भाषा

ENहिગુ
ग्रंथ पाठ

काव्यप्रकाश (टीका सहित) · अध्याय 4

4.2

तथेति व्यञ्जकः ॥
इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः

4.21

॥ अथ तृतीय उल्लासः ॥
(सू- 35)
अर्थाः प्रोक्ताः पुरा तेषाम्
अर्थाः, वाच्यलक्ष्यव्यङ्ग्याः ।
तेषां वाजकलाक्षणिकव्यञ्जकानाम् ॥
(सू- 36)
अर्थव्यञ्जकतोच्यते ।
कीदृशीत्याह (सू- 37)
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः

4.22

प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्तस्यान्यार्थधीहेतुर्व्यापारो व्यक्तितरेव सा

4.13

बोद्धव्यः प्रतिपाद्यः ।
काकुर्ध्वनेर्विकारः ।
प्रस्तावः प्रकरणम् ।
अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः ।
क्रमेणोदाहरणानि ।
ऐपिहुलं जलकुंभं घेत्तूण समागदह्नि सहि तुरिअम् ।
समसेअसलिलणीसासणीसहा वीसमामि खणम्

4.14

अत्र चौर्यरतगोपनं गब्यते ।
ओण्णिद्दं दोब्बल्लं चिंता अलसत्तणं सणीससिअम् ।
मह मंदभाइणीए केरं सहि तुह वि अहह परिहवै

4.15

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्जालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु

4.16

अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते ।
न च वाच्यसिद्धयङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्क्यम् ।
प्रश्र्नमात्रेणापि काकोर्विश्रान्तेः ।
तैआ मह गंडत्थलणिमिअं दिठ्ठिं ण णेसि अण्णत्तो ।
एण्हिं सच्चेअ अहं ते अ कवाला ण सा दिठ्ठी

4.17

अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते, इति व्यज्यते ।
उद्देशो ऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुदृदस्तन्वि दे वान्ति वाता येषामग्रे सरति कलिताकाण्जकोपो मनोभूः

4.18

अत्र रतार्थं प्रविशेति व्यङ्ग्यम् ।
णोल्लेइ अणोल्लमणा अत्ता मं घरभरम्मि ।
खणमेत्तं जै संझाइ होइ ण व होइ वीसामो

4.19

अत्र संध्या संकेतकार इति तटस्थं प्रति कयाचिद्दयोत्यते ।
सुव्वह समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण ।
एमे अ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम्

4.20

अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते ।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितो ऽञ्जलिर्वः

4.21

अत्र विविक्तो ऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति, आश्वस्तां प्रति कयाचिन्निवेद्यते ।
गुरुअणपरवस पिअ किं भणामि तुइ मंदभाइणी अहकम् ।
अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम्

4.22

अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न बवामि तव तु न जानामि गतिमिति व्यज्यते ।
आदिग्रहणाच्चेष्टादेः ।
तत्र चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् ।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते

4.23

अत्र चेष्टया प्रच्छन्नकान्तविष्य आकूतविशेषो ध्वन्यते ।
निराकाह्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते ।
वत्त्कादीनां मिथःसंयोगे द्विकादिभेदेन ।
अनेन क्रमेण लक्ष्यव्यङ्ग्यपोश्व व्यञ्जकत्वमुदाहार्यम् ॥
(सू- 38)
शब्दप्रमाणवेद्यो ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता

4.3

शब्देति ।
नहि प्रमाणान्तरवेद्यो ऽर्थो व्यञ्जकः ॥
इति श्रीकाव्यप्रकाशे ऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः

4.24

॥ अथ चतुर्थ उल्लासः ॥
यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह ।
(सू- 39)
अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्

4.23

लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, अविवक्षितं वाच्यं यत्र स "ध्वनौऽ; इत्यनुवादात् ध्वनिरिति ज्ञेयः ।
तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् ।
यथा त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्

4.24

अत्र वचनादि, उपदेशादिरूपतया परिणमति ।
क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम् ।
यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्

4.25

एतद् अपकारिणं प्रति विपरीतलक्षणया कश्विद्वक्ति ॥
(सू- 40)
विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः ।
अन्यपरं व्यङ्ग्यनिष्ठम् ॥
एष च (सू- 41)
को ऽप्यलयक्रमव्यङ्ग चो लक्ष्यव्यङ्ग्यक्रमः परः

4.26

अलक्ष्येति ।
न खलु विभावानुभावव्यभिचारिण एब रसः ।
अपि तु रसस्तैः, इत्यस्तिक्रमः ।
स तु लाघवान्न लक्ष्यते ॥
अत्र (सू- 42)
रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः

4.27

आदिघणाद्भावोदयभावसंधिभावशबलत्वानि ।
प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः, यथोदाहरिष्यते ।
अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसवत्प्रेयऊर्जस्विसमाहितादयो ऽलंकाराः ।
ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते ॥
तत्र रसस्वरूपमाह (सू- 43)
कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाठ्यकाव्ययोः

4.28

विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः

4.25

उक्तं हि भरतेन "विभावानुभावव्यमिचारिसंयोगाद् रसनिष्पत्तिः" इति ।
एतद्द्विवृण्वते ।
"विभावैर्ललनोद्यानादि भिरालम्बनोद्दीपनकारणैः, रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिमिर्निर्वेदादिभिः सहकारिमिरुपचितो मुख्यया वृच्या रामादावनुकार्ये तद्रूपतसंधानान्नर्तके ऽपि प्रतीयमानो रसः" इति भट्टलोल्लटप्रभृतयः ।
राम एवायम् अयमेव राम इति "न रामो ऽयम्ऽ; इत्यौत्तरकालिके बाधे रामो ऽयमिति रामः स्याद्वा न वायमिति रामसदृशो ऽयमिति च सम्यङ्भिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामो ऽयमिति प्रतिपच्या ग्राह्ये नटे "सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः ।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता

4.26

दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्व ।
अविरलविलोलजलदः कालः समुपागतश्वायम्ऽ;

4.27

इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकाय्रप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः "संयोगात्ऽ; गम्यगमकभावरूपात् अनुमीयमानो ऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः ।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नामिव्यज्यते, अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेनन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सच्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतच्वेन भोगेन भुज्यते, इति भट्टनायकः ।
लोके प्रमदिमिः स्थाय्यनुमाने ऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारव्च्वादलौकिकविभावादिशब्दव्यवहायैर्र्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितो ऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नो ऽपि गोचरीकृतश्वर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्नास्वादमिवानुबावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः ।
स च न कार्यः ।
विभावादिविनाशे ऽपि तस्य संभवप्रसङ्गात् ।
नापि ज्ञाप्यः सिद्धस्य तस्यासंभवात् ।
अपि तु विभावादिभिर्व्यज्जितश्वर्वणीयः ।
कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत्, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम् ।
चर्वणानिष्पच्या तस्य निष्पत्तिरुपचरितेति कार्यो ऽप्युच्यताम् ।
लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंबेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्ये ऽप्यभिधीयताम् ।
तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात् ।
नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात् ।
उभयाभावस्वरूपस्य चो भयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः ॥
व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयो ऽनुभावाः शृङ्गारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः ।
वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः ।
धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे

4.28

इत्यादौ परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः

4.29

दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्जितभ्रूलतम् ।
मानिन्याश्वरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि

4.29

इत्यादौ च यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकन्तिकत्वमिति ॥
तद्विशेषानाह-- (सू- 44)
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः

4.30

तत्र शृह्गारस्य द्वौ भेदौ ।
संभोगो विप्रलम्भश्व ।
तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गण्यते ।
यथा शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुंखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता

4.31

तथा त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः

4.32

अपरस्तु, अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः ।
क्रमेणोदाहरणम्-- प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्वेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य वाह्यकरणव्यापाररोधी क्षणा- दाश्सापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः

4.33

अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहद् यो मां नेच्छति नागतश्व हहहा को ऽयं विधेः प्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि

4.34

एषा विरहोत्कण्ठिता ।
सा पुत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः

4.35

प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्वितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते

4.36

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः

4.37

हास्यादीनां क्रमेणोदारहणम्-- आकुञ्व्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतो ऽहमिति रोदिति विष्णुशर्मा

4.38

हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर- श्वित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि

4.39

कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्

4.30

क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ॥
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः किंचिद्भ्रूभह्गलीलानियमितजलधिं राममन्वेषयामि ॥ 4.0 ॥
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्वार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दभैंरर्धावलीढैः श्रमविवृतमुखभ्रंशिमिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥ 4.1 ॥
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दह्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ 4.2 ॥
चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रबावः काप्याकृतिर्नूतन एष सर्गः ॥ 4.3 ॥
एषां स्थायिभावानाह-- (सू- 33)
रतिर्हासश्व सोकश्व क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्तिताः

4.31

स्पष्टम् ।
व्यभिचारिणो ब्रूते-- (सू- 46)
निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्य च चिन्ता मोहः स्मृतिर्धृतिः

4.32

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च

4.33

सुप्तं प्रबोधो ऽमर्षश्वाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च

4.34

त्रासश्वैव वितर्कश्व विज्ञेया व्यभिचारिणः ।
यस्त्रिंशदमी भावाः समाख्यातास्तु नामतः

4.35

निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वे ऽप्युपादानं व्यमिचारित्वे ऽपि स्थायिताभि धानार्थम् ।
तेन (सू- 47)
निर्वेदस्थायिभङावो ऽस्ति शान्तो ऽपि नवमो रसः ।
यथा अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुदृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 4.4 ॥
(सू- 48)
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः

4.36

भावः प्रोक्तः
आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया ।
कान्ताविषया तु व्यक्ता शृङ्गारः ।
उदाहरणम् कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ 4.5 ॥
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥ 4.6 ॥
एवमन्यदप्युदाहार्यम् ।
अञ्जितव्यभिचारी यथा जाने कोपपराह्भुखी प्रियतमा स्वप्ने ऽद्य दृष्टा मया मा मां संस्पृस पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ 4.7 ॥
अत्र विधिं प्रत्यसूया ।
(सू- 49)
तदाभासा अनौचित्यप्रवर्तिताः ।
तदाभासा रसाभासा भावाभासाश्व ।
तत्र रसाभासो यथा स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिह्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ 4.8 ।
अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति ।
भावाभासो यथा राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गिविभ्रमाङ्गी ।
तत् किं करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ 4.9 ॥
अत्र चिन्ता, अनौचित्यप्रवर्तिता ।
एवमन्ये ऽप्युदाहार्याः ॥
(सू- 50)
भावस्य शान्तिरुदयः संधिः शबलता तथा

4.50

क्रमेणोदाहरणम् तस्याः सान्द्रविलेपनस्तनतटप्र श्लेषमुद्राङ्कितं किं वक्षश्वरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् संप्रमार्ष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम्

4.51

अत्र कोपस्य ।
एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः

4.52

अत्रौत्सुक्यस्य ।
उत्सिक्तस्य तपःपराक्रमनिधेरब्यागमादेकतः सत्संगप्रियता च वीररभसोत्फालश्व मां कर्षतः ।
वैदैहीपरिरम्भ एष च मुहुश्वैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः

4.53

अत्रावेगहर्षयोः ।
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय नःश्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थयमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति

4.37

अत्र वितकारैत्सुक्यमतिस्मरणशह्कादैन्यधृतिचिन्तानां शबलता ।
भावस्थितिस्तूक्ता उदाहृता च ॥
(सू- 51)
मुख्ये रसे ऽपि ते ऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
ते भावशान्त्यादयः ।
अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत् ॥
(सू- 52)
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः

4.38

शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यःष अर्थशक्तिमूलानुरणनरूपव्यङ्गयः उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्वेति त्रिविधः ॥
तत्र
अलंकारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते

4.54

(सू- 53)
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भ वो द्विधा ।
वस्त्वेवेति, अनलंकारं वस्तुमात्रम् ।
आद्यो यथा उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः

4.55

अत्र वाक्यस्यासंबद्धार्थाबिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्ग्यः ।
तिरमरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः ।
मतिमानतच्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान्

4.56

अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः ।
अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामसि

4.57

अत्रापि विरोधाभासः ।
निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने

4.58

अत्र व्यतिरेकः ।
अलंकार्यस्यापि ब्राह्नणश्रणणन्यायेनालंकारता ।
वस्तुमात्रं यथा पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअपओहरं पेख्खिऊण जै वससि ता वससु

4.59

अत्र यद्युपभोगक्षमो ऽसि तदा, आस्स्वेति व्यज्यते ।
शनिरशनिश्व तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारो ऽनुदारश्व

4.39

त्र अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते ।
(सू- 54)
अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः संभवी स्वतः

4.40

प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालंकृतिर्वेति षड्भेदो ऽसौ व्यनक्ति यत्

4.60

वस्त्वलंकारमथ वा तेनायं द्वादशात्मकः ।
स्वतःसंभवी न केवलं भणितिमात्रनिष्पन्नो यावब्दहिरप्यौचित्येन संभाव्यमानः ।
कविना प्रतिभाणमात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधो ऽपर इति त्रिविधः ।
वस्तु वालंकारो वासाविति षोढा व्यञ्जकः ।
तस्य वस्तु वालंकारो वा ब्यङ्ग्य इति द्वादशभङेदोर् ।
आथशक्त्युद्भवो ध्वनिः ।
क्रमेणोदाहरणम्-- अलसशिरोपणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ ।
इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ

4.61

अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते ।
धन्यासि या कथयसि प्रियसंगमे ऽरि विस्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि

4.62

अत्र त्वमधन्या, अहं तु धन्येति व्यतिरेकालंकारः ।
दर्पान्धगन्धगजकुम्भकपाटकूटसंक्रान्तिनिघ्नघनशोणितशोणशोचिः ।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः

4.63

अत्रोपमालंकारेण सकलरिपुबलक्षयः क्षणात् करिष्यते, इति वस्तु ।
गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम्

4.64

अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते, इत्युत्प्रेक्षा च ।
एषूदाहरणेषु स्वतऋसंभवी व्यञ्जकः ।
कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम् ।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्का दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति

4.65

अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते ।
केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ ।
जह कन्दराहिं विहुरा तस्स दढं कंठअम्मि संठविआ

4.66

अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति, इत्युत्प्रेक्षा ।
एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलंकारः ।
न पराय्य गतास्तद्वैरिणो ऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्व ।
गाढालिङ्गणरहसुज्जुअम्मि दैए लहुं समोसरै ।
माणंसिणीण माणो पीलणभीअ व्व हिअआहिं

4.67

अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते, इति वस्तु ।
जा ठेरं व हसन्ता कैवअणंबुरुहबद्धविणिवेसा ।
दावेइ भुअणमंडलमण्णं विअ जऐ सा वाणी

4.68

अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते, इति व्यतिरेकः ।
एषु कव्प्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः ।
जे लंकागिरिमेहलासु खलिआ संभोगखिण्णोरई-- फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम् ।
ते एङ्णिं मलआनिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ

4.69

अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते ।
सहि विरैऊण माणस्स मज्झ धीरत्तणेण आसासम् ।
पिअदंसणविहलंखलखणम्मि सहसत्ति तेण ओसरिअम्

4.70

अत्र वस्तुनाकृते ऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते, इत्युत्प्रेक्षा वा ।
ओल्लोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम् ।
रत्तंसुअं पआओ कोवेण पुणो इमे ण अक्कमिआ

4.71

अत्र किमिति लोचने कुपिते वहसि, इति, उत्तरालंकारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु ।
महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ

4.72

अत्र हेत्वलंकारेण "तनोस्तनूकरणे ऽपि तव हृदये न वर्ततेऽ; इति विशेषोक्तिः ।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः ।
एवं द्वादश भेदाः ॥
(सू- 55)
शब्दार्थो भयभूरेकः
यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम्

4.41

अत्रोपमा व्यङ्ग्या ॥
(सू- 56)
भेदा अष्टादशास्य तत्

4.73

अस्येति ध्वनेः ॥
ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह ।
(सू- 57)
रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
अनन्तत्वादिति ।
तथाहि-नव रसाः ।
तत्र शृह्गारस्य द्वौ भेदौ ।
संभोगो विप्रलम्भश्व ।
संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यांस्तमयचन्द्रोदयषडृतुवर्णनादयो बहवो भेदाः ।
विप्रलम्भस्याभिलाषादय उक्ताः ।
तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् ।
तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् ।
तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम् ।
का गणना त्वन्येषाम् ।
असंलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते ॥
(सू- 58)
वाक्ये द्वचुत्थः
द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः ॥
(सू- 59)
पदे ऽप्यन्ये
अपिशब्दाद्वाक्ये ऽपि ।
एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते ।
तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि-- यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्यो ऽनुकम्प्यश्व स जातः स च जीवति

4.74

(1) अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः ।
खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम् ।
हिअअवअस्सवहुमआ ण हु ववसाआ विमुज्झन्ति

4.75

(2) अत्र विमुह्यन्तीति ।
लावण्यं तदसौ कान्तिस्तुद्रूपं स वचःक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्

4.76

अत्र तदादिपदैरनुभवैकगौचरा अर्थाः प्रकाश्यन्ते ।
यथा वा मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति

4.77

(3) अत्र भीताननेति ।
एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते ।
भावादीनां पदप्रकाश्यत्वे ऽधिकं न वैचित्र्यमिति न तदुदाह्रियते ।
रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः ।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम

4.78

(4) अत्र भीषणीयस्य भीमसेन उपमानम् ।
भूक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः

4.79

(5) काचित् संकेतदायिनमेवं मुख्यया वृच्या शंसति ।
सायं स्नानमुपासितं महयजेनाङ्गं समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः ।
आश्वर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्रोति ते नासितुम्

4.80

(6) अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु, अधुनापदद्योत्यं व्यज्यते ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा

4.81

चिन्तयन्ती जगत्सूतिं परब्रह्नस्वरुपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका

4.82

(7) अत्र जन्मसहस्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम् ।
एवं चाशेषचयपदद्योत्ये, अतिशयोक्ती ।
क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् ।
बत वीर तव द्विषतां पराह्नुखे त्वयि परङ्भुखं सर्वम्

4.83

(8) अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन "विधिरपि त्वामनुवर्ततेऽ; इति सर्वपदद्योत्यं वस्तु ।
तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो ।
इअ णववहुआ सोऊण कुणै वअणं महिसंमुहम्

4.84

(9) अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतम् येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् ।
एपु स्वतःसंभवी व्यञ्जकः ।
राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम् ।
एकच्छत्तं विअ कुणै भुअणरज्जं विजंभंतो

4.85

(10) अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्विदपि तदादेशपराङ्भुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते, इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते ।
निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले ।
दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः

4.86

(11) अत्रवस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः ।
वारिज्जंतो वि पुणो संदावकदत्थिएण हिअएण ।
थणहरवअस्सएण विसुद्धजाई ण चलै से हारो

4.87

(12) अत्र विशुद्धजातित्वलक्षणहेत्वलंकारेण हारो ऽनवरतं अम्पमान एवास्ते, इति ण चलैपदद्योत्यं वस्तु ।
सो मुद्धसामलंगो धम्मिल्लो कलिअललिअणिअदेहो ।
तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जऐ

4.88

(13) अत्र रूपकेण मुद्दुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः, यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुको ऽभूदिति खंधपदद्योत्या विभावना ।
एषु कविप्रौढोक्तिममात्रनिष्पन्नशरीरः ।
णवपुण्णिमामिअंकस्स सुहअ को त्तं सि भणसु मह सच्चम् ।
का सोहग्गसमग्ग पओसरअणि व्व तुह अज्ज

4.89

(14) अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुक्तस्त्वं न तत इति णवेत्यादिपओसेत्यादिपदद्योत्यं वस्तु व्यज्यते ।
सहिं णवणिहुवमसमपम्मि अंकवालीसहीए णिबिडाए ।
हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम्

4.90

(15) अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः ।
प्रविसंती घरवारं विवलिअवअणा विलोइऊण पहम् ।
खंधे घेत्तूण घडं हा हा णठ्ठोत्ति रुअसि सहि किं ति

4.91

अत्र हेत्वलंकारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा, अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदद्योत्यम् ।
यथा वा विहलंखलं तुमं सहि दट्ठूण कुढेण तरलतरदिट्ठिम् ।
वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो

4.92

(16) अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पस्वादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज, अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये, इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु ।
जोङ्णाइ महुरसेण अ विवण्णतारुण्णौत्सुअमणा सा ।
बुड्ढा वि णवोढव्विअ परवहुआ अहह हरै तुह हिअअम्

4.42

(17) अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभितषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः ।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः ।
वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चत्रिंशद्भेदाः ।
(सू- 60)
प्रबन्धे ऽप्यर्थशक्तिभूः

4.93

यथा गृद्रगोमायुसंवादादौ ।
अलं स्थित्वा श्मसाने ऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहले घोरे सर्वप्राणिभयंकरे

4.94

न चेह जीवितः कश्वित् कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी

4.95

इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन

4.96

अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कर्थ मूढास्त्यजध्वमविशङ्किताः

4.97

इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते ।
अन्ये त्वेकादश भेदा ग्रन्धविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतो ऽनुसर्तव्याः ।
अपिशब्दात्पदवाक्ययोः ॥
(सू- 61)
पदैकदेशरचनावर्णेष्वपि रसादयः ॥
तत्र प्रकृत्या यथा रैकेलिहिअणिअसणकरकिसलअरुद्धणअणजुअलस्स ।
रुद्दस्स तैअणअणं पव्वईपरिचुंबिअं जऐ

4.98

अथ जयतीति न तु शोभते, इत्यादि ।
समाने ऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम् ।
यथा वा प्रेयान् सो ऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः

4.99

अत्र पदानीति न तु द्वाराणीति ।
तिङ्सुपोर्यथा पथि पथि शुकचञ्चूचारुपाभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्व ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्बा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा

4.100

अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते ।
यथा वा लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमधुना

4.101

अत्र लिखन्निति न तु लिखतीति तथा, आस्ते, इति न तु, आसित इति, अपि तु प्रसादपर्यन्तमास्ते, इति, भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् ।
संबन्धस्य यथा गामारुहम्मि गामे वसामि णअरठ्ठिइं ण जाणामि ।
णाअरिआणं पैणो हरेमि जा होमि सा होमि

4.102

अत्र नागरिकाणामिति षष्ठ्याः ।
"रमणीयः क्षत्रियकुमार आसीत्ऽ; इति कालस्य ।
एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः ।
वचनस्य यथा ताणं गुणग्गहणाणं ताणुक्कंठाणं तस्स पेम्मस्स ।
ताणं भणिआणं सुंदर एरिसिअं जाअमवसाणम्

4.103

अत्र गुणग्रहणादीनां बहुत्वम् प्रेम्णश्वैकत्वं द्योत्यते. ।
पुरुषव्यत्ययस्य यथा रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयमानालोक्य किं नृत्यसि ।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम् एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ

4.104

अत्र प्रहासः ।
पूर्वनिपातस्य यथा येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः ।
ये क्ष्याशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमा- स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम्

4.105

अत्र पराक्रमस्य प्राधान्यमवगम्यते ।
विभक्तिविशेषस्य यथा प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुररैयोधि तव दिवसम् ।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम्

4.106

अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति ।
भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत् गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति

4.107

अत्रानुकम्पावृत्तेः करूपतद्धितस्य ।
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
निवेकप्रध्वंसादुपचितमहामोहगहनो विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते

4.108

अत्र प्रशब्दस्योसर्गस्य ।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्व नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम्

4.109

अत्र तुल्ययोगिताद्योतकस्य "चऽ; इति निपातस्य ।
रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति सरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः

4.110

अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति, अपि, अस्मदित्यस्य सर्वाक्षेपिणः, भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य ।
तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे ।
अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना

4.43

अत्र, इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ बसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्वित् स्वरूपस्य विशेषी यश्वमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति ।
एवमन्येषामपि बोद्धव्यम् ।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते ।
अपिशब्दात् प्रबन्धेषु वाजकादिषु ।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्भेदाः ।
(सू- 62)
भेदास्तदेकपञ्चाशत्
व्याख्याताः ॥
(सू- 63)
तेषां चान्योन्ययोजने

4.44

संकरेण त्रिरूपेण संसृष्ठ्या चैकरूपया ।
न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्भिर्गुणने ।
(सू- 64)
वेदखाब्धिवियच्चन्द्राः
(10404) शुद्धबेदैः सह (सू- 65)
शरेषुयुगखेन्दवः (10455)

4.111

तत्र दिङ्भात्रमुदाह्रियते ।
खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ ।
रुऐ पडोहरवलहीघरम्मि अणुणिज्जौ वराई

4.112

अत्रानुनयः किमुपभोगलक्षणे ऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभेगे, एव व्यङ्गये व्यञ्जकः, इति संदेहः ।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव

4.4

अत्र लिप्तेति पयोदसुहृदामिति च, अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः ।
ताभ्यां सह रामो ऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः ।
एवमन्यदप्युदाहार्यम् ॥
इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः

4.45

॥
॥ अथ पञ्चम उल्लासः ॥
एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह ।
(सू- 66)
अगूढमपरस्याङ्गं वाच्यसिद्ध यङ्गमस्फुटम् ।
संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तंमसुन्दरम्

4.113

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
कामिनीकुचकलशवत् गूढं चमत्करोति, अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव ।
अगूढं यथा यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कर्णौ ।
काञ्चीगुणग्रथनबाजनमेष सो ऽस्मि जीवन्न संप्रति भवामि किमावहामि

4.114

अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य ।
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायान्ति मञ्जु मधुपा गृहदीर्धिकासु ।
एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम्

4.115

अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य ।
अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि तीडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी

4.116

(1) अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य ।
"तस्याप्यत्रऽ; इति युक्तः पाठः ।
अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि, अनुरणनरूपं वा ।
यथा अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनरुपर्शी नीवीनिस्रंसनः करः

4.117

अत्र शृह्गारः करुणस्य ।
कैलासालयभाललोचनरुचा निर्वर्तितालक्तक- व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् ।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते

4.118

अत्र भावस्य रसः ।
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्वर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः

4.119

अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।
बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति तेसैनिकाः ।
अस्माकं सुकृतैर्दृशोर्निपतितो ऽस्यौचित्यवारांनिधे विध्वस्ता विपदो ऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे

4.120

अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ ।
अविरलककवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्

4.121

अत्र भावस्य बावप्रशमः ।
साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम्

4.122

अत्र त्रासोदयः ।
असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्बेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः

4.123

अत्रावेगधैर्ययोः संधिः ॥
पश्येत्कश्विच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ भवद्विषो ऽरण्यवृत्तेः कन्या कंचित् फलकिसलयान्याददानाभिधत्ते

4.124

अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता ।
एते च रसवदाद्यलंकाराः ।
यद्यपि भावोदयभावसंधिबावशबलत्वानि नालंकारतया, उक्तानि तथापि कश्वित् ब्रूयादित्येवमुक्तम् ।
यद्यपि स नास्ति कश्विद्विषयः, यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्रधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्वचवहारः ।
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता

4.125

अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः ।
आगत्य संप्रति वियोगविसंष्ठुलाङ्गीमम्भोजिनीं व्सचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पस्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः

4.126

(2) अत्र नायकवृत्तान्तो ऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ॥
वाच्यसिद्ध्यङ्गं यथा भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्

4.127

अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत् ।
यथा वा गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा ।
इत्यामन्त्रणभह्गिसूचितवृथावस्थानखेदालसाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः

4.128

(3) अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य ।
एतच्चैकत्र, एकवक्तृगतत्वेन, अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः ।
अस्फुटं यथा अदृष्टे दर्सनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम्

4.129

(4) अत्रादृष्टो यता न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् ।
संदिग्धप्राधान्यं यथा हरस्तु किंचित्परिवृत्तधैर्यश्वन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि

4.130

(5) अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम् किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति संदेहः ।
तुल्यप्राधान्यं यथा ब्राह्नणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रम् अन्यथा दुर्मनायते

4.131

(6) अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीनि व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।
काक्वाक्षिप्तं यथा मथ्नामि कौरवशतं समरे न कोपात दुःशासनस्य रुधिरं न पिबाम्युरस्तः ॥
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन

4.132

(7) अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम् ।
असुन्दरं यथा वाणीरकुडंगुड्डीणसौणिकोलाहलं सुणंतीए ।
घरकम्मवावडाए बहुए सीअन्ति अंगाइं

4.46

(8) अत्र दत्तसंकेतः कश्विल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यह्गानीति वाच्यं सचमत्कारम् ॥
(सू- 67)
एषां भेदा यथायोगं वेदितव्याश्व पूर्ववत्

4.47

यथायोगमिति "व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्" इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालंकारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम् ।
(सू- 68)
सालंकारैर्ध्वनेस्तैश्व योगः संसृष्टिसंकरैः ।
सालंकारैरिति तैरेवालंकारैः, अलंकारयुक्तैश्व तैः ।
तदुक्तं ध्वनिकृता "स गुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः स्वैः ।
संकरसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा" ॥
इति ।
(सू- 69)
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी

मूल पाठ: Kāvyaprakāśa with Vāmanācārya Rāmabhaṭṭa Jhalakikar's Bālabodhinī commentary · Edition: Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa, Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920] · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc