ऽपि विरोधात् न यत्र युगपदवस्थानम् न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति यैनैकतर एव परिगृह्येत स निश्वयाभावरूपो द्वितीयः संकरः समुच्चयेन संकरस्यैवाक्षेपात् ।
उदाहरणम्-- जह गहिरो जह रअणणिब्भरो जह अ णिम्मलच्छाओ ।
तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ

5.574

अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किम् अब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः, इयमप्रस्तुतप्रशंसा, इति संदेहः ।
यथा वा नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति ।
अधुनापि निरुद्धाशमविघीर्णमिदं तमः

5.575

अत्र किं कामस्योद्दीपकः कालो वर्तते, इति भह्ग्यन्तरेणाभिधानात् पर्यायोक्तम् उत वदन्स्येन्दुबिम्बतया, अध्यवसानात् अतिशयोक्तिः किं वा, एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम् अथ वा तयोः समुच्चयविवक्षायां दीपकम् अथ वा तुल्ययोगिता किमुप्रदेषसमये विशेषणसाम्यादाननस्यावगतौ समाकोक्तिः, आहोस्वित् मुखनैर्मल्यप्रस्तावात् अप्रस्तुतप्रशंसा, इति बहूनां संदेहादयमेव संकरः ।
यत्र तु न्यायदोषयोरन्यतरस्यावतारः, तत्र, एकतरस्य निश्वयात् न संशयः ।
न्यायश्व साधकत्वम् अनुकूलता दोषो ऽपि बाधकत्वं प्रतिकूलता ।
तत्र सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः

5.576

इत्यत्र मुख्यतया, अवगम्यमाना हासद्युतिर्वक्त्रे, एवानुकूल्य भजते, इत्यूपमायाः साधकम् शशिना तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः

5.577

इत्यात्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम् ।
राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्

5.578

इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवात् ।
पादाम्बुजं भवतु नो विजयाय मञ्जु- मज्जीरशिज्जितमनोहरमम्बिकायाः

5.579

इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम् असंभवादिति रूपकस्य बाधकम् न तु पादे ऽनुकूलमित्युपमायाः साधकममिधीयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः ।
एवमन्यत्रापि सुधीभिः परीक्ष्यम् ॥
(सू- 210)
स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम् ।
व्यवस्थितं च
अभिन्ने, एव पदे स्फुटतया यत् उभावपि शब्दार्थालंकारौ व्यवस्थां समासादयतः सो ऽप्यपरः संकरः ।
उदाहरणम्-- स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि संचुकोच

5.141

अत्र, एकापदानुप्रविष्टौ रूपकानुप्रासौ ॥
(सू- 211)
तेनासौ त्रिरूपः परिकीर्तितः

5.142

तदयमनुग्राह्यानुग्राहकतया संदेहेन, एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकतार एव संकरो व्याकृतः ।
प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोमयगतत्वेन त्रैविध्यजुषो ऽलंकाराः ॥
कुतः पुनरेष नियमो यदेतेषां तुल्ये ऽपि काव्यशोभातिशयहेतुत्वे कश्विदलंकारः शब्दस्य कश्विदर्थस्य कश्विच्चोभयस्य, इति चेत् उक्तमत्र यथा काव्ये दोषगुणालंकाराणां शब्दार्थोभयगतत्वेन व्यवक्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात् ततश्व यो ऽलंकारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलंकारो वियवस्थाप्यते, इति ।
एवं च यथा पुनरुक्तवदाभासः परंपरितरूपकं चोभयोर्भावाभावानुविधायितया, उभयालंकारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयो ऽपि द्रष्टव्याः ।
अर्थस्य तु तत्र वैचित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालंकारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः ।
यो ऽलंकारो यदाश्रितः स तदलंकार इत्यपि कल्पनायाम् अन्वयव्यतिरेकावेव समाश्रयितव्यौ ।
तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलंकाराणां यथोक्तनिमित्त ।
एव परस्परव्यतिरेको ज्यायान् ॥
(सू- 212)
एषां दोषा यथायोगं संभवन्तो ऽपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः

5.580

तथाहि--अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः, ते प्रसिद्धिविरुद्धताम् अपुष्टार्थत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् क्रमेणोदाहरणम्-- चक्री चक्रारपङ्क्तिं हरिरपि च हरन् धूर्जटिर्धूर्ध्वजाग्रा- नक्षं नक्षत्रनाथो ऽरूणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नो ऽन्वहमहिमरुचेः सो ऽवतात्स्यन्दनो वः

5.581

अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः, अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः ॥
भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे

5.582

अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरणे रणरणकमकारणं कुरुते

5.583

अत्र वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैकल्यम् ॥
अकुण्ठोत्कण्ठया (582 अ) इति ।
अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यते, इति परुषानुप्रासो ऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः ॥
यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः ॥
यथा भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः ।
दुरन्ततां निर्णयतो ऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः

5.584

उपमायाम् उपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी, अनुचितार्थत्वं दोषः, धर्णाश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः ॥
क्रमेणोदाहरणम्-- चण्डालैरिव युष्माभिः साहसं परमं कृतम्

5.585

वह्निस्फुलिङ्ग इव भानुरयं चकास्ति

5.586

अयं पझासनासीनश्वक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः

5.587

पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः

5.588

अत्र चण्डालादिभिरुपमानैः प्रस्तुतो ऽर्थो ऽत्यर्थमेव कदर्थित इत्यनुचितार्थता ॥
स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान्

5.589

अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम् ॥
स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञमीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः

5.590

अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमितिरिच्यते, इत्यधिकपदत्वम् ॥
लिङ्गवचनभेदो ऽपि, उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात् तदा, एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते, इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम् ।
यथा-- चिन्तारत्नमिव चयुतो ऽसि करतो धिङ्भन्दभाग्यस्य मे

5.591

सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव

5.592

यत्र तु नानात्वे ऽपि लिङ्गवचनयोः सामान्याभिधायि पदं स्वरुपभेदं नापद्यते न तत्रैतद्दूषणावतारः, उभयथापि, अस्य, अनुगमक्षमस्वभावत्वात् ।
यथा गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः

5.593

तद्वेषो ऽसदृशो ऽन्याबिः स्त्रीबिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव

5.594

कालपुरुषविध्यादिभेदे ऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः ।
यथा अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती ।
पश्विमात् यामिनीयामात् प्रसादमिव चेतना

5.595

अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः ।
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता ।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव

5.596

अत्र लता विभ्राजते न तु विभ्राजसे, इति संबोध्यमाननिष्ठस्य परभागस्य, असंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः ।
गङ्गेव प्रवहतु ते सदैव कीर्तिः

5.597

इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु, इति, अप्रवृत्तप्रवर्तनात्मनो विधेः ।
एवंजातीयकस्य चान्यस्यार्थस्य, उपमानगतस्यासंभवाद्विध्यादिभेदः ॥
ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधमाबिसंबन्धान्न कश्वित्कालादिभेदो ऽस्ति ।
यत्राप्युपात्तेनैव सामान्यधर्मेण, उपमा, अवगम्यते यथा "युधिष्ठिर इवायं सत्यं वदतिऽ; इति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे ।
सत्यावादी सत्यं वदतीति च न पौनरुक्तयम् आशङ्कनीयम् रैपोषं पुष्णातीतिवत् युधिष्ठिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात् ।
सत्यमेतत् किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याघातादिति सचेतस एवात्र प्रमाणम् ॥
असादृश्यासंबवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः ।
यथा ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्

5.598

अत्र काव्स्य शशिना, अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम् ।
निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणो ऽर्कात्

5.599

अत्रापि ज्वलन्त्यो ऽम्बुधाराः सूर्यमण्डलात् निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानो ऽर्थो ऽनौचित्यमेव पुष्णाति ॥
उत्प्रेक्षायामपि संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दो ऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः ।
यथा उद्ययौ दीर्घिकागर्भात् मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यश्ङ्कासंकुचितं यथा

5.600

उत्प्रेक्षितमपि ताच्विकेन रुपेण परिवर्जितत्वात् निरुपाख्यप्रख्यम् तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम् तत् आलोख्यमिव गगनतले ऽत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य, अनुचितार्थतैव दौषः ।
यथा दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं शरणं प्रपन्ने प्रपन्ने ममत्वमुच्चैः शिरसामतीव

5.601

अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् ।
संभावितेन तु रूतेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः ।
साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः ।
यथा स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया ।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया

5.602

अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियो ऽपि प्रतीनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन ॥
श्लेषोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः ।
यथा स्वयं च पल्लवाताम्रभास्वत्करविराजिता ।
प्रभातसंध्येवास्वापफललुब्धेहितप्रदा

5.603

इति ॥
अप्रस्तुतप्रशंसायामपि उपमेयम् अनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम् ।
यथा आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वावसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतच्वान्तरम्

मूल पाठ: Kāvyaprakāśa with Vāmanācārya Rāmabhaṭṭa Jhalakikar's Bālabodhinī commentary · Edition: Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa, Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920] · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc