काव्यादर्श · अध्याय 2
इत्य् आचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः
काव्यशोभाकारान् धर्मान् अलंकारान् प्रचक्षते &
ते चाद्यापि विकल्प्यन्ते कस् तान् कार्त्स्न्येन वक्ष्यति
किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम् &
तद् एव परिसंस्कर्तुम् अयम् अस्मत्परिश्रमः
काश् चिन् मार्गविभागार्थम् उक्ताः प्राग् अप्य् अलंक्रियाः &
साधारणम् अलंकारजातम् अन्यत् प्रदर्श्यते
स्वभावाख्यानम् उपमा रूपकं दीपकावृत्ती &
आक्षेपो ऽर्थान्तन्यासो व्यतिरेको विभावना
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः &
प्रेयो रसवद् ऊर्जस्वि पर्यायोक्तं समाहितम्
उदात्तापह्नुतिश्लेषविशेषास् तुल्ययोगिता &
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने
सहोक्तिः परिवृत्त्याशीः संकीर्णम् अथ भाविकम् &
इति वाचाम् अलंकारा दर्शिताः पूर्वसूरिभिः
नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती &
स्वभावोक्तिश् च जातिश् चेत्याद्या सालंकृतिर् यथा
तुण्डैर् आताम्रकुटिलैः पक्षैर् हरितकोमलैः &
त्रिवर्णराजिभिः कण्ठैर् एते मञ्जुगिरः शुकाः
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः &
पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम्
बध्नन्न् अङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम् &
नेत्रे चामीलयन्न् एष प्रियास्पर्शः प्रवर्तते
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः &
जटाभिः स्निग्धताम्राभिर् आविर् आसीद् वृषध्वजः
जातिक्रियागुणद्रव्यस्वभावाख्यानम् ईदृशम् &
शास्त्रेष्व् अस्यैव साम्राज्यं काव्येष्व् अप्य् एतद् ईप्सितम्
यथाकथंचित् सादृश्यं यत्रोद्भूतं प्रतीयते &
उपमा नाम तस्याः प्रपञ्चोदयं प्रदर्श्यते
अम्भोरुहम् इवाताम्रं मुग्धे करतलं तव &
इति धर्मोपमा साक्षात् तुल्यधर्मप्रदर्शनात्
राजीवम् इव ते वक्त्रं नेत्रे नीलोत्पले इव &
इयं प्रतीयमानैकधर्मा वस्तूपमैव सा
त्वदाननम् इवोन्निद्रम् अरविन्दम् अभूद् इति &
सा प्रसिद्धिविपर्यासाद् विपर्यासोपमेष्यते
तवाननम् इवाम्भोजम् अम्भोजम् इव ते मुखम् &
इत्य् अन्योन्योपमा सेयम् अन्योन्योत्कर्षशंसिनी
त्वन्मुखं कमलेनैव तुल्यं नान्येन केन चित् &
इत्य् अन्यसाम्यव्यावृत्तेर् इयं सा नियमोपमा
पद्मं तावत् तवान्वेति मुखम् अन्यच् च तादृशम् &
अस्ति चेद् अस्तु तत्कारीत्य् असाव् अनियमोपमा
समुच्चयोपमाप्य् अस्ति न कान्त्यैव मुखं तव &
ह्लादनाख्येन चान्वेति कर्मणेन्दुम् इतीदृशी
त्वय्य् एव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः &
इयत्य् एव भिदा नान्येत्य् असाव् अतिशयोपमा
मय्य् एवास्या मुकह्श्रीर् इत्य् अलम् इन्दोर् विकत्थनैः &
पद्मे ऽपि सा यद् अस्त्य् एवेत्य् असाव् उत्प्रेक्षितोपमा
यदि किं चिद् भवेत् पद्मं सुभ्रु विभ्रान्तलोचनम् &
तत् ते मुखश्रियं धत्ताम् इत्य् असाव् अद्भुतोपमा
शशीत्य् उत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया &
इन्दुम् अप्य् अनुधावामीत्य् एषा मोहोपमा स्मृता
किं पद्मम् अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् &
मम दोलायते चित्तम् इतीयं संशयोपमा
न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः &
अतस् त्वन्मुखम् एवेदम् इत्य् असौ निर्णयोपमा
शिशिरांशुप्रत्स्पर्धि श्रीमत् सुरभिगन्धि च &
अम्भोजम् इव ते वक्त्रम् इति श्लेषोपमा स्मृता
सरूपशब्दवाच्यत्वात् सा समानोपमा यथा &
बालेवोद्यानमालेयं सालकाननशोभिनी
पद्मं बहुरजश् चन्द्रः क्षयी ताभ्यां तवाननम् &
समानम् अपि सोत्सेकम् इति निन्दोपमा स्मृता
ब्रह्मणो ऽप्य् उद्भवः पद्मश् चन्द्रः शंभुशिरोधृतः &
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते
चन्द्रेण त्वन्मुखं तुल्यम् इत्य् आचिख्यासु मे मनः &
स गुणो वास्तु दोषो वेत्य् आचिख्यासोपमां विदुः
शतपत्रं शरच्चन्द्रस् त्वदाननम् इति त्रयम् &
परस्परविरोधीति सा विरोधोपमा मता
न जातु शक्तिर् इन्दोस् ते मुखेन प्रतिगर्जितुम् &
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा
मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी &
तथापि सम एवासौ नोत्कर्षीति चटूपमा
न पद्मं मुखम् एवेदं न भृङ्गौ चक्षुषी इमे &
इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा
चन्द्रारविन्दयोः कान्तिम् अतिक्रम्य मुखं तव &
आत्मनैवाभवत् तुल्यम् इत्य् असाधारणोपमा
सर्वपद्मप्रभासारः समाहृत इव क्वचित् &
त्वदाननं विभातीति ताम् अभूतोपमां विदुः
चन्द्रबिम्बाद् इव विषं चन्दनाद् इव पावकः &
परुषा वाग् इतो वक्त्राद् इत्य् असंभावितोपमा
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः &
स्पर्शस् तवेत्य् अतिशयं बोधयन्ति बहूपमा
चन्द्रबिम्बाद् इवोत्कीर्णं पद्मगर्भादिवोद्धृतम् &
तव तन्वङ्गि वदनम् इत्य् असौ विक्रियोपमा
पूष्ण्यातप इवाह्णीव पूषा व्योम्नीव वासरः &
विक्रमस् त्वय्य् अधाल् लक्ष्मीम् इति मालोपमा मता
वाक्यर्थेनैव वाक्यार्थः को ऽपि यद्य् उपमीयते &
एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा
त्वदाननम् अधीराक्षम् आविर् दशनदीधितिः &
भ्रमद्भृङ्गम् इवालक्ष्यकेसरं भाति पङ्कजम्
नलिन्या इव तन्वङ्ग्यास् तस्याः पद्मम् इवाननम् &
मया मधुव्रतेनेव पायं पायम् अरम्यत
वस्तु किंचिद् उपन्यस्य न्यसनात् तत्सधर्मणः &
साम्यप्रतीतिर् अस्तीति प्रतिवस्तूपमा यथा
नैको ऽपि त्वादृशो ऽद्यापि जायमानेषु राजसु &
ननु द्वितीयो नास्त्य् एव पारिजातस्य पादपः
अधिकेन समीकृत्य हीनम् एकक्रियाविधौ &
यद् ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा
दिवो जगर्ति रक्षायै पुलोमारिर् भुवो भवान् &
असुरास् तेन हन्यन्ते सावलेपास् त्वया नृपाः
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् &
राजन्न् अनुकरोषीति सैषा हेतूपमा मता
न लिङ्गवचने भिन्ने न हीनाधिकतापि वा &
उपमादूषणायालं यत्रोद्वेगो न धीमताम्
स्त्रीव गच्छति षण्ढो ऽयं वक्त्य् एषा स्त्री पुमान् इव &
प्राणा इव प्रियो ऽयं मे विद्या धनम् इवार्जिता
भवान् इव महीपाल देवराजो विराजते &
अलम् अंशुमतः कक्षाम् आरोढुं तेजसा नृपह्
इत्येवमादौ सौभाग्यं न जहात्य् एव जातु चित् &
अस्त्य् एव क्व चिद् उद्वेगः प्रयोगे वाग्विदां यथा
हंसीव धवलश् चन्द्रः सरांसीवामलं नभः &
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत्
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यतां &
गुणदोषविचाराय स्वयम् एव मनीषिभिः
इववद्वायथाशब्दाः समाननिभसंनिभाः &
तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः &
सदृक्सदृशसंवादिसजातीयानुवादिनः
प्रतिबिम्बप्रतिच्छन्दसरूपसमसंमिताः &
सलक्षणसदृक्षाभसपक्षोपमितोपमाः
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि &
सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः
समासश् च बहुव्रीहिः शशाङ्कवदनादिषु &
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति
आक्रोशत्य् अवजानाति कदर्थयति निन्दति &
विडम्बयति संधत्ते हसतीर्ष्यत्य् असूयति
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति &
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते &
तम् अन्वेत्य् अनुबध्नाति तच्छीलं तन् निषेधति
तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः &
उपमायाम् इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥इत्य् उपमाचक्रम्॥
उपमैव तिरोभूतभेदा रूपकम् उच्यते &
यथा बाहुलता पाणिपद्मं चरणपल्लवः
अङ्गुल्यः पल्लवान्य् आसन् कुसुमानि नखार्चिषः &
बाहू लते वसन्तश्रीस् त्वं नः प्रत्यक्षचारिणी
इत्य् एतद् असमस्ताख्यं समस्तं पूर्वरूपकम् &
स्मितं मुखेन्दोर् ज्योत्स्नेति समस्तव्यस्तरूपकम्
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् &
ध्रियते मूर्ध्नि भूपालैर् भवच्चरणपङ्कजम्
अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् &
तद्योग्यस्थानविन्यासाद् एतत् सकलरूपकम्
अकस्माद् एव ते चण्डि स्फुरिताधरपल्लवम् &
मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः
मञ्जरीकृत्यधर्माम्भः पल्लवीकृत्य चाधरम् &
नान्यथा कृतम् अत्रास्यम् अतो ऽवयवरूपकम्
वल्गितभ्रु गलद्धर्मजलम् आलोहितेक्षणम् &
विवृणोति मदावस्थाम् इदं वदनपङ्कजम्
अविकृत्य मुखाङ्गानि मुखम् एवारविन्दताम् &
आसीद् गमितम् अत्रेदम् अतो ऽवयविरूपकम्
मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते &
मुखेन मुग्धः सो ऽप्य् एष जनो रागमयः क्र्तः
एकाङ्गरूपकं चैतद् एवं द्विप्रभृतीन्य् अपि &
अङ्गानि रूपयन्त्य् अत्र योगायोगौ भिदाकरौ
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गम् इदं मुखम् &
इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम्
इदम् आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् &
इति ज्योत्स्नोत्पलायोगाद् अयुक्तं नाम रूपकम्
रूपणाद् अङ्गिनो ऽङ्गानां रूपणारूपणाश्रयात् &
रूपकं विषमं नाम ललितं जायते यथा
मदरक्तकपोलेन मन्मथस् त्वन् मुखेन्दुना &
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम्
हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः &
जयत्य् असुरनिःशङ्कसुरानन्दोत्सवध्वजः
विशेषणसमग्रस्य रूपं केतोर् यदीदृशम् &
पादे तदर्पणाद् एतत् सविशेषणरूपकम्
न मीलयति पद्मानि न नभो ऽप्य् अवगाहते &
त्वन्मुखेन्दुर् ममासूनां हरणायैव कल्पते
अक्रिया चन्द्रकार्याणाम् अन्यकार्यस्य च क्रिया &
अत्र संदर्श्यते यस्माद् विरुद्धं नाम रूपकम्
गाम्भीर्येण समुद्रो ऽसि गौरवेणासि पर्वतः &
कामदत्वाच् च लोकानाम् असि त्वं कल्पपादपः
गाम्भीर्यप्रमुखैर् अत्र हेतुभिः सागरो गिरिः &
कल्पद्रुमश् च क्रियते तद् इदं हेतुरूपकम्
राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभम् &
सखि वक्त्राम्बुजम् इदं तवेति श्लिष्टरूपकम्
इष्टं साधर्म्यवैधर्म्यदर्शनाद् गौणमुख्ययोः &
उपमाव्यतिरेकाख्यं रूपकाद्वितयं यथा
अयम् आलोहितच्छायो मदेन मुखचन्द्रमाः &
संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति
चन्द्रमाः पीयते देवैर् मया त्वन्मुखचन्द्रमाः &
असमग्रो ऽप्य् असौ शश्वदापूर्णमण्डलः
मुखचन्द्रस्य चन्द्रत्वम् इत्थम् अन्योपतापिनः &
न ते सुन्दरि संवादीत्य् एतद् आक्षेपरूपकम्
मुखेन्दुर् अपि ते चण्डि मां निर्दहति निर्दयम् &
भाग्यदोषान् ममैवेति तत् समाधानरूपकम्
मुखपङ्कजरङ्गे ऽस्मिन् भ्रूलतानर्तकी तव &
लीलानृत्यं करोतीति रम्यं रूपकरूपकम्
नैतन् मुखम् इदं पद्मं त नेत्रे भ्रमराव् इमौ &
एतानि केसराण्य् एव नैता दन्तार्चिषस् तव
मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् &
उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकम्
न पर्यन्तो विकल्पानां रूपकोपमयोर् अतः &
दिङ्मात्रं दर्शितं धीरैर् अनुक्तम् अनुमीयताम् ॥इति रूपकचक्रम्॥
जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना &
सर्ववाक्योपकारश् चेत् तम् आहुर् दीपकं यथा
पवनो दक्षिणः पार्णं जीर्णं हरति वीरुधाम् &
स एवावनताङ्गीनां मानभङ्गाय कल्पते
चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः &
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश् च ते
श्यामलाः प्रावृषेण्याभिर् दिशो जीमूतपङ्क्तिभिः &
भुवश् च सुकुमाराभिर् नवशाद्वलराजिभिः
विष्णुना विक्रमस्थेन दानवानां विभूतयः &
क्वापि नीताः कुतो ऽप्य् आसन्न् आनीता देवेतर्द्धयः
इत्यादिदीपकान्य् उक्तान्य् एवं मध्यान्तयोर् अपि &
वाक्ययोर् दर्शयिष्यामः कानि चित् तानि तद् यथा
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः &
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः
मन्दो गन्धवहः क्षारो वह्निर् इन्दुश् च जायते &
चर्चाचन्दनपातश् च शस्त्रपातः प्रवासिनाम्
जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् &
चलं च तडितां दाम बलं कुसुमधन्वनः
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने &
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम्
शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः &
स च रागस्य रागो ऽपि यूनां रत्युत्सवश्रियः
इत्यादिदीपकत्वे ऽपि पूर्वपूर्वव्यपेक्षिणी &
वाक्यमाला प्रयुक्तेति तन् मालादीपकं मतम्
अवलेपम् अनङ्गस्य वर्धयन्ति बलाहकाः &
कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः
अवलेपपदेनात्र बलाहकपदेन च &
क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकम्
हरत्य् आभोगम् आशानां गृह्णाति ज्योतिषां गणम् &
आदत्ते चाद्य मे प्राणान् असौ जलधरावली
अनेकशाब्दोपादानात् क्रियैकवात्र दीप्यते &
यतो जलधरावल्या तस्माद् एकार्थदीपकम्
हृद्यगन्धवहास् तुङ्गास् तमालश्यामलत्विषः &
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः
अत्र धर्मैर् अभिन्नानाम् अभ्राणां दन्तिनां तथा &
भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकम्
अनेनैव प्रकारेण शेषाणाम् अपि दीपके &
विकल्पानाम् अवगतिर् विधातव्या विचक्षणैः ॥इति दीपकचक्रम्॥
अर्थावृत्तिः पदावृत्तिर् उभयावृत्तिर् एव च &
दीपकस्थान एवेष्टम् अलंकारत्रयं यथा
विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः &
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् &
यूनां चोत्कण्ठयत्य् एष मानसं मकरध्वजः
जित्वा विश्वं भवान् अत्र विहरत्य् अवरोधनैः &
विहरत्व् अप्सरोभिस् ते रिपुवर्गो दिवं गतः ॥इत्य् आवृत्तिचक्रम्॥
प्रतिषेधोक्तिर् आक्षेपस् त्रैकाल्यापेक्षया त्रिधा &
अथास्य पुनर् आक्षेप्यभेदानन्त्याद् अनन्तता
अनङ्गः पञ्चभिः पुष्पैर् विश्वं व्यजयतेषुभिः &
इत्यसंभाव्यम् अथवा विचित्रा वस्तुशक्तयः
इत्यनङ्गजयायोगबुद्धिर् हेतुबलाद् इह &
प्रवृत्तैव यद् आक्षिप्ता वृत्ताक्षेपः स ईदृशः
कुतः कुवलयं कर्णे करोषि कलभाषिणि &
किम् अपाङ्गम् अपर्याप्तम् अस्मिन् कर्मणि मन्यसे
स वर्तमानाक्षेपो ऽयं कुर्वत्य् एवासितोत्पलम् &
कर्णे का चित् प्रियेणैवं चाटुकारेण रुध्यते
सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे &
अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुष
सो ऽयं भविष्यद् आक्षेपः प्राग् एवातिमनस्विनी &
कदाचिद् अपराधो ऽस्य भावीत्य् एवम् अरुन्द्ध यत्
तव तन्वङ्गि मिथ्यैव रूढम् अङ्गेषु मार्दवम् &
यदि सत्यं मृदून्य् एव किम् अकाण्डे रुजन्ति माम्
धर्माक्षेपो ऽयम् आक्षिप्तम् अङ्गनागात्रमार्दवम् &
कामुकेन यद् अत्रैवं कर्मणा तद्विरोधिना
सुन्दरी सा न वेत्य् एष विवेकः केन जायते &
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः
धर्म्याक्षेपो ऽयम् आक्षिप्तो धर्मी धर्मं प्रभाह्वयम् &
अनुज्ञायैव यद्रूपम् अत्याश्चर्यं विवक्षता
चक्षुषी तव रज्येते स्फुरत्य् अधरपल्लवः &
भ्रुवौ च भुग्ने न तथाप्य् अदुष्टस्यास्ति मे भयम्
स एष कारणाक्षेपः प्रधानं कारणं भियः &
स्वापराधो निषिद्धो ऽत्र यत् प्रियेण पटीयसा
दूरे प्रियतमः सो ऽयम् आगतो जलदागमः &
दृष्टश् च फुल्ला निचुला न मृता चास्मि किं न्व् इदम्
कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् &
तत्कारणम् उपन्यस्य दारुणं जलदागमम्
न चिरं मम तापाय तव यात्रा भविष्यति &
यदि यास्यसि यातव्यम् अलम् आशङ्कयात्र ते
इत्य् अनुज्ञामुखेनैव कन्तस्याक्षिप्यते गतिः &
मरणं सूचयन्त्यैव सो ऽनुज्ञाक्षेप उच्यते
धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि &
न च मे प्राणसंदेहस् तथापि प्रिय मा स्म गाः
इत्य् आचक्षाणया हेतून् प्रिययात्रानुबन्धिनः &
प्रभुत्वेनैव रुद्धस् तत् प्रभुत्वाक्षेप उच्यते
जीविताशा बलवती धनाशा दुर्बला मम &
गच्छ तिष्ठ वा कान्त स्वावस्था तु निवेदिता
असाव् अनादराक्षेपो यद् अनादरवद् वचः &
प्रियप्रयाणं रुन्धत्या प्रयुक्तम् इह रक्तया
गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः &
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्
इत्य् आशीर्वचनाक्षेपो यद् आशीर्वादवर्त्मना &
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते
यदि सत्यैव यात्रा ते काप्य् अन्या मृग्यतां त्वया &
अहम् अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना
इत्य् एष परुषाक्षेपः परुषाक्षरपूर्वकम् &
कान्तस्याक्षिप्यते यस्मात् प्रस्थानं प्रेमनिघ्नया
गन्ता चेद् गच्छ तूर्णं ते कर्णौ यान्ति पुरा रवाः &
आर्तबन्धुमुखोद्गीर्णाः प्रयाणपरिपन्थिनः
साचिव्य्वाक्षेप एवैष यद् अत्र प्रतिषिध्यते &
प्रियप्रयाणं साचिव्यं कुर्वत्य् एवातिरक्तया
गच्छेति वक्तुम् इच्छामि मत्प्रिय त्वत्प्रियैषिणी &
निर्गच्छति मुखाद् वाणी मा गा इति करोमि किम्
यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि &
विपरीतफलोत्पत्तेर् आनर्थक्योपदर्शनात्
क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः &
प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टम् इष्यते
सो ऽयं परवशाक्षेपो यत् प्रेमपरतन्त्रया &
तया निषिध्यते यात्रान्यस्यार्थसोपसूचनत्
सहिष्ये विरहं नाथ देह्य् अदृश्याञ्जनं मम &
यद् अक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति
दुष्करं जीवनोपायम् उपन्यस्योपरुध्यते &
पत्युः प्रस्थानम् इत्य् आहुर् उपायाक्षेपम् ईदृशम्
प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखात् &
अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किम्
रोषाक्षेपो ऽयम् उद्रिक्तस्नेहनिर्यन्त्रितात्मना &
संरब्धया प्रियारब्धं प्रयाणं यन् निषिध्यते
मुग्धा कान्तस्य यात्रोक्तिश्रवणाद् एव मूर्छिता &
बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान्
इति तत्कालसंभूतमूर्छयाक्षिप्यते गतिः &
कान्तस्य कातराक्ष्या यन् मूर्छाक्षेप स ईदृशः
नाघ्रातं न कृतं कर्णे स्त्रीभिर् मधुनि नार्पितम् &
त्वद्द्विषां दीर्घिकास्येव विशीर्णं नीलम् उत्पलम्
असाव् अनुक्रोशाक्षेपः सानुक्रोशम् इवोत्पले &
व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात्
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके &
मुखेन्दौ तव सत्यस्मिन्न् अपरेण किम् इन्दुना
इति मुख्येन्दुर् आक्षिप्तो गुणान् गौणेन्दुवर्तिनः &
तत्समान् दर्शयित्वेह श्लिष्टाक्षेपस् तथाविधः
अर्थो न संभृतः कश् चिन् न विद्या का चिद् अर्चिता &
न तपः संचिन्तं किं चिद् गतं च सकलं वयः
असाव् अनुशयाक्षेपो यस्माद् अनुशयोत्तरम् &
अर्थार्जनादेर् व्यावृत्तिर् दर्शितेह गतायुषा
किम् अयं शरदम्भोदः किं वा हंसकदम्बकम् &
रुतं नूपुरसंवादि श्रूयते तन् न तोयदः
इत्य् अयं संशयाक्षेपः संशयो यन् निवर्त्यते &
धर्मेण हंससुलभेनास्पृष्टघनजानिता
चित्रम् आक्रान्तविश्वो ऽपि विक्रमस् ते न तृप्यति &
कदा वा दृश्यते तृप्तिर् उदीर्णस्य हविर् भुजः
अयम् अर्थान्तराक्षेपः प्रक्रान्तो यन् निवार्यते &
विस्मयो ऽर्थन्तरस्येह दर्शनात् तत्सधर्मणः
न स्तूयसे नरेन्द्र त्वं ददासीति कदा चन &
स्वम् एव मत्वा गृह्णन्ति यतस् त्वद् धनम् अर्थिनः
इत्येवमादिर् आक्षेपो हेत्वाक्षेप इति स्मृतः &
अनेनैव दिशान्ये ऽपि विकल्पाः शक्यम् ऊहितुम् ॥ इत्य् आक्षेपचक्रम्॥
ज्ञेयह् सो ऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किं चन &
तत्साधनसमर्थस्य न्यासो यो ऽन्यस्य वस्तुनः
विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान् &
अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः
इत्येवमादयो भेदाः प्रयोगेष्व् अस्य लक्षिताः &
उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते
भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसाव् अपि &
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते
पयोमुचः परीतापं हरन्त्य् एव शरीरिणाम् &
नव् आत्मलाभो महतां परदुःखोपशान्तये
उत्पादयति लोकस्य प्रीतिं मलयमारुतः &
ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः
जगद् आनन्दयत्य् एष मलिनो ऽपि निशाकरः &
अनुगृह्णाति हि परान् सदोषो ऽपि द्विजेश्वरः
मधुपानकलात् कण्ठान् निर्गतो ऽप्य् अलिनां ध्वनिः &
कटुर् भवति कर्णस्य कामिनां पापम् ईदृशम्
अयं मम दहत्य् अङ्गम् अम्भोजदलसंस्तरः &
हुताशनप्रतिनिधिर् दाहात्मा ननु युज्यते
क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम् &
मलिनाचरितं कर्म सुरभेर् नन्व् असांप्रतम्
कुमुदान्य् अपि दाहाय किम् अयं कमलाकरः &
न हीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मधुर् भवेत् ॥इत्य् अर्थान्तरन्यासचक्रम्॥
शब्दोपात्ते प्रातीते वा सादृश्ये वस्तुनोर् द्वयोः &
तत्र यद् भेदकथनं व्यतिरेकः स कथ्यते
धैर्यलावण्यगाम्भीर्यप्रमुखैस् त्वम् उदन्वतः &
गुणैस् तुल्यो ऽसि भेदस् तु वपुषैवेदृशेन ते
इत्य् एकव्यतिरेको ऽयं धर्मेणैकत्रवर्तिना &
प्रतीतिविषयप्राप्तेर् भेदस्योभयवर्तिनः
अभिन्नवेलौ गम्भीराव् अम्बुराशिर् भवान् अपि &
असाव् अञ्जनसंकाशस् त्वं तु चामीकरद्युतिः
उभयव्यतिरेको ऽयम् उभयोर् भेदकौ गुणौ &
कार्ष्ण्यं पिशङ्गता चोभौ यत् पृथग् दर्शिताव् इह
त्वं समुद्रश् च दुर्वारौ महासत्त्वौ सतेजसौ &
अयं तु युवयोर् भेदः स जडात्मा पटुर् भवान्
स एष श्लेषरूपत्वात् सश्लेष इति गृह्यताम् &
साक्षेपश् च सहेतुश् च दर्श्यते तद् अपि द्वयम्
स्थितिमान् अपि धीरो ऽपि रत्नानाम् आकरो ऽपि सन् &
तव कक्षां न यात्य् एव मलिनो मकरालयः
वहन्न् अपि महीं कृत्स्नां सशैलद्वीपसागराम् &
भर्तृभावाद् भुजङ्गानां शेषस् त्वत्तो निकृष्यते
शब्दोपादानसादृश्यव्यतिरेको ऽयम् ईदृशः &
प्रतीयमानसादृश्यो ऽप्य् अस्ति सो ऽप्य् अभिधीयते
त्वन्मुखं कमलं चेति द्वयोर् अप्य् अनयोर् भिदा &
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम्
अभ्रूविलासम् अस्पृष्तमदरागं मृगेक्षणम् &
इदं तु नयनद्वन्द्वं तव तगुणभूषितम्
पूर्वस्मिन् भेदमात्रोक्तिर् अस्मिन्न् आधिक्यदर्शनम् &
सदृशव्यतिरेकश् च पुनर् अन्यः प्रदर्श्यते
त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी &
भ्रमद्भ्रमरम् अम्भोजं लोलनेत्रं मुखं तु ते
चन्द्रो ऽयम् अम्बरोत्तंसो हंसो ऽयं तोयभूषणम् &
नभो नक्षत्रमालीदम् उत्फुल्लकुमुदं पयः
प्रतीय्मानशौक्ल्यादिसाम्ययोर् वियदम्भसोः &
कृतः प्रतीतशुद्ध्योश् च भेदो ऽस्मिंश् चन्द्रहंसयोः
पूर्वत्र शाब्दवत् साम्यम् उभयत्रापि भेदकम् &
भृङ्गनेत्रादि तुल्यं तत् सदृशव्यतिरेकता
अरत्नालोकसंहार्यम् अहार्यं सूर्यरश्मिभिः &
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः
सजातीव्यतिरेको ऽयं तमोजातेर् इदं तमः &
दृष्टिरोधितया तुल्यं भिन्नम् अन्यैर् अदर्शि तत् ॥इति व्यतिरेकचक्रम्॥
प्रसिद्धहेतुव्यावृत्त्या यत् किंचिट् कारणान्तरम् &
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना
अपीतक्षीबकादम्बम् असंमृष्टाभलाम्बरम् &
अप्रसादितशुद्धाम्बु जगद् आसीन् मनोहरम्
अनञ्जितासिता दृष्टिर् भ्रूर् अनावर्जिता नता &
अरञ्जितो ऽरुणश् चायम् अधरस् तव सुन्दरि
यद् अपीतादिजन्यं स्यात् क्षीबत्वाद्यन्यहेतुजम् &
अहेतुकं च तस्येह विवक्षेत्य् अविरुद्धता
वक्त्रं निसर्गसुरभि वपुर् अव्याजसुन्दरम् &
अकारणरिपुश् चन्द्रो निर्निमित्तासुहृत् स्मरः
निसर्गादिपदैर् अत्र हेतुः साक्षान् निवर्तितः &
उक्तं च सुरभित्वादि फलं तत् सा विभावना ॥इति विभावनाचक्रम्॥
वस्तु किंचिद् अभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः &
उक्तिः संक्षेपरूपत्वात् सा समासोक्तिर् इष्यते
पिबन् मधु यथाकामं भ्रमरः फुल्लपङ्कजे &
अप्य् असंनद्धसौरभ्यं पश्य चुम्बति कुड्मलम्
इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः &
कस्यां चिद् इह बालायाम् इच्छावृत्तिर् विभाव्यते
विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा &
अस्त्य् असाव् अपराप्य् अस्ति भिन्नाभिन्नविशेषणा
रूढमूलः फलभरैः पुष्णन्न् अनिशम् अर्थिनः &
सान्द्रच्छायो महावृक्षः सो ऽयम् आसादितो मया
अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् &
सोच्छ्रयः स्थैर्यवान् दैवाद् एष लब्धो मया द्रुमः
उभयत्र पुमान् कश् चिद् वृक्षत्वेनोवर्णितः &
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम्
निवृत्तव्यालसंसर्गो निसर्गमधुराशयः &
अयम् अम्भोनिधिः कष्टं कालेन परिशुष्यति
इत्य् आपूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् &
समुद्रेण समानस्य पुंसो व्यापत्तिसूचनात् ॥इति समासोक्तिचक्रम्॥
विवक्षा या विशेषस्य लोकसीमातिवर्तिनी &
असाव् अतिशयोक्तिः स्याद् अलंकारोत्तमा यथा
मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः [[चोम्: सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्]] &
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायाम् अभिसारिकाः
चन्द्रातपस्य बाहुल्यम् उक्तम् उत्कर्षवत्तया &
संशयातिशयादीनां व्यक्त्यै किं चिन् निदर्श्यते
स्तनयोर् जघनस्यापि मध्ये मध्यं प्रिये तव &
अस्ति नास्तीति संदेहो न मे ऽद्यापि निवर्तते
निर्णेतुं शक्यम् अस्तीति मध्यं तव नितम्बिनि &
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः
अहो विशालं भूपाल भुवनत्रितयोदरम् &
माति मातुम् अशक्यो ऽपि यशोराशिर् यद् अत्र ते
अलंकारान्तराणाम् अप्य् एकम् आहुः परायणम् &
वागीशमहिताम् उक्तिम् इमाम् अतिशयाह्वयम् ॥इत्य् अतिशयोक्तिचक्रम्॥
अन्यथैव स्थिता वृत्तिश् चेतनस्येतरस्य वा &
अन्यथोत्प्रेक्ष्यते यत्र ताम् उत्प्रेक्षां विदुर् यथा
माध्यंदिनार्कसंतप्तः सरसीं गाहते गजः &
मन्ये मार्तण्डगृह्याणि पद्मान्य् उद्धर्तुम् उद्यतः
स्नातुं पातुं बिसान्य् अत्तुं करिणो जलगाहनम् &
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते
कर्णस्य भूषणम् इदं ममायातिविरोधिनः &
इति कर्णोत्पलं प्रायस् तव दृष्ट्या विलङ्घ्यते
अपाङ्गभागपातिन्या दृष्टेर् अंशुभिर् उत्पलम् &
स्पृश्यते वा न वेत्य् एवं कविनोत्प्रेक्ष्य वर्ण्यते
लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः &
इतीदम् अपि भूयिष्ठम् उत्प्रेक्षालक्षणानन्वितम्
केषां चिद् उपमाभ्रान्तिर् इवश्रुत्येह जायते &
नोपमानं तिङन्तेनेत्य् अतिक्रम्याप्तभाषितम्
उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया &
लिम्पतेस् तमसश् चासौ धर्मः को ऽत्र समीक्ष्यते
यदि लेपनम् एवेष्टं लिम्पतिर् नाम को ऽपरः &
स एव धर्मो धर्मी चेत्य् अनुन्मत्तो न भाषते
कर्ता यद्य् उपमानं स्यान् न्यग्भूतो ऽसौ क्रियापदे &
स्वक्रियासाधनव्यग्रो नालम् अन्यद् अपेक्षितुम्
यो लिम्पत्य् अमुना तुल्यं तम इत्य् अपि शंसतः &
अङ्गानीति न संबद्धं सो ऽपि मृग्यः समो गुणः
यथेन्दुर् इव ते वक्त्रम् इति कान्तिः प्रतीयते &
न तथा लिम्पतेर् लेपाद् अन्यद् अत्र प्रतीयते
तद् उपश्लेषणार्थो ऽयं लिम्पतिर् ध्वान्तकर्तृकः &
अङ्गकर्मा च पुंसैवम् उत्प्रेक्ष्यत इतीष्यताम्
मन्ये शङ्के ध्रुवं प्रायो नूनम् इत्येवमादिभिः &
उत्प्रेक्षा व्यज्यते शब्दैर् इवशब्दो ऽपि तादृशः ॥ इत्य् उत्प्रेक्षाचक्रम्॥
हेतुश् च सूक्ष्मलेशौ च वाचाम् उत्तमभूषणम् &
कारकज्ञापकौ हेतू तौ चानेकविधौ यथा
अयम् आन्दोलितप्रौढचन्दनद्रुमपल्लवः &
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः
प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम् &
अलंकारतयोद्दिष्टं निवृत्ताव् अपि तत् समम्
चन्दनारण्यम् आधूय स्पृष्ट्वा मलयनिर्झरान् &
पथिकानाम् अभावाय पवनो ऽयम् उपस्थितः
अभावसाधनायालम् एवंभूतो हि मारुतः &
विरहज्वरसंभूतमनोज्ञारोचके जने
निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया &
प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता
हेतुर् निर्वर्तनीयस्य दर्शितः शेषयोर् द्वयोः &
दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते
उत्प्रवालाण्य् अरण्यानि वाप्यः संफुल्लपङ्कजाः &
चन्द्रः पूर्णश् च कामेन पान्थदृष्टेर् विषं कृतम्
मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् &
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा
गतो ऽस्तम् अर्को भातीन्दुर् यान्ति वासाय पक्षिणः &
इतीदम् अपि साध्व् एव कालावस्थानिवेदने
अवध्यैर् इन्दुपादानाम् असाध्यैश् चन्दनाम्भसाम् &
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः
इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः &
अभावहेतवः के चिद् व्याह्रियन्ते मनोहराः
अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् &
अनिग्रहेण चाक्षाणांजायते व्यसनं नृणाम्
गतः कामकथोन्मादो गलितो यौवनज्वरः &
क्षतो मोहश् च्युता तृष्णा कृतं पुण्याश्रमे मनः
वनान्य् अमूनि न गृहाण्य् एता नद्यो न योषितः &
मृगा इमे न दायादास् तन् मे नन्दति मानसम्
अत्यन्तम् असद् आर्याणां अनलोचितचेष्टितम् &
अतस् तेषां विवर्धन्ते सततं सर्वसंपदः
उद्यानसहकाराणाम् अनुद्भिन्ना न मञ्जरी &
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः
प्रागभावादिरूपस्य हेतुत्वम् इह वस्तुनः &
भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति
दूरकार्यस् तत्सहजः कार्यानन्तरजस् तथा &
अयुक्तयुक्तकार्यौ चेत्य् असंख्याश् चित्रहेतवः
ते ऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः &
अत्यन्तसुन्दरा दृष्टास् तदुदाहृतयो यथा
त्वदपाङ्गाह्वयं जैत्रम् अनङ्गास्त्रं यद् अङ्गने &
मुक्तं तद् अन्यतस् तेन सो ऽप्य् अहं मनसि क्षतः
आविर्भवति नारीणां वयः पर्यस्तशैशवं &
सहैव विविधैः पुंसाम् अङ्गजोन्मादविभ्रमैः
पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् &
प्राग् एव हरिणाक्षीणाम् उदीर्णो रागसागरः
राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः &
देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन्
पाणिपद्मानि भूपानां संकोचयितुम् ईशते &
त्वत्पादनखचन्द्राणाम् अर्चिषः कुन्दनिर्मलाः
इति हेतुविकल्पानां दर्शिता गतिर् ईदृशी ॥ इति हेतुचक्रम्॥ &
इङ्गिताकारलक्ष्यो ऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः
कदा नौ संगमो भावीत्य् आकीर्णे वक्तुम् अक्षमम् &
अवेत्य कान्तम् अबला लीलापद्मं न्यमीलयत्
पद्मसंमीलनाद् अत्र सूचितो निशि संगमः &
आश्वासयितुम् इच्छन्त्या प्रियम् अङ्गजपीडितम्
मदर्पितदृशस् तस्या गीतगोष्ठ्याम् अवर्धत &
उद्दामरागतरला छाया कापि मुखाम्बुजे
इत्य् अनुद्भिन्नरूपत्वाद् रत्युत्सवमनोरथह् &
अनुल्लङ्ह्ग्यैव सूक्ष्मत्वम् अभूद् अत्र व्यवस्थितः ॥इति सूक्ष्मचक्रम्॥
लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम् &
उदाहरण एवास्य रूपम् आविर्भविष्यति
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकः &
अवगच्छेयुर् आ ज्ञातम् अहो शीतानिलं वनम्
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् &
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम्
इत्य् एवम् आदिस्थाने ऽयम् अलंकारो ऽतिशोभते &
लेशम् एके विदुर् निन्दां स्तुतिं वा लेशतः कृताम्
युवैष गुणवान् राजा योग्यस् ते पतिर् ऊर्जितः &
रणोत्सवे मनः सक्तं यस्य कामोत्सवाद् अपि
वीर्योत्कर्षस्तुतिर् निन्दैवास्मिन् भावनिवृत्तये &
कन्यायाः कल्पते भोगान् निर्विविक्षोर् निरन्तरम्
चपलो निर्दयश् चासौ जनः किं तेन मे सखि &
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः
दोषाभासो गुणः को ऽपि दर्शितश् चाटुकारिता &
मानं सखिजनोद्दिष्टं कर्तुं रागाद् अशक्तया ॥ इति लेशचक्रम्॥
उद्दिष्टानां पदार्थानाम् अनूद्देशो यथाक्रमम् &
यथासंख्यम् इति प्रोक्तं संख्यानं क्रम इत्य् अपि
ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः &
स्नातुम् अम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ इति क्रमः॥
प्रेयः प्रियतराख्यानं रसवद् रसपेशलम् &
ऊर्जस्वि रूढाहंकारं युक्तोत्कर्षं च तत् त्रयम्
अद्य या मम गोविन्द जाता त्वयि गृहागते &
कालेनैषा भवेत् प्रीतिस् तवैवागमनात् पुनः
इत्य् आह युक्तं विदुरो नान्यतस् तादृशी धृतिः &
भक्तिमात्रसमाराध्यः सुप्रीतश् च ततो हरिः
सोमः सूर्यो मरुद्भूमिर् व्योम होतानलो जलम् &
इति रूपाण्य् अतिक्रम्य त्वां द्रष्टुं देव के वयम्
इति साक्षात्कृते देवे राज्ञो यद् रातवर्मणः &
प्रीतिप्रकाशनं तच् च प्रेय इत्य् अवगम्यताम्
मृते ऽति प्रेत्य संगन्तुं यया मे मरणं मतम् &
सैवावन्ती मया लब्धा कथम् अत्रैव जन्मनि
प्राक् प्रीतिर् दर्शिता सेयं रतिः शृङ्गारतां गता &
रूपबाहुल्ययोगेन तद् इदं रसवद्वचः
निगृह्य केशेष्व् आकृष्टा कृष्णा येनाग्रतो मम &
सो ऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम्
इत्य् आरुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः &
भीमस्य पश्यतः शत्रुम् इत्य् एतद् रसवद्वचः
अजित्वा सार्णवाम् उर्वीम् अनिष्ट्वा विविधैर् मखैः &
अदत्वा चार्थम् अर्थिभ्यो भवेयः पार्थिवः कथम्
इत्य् उत्साहः प्रकृष्टात्मा तिष्ठन् वीररसात्मना &
रसवत्त्वं गिराम् आसां समर्थयितुम् ईश्वरः
यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी &
साधिशेते कथं तन्वी हुताशनवतीं चिताम्
इति कारुण्यम् उद्रिक्तम् अलंकारतया स्मृतम् &
तथापरे ऽपि बीभत्सहास्याद्भुतभयानकाः
पायं पायं तवारीणां शोणितं पाणिसंपुटैः &
कौणपाः सह नृत्यन्ति कबन्धैर् अन्त्रभूषणाः
इदम् अम्लानमानाया लग्नं स्तनतटे तव &
छाद्यताम् उत्तरीयेण नवं नखपदं सखि
अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् &
शाखाश् च मन्दिराण्य् एषां चित्रं नन्दनशाखिनाम्
इदं मघोनः कुलिशं धारासंनिहितानलम् &
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते
वाक्यस्याग्राम्यतायोनिर् माधुर्ये दर्शितो रसः &
इह त्व् अष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥इति रसवच्चक्रम्॥
अपकर्ताहम् अस्मीति हृदि ते मा स्म भूद् भयम् &
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति
इति मुक्तः परो युद्धे निरुद्धो दर्पशलिना &
पुंसा केनापि तज् ज्ञेयम् ऊर्जस्वीत्येवमादिकम् ॥इत्य् ऊर्जस्वि॥
अर्थम् इष्टम् अनाख्याय साक्षात् तस्यैव सिद्धये &
यत् प्रकारान्तराख्यानं पर्यायोक्तं तद् इष्यते
दशत्य् असौ परभृतह् सहकारस्य मञ्जरीम् &
तम् अहं वारयिष्यामि युवाभ्यां स्वैरम् आस्यताम्
संगमय्य सखीं यूना संकेते तद्रतोत्सवं &
निर्वर्तयितुम् इच्छन्त्या कयाप्य् अपसृतं ततः ॥इति पर्यायोक्तम्॥
किंचिदारभमाणस्य कार्यं दैववशात् पुनः &
तत्साधनसमापत्तिर् या तद् आहुः समाहितम्
मानम् अस्या निराकर्तुं पादयोर् मे पतिष्यतः &
उपकाराय दिष्ट्यैतद् उदीर्णं घनगर्जितम् ॥ इति समाहितम्॥
आशयस्य विभूतेर् वा यन् महत्वम् अनुत्तमम् &
उदात्तं नाम तं प्राहुर् अलंकारं मनीषिभिः
गुरोः शसनम् अत्येतुं न शशाक स राघवः &
यो रावणशिरश्छेदकार्यभारे ऽप्य् अविक्लवः
रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर् वृतः &
ज्ञातो लङ्केश्वरः कृच्छ्राद् आञ्जनेयेन तत्त्वतः
पूर्वत्राशयमाहात्म्यम् अत्राभ्युदयगौरवम् &
सुव्यञ्जितम् इति प्रोक्तं उदात्तद्वयम् अप्य् अदः ॥ इत्य् उदात्तम्॥
अपह्नुतिर् अपह्नुत्य किंचिद् अन्यार्थदर्शनम् &
न पञ्चेषु स्मरस् तस्य सहस्रं पत्रिणाम् इति
चन्दनं चन्द्रिका मन्दो गन्धवाहश् च दक्षिणः &
सेयम् अग्निमयी सृष्टिर् मयि शीता परान् प्रति
शैशिर्यम् अभ्युपेत्यैव परेष्वात्मनि कामिना &
औष्ण्यप्रकाशनात् तस्य सेयं विषयनिःनुतिः
अमृतस्यन्दिकिरणश् चन्द्रमा नामतो मतः &
अन्य एवायम् अर्थात्मा विषनिष्यन्दिदीधितिः
इति चन्द्रत्वम् एवेन्दौ निवर्त्यार्थान्तरात्मता &
उक्ता स्मरार्तेनेत्य् एषा स्वरूपापह्नुतिर् मता
उपमापह्नुतिः पूर्वम् उपमास्व् एव दर्शिता &
इत्य् अपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥इत्य् अपहनुतिः॥
श्लिष्टम् इष्टम् अनेकार्थम् एकरूपान्वितं वचः &
तद् अभिन्नपदं भिन्नपदप्रायम् इति द्विधा
असाव् उदयम् आरूढः कान्तिमान् रक्तमण्डलः &
राजा हरति लोकस्य हृदयं मृदुभिः करैः
दोषाकरेण संबध्नन्नक्षत्रपथवर्तिना &
राज्ञा प्रदोषो माम् इत्थम् अप्रियं किं न बाधते
उपमारूपकाक्षेपव्यतिरेकादिगोचराः &
प्राग् एव दर्शिताः श्लेषा दर्श्यन्ते के चनापरे
अस्त्य् अभिन्नक्रियः कश् चिद् अविरुद्धक्रियो ऽपरः &
विरुद्धकर्मा चास्त्य् अन्यः श्लेषो नियमवान् अपि
नियमाक्षेपरूपोक्तिर् अविरोधी विरोध्य् अपि &
तेषां निदर्शनेष्व् एव रूपम् आविर्भविष्यति
वक्राः स्वभावमधुराः शंसन्त्यो रागम् उल्बणम् &
दृशो दूत्यश् च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान्
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः &
आकर्ण्यन्ते मदकलाह् श्लिष्यन्ते चासितेक्षनाः
रागम् आदर्शयन्न् एष वारुणीयोगवर्धितम् &
तिरोभवति धर्मांशुर् अङ्गजस् तु विजृंभते
निस्त्रिंशत्वम् असाव् एव धनुष्य् एवास्य वक्रता &
शरेष्व् एव नरेन्द्रस्य मार्गणत्वं च वर्तते
पद्मानाम् एव दण्डेषु कण्टकस् त्वयि रक्षति &
अथवा दृश्यते रागिमिथुनालिङ्गनेष्व् अपि
महीभृद्भूरिकटकस् तेजस्वी नियतोदयः &
दक्षः प्रजापतिश् चासीत् स्वामी शक्तिधरश् च सः
अच्युतो ऽप्य् अवृषच्छेदी राजाप्य् अविदितक्षयः &
देवो ऽप्य् अविबुधो जज्ञे शंकरो ऽप्य् अभुजङ्गवान् ॥इति श्लेषचक्रम्॥
गुणजातिक्रियादीनां यत् तु वैकल्यदर्शनम् &
विशेषदर्शनायैव सा विशेषोक्तिर् इष्यते
न कठोरं न वा तीक्ष्णम् आयुधं पुष्पधन्वनः &
तथापि जितम् एवासीद् अमुना भुवनत्रयम्
न देवकन्यका नापि गन्धर्वकुलसंभवा &
तथाप्य् एषा तपोभङ्गं विधातुं वेधसो ऽप्य् अलम्
न बद्धा भ्रूकुटिर् नापि स्फुरितो दशनच्छदः &
न च रक्ताभवद् दृष्टिर् जितं च द्विषतां कुलम्
न रथा न च मातङ्गा न हया न च पत्तयः &
स्त्रीणाम् अपाङ्गदृष्ट्यैव जीयते जगतां त्रयम्
एकचक्रो रथो यन्ता विकलो विषमा हयाः &
आक्रामत्य् एव तेजस्वी तथाप्य् अर्को नभस्तलम्
सैषा हेतुविशेषोक्तिस् तेजस्वीति विशेषणात् &
अयम् एव क्रमो ऽन्येषां भेदानाम् अपि कल्पने॥इति विशेषोक्तिचक्रम्॥
विवक्षितगुणोत्कृष्तैर् यत् समीकृत्य कस्य चित् &
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता
यमः कुबेरो वरुणः सहस्राक्षो भवान् अपि &
बिभ्रन्त्य् अनन्यविषयां लोकपाल इति श्रुतिम्
संगतानि मृगाक्षीणां तडिद्विलसितानि च &
क्षणद्वयं न तिष्ठन्ति घनारब्धान्य् अपि स्वयम् ॥इति तुल्ययोगिता॥
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् &
विशेषदर्शनायैव स विरोधः स्मृतो यथा
कूजितं राजहंसानां वर्धते मदमञ्जुलम् &
क्षीयते च मयूराणां रुतम् उत्क्रान्तसौष्ठवम्
प्रावृषेण्यैर् जलधरैर् अम्बरं दुर्दिनायते &
रागेण पुनर् आक्रान्तं जायते जगतां मनः
तनुमध्यं पृथुश्रोणि रक्तौष्ठम् असितेक्षणम् &
नतनाभि वपुः स्त्रीणां कं न हरत्य् उन्नतस्तनम्
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् &
अपि ते रूपम् अस्माकं तन्वि तापाय कल्पते
उद्यानमारुतोद्धूताश् चूतचम्पकरेणवः &
उदश्रयन्ति पान्थानाम् अस्पृशन्तो ऽपि लोचने
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी &
याति विश्वसनीयत्वं कस्य ते कलभाषिनि
इत्य् अनेकप्रकारो ऽयम् अलंकारः प्रतीयते ॥इति विरोधचक्रम्॥ &
अप्रस्तुतप्रशंसा स्याद् अप्रक्रान्तेषु या स्तुतिः
सुखं जीवन्ति हरिणा वनेष्व् अपरसेविनः &
अन्नैर् अयत्नसुलभैस् तृणदर्भाङ्कुरादिभिः
सेयम् अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते &
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥इत्य् अप्रस्तुतप्रशंसा॥
यदि निन्दन्न् इव स्तौति व्याजस्तुतिर् असौ स्म्र्ता &
दोषाभासा गुणा एव लभन्ते ह्य् अत्र संनिधिम्
तापसेनापि रामेण जितेयं भूतधारिणी &
त्वया राज्ञापि सैवेयं जिता मा भून् मदस् तव
पुंसः पुराणाद् आच्छिद्य श्रीस् त्वया परिभुज्यते &
राजन्न् इक्षाकुवंशस्य किम् इदं तव युज्यते
भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी &
अहङ्कारः परां कोटिम् आरोहति कुतस् तव
इति श्लेषानुविद्धानाम् अन्येषां चोपलक्ष्यताम् &
व्याजस्तुतिप्रकाराणाम् अपर्यन्तस् तु विस्तरः ॥इति व्याजस्तुतिः॥
अर्थान्तरप्रवृत्तेन किं चित् तत्सदृशं फलम् &
सद् असद् वा निदर्श्येत यदि तत् स्यान् निदर्शनम्
उदयन्न् एष सविता पद्मेष्व् अर्पयति श्रियम् &
विभावयितुम् ऋद्धीनां फलं सुहृदनुग्रहम्
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् &
सद्यो राजविरुद्धानां सूचयन्ती दुरन्तताम् ॥इति निदर्शनम्॥
सहोक्तिः सहभावेन कथनं गुणकर्मणाम् &
अर्थानां यो विनिमयः परिवृत्तिस् तु सा स्मृता
सह दीर्घा मम श्वासैर् इमाः सम्प्रति रात्रयः &
पाण्डुराश् च ममैवाङ्गेः सह ताश् चन्द्रभूषणाह्
वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी &
पतन्ति च समं तेषाम् असुभिर् मलयानिलाः
कोकिलालापसुभगा सुगन्धिवनवायवः &
यान्ति सार्धं जनानन्दैर् वृद्धिं सुरभिवासराः
इत्य् उदाहृतयो दत्ताः सहोक्तेर् अत्र काश् चन ॥इति सहोक्तिः॥ &
क्रियते परिवृत्तेश् च किं चिद् रूपनिदर्शनम्
शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् &
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥इति परिवृत्तिः॥
आशीर्नामाभिलषिते वस्तुन्य् आशंसनं यथा &
पातु वः परमं ज्योतिर् अवाङ्मनसगोचरम् ॥इत्य् आशीः॥
अनन्वयससंदेहाव् उपमास्व् एव दर्शितौ &
उपमारूपकं चापि रूपकेष्व् एव दर्शितम्
उत्प्रेक्षाभेद एवासाव् उत्प्रेक्षावयवो ऽपि च &
नानालंकारसंसृष्टिः संसृष्टिस् तु निगद्यते
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता &
इत्य् अलंकारसंसृष्टेर् लक्षणीया द्वयी गतिः
आक्षिपन्त्य् अरविन्दानि मुग्धे तव मुखश्रियम् &
कोशदण्डसमग्राणां किम् एषाम् अस्ति दुष्करम्
लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः &
असत्पुरुषसेवेव दृष्टिर् निष्फलतां गता
श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् &
भिन्नं द्विधा स्वभावोक्तिर् वक्रोक्तिश् चेति वाङ्मयम् ॥इति संसृष्तिः॥
तद् भाविकम् इति प्राहुः प्रबन्धविषयं गुणम् &
भावः कवेर् अभिप्रायः काव्येष्व् आसिद्धि संस्थितः
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् &
विशेषाणां व्यर्थानाम् अक्रिया स्थानवर्णना
व्यक्तिर् उक्तिक्रमबलाद् गम्भीरस्यापि वस्तुनः &
भावायत्ताम् इदं सर्वम् इति तद् भाविकं विदुः ॥इति भाविकम्॥
यच् च संध्यङ्गवृत्त्यङ्गलक्षणाद्य् आगमान्तरे &
व्यावर्णितम् इदं चेष्टम् अलङ्कारतयाइव नः
पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरम् अनन्तम् अलङ्क्रियाणाम् &
वाचाम् अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुम् अलं विशेषान्
मूल पाठ: Kāvyādarśa 1-2 · Edition: Rangacharya Raddi Shastri, Poona : BORI 1938 (Government Oriental Series, A.4) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0