काव्यप्रकाश (टीका सहित) · अध्याय 2
शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा, उपहसनीयं स्यात् ।
लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य ।
शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गाद् इलक्षणग्रन्थानाम् ।
काव्यानां च महाकविसंबन्धिनाम् ।
आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः ।
काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न चु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः ॥
एवमस्य कारणमुक्त्वा स्वरूपमाह (सू- 1)
तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि ।
दोषगुणालंकाराः वक्ष्यन्ते ।
क्वापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ, क्वचित्तु स्फुटालंकारविरहे ऽपि न काव्यत्वहानिः ।
यथा यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते
अत्र स्फुटो न कश्विदलंकारः ।
रसस्य च प्राधान्यान्नालंकारता ।
तद्भेदान् क्रमेणाह (सू- 2)
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः
मूल पाठ: Kāvyaprakāśa with Vāmanācārya Rāmabhaṭṭa Jhalakikar's Bālabodhinī commentary · Edition: Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa, Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920] · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0