काव्यादर्श · अध्याय 2
काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते
ते चाद्यापि विकल्प्यन्ते कस् तान् कार्त्स्न्येन वक्ष्यति ॥
किंतु बीजं विकल्पानां पूर्वा-चार्यैः प्रदर्सितम्
तद् एव प्रतिसंस्कर्तुम् अयम् अस्मत्परिश्रमः ॥
काश्चिन् मार्गविभागार्थम् उक्ताः प्राग् अप्य् अलंक्रियाः
सा-धारणम् अलंकार जातम् अन्यत् प्रदर्श्यते ॥
स्वभावा-ख्यानम् उपमा रूपकं दीपकावृत्तिः
आक्षेपो ऽर्थान्तरन्यासो व्यतिरेको विभावना ॥
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः
प्रेयो रसवद् ऊर्जस्वि पर्यायोक्तं समा-हितम् ॥
उदा-त्तापह्नुतिश्लेष विशेषास् तुल्ययोगिता
विरोधा-प्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥
सहोक्तिः परिवृत्त्या-शिः संकीर्णम् अथ भाविकम्
इति वाचाम् अलंकारा दर्शिताः पूर्वसूरिभिः ॥
नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती
स्वभावोक्तिश् च जातिश् चेत्य् आद्या सालंकृतिर् यथा ॥
तुण्डैर् आताम्रकुटिलैः पक्षैर् हरितकोमलैः
त्रिवर्णराजिभिः कण्ठैर् एते मञ्जुगिरः शुकाः ॥
कलक्वणितगर्भेण कण्ठेना-घूर्णितेक्षणः
पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम् ॥
बध्नन्न् अङ्गेषु रोमाञ्चम् कुर्वन् मनसि निर्वृतिम्
नेत्रे चा-मीलयन्न् एष प्रियास्पर्शः प्रवर्तते ॥
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः
जटाभिः स्निग्धताम्राभिर् आविरासीद् वृषध्वजः ॥
जातिक्रियागुणद्रव्य स्वभावाख्यानम् ईदृशम्
शास्त्रेष्व् अस्यैव साम्राज्यं काव्येष्व् अप्य् एतद् ईप्सितम् ॥
यथा कथंचिद् सादृश्यं यत्रोद्भूतं प्रतीयते
उपमा नाम सा तस्याः प्रपञ्चो ऽयं निदर्श्यते ॥
अम्भोरुहम् इवा-ताम्रं मुग्धे करतलं तव
इति धर्मोपमा साक्षात् तुल्यधर्मप्रदर्शनात् ॥
राजीवम् इव ते वक्त्रं नेत्रे नीलोत्पले इव
इयं प्रतीयमानैक धर्मा वस्तूपमैव सा ॥
तवाननम् इवोन्निद्रम् अरविन्दम् अभूद् इति
सा प्रसिद्धिविपर्यासाद् विपर्यासोपमेष्यते ॥
तवाननम् इवाम्भोजम् अम्बोजम् इव ते मुखम्
इत्य् अन्योऽन्योपमा सायम् अन्योऽन्योत्कर्षशंसिनी ॥
त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित्
इत्य् अन्यसाम्यव्या-वृत्तेर् इयं सा नियमोपमा ॥
पद्मं तावत् तवान्वेति मुखम् अन्यच् च तादृशम्
अस्ति चेद् अस्तु तत्कारीत्य् असाव् अनियमोपमा ॥
समुच्चयोपमाप्य् अस्ति न कान्त्यैव मुखं तव
ह्लादना-ख्येन चान्वेति कर्मणेन्दुम् इती-दृशी ॥
त्वय्य् एव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः
इयत्य् एव भिदा नान्येत्य् असाव् अतिशयोपमा ॥
मय्य् एवास्या मुखश्रीर् इत्य् अलम् इन्दोर् विकत्थनैः
पद्मे ऽपि सा यद् अस्त्य् एवेत्य् असाव् उत्प्रेक्षितोपमा ॥
यदि किंचिद् भवेत् पद्मं सुभ्रु विभ्रान्तलोचनम्
तत् ते मुखश्रियं धत्ताम् इत्य् असाव् अद्भुतोपमा ॥
शशीत्य् उत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखा-शया
इन्दुम् अप्य् अनुधावामीत्य् एषा मोहोपमा स्मृता ॥
किं पद्मम् अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम्
मम दोलायते चित्तम् इतीयं संशयोपमा ॥
न पद्मस्येन्दुनिग्राह्यस्य् एन्दुलज्जाकरी द्युतिः
अतस् त्वन्मुखम् एवेदम् इत्य् असौ निर्णयोपमा ॥
शिशिरांशुप्रतिस्पर्धि श्रीमत् सुरभिगन्धि च
अम्भोजम् इव ते वक्त्रम् इति श्लेषोपमा स्मृता ॥
सरूपशब्दवाच्यत्वात् सा समानोपमा यथा
बालेवोद्यानमालेयं सा(1)ल()का(3)ननशोभिनी ॥
पद्मं बहुरजश् चन्द्रः क्षयी ताभ्यां तवाननम्
समानम् अपि सोत्सेकम् इति निन्दोपमा स्मृता ॥
ब्रह्मणो ऽप्य् उद्भवः पद्मं चन्द्रः शंभुशिरोधृतः
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥
चन्द्रेण त्वन्मुखं तुल्यम् इत्य् आचिख्यासु मे मनः
स गुणो वास्तु दोषो वेत्य् आचिख्यासोपमां विदुः ॥
शतपत्त्रं शरच्चन्द्रस् त्वदाननम् इति त्रयम्
परस्परविरोधीति सा विरोधोपमा मता ॥
न जातु शक्तिर् इन्दोस् ते मुखेन प्रतिगर्जितुम्
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥
मृगेक्षणाङ्कं ते वक्त्रम् मृगेणैवाङ्कितः शशी
तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥
न पद्मं मुखम् एवेदं न भृङ्गौ चक्षुषी इमे
इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा ॥
चन्द्रारविन्दयोः कान्तिम् अतिक्रम्य मुखं तव
आत्मनैवाभवत् तुल्यम् इत्य् असा-धारणोपमा ॥
सर्वपद्मप्रभासारः समा-हृत इव क्वचित्
त्वदाननं विभातीति ताम् अभूतोपमां विदुः ॥
चन्द्रबिम्बाद् इव विषं चन्दनाद् इव पावकः
परुषा वाग् इतो वक्त्राद् इत्य् असंभावितोपमा ॥
चन्दनोदकचन्द्रांशु चन्द्रकान्तादिशीतलः
स्पर्शस् तवेत्य् अतिशयं बोधयन्ती बहूपमा ॥
चन्द्रबिम्बाद् इवोत्कीर्णं पद्मगर्भाद् इवोद्धृतम्
तव तन्वङ्गि वदनम् इत्य् असौ विक्रियोपमा ॥
पूष्ण्य् आतप इवाह्नीव पूषा व्योम्नीव वासरः
विक्रमस् त्वय्य् अधाल् लक्ष्मीम् इति मालोपमा मता ॥
वाक्यार्थेणैव वाक्यार्थः को ऽपि यद्य् उपमीयते
एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥
त्वदाननम् अधीराक्षम् आविर्दशनदीधिति
भ्रमद्भृङ्गम् इवा-लक्ष्य केसरं भाति पङ्कजम् ॥
नलिन्या इव तन्वङ्ग्यास् तस्याः पद्मम् इवाननम्
मया मधुव्रतेनेव पायं पायम् अरम्यत ॥
वस्तु किंचिद् उपन्यस्य न्यसनात् तत्सधर्मणः
साम्यप्रतीतिर् अस्तीति प्रतिवस्तूपमा यथा ॥
नैको ऽपि त्वादृशो ऽद्यापि जायमानेषु राजसु
ननु द्वितीयो नास्त्य् एव पारिजातस्य पादपः ॥
अधिकेन समीकृत्य हीनम् एकक्रियाविधौ
यद् ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥
दिवो जागर्ति रक्षायै पुलोमारिर् भुवो भवान्
असुरास् तेन हन्यन्ते सावलेपास् त्वया नृपाः ॥
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम्
राजन्न् अनुकरोषीति सैषा हेतूपमा मता ॥
न लिङ्गवचने भिन्ने न हीनाधिकतापि वा
उपमादूषनायालं यत्रोद्वेगो न धीमताम् ॥
स्त्रीव गच्छति षण्ढो ऽयं वक्त्य् एषा स्त्री पुमान् इव
प्राणा इव प्रियो ऽयम् मे विद्या धनम् इवार्जितम् ॥
भवान् इव महीपाल देवराजो विराजते
अलम् अंशुमतः कक्षाम् आरोढुं तेजसा नृपः ॥
इत्य् एवम् आदौ सौभाग्यं न जहात्य् एव जातुचित्
अस्त्य् एव क्वचिद् उद्वेगः प्रयोगे वाग्विदां यथा ॥
हंसीव धवलश् चन्द्रः सरांसीवा-मलं नभः
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम्
गुणदोषविचाराय स्वयम् एव मनीषिभिः ॥
इववद्वायथाशब्दाः समाननिभसंनिभाः
तुल्यसंकाशनिकाश प्रकाशप्रतिरूपकाः ॥
प्रतिपक्षप्रतिद्वंद्वि प्रत्यनीकविरोधिनः
सदृक्सदृशसंवादि सजातीयानुवादिनः ॥
प्रतिबिम्बप्रतिच्छन्द सरूपसमसंमिताः
सलक्षणसदृक्षा-भ सपक्षोपमितोपमाः ॥
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि
सवर्णतुलतौ शब्दौ ये चा-न्यूनार्थवादिनः ॥
समासश् च बहुव्रीहिः शशाङ्कवदनादिषु
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥
आक्रोशत्य् अवजानाति कदर्थयति निन्दति
विडम्बयति संधत्ते हसतीर्ष्यत्य् असूयति ॥
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥
तत्पदव्याम् पदं धत्ते तस्य कक्षां विगाहते
तम् अन्वेत्य् अनुबध्नाति तच्छीलं तन्निषेधति ॥
तस्य चानुकरोतीति शब्दाः सादृश्यम् ऊचकाः
उपमायाम् इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥
उपमैव तिरोभूत भेदा रूपकम् उच्यते
यथा बाहुलता पाणि पद्मं चरणपल्लवः ॥
अङ्गुल्यः पल्लवान्य् आसन् कुसुमानि नखार्चिषः
बाहू लते वसन्तश्रीस् त्वं नः प्रत्यक्षचारिणी ॥
इत्य् एतद् असमस्ता-ख्यं समस्तं पूर्वरूपकम्
स्मितं मुखेन्दोर् ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम्
ध्रियते मूर्ध्नि भूपालैर् भवच्चरणपङ्कजम् ॥
अङ्गुल्यादौ दलादित्वं पादे चा-रोप्य पद्मताम्
तद्योग्यस्थानविन्यासाद् एतत् सकलरूपकम् ॥
अकस्माद् एव ते चण्डि स्फुरिताधरपल्लवम्
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥
मञ्जरीकृत्य घर्माम्भः पल्लवीकृत्य चाधरम्
नान्यथा कृतम् अत्रास्यम् अतो ऽवयवरूपकम् ॥
वल्गितभ्रु गलद्घर्म जलम् आलोहितेक्षणम्
विवृणाति (!) मदावस्थाम् इदम् वदनपङ्कजम् ॥
अविकृत्य मुखाङ्गानि मुखम् एवारविन्दताम्
आसीद् गमितम् अत्रेदम् अतो ऽवयविरूपकम् ॥
मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते
मुखेन मुग्धः सो ऽप्य् एष जनो रागमयः कृतः ॥
एकाङ्गरूपकं चैतद् एवं द्विप्रभृतीन्य् अपि
अङ्गानि रूपयन्त्य् अत्र योगा-योगौ भिदाकरौ ॥
स्मितपुष्पोज्ज्वलं लोल नेत्रभृङ्गम् इदं मुखम्
इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ॥
इदम् आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्
इति ज्योत्स्नोत्पला-योगाद् अयुक्तं नाम रूपकम् ॥
रूपणाद् अङ्गिनो ऽङ्गानां रूपणा-रूपणा-श्रयात्
रूपकं विषमं नाम ललितं जायते यथा ॥
मदरक्तकपोलेन मन्मथस् त्वन्मुखेन्दुना
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥
हरिपादः शिरोलग्न जह्नुकन्याजलांशुकः
जयत्य् असुरनिःशङ्क सुरानन्दोत्सवध्वजः ॥
विशेषणसमग्रस्य रूपं केतोर् यदी-दृशम्
पादे तदर्पणाद् एतत् सविशेषणरूपकम् ॥
न मीलयति पद्मानि न नभो ऽप्य् अवगाहते
त्वन्मुखेन्दुर् ममासूनां हरणायैव कल्पते ॥
अक्रिया चन्द्रकार्याणाम् अन्यकार्यस्य च क्रिया
अत्र संदर्श्यते यस्माद् विरुद्धं नाम रूपकम् ॥
गाम्भीर्येण समुद्रो ऽसि गौरवेणासि पर्वतः
कामदत्वाच् च लोकानाम् असि त्वं कल्पपादपः ॥
गाम्भीर्यप्रमुखैर् अत्र हेतुभिः सागरो गिरिः
कल्पद्रुमश् च क्रियते तद् इदं हेतुरूपकम् ॥
राजहंसोपभोगार्थं भ्रमरप्रार्थ्यसौरभम्
सखि वक्त्राम्बुजम् इदं तवेति श्लिष्टरूपकम् ॥
इष्टं साधर्म्यवैधर्म्य दर्शनाद् गौणमुख्ययोः
उपमाव्यतिरेका-ख्यं रूपकद्वितयं यथा ॥
अयम् आलोहितच्छायो मदने मुखचन्द्रमाः
संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥
चन्द्रमाः पीयते देवैर् मया त्वन्मुखचन्द्रमाः
असमग्रो ऽप्य् असौ शश्वद् अयम् आपूर्णमण्डलः ॥
मुखचन्द्रस्य चन्द्रत्वम् इत्थम् अन्योपतापिनः
न ते सुन्दरि संवादीत्य् एतद् आक्षेपरूपकम् ॥
मुखेन्दुर् अपि ते चण्डि मां निर्दहति निर्दयम्
भाग्यदोषान् ममैवेति तत् समा-धानरूपकम् ॥
मुखपङ्कजरङ्गे ऽस्मिन् भ्रूलतानर्तकी तव
लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥
नैतन् मुखम् इदं पद्मं न नेत्रे भ्रमराव् इमौ
एतानि केसराण्य् एव नैता दन्तार्चिषस् तव ॥
मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात्
उद्भावितगुणोत्कर्षं तत् त्व् आपह्नवरूपकम् ॥
न पर्यन्तो विकल्पानां रूपकोपमयोर् अतः
दिङ्मात्रं दर्शितं धीरैर् अनुक्तम् अनुमीयताम् ॥
जातिक्रियागुणद्रव्य वाचिनैकत्र वर्तिना
सर्ववाक्योपकारश् चेत् तद् आहुर् दीपकं यथा ॥
पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधां
स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥
चरन्ति चतुरम्भोधि वेलोद्यानेषु दन्तिनः
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश् च ते ॥
श्यामलाः प्रावृषेण्याभिर् दिशो जीमूतपङ्क्तिभिः
भुवश् च सुकुमाराभिर् नवशाद्वलराजिभिः ॥
विष्णुना विक्रमस्थेन दानवानां विभूतयः
क्वापि नीताः कुतो ऽप्य् आसन्न् आनीता दैवतर्द्धयः ॥
इत्य् आदिदीपकान्य् उक्तान्य् एवं मध्यान्तयोर् अपि
वाक्ययोर् दर्शयिष्यामः कानि चित्तानि तद्यथा ॥
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥
मन्दो गन्धवहः क्षारो वह्निर् इन्दुश् च जायते
चर्चाचन्दनपातश् च शस्त्रपातः प्रवासिनाम् ॥
जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम्
चलं च तडितां दाम बलं कुसुमधन्वनः ॥
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम् ॥
शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः
स च रागस्य रागो ऽपि यूनां रत्युत्सवश्रियः ॥
इत्य् आदिदीपकत्वे ऽपि पूर्वपूर्वव्यपेक्षिणी
वाक्यमाला प्रयुक्तेति तन् मालादीपकं मतम् ॥
अवलेपम् अनङ्गस्य वर्धयन्ति बलाहकाः
कर्शयन्ति तु घर्मस्य मारुतोद्धूतशीकराः ॥
अवलेपपदेनात्र बलाहकपदेन च
क्रिये विरुद्धे संयुक्ते तद् विरुद्धार्थं दीपकम् ॥
हरत्य् आभोगम् आशानां गृह्णाति ज्योतिषां गणम्
आदत्ते चाद्य मे प्राणान् असौ जलधरावली ॥
अनेकशब्दोपा-दानात् क्रियैकैवात्र दीप्यते
यतो जलधरावल्या तस्माद् एकार्थदीपकम् ॥
हृद्यगन्धवहास् तुङ्गास् तमालश्यामलत्विषः
दिवि भ्रमन्ति जीमूता भुवि चैते मतंगजाः ॥
अत्र धर्मैर् अभिन्नानाम् अभ्राणां दन्तिनां तथा
भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकम् ॥
अनेनैव प्रकारेण शेषाणाम् अपि दीपके
विकल्पानाम् अवगतिर् विधातव्या विचक्षणैः ॥
अर्था-वृत्तिः पदा-वृत्तिर् उभया-वृत्तिर् एव च
दीपकस्थान एवेष्टम् अलंकारत्रयं यथा ॥
विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्
यूनां चोत्कण्ठयत्य् एव मानसं मकरध्वजः ॥
जित्वा विश्वं भवान् अत्र विहरत्य् अवरोधनैः
विहरत्य् अप्सरोभिस् ते रिपुवर्गो दिवं गतः ॥
प्रतिषेधोक्तिर् आक्षेपस् त्रैकाल्यापेक्षया त्रिधा
अथास्य पुनर् आक्षेप्य भेदानन्त्याद् अनन्तता ॥
अनङ्गः पञ्चभिः पुष्पैर् विश्वं व्यजयतेषुभिः
इत्य् असंभाव्यम् अथ वा विचित्रा वस्तुशक्तयः ॥
इत्य् अनङ्गजयायोग बुद्धिर् हेतुबलाद् इह
प्रवृत्तैव यद् आक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥
कुतः कुवलयं कर्णे करोषि कलभाषिणि
किम् अपाङ्गम् अपर्याप्तम् अस्मिन् कर्मणि मन्यसे ॥
स वर्तमाना-क्षेपो ऽयं कुर्वत्य् एवासितोत्पल
कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥
सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे
अन्यचुम्बनसंक्रान्त लाक्षारक्तेन चक्षुषा ॥
सो ऽयं भविष्यदा-क्षेपः प्राग् एवातिमनस्विनी
कदाचिद् अपराधो ऽस्य भावीत्य् एवम् अरुन्द्धयत् ॥
तव तन्वङ्गि मिथ्यैव रूढम् अङ्गेषु मार्दवम्
यदि सत्यं मृदून्य् एव किम् अकाण्डे रुजन्ति माम् ॥
धर्मा-क्षेपो ऽयम् आक्षिप्तम् अङ्गनागात्रमार्दवम्
कामुकेन यद् अत्रैवं कर्मणा तद्विरोधिना ॥
सुन्दरी सा भवत्य् एवं विवेकः केन जायते
प्रभामात्रं हि तरलं दृश्यते न तदा-श्रयः ॥
धर्म्या-क्षेपो ऽयम् आक्षिप्तो धर्मी धर्मं प्रभा-ह्वयम्
अनुज्ञायैव यद् रूपम् अत्याश्चर्यं विवक्षता ॥
चक्षुषी तव रज्येते स्फुरत्य् अधरपल्लवः
भ्रुवौ च भुग्ने न तथाप्य् अदुष्टस्यास्ति मे भयम् ॥
स एष कारणा-क्षेपः प्रधानं कारणं भियः
स्वापराधो निषिद्धो ऽत्र यत् प्रियेण पटीयसा ॥
दूरे प्रियतमः सो ऽयम् आगतो जलदा-गमः
दृष्टाश् च फुल्ला निचुला न मृता चास्मि किं न्व् इदम् ॥
कार्या-क्षेपः स कार्यस्य मरणस्य निवर्तनात्
तत्कारणम् उपन्यस्य दारुणं जलदा-गमम् ॥
न चिरं मम तापाय तव यात्रा भविष्यति
यदि यास्यसि यातव्यम् अलम् आशङ्कयात्र ते ॥
इत्य् अनुज्ञामुखेनैव कान्तस्या-क्षिप्यते गतिः
मरणं सूचयन्त्यैव सो ऽनुज्ञा-क्षेप उच्यते ॥
धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि
न च मे प्राणसंदेहस् तथापि प्रिय मा स्म गाः ॥
इत्य् आचक्षाणया हेतून् प्रिययात्रानुबन्धिनः
प्रभुत्वेनैव रुद्धस् तत् प्रभुत्वा-क्षेप उच्यते ॥
जीविताशा बलवती धनाशा दुर्बला मम
गच्छ वा तिष्ठ वा कान्त स्ववस्था तु निवेदिता ॥
असाव् अनादरा-क्षेपो यद् अनादरवद् वचः
प्रियप्रणायं रुन्धत्या प्रयुक्तम् इह रक्तया ॥
गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥
इत्य् आशीर्वचना-क्षेपो यद् आशीर्वादवर्त्मना
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥
यदि सत्यैव यात्रा ते काप्य् अन्या मृग्यतां त्वया
अहम् अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥
इत्य् एष परुषा-क्षेपः परुषाक्षरपूर्वकम्
कान्तस्या-क्षिप्यते यस्मात् प्रस्थानं प्रेमनिघ्नया ॥
श्लिष्टम् इष्टम् अनेकार्थम् एकरूपान्वितं वचः
तद् अभिन्नपदं भिन्न पदप्रायम् इति द्विधा ॥
असाव् उदयम् आरूढः कान्तिमान् रक्तमण्डलः
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥
दोषा(3)करेण संबध्नन्[न् । न्]अ[]क्षत्रपथवर्तिना
रज्ञा प्रदोषो माम् इत्थम् अप्रियं किं न बाधते ॥
उपमारूपका-क्षेप व्यतिरेकादिगोचराः
प्राग् एव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥
अस्त्य् अभिन्नक्रियः कश्चिद् अविरुद्धक्रियो ऽपरः
विरुद्धकर्मा चास्त्य् अन्यः श्लेषो नियमवान् अपि ॥
नियमा-क्षेपरूपोक्तिर् अविरोधी विरोध्य् अपि
तेषां निदर्शनेष्व् एव रूपम् आविर् भविष्यति ॥
वक्राः स्वभावमधुराः शंसन्त्यो रागम् उल्बणम्
दृशो दूत्यश् च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥
रागम् आदर्शयन्न् एष वारुणीयोगवर्धितम्
तिरोभवति घर्मांशुर् अङ्गजस् तु विजृम्भते ॥
निस्त्रिंशत्वम् असाव् एव धनुष्य् एवास्य वक्रता
शरेष्व् एव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥
पद्मानाम् एव दण्डेषु कण्टकस् त्वयि रक्षति
अथवा दृश्यते रागि मिथुना-लिङ्गनेष्व् अपि ॥
महीभृद् भूरिकटकस् तेजस्वी नियतोदयः
दक्षः प्रजापतिश् चासीत् स्वामी शक्तिधरश् च सः ॥
अच्युतो ऽप्य् अवृषच्छेदी राजाप्य् अविदितक्षयः
देवो ऽप्य् अविबुधो जज्ञे शंकरो ऽप्य् अभुजंगवान् ॥
गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम्
विशेषदर्शनायैव सा विशेषोक्तिर् इष्यते ॥
न कठोरं न वा तीक्ष्णम् आयुधं पुष्पधन्वनः
तथापि जितम् एवासीद् अमुना भुवनत्रयम् ॥
न देवकन्यका नापि गन्धर्वकुलसंभवा
तथाप्य् एषा तपोभङ्गं विधातुं वेधसो ऽप्य् अलम् ॥
न बद्धा भ्रुकुटिर् नापि स्फुरितो दशनच्छदः
न च रक्ताभवद् दृष्टिर् जितं च द्विषतां बलम् ॥
न रथा न च मातंगा न हया न च पत्तयः
स्त्रीणाम् अपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥
एकचक्रो रथो यन्ता विकलो विषमा हयाः
आक्रामत्य् एव तेजस्वी तथाप्य् अर्को नभस्तलम् ॥
सैषा हेतुविशेषोक्तिस् तेजस्वीति विशेषणात्
अयं एव क्रमो ऽन्येषां भेदानाम् अपि कल्पते ॥
विवक्षितगुणोत्कृष्टैर् यत् समीकृत्य कस्यचित्
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥
यमः कुबेरो वरुणः सहस्राक्षो भवान् अपि
बिभृत्य् अनन्यविषयां लोकपाल इति श्रुतिम् ॥
संगतानि मृगाक्षीणां तडिद्विलसितानि च
क्षणद्वयं न तिष्ठन्ति घनारब्धान्य् अपि स्वयम् ॥
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम्
विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥
कूजितं राजहंसानां वर्धते मदमञ्जुलम्
क्षीयते च मयूराणां रुतम् उत्क्रान्तसौष्ठवम् ॥
प्रावृषेण्यैर् जलधरैर् अम्बरं दुर्दिनायते
रागेण पुनर् आक्रान्तं जायते जगताम् मनः ॥
तनुमध्यं पृथुश्रोणि रक्तौष्ठम् असितेक्षणम्
नतनाभि वपुः स्त्रीणां कं न हन्त्य् उन्नतस्तनम् ॥
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम्
अपि ते रूपम् अस्माकम् तन्वि तापाय कल्पते ॥
उद्यानमारुतोद्धूताश् चूतचम्पकरेणवः
उदश्रयन्ति पान्थानाम् अस्पृशन्तो ऽपि लोचने ॥
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी
याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥
इत्य् अनेकप्रकारो ऽयम् अलंकारः प्रतीयते
अप्रस्तुतप्रशंसा स्याद् अप्रकान्तेषु या स्तुतिः ॥
सुखं जीवन्ति हरिणा वनेष्व् अपरसेविनः
अर्थैर् अयत्नसुलभैर् जलदर्भाङ्कुरादिभिः ॥
सेयम् अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते
राजानुवर्तनक्लेश निर्विण्णेन मनस्विना ॥
यदि निन्दन्न् इव स्तौति व्याजस्तुतिर् असौ स्तुता
दोषाभासा गुणा एव लभन्ते यत्र संनिधिम् ॥
तापसेनापि रामेण जितेयं भूतधारिणी
त्वया राज्ञापि सेवेयं जिता मा भून् मदस् तव ॥
पुंसः पुराणाद् आच्छिद्य श्रीस् त्वया परिभुज्यते
राजन्न् इक्ष्वाकुवंशस्य किम् इदं तव युज्यते ॥
भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी
अहंकारः परां कोटिम् आरोहति कुतस् तव ॥
इति श्लेषानुविद्धानाम् अन्येषां चोपलक्ष्यतां
व्याजस्तुतिप्रकाराणाम् अपर्यन्तः प्रविस्तरः ॥
अर्थान्तरप्रवृत्तेन किंचित् तत्सदृशं फलम्
सद् असद् वा निदर्श्येत यदि तत् स्यान् निदर्शनम् ॥
उदयन्न् एव सविता पद्मेष्व् अर्पयति श्रियम्
विभावयितुम् ऋद्धीनां फलं सुहृदनुग्रहम् ॥
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम्
सद्यो राजविरुद्धानां सूचयन्ति दुरन्तताम् ॥
सहोक्तिः सहभावस्य कथनं गुणकर्मणाम्
अर्थानां यो विनिमयः परिवृत्तिस् तु सा यथा ॥
सह दीर्घा मम श्वासैर् इमाः संप्रति रात्रयः
पाण्डुराश् च ममैवाङ्गैः सह ताश् चन्द्रभूषणाः ॥
वर्धते सग पान्थानां मूर्छया चूतमञ्जरी
पतन्ति च समं तेषाम् असुभिर् मलयानिलाः ॥
कोकिला-लापसुभगाः सुगन्धिवनवायवः
यान्ति सार्धं जनानन्दैर् वृद्धिं सुरभिवासराः ॥
इत्य् उदा-हृतयो दत्ताः सहोक्तेर् अत्र काश्चन
क्रियते परिवृत्तेश् च किंचिद् रूपनिरूपणम् ॥
शस्त्रप्रहारं ददता भुजेन तव भूभुजाम्
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥
आशीर् नामाभिलषिते वस्तुन्य् आशंसनं यथा
पातु वः परमं ज्योतिर् अवाङ्मनसगोचरम् ॥
अनन्वयससंदेहाव् उपमास्व् एव दर्शितौ
उपमारूपकं चापि रूपकेष्व् एव दर्शितम् ॥
उत्प्रेक्षाभेद एवासाव् उत्प्रेक्षावयवो ऽपि च
नानालंकारसंसृष्टिः संसृष्टिस् तु निगद्यते ॥
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता
इत्य् अलंकारसंसृष्टेर् लक्षणीया द्वयी गतिः ॥
आक्षिपन्त्य् अरविन्दानि तव मुग्धे मुखश्रियम्
कोशदण्डसमग्राणां किम् एषाम् अस्ति दुष्करम् ॥
लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः
असत्पुरुषसेवेव दृष्टिर् निष्फलतां गता ॥
श्लेषः सर्वासु पुष्णाति प्रियो वक्रोक्तिषु श्रियम्
भिन्नं द्विधा स्वभावोक्तिर् वक्रोक्तिश् चेति वाङ्मयम् ॥
भाविकत्वम् इति प्राहुः प्रबन्धविषयं गुणम्
भावः कवेर् अभिप्रायः काव्येष्व् आसिद्धि यः स्थितः ॥
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्
विशेषणानां व्यर्थानाम् अक्रिया स्थानवर्णना ॥
व्यक्तिर् उक्तिक्रमबलाद् गम्भीरस्यापि वस्तुनः
भावायत्तम् इदं सर्वम् इति तद् भाविकं विदुः ॥
यच् च संध्यङ्गवृत्त्यङ्ग लक्षणाद्यागमान्तरे
व्यावर्णितम् इदं चेष्टम् अलंकारतयैव नः ॥
पन्था स एष विवृतः परिमाणवृत्त्या संक्षिप्य विस्तरम् अनन्तम् अलंक्रियाणां
वाचाम् अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुम् अलं विशेषान् ॥
मूल पाठ: Kāvyādarśa, 1, 2.1-144, 2.310-368 · Edition: S.K. Belvalkar, Poona 1924. · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0