काव्यप्रकाश (टीका सहित) · अध्याय 1
॥ अथ प्रथम उल्लासः ॥
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति
नियतिशक्त्या नियतरूपा सुखदुःखमोहखभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम् ।
एतद्विलक्षण तु कविवाङूनिर्मितिः ।
अत एव जयति ।
जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते ॥
इहाभिधेयं सप्रयोजनमित्याह
काव्यं यशसेऽ; र्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे
कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनम् राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम् सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूर्त विगलिदवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ॥
एवमस्य प्रयोजनमुक्त्वा कारणमाह
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाब्यास इति हेतुस्तदुद्भवे
मूल पाठ: Kāvyaprakāśa with Vāmanācārya Rāmabhaṭṭa Jhalakikar's Bālabodhinī commentary · Edition: Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa, Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920] · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0