काव्यादर्श · अध्याय 1
आचार्यदण्डिनः काव्यादर्शः
चतुर्मुखमुखाम्भोज- वनहंसवधूर् मम &
मनसे रमतां नित्यं सर्वशुक्ला सरस्वती
पूर्वशास्त्राणि संहृत्य प्रयोगान् उपलक्ष्य च &
यथासामर्थ्यम् अस्माभिः क्रियते काव्यलक्षणम्
इह शिष्टानुशिष्टानां शिष्टानाम् अपि सर्वथा &
वाचाम् एव प्रसादेन लोकयात्रा प्रवर्तते
इदम् अन्धतमः कृत्स्नं जायेत भुवनत्रयम् &
यदि शब्दाहवयं ज्योतिर् आसंसारान् न दीप्यते
आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम् &
तेषाम् असंनिधाने ऽपि न स्वयं पश्य नश्यति
गौर् गौः कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः &
दुष्प्रयुक्ता पुनार् गोत्वं प्रयोक्तुः सैव शंसति
तद् अल्पम् अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन &
स्याद् वपुः सुन्दरम् अपि श्वित्रेणैकेन दुर्भगम्
गुणदोषान् अशास्त्रज्ञः कथं विभजते जनः &
किम् अन्धस्याधिकारो ऽस्ति रूपभेदोपलब्धिषु
अतः प्रजानां (व्ल्. पदानां) व्युत्पत्तिम् अभिसंधाय सूरयः &
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिं
तैः शरीरं च काव्यानाम् अलंकाराश् च दर्शिताः &
शरीरं तावद् इष्टार्थव्यवच्छिन्ना पदावली
पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् &
पद्यं चतुष्पदी तच् च वृत्तं जातिर् इति द्विधा
छन्दोविचित्यां सकलस् तप्रपञ्चो निदर्शितः &
सा विद्या नौर् विविक्षूणां गम्भीरं काव्यसागरम्
मुक्तकं कुलकं कोषः संघात इति तादृशः &
सर्गबन्धांशरूपत्वाद् अनुक्तः पद्यविस्तरः
सर्गबन्धो महाकव्यम् उच्यते तस्य लक्षणम् &
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्
इतिहासकथोद्भूतम् इतरद् वा सदाश्रयम् &
चतुर्वर्गफलायत्तं चतुरुदात्तनायकम्
नगरार्णवशैलार्तुचन्द्रार्कोदयवर्णनैः &
उद्यानसलिलकृईडामधुपानरतोत्सवैः
विप्रलम्भैर् विवाहैश् च कुमारोदयवर्णनैः &
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैर् अपि
अलंकृतम् असंक्षिप्तं रसभावनिरन्तरम् &
सर्गैर् अनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः
सर्वत्र भिन्नवृत्तान्तैर् उपेतं लोकरञ्जनम् &
काव्यं कल्पान्तरस्थायि जायते सद् अलंकृति
न्यूनम् अप्य् अत्र यैः कैश् चिद् अङ्गैः काव्यं न दुष्यति &
यद्य् उपात्तेषु संपत्तिर् आराधयति तद्विधः
गुणतः प्राग् उपन्यस्य नायकं तेन विद्विषाम् &
निराकरणम् इत्य् एष मार्गः प्रकृतिसुन्दरः
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोर् अपि &
तज्जयान् नायकोत्कर्षकथनं च धिनोति नः
अपादः पदसंतानो गद्यम् आख्यायिका कथा &
इति तस्य प्रभेदौ द्वौ तयोर् आख्यायिका किल
नायकेनैव वाच्यान्या नायकेनेतरेण वा &
स्वगुणाविष्क्रियादोषो नात्रा भूर्तार्थशंसिनः
अपि त्व् अनियमो दृष्टस् तत्राप्य् अन्यैर् उदीरणात् &
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदकारणम् (व्ल्. लक्षणम्)
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् &
चिह्नम् आख्यायिकायाश् चेत् प्रसङ्गेन कथास्व् अपि
आर्यादिवत् प्रवेशः किं न वक्त्रापरवक्त्रयोः &
भेदश् च दृष्टो लम्भादिर् उच्छ्वासो वस्तु किं ततः
तत् कथाख्यायिकेत्युक्ता जातिः संज्ञाद्वयाङ्किता &
अत्रैवान्तर्भविष्यन्ति शेषाश् चाख्यानजातयः
कन्याहरणसंग्रामविप्रलम्भोदयादयः &
सर्गबन्धसमा एव नैते वैशेषिका गुणाः
कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति &
मुखम् इष्टास्र्थसंसिद्धौ किं हि न स्यात् कृतात्मनाम्
मिश्राणि नाटकादीनि तेषाम् अन्यत्र विस्तरः &
गद्यपद्यमयी का चिच् चम्पूर् इत्य् अभिधीयते
तद् एतद् वाङ्मयं भूयः संस्कृतं प्राकृतं तथा &
अपभ्रंशाश् च मिश्रं चेत्य् आहुर् आर्याश् चतुर्विधं
संस्कृतं नाम दैवी वाग् अन्वाख्याता महर्षिभिः &
तद्भवस् तत्समो देशीत्य् अनेकः प्राकृतक्रमः
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः &
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयं
शौरसेनी च गौडी च लाटी चान्या च तादृशी &
याति प्राकृतम् इत्य् एवं व्यवहारेषु संनिधिम्
आभीरादिगिरः काव्येष्व् अपभ्रंश इति स्मृताः &
शास्त्रेषु संस्कृताद् अन्यद् अपभ्रंशतयोदितम्
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत् &
ओसरादिर् अपभ्रंशो नाटकादि तु मिश्रकम्
कथा हि सर्वभाषाभिः संस्कृतेन च बध्यते &
भूतभाषामयीं प्राहुर् अद्भुतार्थां बृहत्कथाम्
लास्यच्छलितशम्पादि प्रेक्षार्थम् इतरत् पुनः &
श्रव्यम् एवेति सैषापि द्वयी गतिर् उदाहृता
अस्त्य् अनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् &
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ
श्लेषः प्रसादः समता माधुर्यं सुकुमारता &
अर्थव्यक्तिर् उदारत्वम् ओजःकान्तिसमाधयः
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः &
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि
श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् &
शिथिलं मालतीमाला लोलालिकलिला यथा
अनुप्रासधिया गौडैस् तद् इष्टं बन्धगौरवात् &
वैदर्भमालतीदाम लङ्घितं भ्रमरैर् इति
प्रसादवत् प्रसिद्धार्थम् इन्दोर् इन्दीवरद्युति &
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः
व्युत्पन्नम् इति गौडीयैर् नातिरूढम् अपीष्यते &
यथानत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः
समं बन्धेष्व् अविषमं ते मृदुस्फुटमध्यमाः &
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः
कोकिलालापवाचालो ममैति मलयानिलः &
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः
चन्दनप्रणयोद्गन्धिर् मन्दो मलयमारुतः &
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः
इत्य् अनालोच्य वैषम्यम् अर्थालंकारडमबरौ &
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः
मधुरं रसवद् वाचि वस्तुन्य् अपि रसस्थितिः &
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः
यया कया चिच् छ्रुत्या यत् समानम् अनुभूयते &
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः &
तदा प्रभृति धर्मस्य लोके ऽस्मिन्न् उत्सवो ऽभवत्
इतीदं नादृतं गौडैर् अनुप्रासस् तु तत्प्रियः &
अनुप्रासाद् अपि प्रायो वैदर्भैर् इदम् ईप्सितम्
वर्णावृत्तिर् अनुप्रासः पादेषु च पदेषु च &
पूर्वानुभवसंस्कारबोधिनी यद्य् अदूरता
चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे &
इन्द्रनीलनिभं लक्ष्म संदधात्य् अलिनः श्रियम्
चारु चान्द्रमसं भीरु बिम्बं पश्यैतद् अम्बरे &
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुम् उद्यतं
इत्य् अनुप्रासम् इच्छन्ति नातिदूरान्तरश्रुतिम् &
न तु रामामुखाम्भोजसदृशश् चन्द्रमा इति
स्मरः खरः खलः कान्तः कायः कोपश् च नः कृशः &
च्युतो मानोधिको रागो मोहो जातोसवो गताः
इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति &
अतो नैवम् अनुप्रासं दाक्षिणात्याः प्रयुञ्जते
आवृत्तिं वर्णसंघातगोचरां यमकं विदुः &
तत् तु नैकान्तमधुरमतः पश्चाद् विधास्यते
कामं सर्वो ऽप्य् अलंकारो रसम् अर्थे निषिञ्चति &
तथाप्य् अग्राम्यतैवैनं भारं वहति भूयसा
कन्ये कामयमानं मां न त्वं कामयसे कथम् &
इति ग्राम्यो ऽयम् अर्थात्मा वैरस्याय प्रकल्पते
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः &
त्वयि निर्मत्सरो दिष्ट्येत्य् अग्रामो ऽर्थो रसावहः
शब्दे ऽपि ग्राम्यतास्त्य् एव सा सभ्येतरकीर्तनात् &
यथा यकारादिपदं रत्युत्सवनिरूपणे
पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः &
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया
खरं प्रहत्य विश्रान्तः पुरुषो वीर्यवान् इति &
एवमादि न शंसन्ति मार्गयोर् उभयोर् अपि
भगिनीभगवत्यादि सर्वत्रैवानुमन्यते &
विभक्तम् इति माधुर्यम् उच्यते सुकुमारता
अनिष्ठुराक्षरप्रायं सुकुमारम् इहेष्यते &
बन्धशैथिल्यदोषो ऽपि दर्शितः सर्वकोमले
मण्डलीकृत्य बर्हाणि कण्ठैर् मधुरगीतिभिः &
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि
इत्य् अनूर्जित एवार्थो नालंकारो ऽपि तादृशः &
सुकुमारतयैवैतद् आरोहति सतां मनः
दीप्तम् इत्य् अपरैर् भूम्ना कृच्छ्रोद्यम् अपि बध्यते &
न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणाद् इति
अर्थव्यक्तिर् अनेयत्वम् अर्थस्य हरिणोद्धृता &
भूः खुरक्षुण्णनागासृग्लोहिताद् उदधेर् इति
मही महावराहेण लोहिताद् उद्धृतोदधेः &
इतीयत्य् एव निर्दिष्टे नेयत्वम् उरगासृजः
नेदृशं बहु मन्यत्ने मार्गयोर् उभयोर् अपि &
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी
उत्कर्षवान् गुणः कश् चिद् यस्मिन्न् उक्ते प्रतीयते &
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः
अर्थिणां कृपणा दृष्टिस् त्वन्मुखे पतिता सकृत् &
तदवस्था पुनर् देव नान्यस्य मुखम् ईक्षते
इति त्यागस्य वाक्ये ऽस्मिन्न् उत्कर्षः साधु लक्ष्यते &
अनेनैव पथान्यच् च समानन्यायम् ऊह्यताम्
श्लाघ्यैर् विशेषणैर् युक्तम् उदारं कैश् चिद् इष्यते &
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः
ओजः समासभूयस्त्वम् एतद् गद्यस्य जीवितम् &
पद्ये ऽप्य् अदक्षिणात्यानाम् इदम् एकं परायणम्
तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः &
उच्चावचप्रकारं तद् दृश्यम् आख्यायिकादिषु
अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा &
पीनस्तनस्थितातांरकम्रवस्त्रेव वारुणी
इति पद्ये ऽपि पौरस्त्या बध्नन्त्य् ओजस्विनीगिरः &
अन्ये त्व् अनाकुलं हृद्यम् इच्छन्त्य् ओजो गिरां यथा
पयोधरतटोत्सङ्गलग्नसंध्यातपांशुका &
कस्य कामातुरं चेतो वारुणी न करिष्यति
कान्तं सर्वजगत्कान्तं लौकिकार्थान् अतिक्रमात् &
तच् च वार्ताभिधानेषु वर्णनास्व् अपि दृश्यते
गृहाणि नाम तान्य् एव तपोराशिर् भवादृशः &
संभावयति यान्य् एव पावनैः पादपांसुभिः
अनयोर् अनवद्याङ्गि स्तनयोर् जृम्भमाणयोः &
अवकाशो न पर्याप्तस् तव बाहुलतान्तरे
इति सम्भाव्यम् एवैतद् विशेषाख्यानसंस्कृतम् &
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः
लोकातीत इवात्यर्थम् अध्यारोप्य विवक्षितः &
यो ऽर्थस् तेनातितुष्यन्ति विदग्धा नेतरे जनाः
देवाधिष्ण्यम् इवाराध्यम् अद्यप्रभृति नो गृहम् &
युष्मत्पादरजःपातधौतनिःशेषकिल्बिषम्
अल्पं निर्मितम् आकाशम् अनालोच्यैव वेधसा &
इदम् एवंविधिं भावि भवत्याः स्तनजृम्भणम्
इदम् अत्युक्तिर् इत्य् उक्तम् एतद् गौडोपलालितम् &
प्रस्थानं प्राक्प्रणीतं तु सारम् अन्यस्य वर्त्मनः
अन्यधर्मस् ततो ऽन्यत्र लोकसीमानुरोधिना &
सम्यग् आधीयते यत्र स समाधिः स्मृतो यथा
कुमुदानि निमीलन्ति कमलान्य् उन्मिषन्ति च &
इति नेत्रक्रियाध्यासाल् लब्धा तद्वाचिनी श्रुतिः
निष्ट्ःयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् &
अतिसुन्दरम् अन्यत्र ग्राम्यकक्षां विगाहते
पद्मान्य् अर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः &
भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः
इति हृदमहृद्यं तु निष्ठीवति वधूर् इति &
युगपन् नैकधर्माणाम् अध्यासश् च स्मृतो यथा
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः &
अचलाधित्यकोत्सङ्गम् इमाः समधिशेरते
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः &
इतीमे गर्भिणीधर्मा बहवो ऽप्य् अत्र दर्शिताः
तद् एतत् काव्यसर्वस्वं समाधिर् नाम यो गुणः &
कविसार्थः समग्रो ऽपि तम् एनम् अनुगच्छति
इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् &
तद्भेदास् तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् &
तथापि न तद् आख्यातुं सरस्वत्यापि शक्यते
नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् &
अमन्दश् चाभियोगो ऽस्याः कारणं काव्यसंपदः
न विद्यते यद्य् अपि पूर्ववासनागुणानुबन्धि प्रतिभानम् अद्भुतम् &
श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्य् एव कम् अप्य् अनुग्रहम्
तदस्ततन्द्रैर् अनिशं सरस्वती श्रमाद् उपास्या खलु कीर्तिम् ईप्सुभिः &
कृशे कवित्वे ऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुम् ईशते
मूल पाठ: Kāvyādarśa 1-2 · Edition: Rangacharya Raddi Shastri, Poona : BORI 1938 (Government Oriental Series, A.4) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0