काव्यादर्श · अध्याय 1
चतुर्मुखमुखाम्भोज वनहंसवधूर् मम
मानसे रमतां दीर्घं सर्वशुक्ला सरस्वती ॥
पूर्वशास्त्राणि संहृत्य प्रयोगान् उपलक्ष्य च
यथासामर्थ्यम् अस्माभिः क्रियते काव्यलक्षणम् ॥
इह शिष्टानुशिष्टानां शिष्टानाम् अपि सर्वथा
वाचाम् एव प्रसादेन लोकयात्रा प्रवर्तते ॥
इदम् अन्धं()तमः कृत्स्नं जायेत भुवनत्रयम्
यदि शब्दा-ह्वयं ज्योतिर् आसंसारं न दीप्यते ॥
आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम्
तेषाम् असंनिधाने ऽपि न स्वयं पश्य नश्यति ॥
गौर् गौः कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः
दुष्प्रयुक्ता पुनर् गोत्वं प्रयोक्तुः सैव शंसति ॥
तद् अल्पम् अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन
स्याद् वपुः सुन्दरम् अपि श्वित्रेणैकेन दुर्भगम् ॥
गुणदोषान् अशास्त्रज्ञः कथं विभजते नरः
किम् अन्धस्याधिकारो ऽस्ति रूपभेदोपलब्धिषु ॥
अतः प्रजानां व्युत्पत्तिम् अभिसंधाय सूरयः
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥
तैः शरीरं च काव्यानाम् अलंकाराश् च दर्शिताः
शरीरं तावदिष्टार्थ व्यवच्छिन्ना पदावली ॥
पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम्
पद्यं चतुष्पदी तच् च वृत्तं जातिर् इति द्विधा ॥
छन्दोविचित्यां सकलस् तत्प्रबन्धो निदर्शितः
सा विद्या नौस् विविक्षूणां गम्भीरं काव्यसागरम् ॥
मुक्तकं कुलकं कोशः संघात इति तादृशः
सर्गबन्धांशरूपत्वाद् अनुक्तः पद्यविस्तरः ॥
सर्गबन्धो महाकाव्यम् उच्यते तस्य लक्षणम्
आशीर् नमस्क्रिया वस्तु निर्देशो वापि तन्मुखम् ॥
इतिहासकथोद्भूतम् इतरद् वा सदाश्रयम्
चतुर्वर्गफलायत्तं चतुरोदा-त्तनायकम् ॥
नगरार्णवशैलर्तु चन्द्रार्कोदयवर्णनैः
उद्यानसलिलक्रीडा मधुपानरतोत्सवैः ॥
विप्रलम्भैर् विवाहैश् च कुमारोदयवर्णनैः
मन्त्रदूतप्रयाणाजि नायकाभ्युदयैर् अपि ॥
अलंकृतम् असंक्षिप्तं रसभावनिरन्तरम्
सर्गैर् अनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः ॥
सर्वत्र भिन्नवृत्तान्तैर् उपेतं लोकरञ्जनम्
काव्यं कल्पोत्तरस्थायि जायते सदलंकृति ॥
न्यूनम् अप्य् अत्र यैःकैश्चिद् अङ्गैः काव्यं न दुष्यति
यद्य् उपा-त्तेषु संपत्तिर् आराधयति तद्विदः ॥
गुणतः प्राग् उपन्यस्य नायकं तेन विद्विषाम्
निरा-करणम् इत्य् एष मार्गः प्रकृतिसुन्दरः ॥
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोर् अपि
तज्जयान् नायकोत्कर्ष वर्णनं च धिनोति नः ॥
अपादः पदसंतानो गद्यम् आख्यायिका कथा
इति तस्य प्रभेदौ द्वौ तयोर् आख्यायिका किल ॥
नायकेनैव वाच्यान्या नायकेनेतरेण वा
स्वगुणाविष्क्रिया दोषो नात्र भूतार्थशंसिनः ॥
अपि त्व् अनियमो दृष्टस् तत्राप्य् अन्यैर् उदीरणात्
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदलक्षणम् ॥
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम्
चिह्नम् आख्यायिकायाश् चेत् प्रसङ्गेन कथास्व् अपि ॥
आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः
भेदश् च दृष्टो लम्बादिर् उच्छ्वासो वास्तु किं ततः ॥
तत् कथा-ख्यायिकेत्य् एका जातिः संज्ञाद्वयाङ्किता
अत्रैवान्तर्भविष्यन्ति शेषाश् चा-ख्यानजातयः ॥
कन्याहरणसंग्राम विप्रलम्भोदयादयः
सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥
कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति
मुखम् इष्टार्थसंसिद्ध्यै किं हि न स्यात् कृतात्मनाम् ॥
मिश्राणि नाटकादीनि तेषाम् अन्यत्र विस्तरः
गद्यपद्यमयी काचित् चम्पूर् इत्य् अभिधीयते ॥
तद् एतद् वाङ्मयं भूयः संस्कृतं प्राकृतं तथा
अपभ्रंशश् च मिश्रं चेत्य् आहुर् आर्याश् चतुर्विधम् ॥
संस्कृतं नाम दैवी वाग् अन्वा-ख्याता महर्षिभिः
तद्भवस् तत्समो देशीत्य् अनेकः प्राकृतक्रमः ॥
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥
शौरसेनी च गौडी च लाटी चान्या च तादृशी
याति प्राकृतम् इत्य् एवं व्यवहारेषु संनिधिम् ॥
आभीरादिगिरः काव्येष्व् अपभ्रंश इति स्मृताः
शास्त्रेषु संस्कृताद् अन्यद् अपभ्रंशतयोदितम् ॥
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम्
ओसरादीन्य् अपभ्रंशो नाटकादि तु मिश्रकम् ॥
कथापि सर्वभाषाभिः संस्कृतेन च बध्यते
भूतभाषामयीं प्राहुर् अद्भुतार्थां बृहत्कथाम् ॥
लास्यच्छलितशम्यादि प्रेक्षार्थम् इतरत् पुनः
श्रव्यम् एवेति सैषापि द्वयी गतिर् उदा-हृता ॥
अस्त्य् अनेको गिरां मार्गः सूक्ष्मभेदः परस्परम्
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥
श्लेषः प्रसादः समता माधुर्यं सुकुमारता
अर्थव्यक्तिर् उदारत्वं ओजःकान्तिसमाधयः ॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः
एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ॥
श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम्
शिथिलं मालतीमाला लोलालिकलिला यथा ॥
अनुप्रासधिया गौडैस् तद् इष्टं बन्धगौरवात्
वैदर्भैर् मालतीदाम लङ्घितं भ्रमरैर् इति ॥
प्रसादवत् प्रसिद्धार्थम् इन्दोर् इन्दीवरद्युति
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥
व्युत्पन्नम् इति गौडीयैर् नातिरूढम् अपीष्यते
यथानत्यर्जुनाब्जन्म सदृक्षाङ्को बलक्षगुः ॥
समं बन्धेष्व् अविषमं ते मृदुस्फुटमध्यमाः
बन्धा मृदुस्फुटोन्मिश्र वर्णविन्यासयोनयः ॥
कोकिला-लापवाचालो माम् एति मलयानिलः
उच्छलच्छीकराच्छाच्छ निर्झराम्भःकणोक्षितः ॥
चन्दनप्रणयोद्गन्धिर् मन्दो मलयमारुतः
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥
इत्य् अना-लोच्य वैषम्यम् अर्थालंकारडम्बरौ
अपेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥
मधुरं रसवद् वाचि वस्तुन्य् अपि रसस्थितिः
येन माध्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥
यया कयाचिच् छ्रुत्या यत् समानम् अनुभूयते
तद्रूपा हि पदा-सत्तिः सानुप्रासा रसा-वहा ॥
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्रह्मणप्रियः
ततः प्रभृति धर्मस्य लोके ऽस्मिन्न् उत्सवो ऽभवत् ॥
इतीदं नादृतं गौडैर् अनुप्रासस् तु तत्प्रियः
अनुप्रासाद् अपि प्रायो वैदर्भैर् इदम् इष्यते ॥
वर्णावृत्तिर् अनुप्रासः पादेषु च पदेषु च
पूर्वानुभवसंस्कार बोधिनी यद्य् अदूरता ॥
चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकविभ्रमे
इन्द्रनीलनिभं लक्ष्म संदधात्य् अनिलः श्रियम् ॥
चारु चन्द्रमसं भीरु बिम्बं पश्यैतद् अम्बरे
मन्मनो मन्मथा-क्रान्तं निर्दयं हन्तुम् उद्यतम् ॥
इत्य् अनुप्रासम् इच्छन्ति नातिदूरान्तरश्रुतिम्
न तु रामामुखाम्भोज सदृशश् चन्द्रमा इति ॥
स्मरः खरः खलः कान्तः कायः कोपश् च नः कृशः
च्युतो मानो ऽधिको रागो मोहो जातो ऽसवो गताः ॥
इत्य् आदि बन्धपारुष्यं शैथिल्यं च निगच्छति
अतो नैवम् अनुप्रासं दाक्षिनात्याः प्रयुञ्जते ॥
आवृत्तिं वर्णसंघात गोचरां यमकं विदुः
तत् तु नैकान्तमधुरम् अतः पश्चाद् विधास्यते ॥
कामं सर्वो ऽप्य् अलंकारो रसम् अर्थे निषञ्चति
तथाप्य् अग्राम्यतैवैतं भारं वहति भूयसा ॥
कन्ये कामयमानं मां न त्वं कामयसे कथम्
इति ग्राम्यो ऽयम् अर्थात्मा वैरस्याय प्रकल्पते ॥
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः
त्वयि निर्मत्सरो दिष्ट्येत्य् अग्राम्यो ऽर्थो रसा-वहः ॥
शब्दे ऽपि ग्राम्यतास्त्य् एव सा सभ्येतरकीर्तनात्
यथा यकारादिपदं रत्युत्सवनिरूपणे ॥
पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥
खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवान् इति
एवम् आदि न शंसन्ति मार्गयोर् उभयोर् अपि ॥
भगिनीभगवत्यादि सर्वत्रैवानुमन्यते
विभक्तम् इति माधुर्यम् उच्यते सुकुमारता ॥
अनिष्ठुराक्षरप्रायं सुकुमारम् इहेष्यते
बन्धशैथिल्यदोषस् तु दर्शितः सर्वकोमले ॥
मण्डलीकृत्य बर्हाणि कण्ठैर् मधुरगीतिभिः
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥
इत्य् अनूर्जित एवार्थो नालंकारो ऽपि तादृशः
सुकुमारतयैवैतद् आरोहति सतां मनः ॥
दीप्तम् इत्य् अपरैर् भूम्ना कृच्छ्रोद्यम् अपि बध्यते
न्यक्षेण क्षयितः पक्षः क्षत्रियाणां क्षणाद् इति ॥
अर्थव्यक्तिर् अनेयत्वम् अर्थस्य हरिणोद्धृता
भूः खुरक्षुण्णनागासृग् लोहिताद् उदधेर् इति ॥
मही महावराहेण लोहिताद् उद्धृतोदधेः
इतीयत्य् एव निर्दिष्टे नेयत्वम् उरगासृजः ॥
नेदृशं बहु मन्यते मार्गयोर् उभयोर् अपि
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥
उत्कर्षवान् गुणः कश्चिद् यस्मिन्न् उक्ते प्रतीयते
तदुदारा-ह्वयं तेन सनाथा काव्यपद्धतिः ॥
अर्थिनां कृपणा दृष्टिस् त्वन्मुखे पतिता सकृत्
तदवस्था पुनर् देव नान्यस्य मुखम् ईक्षते ॥
इति त्यागस्य वाक्ये ऽस्मिन्न् उत्कर्षः साधु लक्ष्यते
अनेनैव पथान्यत्र समानन्यायम् ऊह्यताम् ॥
श्लाघ्यैर् विशेषणैर् युक्तम् उदारं कैश्चिद् इष्यते
यथा लीलाम्बुजक्रीडा सरोहेमाङ्गदादयः ॥
ओजः समासभूयस्त्वम् एतद् गद्यस्य जीवितम्
पद्ये ऽप्य् अदाक्षिणात्यानाम् इदम् एकं परायणम् ॥
तद् गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः
उच्चावचप्रकारं तद् दृश्यम् आख्यायिकादिषु ॥
अस्तमस्तकपर्यस्त समस्तार्कांशुसंस्तरा
पीनस्तनस्थिताताम्र कम्रवस्त्रेव वारुणी ॥
इति पद्ये ऽपि पौरस्त्या बध्नन्त्य् ओजस्विनीर् गिरः
अन्ये त्व् अना-कुलं हृद्यम् इच्छन्त्य् ओजो गिरां यथा ॥
पयोधरतटोत्सङ्ग लग्नसंध्यातपांशुका
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात्
तच् च वार्त्ताभिधानेषु वर्णनास्व् अपि दृश्यते ॥
गृहाणि नाम तान्य् एव तपोराशिर् भवादृशः
संभावयति यान्य् एव पावनैः पादपांसुभिः ॥
अनयोर् अन-वद्याङ्गि स्तनयोर् जृम्भमाणयोः
अवकाशो न पर्याप्तस् तव बाहुलतान्तरे ॥
इति संभाव्यम् एवैतद् विशेषा-ख्यानसंस्कृतम्
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥
लोकातीत इवात्यर्थम् अध्या-रोप्य विवक्षितः
यो ऽर्थस् तेनाति तुष्यन्ति विदग्धा नेतरे जनाः ॥
देवधिष्ण्यम् इवा-राध्यम् अद्यप्रभृति नो गृहम्
युष्मत्पादरजःपात धौतनिःशेषकिल्बिषम् ॥
अल्पं निर्मितम् आकाशम् अना-लोच्यैव वेधसा
इदम् एवंविधं भावि भवत्याः स्तनझृम्भणम् ॥
इदम् अत्युक्तिर् इत्य् उक्तम् एतद् गौडोपलालितम्
प्रस्थानं प्राक्प्रणीतं तु सारम् अन्यस्य वर्त्मनः ॥
अन्यधर्मस् ततो ऽन्यत्र लोकसीमानुरोधिना
सम्यग् आधीयते यत्र स समा-धिः स्मृतो यथा ॥
कुमुदानि निमीलानि कमलान्य् उन्मिषन्ति च
इति नेत्रक्रियाध्यासाल् लब्धा तद्वाचिनी श्रुतिः ॥
निःष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपा-श्रयम्
अतिसुन्दरम् अन्यत्र ग्राम्यकक्षां विगाहते ॥
पद्मान्य् अर्कांशुनिःष्ठ्यूताः पीत्वा पावकविप्रुषः
भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः ॥
इति हृद्यम् अहृद्यं तु निःष्ठीवति वधूर् इति
युगपन् नैकधर्माणाम् अध्यासश् च स्मृतो यथा ॥
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः
अचलाधित्यकोत्सङ्गम् इमाः समधिशेरते ॥
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः
इतीमे गर्भिणीधर्मा बहवो ऽप्य् अत्र दर्शिताः ॥
तद् एतत् काव्यसर्वस्वं समा-धिर् नाम यो गुणः
कविसार्थः समग्रो ऽपि तम् एकम् अनुगच्छति ॥
इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात्
तद्भेदास् तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्
तथापि न तद् आख्यातुं सरस्वत्यापि शक्यते ॥
नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम्
अमन्दश् चाभियोगो ऽस्याः कारणं काव्यसंपदः ॥
न विद्यते यद्य् अपि पूर्ववासना गुणानुबन्धि प्रतिभानम् अद्भुतम्
श्रुतेन यत्नेन च वाग् उपासिता ध्रुवं करोत्य् एव कमप्य् अनुग्रहम् ॥
तद् अस्ततन्द्रैर् अनिशं सरस्वती श्रमाद् उपास्या खलु कीर्तिम् ईप्सुभिः
कृशे कवित्वे ऽपि जनाः कृतश्रमाः विदग्धगोष्ठीषु विहर्तुम् ईशते ॥
मूल पाठ: Kāvyādarśa, 1, 2.1-144, 2.310-368 · Edition: S.K. Belvalkar, Poona 1924. · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0