काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 3.2
नासन्तः, सद्वेद्यत्वात् ॥ व्कल्_3,1.25* ॥
न भ्रान्ताः, निष्कम्पत्वात् ॥ व्कल्_3,1.26* ॥
न पाठधर्माः, सर्वत्रादृष्टेः ॥ व्कल्_3,1.27* ॥
द्वितीयो ऽध्यायः ।
त एवार्थगुणाः
अर्थस्य प्रौढिरोजः
अर्थवैमल्यं प्रसादः
घटना श्लेषः
अवैषम्यं समता
अर्थदृष्टिः समाधिः
अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥ व्कल्_3,2.7* ॥
अर्थो व्यक्तः सूक्ष्मश्च
सूक्ष्मो भाव्यो वासनीयश्च
उक्तिवैचित्र्यं माधुर्यम्
अपारुष्यं सौकुमार्यम्
अग्राम्यत्वमुदारता
वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः
दीप्तरसत्वं कान्तिः
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0