भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 5.2

5.2.1

द्वितीयो ऽध्यायः ।
रुद्रावित्येकशेषो ऽन्वेष्यः

5.2.4

मिलिक्लबिक्षपिप्रभृतीनां धातुत्वम्, धातुगुणस्यासमाप्तेः ॥ व्कल्_5,2.2* ॥
वलेरात्मनेपदमनित्यम्, ज्ञापकात् ॥ व्कल्_5,2.3* ॥
क्षीयत इति कर्मकर्तरि

5.2.5

खिद्यत इति च

5.2.6

मार्गेरात्मएपदमलक्ष्म

5.2.7

लोलमानादयश्चानशि

5.2.8

लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे

5.2.12

ते-मे-शब्दौ निपातेषु ॥ व्कल्_5,2.9* ॥
तिरस्कृत इति परिभूते, अन्तर्ध्युपचारात् ॥ व्कल्_5,2.10* ॥
नैकशब्दः, सुप्सुपेति समासात् ॥ व्कल्_5,2.11* ॥
मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात्

5.2.13

त्रिवलीशब्दः सिद्धः संज्ञा चेत्

5.2.14

बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम्

5.2.15

आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत्

5.2.17

न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ व्कल्_5,2.16* ॥
पत्रपीतिमादिषु गुणवचनेन

5.2.18

अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः

5.2.19

हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्

5.2.20

पूर्वनिपाते ऽपभ्रंशो रक्ष्यः

5.2.22

निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ व्कल्_5,2.21* ॥
शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात्

5.2.23

हानिवदाधिक्यमप्यङ्गानां विकारः

5.2.26

न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ व्कल्_5,2.24* ॥
न खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥ व्कल्_5,2.25* ॥
आसेत्यसतेः

5.2.27

युध्येदिति युधः क्यचि

5.2.28

विरलायमानादिषु क्यङ् निरूप्यः

5.2.30

अहेतौ हन्तेर्णिच्, चुरादिपाठात् ॥ व्कल्_5,2.29* ॥
अनुचरीति चरेष्टित्त्वात्

5.2.31

केसरालमित्यलतेरणि

5.2.32

पत्रलमिति लातेः के

5.2.33

महीध्रादयो मूलविभुजादिदर्शनात्

5.2.34

ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः

5.2.35

ब्रह्मविदादयः कृदन्तवृत्त्या

5.2.36

तैर्महीधरादयो व्याख्याताः

5.2.37

भिदुरादयः कर्मकर्तरि कर्तरि च

5.2.38

गुणविस्तरादयश्चिन्त्याः

5.2.39

अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम्

5.2.40

शोभेति निपातनात्

5.2.41

अविधौ गुरोः स्त्रियां बहुलं विवक्षा

5.2.43

व्यवसितादिषु क्तः कर्तरि, चकारात् ॥ व्कल्_5,2.42* ॥
आहेति भूते ऽन्यणलन्तभ्रमाद् ब्रुवो लटि

5.2.44

शबलादिभ्यः स्त्रियां टापो ऽप्राप्तिः

5.2.45

प्राणिनि नीलेति चिन्त्यम्

5.2.46

मनुष्यजातेर्विवक्षाविवक्षे

5.2.48

ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ व्कल्_5,2.47* ॥
कार्तिकीय इति ठञ् दुर्धरः

5.2.49

शार्वरमिति च

5.2.50

शाश्वतमिति प्रयुक्तेः

5.2.51

राजवंश्यादयः साध्वर्थे ये भवन्ति

5.2.52

दारवशब्दो दुष्प्रयुक्तः

5.2.53

मुग्धिमादिष्विवमनिज् मृग्यः

5.2.54

औपम्यादयश्चातुर्वर्ण्यवत्

5.2.55

ष्यञः षित्करणादीकारो बहुलम्

5.2.56

धन्वीति व्रीह्यादिषु पाठात्

5.2.57

चतुरस्रशोभीति णिनौ

5.2.58

कञ्चुकीया इति क्यचि

5.2.59

बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः

5.2.60

कौशिलादय इलचि वर्णलोपात्

5.2.61

मौक्तिकमिति विनयादिपाठात्

5.2.62

प्रातिभादयः प्रज्ञादिषु

5.2.63

न सरजसमित्यनव्ययीभावे

5.2.64

धृतधनुषीत्यसंज्ञायाम्

5.2.65

दुर्गन्धिपद इद्दुर्लभः

5.2.66

सुदत्यादयः प्रतिविधेयाः

5.2.68

क्षतदृढोर्स इति न कप्, तदन्तविधिप्रतिषेधात् ॥ व्कल्_5,2.67* ॥
अवैहीति वृद्धिरवद्या

5.2.69

अपाङ्गनेत्रेति लुगलभ्यः

5.2.71

नेष्ठाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ व्कल्_5,2.70* ॥
दृढभक्तिरिति सर्वत्रेति

5.2.72

जम्बुलतादयो ह्रस्वविधेः

5.2.73

तिलकादयो ऽजिरादिषु

5.2.74

निशम्य-निशमय्यशब्दौ प्रकृतिभेदात्

5.2.76

संयम्यनियम्यशब्दौ, अणिजन्तत्वात् ॥ व्कल्_5,2.75* ॥
प्रपीयेति पीङः

5.2.77

दूरयतीति बहुलग्रहणात्

5.2.78

गच्छतीप्रभृतिष्वनिषेध्यो नुम्

5.2.79

मित्रेण गोप्त्रेति पुंवद्भावात्

5.2.80

वेत्स्यसीति पदभङ्गात्

5.2.81

कामयानशब्दः सिद्धो ऽनादिश्चेत्

5.2.82

सौहृद्-दौर्हृदशब्दावणि हृद्भावात्

5.2.83

विरम इति निपातनात्

5.2.84

उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया

5.2.85

मन्दं मन्दमित्यप्रकारार्थत्वे

5.2.87

न निद्राद्रुगिति, भष्भावप्राप्तेः ॥ व्कल्_5,2.86* ॥
निष्पन्द इति पत्वं चिन्त्यम्

5.2.88

नाङ्गुलिसङ्ग इति मूर्धन्यविधेः

5.2.89

तेनावन्तिसेनादयः प्रत्युक्ताः

मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc