भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकसूत्र · भाग 4160

(कौश्स्_7,10[59].19) <धाता दधातु [7.17.1]> <प्रजापतिर् जनयति [7.19.1]>_<अन्व् अद्य नो [7.20.1]> <यन् न इन्द्रो [7.24.1]> <ययोर् ओजसा [7.25.1]> <विष्णोर् नु कं [7.26.1]>_<अग्नाविष्णू [7.29.1]> <सोमारुद्रा [7.42.1]> <सिनीवालि [7.46.1]> <बृहस्पतिर् नः [7.51.1]>_<यत् ते देवा अकृण्वन् [7.79.1]> <पूर्णा पश्चाद् [7.80.1]>_<प्रजापते [7.80.3]>_<अभ्य् अर्चत [7.82.1]> <को अस्या नो [7.103.1]>_इति प्रजापतिम्
(कौश्स्_7,10[59].20) <अग्न इन्द्रश् च [7.110.1]>_इति मन्त्रोक्तान् सर्वकामः
(कौश्स्_7,10[59].21) <य ईशे [2.34.1]> <ये भक्षयन्तो [2.35.1]>_इतीन्द्राग्नी लोककामः
(कौश्स्_7,10[59].22) अन्नं ददाति प्रथमम्
(कौश्स्_7,10[59].23) पशूपाकरणम् उत्तमम्
(कौश्स्_7,10[59].24) सवपुरस्ताद्धोमा युज्यन्ते
(कौश्स्_7,10[59].25) <दोषो गाय [6.1.1]>_इत्य् अथर्वाणं समावृत्याश्नाति
(कौश्स्_7,10[59].26) <अभयं द्यावापृथिवी [6.40.1]> <श्येनो ऽसि [6.48.1]>_इति प्रतिदिशं सप्तर्षीन् अभयकामः
(कौश्स्_7,10[59].27) उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानं
(कौश्स्_7,10[59].28) <द्यौश् च म [6.53.1]> इति द्यावापृथिव्यै विरिष्यति
(कौश्स्_7,10[59].29) <यो अग्नौ [7.87.1]>_इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः
(कौश्स् 7 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे सप्तमो ऽध्यायः समाप्तः
(कौश्स्_8,1[60].1) अग्नीन् आधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकम् अग्निं दीपयति
(कौश्स्_8,1[60].2) अहोरात्रौ वा
(कौश्स्_8,1[60].3) याथाकामी वा
(कौश्स्_8,1[60].4) संवत्सरं तु प्रशस्तम्
(कौश्स्_8,1[60].5) सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः
(कौश्स्_8,1[60].6) औपासनौ च_उभौ हि विज्ञायेते
(कौश्स्_8,1[60].7) तस्मिन् देवहेडनेनाज्यं जुहुयात्
(कौश्स्_8,1[60].8) समिधो_अभ्यादध्यात्
(कौश्स्_8,1[60].9) शकलान् वा
(कौश्स्_8,1[60].10) तस्मिन् यथाकामं सवान् ददाति_एकं द्वौ सर्वान् वा
(कौश्स्_8,1[60].11) अपि वा_एकैकम् आत्माशिषो दातारं वाचयति
(कौश्स्_8,1[60].12) पराशिषो_अनुमन्त्रणम् अनिर्दिष्टाशिषश् च
(कौश्स्_8,1[60].13) दातारौ कर्माणि कुरुतः
(कौश्स्_8,1[60].14) तौ यथालिङ्गम् अनुमन्त्रयते
(कौश्स्_8,1[60].15) उभयलिङ्गैर् उभौ पुंलिङ्गैर् दातारं स्त्रीलिङ्गैः पत्नीम्
(कौश्स्_8,1[60].16) उदहृत्संप्रैषवर्जम्
(कौश्स्_8,1[60].17) अथ देवयजनम्
(कौश्स्_8,1[60].18) तद् यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् आकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश् च लोमभिः पशूनाम्
(कौश्स्_8,1[60].19) <अग्ने जायस्व [11.1.1]>_इति मन्थन्तौ_अनुमन्त्रयते
(कौश्स्_8,1[60].20) पत्नी मन्त्रं संनमयति
(कौश्स्_8,1[60].21) यजमानश् च [एम्. चलन्द्, क्ल्. स्छ्र्. प्. 89, ब्लोओम्fइएल्द् ग्ग 1902 514]
(कौश्स्_8,1[60].22) <कृणुत धूमं [11.1.2]>_इति धूमम्
(कौश्स्_8,1[60].23) <अग्ने ऽजनिष्ठा [11.1.3]> इति जातम्
(कौश्स्_8,1[60].24) <समिद्धो अग्ने [11.1.4]>_इति समिध्यमानम्
(कौश्स्_8,1[60].25) <परेहि नारि [11.1.13]>_इत्य् उदहृतं संप्रेष्यति_अनुगुप्ताम् अलंकृताम्
(कौश्स्_8,1[60].26) <एमा अगुर् [11.1.14अ]> इत्य् आयतीम् अनुमन्त्रयते
(कौश्स्_8,1[60].27) <उत् तिष्ठ नारि [11.1.14ब्]>_इति पत्नीं संप्रेष्यति
(कौश्स्_8,1[60].28) <प्रति कुम्भं गृभाय [11.1.14द्]>_इति प्रतिगृह्णाति

(कौश्स्_8,1[60].29) <ऊर्जो भागो [11.1.15]>_इति निदधाति
(कौश्स्_8,1[60].30) <इयं मही [11.1.8]>_इति चर्मास्तृणाति प्राग्ग्रीवम् उत्तरलोम
(कौश्स्_8,1[60].31) <पुमान् पुंसो [12.3.1]>_इति चर्मारोहयति
(कौश्स्_8,1[60].32) पत्नी ह्वयमानम्
(कौश्स्_8,1[60].33) तृतीयस्याम् अपत्यम् अन्वाह्वयति
(कौश्स्_8,1[60].34) <ऋषिप्रशिष्टा [11.1.15ब्]>_इत्य् उदपात्रं चर्मणि निदधाति
(कौश्स्_8,1[60].35) तद् <आपस् पुत्रासो [12.3.4]>_इति सापत्यौ_अनुनिपद्येते
(कौश्स्_8,2[61].1) <प्राचींप्राचीं [12.3.7]>_इति मन्त्रोक्तम्
(कौश्स्_8,2[61].2) चतसृभिर् उदपात्रम् अनुपरियन्ति
(कौश्स्_8,2[61].3) प्रतिदिशं <ध्रुवेयं विराण् [12.3.11]>_इत्य् उपतिष्ठन्ते
(कौश्स्_8,2[61].4) <पितेव पुत्रान् [12.3.12]> इत्य् अवरोह्य भूमिं तेन_उदकार्थान् कुर्वन्ति
(कौश्स्_8,2[61].5) पवित्रैः संप्रोक्षन्ते
(कौश्स्_8,2[61].6) दर्भाग्राभ्यां चर्महविः संप्रोक्षति
(कौश्स्_8,2[61].7) आदिष्टानां सानजानत्यै प्रयछति
(कौश्स्_8,2[61].8) तान्_<त्रेधा भागो [11.1.5]>_इति व्रीहिर् आशिषु निदधाति
(कौश्स्_8,2[61].9) तेषां यः पितॄणां तं श्राद्धं करोति
(कौश्स्_8,2[61].10) यो मनुष्याणां तं ब्राह्मणान् भोजयति
(कौश्स्_8,2[61].11) यो देवानां तम् <अग्ने सहस्वान् [11.1.6]> इति दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति
(कौश्स्_8,2[61].12) कुम्भ्या वा चतुः
(कौश्स्_8,2[61].13) तान् <सप्त मेधान् [12.3.16]> इति सापत्यौ_अभिमृशतः
(कौश्स्_8,2[61].14) <गृह्णामि हस्तम् [12.3.17च्]> इति मन्त्रोक्तम्
(कौश्स्_8,2[61].15) <त्रयो वरा [11.1.10च्]> इति त्रीन् वरान् वृणीष्व_इति
(कौश्स्_8,2[61].16) अनेन कर्मणा ध्रुवान् इति प्रथमं वृणीते
(कौश्स्_8,2[61].17) यौ_अपरौ तौ_एव पत्नी
(कौश्स्_8,2[61].18) <एतौ ग्रावाणौ [11.1.9]>_<अयं ग्रावा [12.3.14]>_इत्य् उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय
(कौश्स्_8,2[61].19) <गृहाण ग्रावाणौ [11.1.10]>_इत्य् उभयं गृह्णाति
(कौश्स्_8,2[61].20) <साकं सजातैः [11.1.7]>_इति व्रीहीन् उलूखल आवपति
(कौश्स्_8,2[61].21) <वनस्पतिः [12.3.15]>_इति मुसलम् उच्छ्रयति
(कौश्स्_8,2[61].22) <निर्बिन्ध्य् अंशून् [11.1.9ब्]> <ग्राहिं पाप्मानम् [12.3.18]> इत्य् अवहन्ति
(कौश्स्_8,2[61].23) <इयं ते धीतिर् [11.1.11]> <वर्षवृद्धम् [12.3.19च्]> इति शूर्पं गृह्णाति
(कौश्स्_8,2[61].24) <ऊर्ध्वं प्रजाम् [11.1.9द्]>_<विश्वव्यचा [12.3.19]> इत्य् उदूहन्तीम्
(कौश्स्_8,2[61].25) <परा पुनीहि [11.1.11च्]> <तुषं पलावान् [12.3.19द्]> इति निष्पुनतीम्
(कौश्स्_8,2[61].26) <पृथग् रूपाणि [12.3.21]>_इत्य् अवक्षिणतीम्
(कौश्स्_8,2[61].27) <त्रयो लोकाः [12.3.20]>_इत्य् अवक्षीणान् अभिमृशतः
(कौश्स्_8,2[61].28) <पुनर् आ यन्तु शूर्पम् [12.3.20द्]> इत्य् उद्वपति
(कौश्स्_8,2[61].29) <उपश्वसे [11.1.12]>_इत्य् अपवेवेक्ति
(कौश्स्_8,2[61].30) <पृथिवीं त्वा पृथिव्याम् [12.3.22]> इति कुम्भीम् आलिम्पति
(कौश्स्_8,2[61].31) <अग्ने चरुर् [11.1.16]>_इत्य् अधिश्रयति
(कौश्स्_8,2[61].32) <अग्निः पचन् [12.3.24]>_इति पर्यादधाति
(कौश्स्_8,2[61].33) <ऋषिप्रशिष्टा [11.1.15ब्]>_इत्य् उदकम् अपकर्षति

(कौश्स्_8,2[61].34) <शुद्धाः पूताः [11.1.17]> <पूताः पवित्रैः [12.3.25]>_इति पवित्रे अन्तर्धाय
(कौश्स्_8,2[61].35) उदकम् आसिञ्चति
(कौश्स्_8,2[61].36) <ब्रह्मणा शुद्धाः [11.1.18]> <संख्याता स्तोकाः [12.3.28]>_इत्य् आपस् तासु निक्त्वा तण्डुलान् आवपति
(कौश्स्_8,2[61].37) <उरुः प्रथस्व [11.1.19]>_<उद् योधन्ति [12.3.29]> श्रपयति
(कौश्स्_8,2[61].38) <प्र यछ पर्शुं [12.3.31]>_इति दर्भाहाराय दात्रं प्रयछति
(कौश्स्_8,2[61].39) <ओषधीर् दान्तु पर्वन् [12.3.31ब्]>_इत्य् उपरि पर्वणां लुनाति
(कौश्स्_8,2[61].40) <नवं बर्हिर् [12.3.32]> इति बर्हि स्तृणाति
(कौश्स्_8,2[61].41) <उदेहि वेदिं [11.1.21]> <धर्ता ध्रियस्व [12.3.35]>_इत्य् उद्वासयति
(कौश्स्_8,2[61].42) <अभ्यावर्तस्व [11.1.22]>_इति कुम्भीं प्रदक्षिणम् आवर्तयति
(कौश्स्_8,2[61].43) <वनस्पते स्तीर्णम् [12.3.33]> इति बर्हिषि पात्रीं निदधाति
(कौश्स्_8,2[61].44) <अंसध्रीं [11.1.23च्]>_इत्य् उपदधाति
(कौश्स्_8,2[61].45) <उप स्तृणीहि [12.3.27]>_इत्य् आज्येन_उपस्तृणाति
(कौश्स्_8,2[61].46) <उपस्तरीर् [12.3.28]> इत्य् उपस्तीर्णाम् अनुमन्त्रयते
(कौश्स्_8,3[62].1) <अदितेर् हस्तां [11.1.24]> <सर्वान् समागा [12.3.36]> इति मन्त्रोक्तम्
(कौश्स्_8,3[62].2) तत उदकम् आदाय पात्र्याम् आनयति
(कौश्स्_8,3[62].3) दर्व्या कुम्भ्यां
(कौश्स्_8,3[62].4) दर्विकृते तत्र_एव प्रत्यानयति
(कौश्स्_8,3[62].5) दर्व्या_उत्तमम् अपादाय तत्सुहृद् दक्षिणतो_अग्नेर् उदङ्मुख आसीनो धारयति
(कौश्स्_8,3[62].6) अथ_उद्धरति
(कौश्स्_8,3[62].7) उद्धृते यद् अपादाय धारयति तत् उत्तरार्ध आदधाति
(कौश्स्_8,3[62].8) अनुत्तराधरताया ओदनस्य यद् उत्तरं तद् उत्तरम् ओदन एव_ओदनः
(कौश्स्_8,3[62].9) <षष्ठ्यां शरत्सु [12.3.34]>_इति पश्चाद् अग्नेर् उपसादयति
(कौश्स्_8,3[62].10) <निधिं निधिपा [12.3.42]> इति त्रीणि काण्डानि करोति
(कौश्स्_8,3[62].11) <यद्यज् जाया [12.3.39]>_इति मन्त्रोक्तम्
(कौश्स्_8,3[62].12) सा पत्यौ_अन्वारभते
(कौश्स्_8,3[62].13) अन्वारब्धेषु_अत ऊर्ध्वं करोति
(कौश्स्_8,3[62].14) <अग्नी रक्षस् [12.3.43]>_इति पर्यग्नि करोति
(कौश्स्_8,3[62].15) <बभ्रेर् अध्वर्यो [11.1.31]> <इदम् प्रापम् [12.3.45]> इत्य् उपरि_आपानं करोति
(कौश्स्_8,3[62].16) <बभ्रेर् ब्रह्मन्न् [च्f. 11.1.31]> इति ब्रूयाद् अनध्वर्युम्
(कौश्स्_8,3[62].17) <घृतेन गात्रा [11.1.31च्]>_<आ सिञ्च सर्पिर् [12.3.45च्]> इति सर्पिषा विष्यन्दयति
(कौश्स्_8,3[62].18) <वसोर् या धारा [12.3.41]> <आदित्येभ्यो अङ्गिरोभ्यो [12.3.44]>_इति रसैर् उपसिञ्चति
(कौश्स्_8,3[62].19) <प्रियं प्रियाणां [12.3.49]>_इत्य् उत्तरतो_अग्नेर् धेन्वादीनि_अनुमन्त्रयते
(कौश्स्_8,3[62].20) ताम् <अत्यासरत् प्रथमा [प्स् 5.31.1]>_इति यथोक्तं दोहयित्वा_उपसिञ्चति
(कौश्स्_8,3[62].21) <अत्यासरत् प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर् व्य् असृष्ट सुमना हिं कृणोति ॥ बधान वत्सम् अभि धेहि भुञ्जती निज्य गोधुग् उप सीद दुग्धि । इराम् अस्मा ओदनं पिन्वमाना कीलालं घृतं मदम् अन्नभागम् ॥ सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदम् आगन् वत्सेन गां सं सृज विश्वरूपाम् [प्स् 5.31.1-3]> इति
(कौश्स्_8,3[62].22) <इदं मे ज्योतिर् [11.1.28]>_<सम् अग्नयः [12.3.50]>_इति हिरण्यम् अधिदधाति
(कौश्स्_8,3[62].23) <एषा त्वचां [12.3.51]>_इत्य् अमा_ऊतं वासो_अग्रतः सहिरण्यं निदधाति
(कौश्स्_8,4[63].1) <यद् अक्षेषु [12.3.52]>_इति समानवसनौ भवतः
(कौश्स्_8,4[63].2) द्वितीयं तत् पापचैलं भवति तन् मनुष्यान्धमाय दद्याद् इत्य् एके
(कौश्स्_8,4[63].3) <शृतं त्वा हव्यम् [11.1.25]> इति वतुर आर्षेयान् भृग्वङ्गिरोविद् उपसादयति
(कौश्स्_8,4[63].4) <शुद्धाः पूता [11.1.27]> इति मन्त्रोक्तम्

(कौश्स्_8,4[63].5) <पक्वं क्षेत्रात् [11.1.28ब्]>_<वर्षं वनुष्व [12.3.53]>_इत्य् अपकर्षति
(कौश्स्_8,4[63].6) <अग्नौ तुषान् [11.1.29]> इति तुषान् आवपति
(कौश्स्_8,4[63].7) <परः कम्बूकान् [11.1.29ब्]> इति सव्येन पादेन फलीकरणान् अपोहति
(कौश्स्_8,4[63].8) <तन्वं स्वर्गो [12.3.54]>_इत्य् अन्यान् आवपति
(कौश्स्_8,4[63].9) <अग्ने प्रेहि [4.14.5]>_<समाचिनुष्व [11.1.36]>_इत्य् आज्यं जुहुयात्
(कौश्स्_8,4[63].10) एष सवानां संस्कारः
(कौश्स्_8,4[63].11) अर्थलुप्तानि निवर्तन्ते
(कौश्स्_8,4[63].12) यथासवं मन्त्रं संनमयति
(कौश्स्_8,4[63].13) लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत
(कौश्स्_8,4[63].14) लिङ्गेन वा
(कौश्स्_8,4[63].15) कर्मोत्पत्त्यानुपूर्वं प्रशस्तम्
(कौश्स्_8,4[63].16) अतथा_उत्पत्तेर् यथालिङ्गम्
(कौश्स्_8,4[63].17) समुच्चयस् तुल्यार्थानां विकल्पो वा
(कौश्स्_8,4[63].18) अथ_एतयोर् विभागः
(कौश्स्_8,4[63].19) सूक्तेन पूर्वं संपातवन्तं करोति
(कौश्स्_8,4[63].20) <श्राम्यतः [11.1.30]>_इतिप्रभृतिभिर् वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः
(कौश्स्_8,4[63].21) अनुवाकेन_उत्तरं संपातवन्तं करोति
(कौश्स्_8,4[63].22) <प्राच्यै त्वा दिशे [12.3.55]>_इतिप्रभृतिभिर् वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः
(कौश्स्_8,4[63].23) यथासवम् अन्यान् पृथग् वा_इति प्रकृतिः
(कौश्स्_8,4[63].24) सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम्
(कौश्स्_8,4[63].25) प्रयुक्तानां पुनर् अप्रयोगम्
(कौश्स्_8,4[63].26) एके सहिरण्यां धेनुं दक्षिणां
(कौश्स्_8,4[63].27) गोदक्षिणां वा कौरुपथिः
(कौश्स्_8,4[63].28) संपातवतो_अभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः
(कौश्स्_8,4[63].29) <एतं भागं [6.122.1]>_<एतं सधस्थाः [6.123.1]>_<उलूखले [10.9.26]>_इति संस्थितहोमाः
(कौश्स्_8,4[63].30) आवपते
(कौश्स्_8,4[63].31) अनुमन्त्रणं च
(कौश्स्_8,5[64].1) <आशानाम् [1.31.1]> इति चतुःशरावम्
(कौश्स्_8,5[64].2) <यद् राजानो [3.29.1]>_इत्य् अवेक्षति
(कौश्स्_8,5[64].3) पदस्नातस्य पृथक्पादेषु_अपूपान् निदधाति
(कौश्स्_8,5[64].4) नाभ्यां पञ्चमम्
(कौश्स्_8,5[64].5) उन्नह्यन् वसनेन सहिरण्यं संपातवन्तम्
(कौश्स्_8,5[64].6) <आ नयैतम् [9.5.1]> इत्य् अपराजिताद् अजमानीयमानम् अनुमन्त्रयते
(कौश्स्_8,5[64].7) <इन्द्राय भागं [9.5.2]>_इति अग्निं परिणीयमानम्
(कौश्स्_8,5[64].8) <ये नो द्विषन्ति [9.5.2च्]>_इति संज्ञप्यमानम्
(कौश्स्_8,5[64].9) <प्र पदो [9.5.3]>_इति पदः प्रक्षालयन्तम्
(कौश्स्_8,5[64].10) <अनुछ्य श्यामेन [9.5.4]>_इति यथापरु विशन्तम्
(कौश्स्_8,5[64].11) <ऋचा कुम्भीम् [9.5.5]> इत्य् अधिश्रयन्तम्
(कौश्स्_8,5[64].12) <आ सिञ्च [9.5.5ब्]>_इत्य् आसिञ्चन्तम्
(कौश्स्_8,5[64].13) <अव धेहि [9.5.5ब्-पर्त्]>_इत्य् अवदधतम्

(कौश्स्_8,5[64].14) <पर्याधत्त [9.5.5च्]>_इति पर्यादधतम्
(कौश्स्_8,5[64].15) <शृतो गछतु [9.5.5द्]>_इत्य् उद्वासयन्तम्
(कौश्स्_8,5[64].16) <उत् क्रामातः [9.5.6]>_इति पश्चाद् अग्नेर् दर्भेषूद्धरन्तम्
(कौश्स्_8,5[64].17) उद्धृतम् <अजम् अनज्मि [4.14.6]>_इत्य् आज्येनानक्ति
(कौश्स्_8,5[64].18) <पञ्चौदनं [4.14.7]>_इति मन्त्रोक्तम्
(कौश्स्_8,5[64].19) ओदनान् पृथक्पादेषु निदधाति
(कौश्स्_8,5[64].20) मध्ये पञ्चमम्
(कौश्स्_8,5[64].21) दक्षिणं पश्चार्धं यूपेन_उपसिच्य
(कौश्स्_8,5[64].22) <शृतम् अजं [4.14.9]>_इत्य् अनुबद्धशिरःपादं तु_एतस्य चर्म
(कौश्स्_8,5[64].23) <अजो हि [4.14.1]>_इति सूक्तेन संपातवन्तं यथोक्तम्
(कौश्स्_8,5[64].24) उत्तरो_अमोतं तस्याग्रतः सहिरण्यं निदधाति
(कौश्स्_8,5[64].25) <पञ्च रुक्मा [9.5.25(26)]>_इति मन्त्रोक्तम्
(कौश्स्_8,5[64].26) धेन्वादीनि_उत्तरतः सोपधानम् आस्तरणम् वासो हिरण्यं च
(कौश्स्_8,5[64].27) <आ नयैतम् [9.5.1]> इति सूक्तेन संपातवन्तम्
(कौश्स्_8,5[64].28) आञ्जनान्तं शतौदनायाः पञ्चौदेन व्याख्यातम्
(कौश्स्_8,6[65].1) <अघायताम् [10.9.1]> इत्य् अत्र मुखम् अपिनह्यमानम् अनुमन्त्रयते
(कौश्स्_8,6[65].2) <सपत्नेषु वज्रम् [10.9.1ब्]>_<ग्रावा त्वैषो [10.9.2द्]>_इति निपतन्तम्
(कौश्स्_8,6[65].3) <वेदिष् टे [10.9.2]>_इति मन्त्रोक्तम् आस्तृणाति
(कौश्स्_8,6[65].4) विंशत्योदनासु श्रयणीषु शतम् अवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्य् आदधति
(कौश्स्_8,6[65].5) मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमे_अभितः सप्तसप्तापूपान् परिश्रयति
(कौश्स्_8,6[65].6) पञ्चदशे पुरोडाशौ
(कौश्स्_8,6[65].7) अग्रे हिरण्यम्
(कौश्स्_8,6[65].8) <अपो देवीर् [10.9.27]>_इत्य् अग्रत उदकुम्भान्
(कौश्स्_8,6[65].9) <बालास् ते [10.9.3]>_इति सूक्तेन संपातवतीम्
(कौश्स्_8,6[65].10) प्रदक्षिणम् अग्निम् अनुपरिणीय_उपवेशनप्रक्षालनाचमनम् उक्तम्
(कौश्स्_8,6[65].11) पाणौ_उदकम् आनीय
(कौश्स्_8,6[65].12) अथामुष्य_ओदनस्यावदानानां च मध्यात् पूर्वार्धात्_च द्विर् अवदाय_उपरिष्टाद् उदकेनाभिघार्य जुहोति <सोमेन पूतो जठरे सीद ब्रह्मणाम् [11.1.25च्]> <आर्षेयेषु नि दध ओदन त्वा [11.1.33अ]>_इति
(कौश्स्_8,6[65].13) अथ प्राश्नाति
(कौश्स्_8,6[65].14) <अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद् यथा हुतम् इष्टं प्राश्नीयाद् देवात्मा त्वा प्राश्नाम्य् आत्मास्य् आत्मन्न् आत्मानं मे मा हिंसीर् [प्स् 20.57.14; च्f. प्स् 9.21.1ff., व्स्क् 2.3.5+7, वैत्स् 3.11]> इति प्राशितम् अनुमन्त्रयते
(कौश्स्_8,6[65].15) <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एष सुहुतो ऽस्त्व् ओदनः स मा मा हिंसीत् परमे व्योमन् ॥ सो अस्मभ्यम् अस्तु परमे व्योमन्न् [च्f. प्स् 20.57.15, प्स् 16.72.9]> इति दातारं वाचयति
(कौश्स्_8,6[65].16) वीक्षणान्तम् शतौदनायाः प्रातर्जपेन व्याख्यातम्
(कौश्स्_8,7[66].1) <वाङ् म आसन् [19.60.1]>_इति मन्त्रोक्तानि_अभिमन्त्रयते
(कौश्स्_8,7[66].2) <बृहता मनो [5.10.8]> <द्यौश् च मे [6.53.1]> <पुनर् मैत्व् इन्द्रियं [7.67.1]>_इति प्रतिमन्त्रयते
(कौश्स्_8,7[66].3) प्रतिमन्त्रिते व्यवदायाश्नन्ति
(कौश्स्_8,7[66].4) शतौदनायां द्वादशं शतं दक्षिणाः
(कौश्स्_8,7[66].5) अधिकं ददतः कामप्रं संपद्यते
(कौश्स्_8,7[66].6) <ब्रह्मास्य [4.34.1]>_इत्य् ओदने ह्रदान् प्रतिदिशं करोति
(कौश्स्_8,7[66].7) उपरि_आपानम्
(कौश्स्_8,7[66].8) तदभितश् चतस्रो दिश्याः कुल्याः
(कौश्स्_8,7[66].9) ता रसैः पूरयति

(कौश्स्_8,7[66].10) पृथिव्यां सुरयाद्भिर् आण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय
(कौश्स्_8,7[66].11) <यम् ओदनं [4.35.1]>_इत्य् अतिमृत्युम्
(कौश्स्_8,7[66].12) <अनड्वान् [4.11.1]> इत्य् अनड्वाहम्
(कौश्स्_8,7[66].13) <सूर्यस्य रश्मीन् [4.38.5]> इति कर्कीं सानूबन्ध्यां ददाति
(कौश्स्_8,7[66].14) <आयं गौः पृश्निर् [6.31.1]> <अयं सहस्रम् [7.22.1]> इति पृश्निम् गाम्
(कौश्स्_8,7[66].15) <देवा इमं मदुना संयुतं यवं [6.30.1]> इति पौनःशिलं मधुमन्तं सहिरण्यं संपातवन्तम्
(कौश्स्_8,7[66].16) <पुनन्तु मा देवजनाः [6.19.1]>_इति पवित्रं कृशरम्
(कौश्स्_8,7[66].17) <कः पृश्निं [7.104.1]>_इत्य् उर्वराम्
(कौश्स्_8,7[66].18) <साहस्रस् [9.4.1]>_इत्य् ऋषभम्
(कौश्स्_8,7[66].19) <प्रजापतिश् च [9.7.1]>_इत्य् अनड्वाहम्
(कौश्स्_8,7[66].20) <नमस् ते जायमानायै [10.10.1]> <ददामि [12.4.1]>_इति वशाम् उदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः
(कौश्स्_8,7[66].21) <भूमिष् ट्वा [3.29.8]>_इत्य् एनां प्रतिगृह्णाति
(कौश्स्_8,7[66].22) <उपमितां [9.3.1 (5.28.5)]>_इति यत्_शालया सह दास्यन् भवति तद् अन्तर् भवति_अपिहितम्
(कौश्स्_8,7[66].23) मन्त्रोक्तं तु प्रशस्तम्
(कौश्स्_8,7[66].24) <इटस्य ते वि चृतामि [9.3.18]>_इति द्वारम् अवसारयति
(कौश्स्_8,7[66].25) <प्रतीचीं त्वा प्रतीचीनः [9.3.22]>_इत्य् उदपात्रम् अग्निम् आदाय प्रपद्यन्ते
(कौश्स्_8,7[66].26) तद् अन्तर् एव सूक्तेन संपातवत् करोति
(कौश्स्_8,7[66].27) उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः
(कौश्स्_8,7[66].28) <अन्तरा द्यां च पृथिवीं च [9.3.15]>_इत्य् एनां प्रतिगृह्णाति
(कौश्स्_8,7[66].29) <उपमितां [9.3.1]>_इति मन्त्रोक्तानि प्रचृतति
(कौश्स्_8,7[66].30) <मा नः पाशं [9.3.24]>_इत्य् अभिमन्त्र्य धारयति
(कौश्स्_8,7[66].31) <नास्यास्थीनि [9.5.23]>_इति यथोक्तम्
(कौश्स्_8,7[66].32) <सर्वम् एनं समादय [9.5.23च्]>_इत्य् अद्भिः पूर्णे गर्ते प्रविध्य संवपति
(कौश्स्_8,7[66].33) शतौदनां च
(कौश्स्_8,8[67].1) संभृतेषु साविकेषु संभारेषु ब्राह्मणम् ऋत्विजं वृणीत
(कौश्स्_8,8[67].2) ऋषिम् आर्षेयं सुधातुदक्षिणम् अनैमित्तिकम्
(कौश्स्_8,8[67].3) एष ह वा ऋषिर् आर्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः
(कौश्स्_8,8[67].4) उदगयन इत्य् एके
(कौश्स्_8,8[67].5) अथात ओदनसवानाम् उपाचारकल्पं व्याख्यास्यामः
(कौश्स्_8,8[67].6) सवान् दत्त्वाग्नीन् आदधीत
(कौश्स्_8,8[67].7) सार्ववैदिक इत्य् एके
(कौश्स्_8,8[67].8) सर्वे वेदा द्विकल्पाः
(कौश्स्_8,8[67].9) मासपरार्ध्या दीक्षा द्वादशरात्रो वा
(कौश्स्_8,8[67].10) त्रिरात्र इत्य् एके
(कौश्स्_8,8[67].11) हविष्यभक्षा स्युर् ब्रह्मचारिणः
(कौश्स्_8,8[67].12) अधः शयीरन्
(कौश्स्_8,8[67].13) कर्तृदातारौ_आ समापनात् कामं न भुञ्जीरन् संतताश् चेत् स्युः
(कौश्स्_8,8[67].14) अहनि समाप्तम् इत्य् एके
(कौश्स्_8,8[67].15) यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत
(कौश्स्_8,8[67].16) केशवर्जं पत्नी

(कौश्स्_8,8[67].17) स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः
(कौश्स्_8,8[67].18) श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकम् अग्निं मथित्वा
(कौश्स्_8,8[67].19) <यद् देवा देवहेडनं [6.114.1]> <यद् विद्वांसो यद् अविद्वांसो [6.115.1]> <ऽपमित्यम् अप्रतीत्तं [6.117.1]>_इत्य् एतैस् त्रिभिः सूक्तैर् अन्वारब्धे दातरि पूर्णहोमं जुहुयात्
(कौश्स्_8,8[67].20) पूर्वाह्णे बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चम् उपसमाधाय
(कौश्स्_8,8[67].21) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य
(कौश्स्_8,8[67].22) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च
(कौश्स्_8,8[67].23) पश्चाद् अग्नेः पल्पूलितविहितम् औक्षं वानडुहम् वा रोहितं चर्म प्राग्ग्रीवम् उत्तरलोम परिस्तीर्य
(कौश्स्_8,8[67].24) पवित्रे कुरुते
(कौश्स्_8,8[67].25) दर्भौ_अप्रछिन्नप्रान्तौ प्रक्षाल्यानुलोमम् अनुमार्ष्टि
(कौश्स्_8,8[67].26) दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात् तया चतुर्थम्
(कौश्स्_8,8[67].27) शरावेण चतुःशरावं <देवस्य त्वा सवितुः प्रसवे [प्स् 16.70.1, त्स् 2.4.6.1 एत्च्.]>_<ऋषिभ्यस् त्वार्षेयेभ्यस् त्वैकर्षये त्वा जुष्टं निर्वपामि [च्f. प्स् 16.70.2]>
(कौश्स्_8,9[68].1) <वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु । ऊर्जम् अक्षितम् अक्षीयमाणम् उपजीव्यासम् [च्f. प्स् 16.70.2+3]> इति दातारं वाचयति
(कौश्स्_8,9[68].2) <रुद्रास् त्वा त्रैष्टुभेन छन्दसा । आदित्यास् त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर् वपन्तु । ऊर्जम् अक्षितम् अक्षीयमाणम् उप जीव्यासम् [च्f. प्स् 16.70.2+4+5, ऐत्ब् 8.12]> इति दातारं वाचयति
(कौश्स्_8,9[68].3) निरुप्तं सूक्तेनाभिमृशति
(कौश्स्_8,9[68].4) स्वर्गब्रह्मौदनौ तन्त्रम्
(कौश्स्_8,9[68].5) संनिपाते ब्रह्मौदनमितम् उदकम् आसेचयेद् द्विभागम्
(कौश्स्_8,9[68].6) यावन्तस् तण्डुलाः स्युर् नावसिञ्चेत्_न प्रतिषिञ्चेत्
(कौश्स्_8,9[68].7) यदि_अवसिञ्चेत्_<मयि वर्चो अथो यशो [6.69.3]>_इति ब्रह्मा यजमानं वाचयति
(कौश्स्_8,9[68].8) अथ प्रतिषिञ्चेत्
(कौश्स्_8,9[68].9) <आ प्यायस्व [प्स् 20.55.4, .र्व् 1.19.16 एत्च्.]> <सं ते पयांसि [प्स् 20.55.6, .र्व् 1.91.18 एत्च्.]>_इति द्वाभ्यां प्रतिषिञ्चेत्
(कौश्स्_8,9[68].10) <आ प्यायस्व सम् एतु ते विस्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥ सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ [प्स् 20.55.4+6, .र्व् 1.91.16+18]>_इति
(कौश्स्_8,9[68].11) तत्र चेद् उपाधिमात्रायां नखेन न लवणस्य कुर्यात् तेन_एवास्य तद् वृथान्नं संपद्यते
(कौश्स्_8,9[68].12) अहतं वासो दक्षिणत उपशेते
(कौश्स्_8,9[68].13) तत् सहिरण्यम्
(कौश्स्_8,9[68].14) तत्र द्वे उदपात्रे निहिते भवतः
(कौश्स्_8,9[68].15) दक्षिणम् अन्यद् अन्तरम् अन्यत्
(कौश्स्_8,9[68].16) अन्तरं यतो_अधिचरिष्यन् भवति
(कौश्स्_8,9[68].17) बाह्यं जाङ्मायनम्
(कौश्स्_8,9[68].18) तत उदकम् आदाय पात्र्याम् आनयति
(कौश्स्_8,9[68].19) दर्व्या कुम्भ्याम्
(कौश्स्_8,9[68].20) दर्विकृते तत्र_एव प्रत्यानयति
(कौश्स्_8,9[68].21) दर्व्या_उत्तमम् अपादाय तत्सुहृद् दक्षिणतो_अग्नेर् उदङ्मुख आसीनो धारयति
(कौश्स्_8,9[68].22) अथ_उद्धरति
(कौश्स्_8,9[68].23) उद्धृते यद् अपादाय धारयति तद् उत्तरार्ध आधाय रसैर् उपसिच्य प्रतिग्रहीत्रे दाता_उपवहति
(कौश्स्_8,9[68].24) तस्मिन्न् अन्वारब्धं दातारं वाचयति
(कौश्स्_8,9[68].25) तन्त्रं सूक्तं पच्छः स्नातेन <यौ ते पक्षौ [प्स् 3.38.6]> <यद् अतिष्ठः [प्स् 3.38.7]>
(कौश्स्_8,9[68].26) <यौ ते पक्षाव् अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् ओदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः ॥ यद् अतिष्ठो दिवस् पृष्ठे व्योमन्न् अध्य् ओदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ [प्स् 3.38.6-7, च्f. त्स् 4.7.13.1, व्स्म् 18.52]>
(कौश्स्_8,9[68].27) <क्रमध्वम् अग्निना नाकम् [4.14.2]>_<पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम् [4.14.3]>_<स्वर् यन्तो नापेक्षन्त [4.14.4]> <उरुः प्रथस्व महता महिम्ना [11.1.19]>_<इदं मे ज्योतिर् [11.1.28]>_<सत्याय च [12.3.46]>_इति तिस्रः <सम् अग्नयः [12.3.50]>_इति सार्धम् एतया
(कौश्स्_8,9[68].28) अत ऊर्ध्वं वाचिते हुते संस्थिते_अमूं ते ददामीति नामग्राहम् उपस्पृशेत्
(कौश्स्_8,9[68].29) सदक्षिणं <कामस् तद् [19.52.1]> इत्य् उक्तम्

(कौश्स्_8,9[68].30) <ये भक्षयन्तो [2.35.1]>_इति पुरस्ताद्धोमाः
(कौश्स्_8,9[68].31) <अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ [.र्व् 5.24.1अब्+2च्द् एत्च्.]> <गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सुमनो भव [च्f. .र्व् 1.91.12 एत्च्.]>_इत्य् आज्यभागौ
(कौश्स्_8,9[68].32) पाणौ_उदकम् आनीय_इत्य् उक्तम्
(कौश्स्_8,9[68].33) प्रतिमन्त्रणान्तम्
(कौश्स्_8,9[68].34) प्रतिमन्त्रिते व्यवदायाश्नन्ति
(कौश्स्_8,9[68].35) <इदावत्सराय [प्स् 19.51.1-4]>_इति व्रतविसर्जनम् आज्यं जुहुयात्
(कौश्स्_8,9[68].36) समिधो_अभ्याध्यात्
(कौश्स्_8,9[68].37) तत्र श्लोकौ । यजुषा मथिते अग्नौ यजुषोपसमाहिते । सवान् दत्त्वा सवाग्नेस् तु कथम् उत्सर्जनं भवेत् ॥ वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि । हुत्वा संनतिभिस् तत्रोत्सर्गं कौशिको ऽब्रवीत्
(कौश्स्_8,9[68].38) प्राञ्चो_अपराजितां वा दिशम् अवभृथाय व्रजन्ति
(कौश्स्_8,9[68].39) अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति
(कौश्स्_8,9[68].40) ब्राह्मणान् भक्तेन_उपेप्सन्ति
(कौश्स्_8,9[68].41) यथोक्ता दक्षिणा यथोक्ता दक्षिणा
(कौश्स् 8 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे ऽष्टमो ऽध्यायः समाप्तः
(कौश्स्_9,1[69].1) पित्र्यम् अग्निं शमयिष्यञ् ज्येष्ठस्य चाविभक्तिन एकाग्निम् आधास्यन्
(कौश्स्_9,1[69].2) अमावास्यायं पूर्वस्मिन्न् उपशाले गां द्विहायनीं रोहिणीम् एकरूपां बन्धयति
(कौश्स्_9,1[69].3) निशि शामूलपरिहितो ज्येष्ठो_अन्वालभते
(कौश्स्_9,1[69].4) पत्नी_अहतवसना ज्येष्ठम्
(कौश्स्_9,1[69].5) पत्नीम् अन्वञ्च इतरे
(कौश्स्_9,1[69].6) अथ_एनान् अभिव्याहारयति_<अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वम् अध्रिगा ओ उ [च्f. त्ब् 3.6.6.4 एत्च्.]> इति त्रिः
(कौश्स्_9,1[69].7) <अयम् अग्निः सत्पतिर् [7.62.1]> <नडम् आ रोह [12.2.1]>_इत्य् अनुवाकं महाशान्तिं च शान्त्युदक आवपते
(कौश्स्_9,1[69].8) <अग्ने अक्रव्याद् [12.2.42]> इति भ्रष्टाद् दीपं धारयति
(कौश्स्_9,1[69].9) भूमेश् च_उपदग्धं समुत्खाय
(कौश्स्_9,1[69].10) आकृतिलोष्टवल्मीकेनास्तीर्य
(कौश्स्_9,1[69].11) शकृत्पिण्डेनाभिलिप्य
(कौश्स्_9,1[69].12) सिकताभिः प्रकीर्याभ्युक्ष्य
(कौश्स्_9,1[69].13) लक्षणं कृत्वा
(कौश्स्_9,1[69].14) पुनर् अभ्युक्ष्य
(कौश्स्_9,1[69].15) पश्चाल् लक्षणस्याभिमन्थनं निधाय
(कौश्स्_9,1[69].16) गोऽश्वाजावीनां पुंसां लोमभिर् आस्तीर्य व्रीहियवैश् च शकृत्पिण्डम् अभिविमृज्य प्राञ्चौ दर्भौ निदधाति
(कौश्स्_9,1[69].17) <वृषणौ स्थः [त्स् 1.3.7.1 एत्च्.]>_इत्य् अभिपाण्यारण्यौ
(कौश्स्_9,1[69].18) तयोर् उपरि_अधरारणिम्
(कौश्स्_9,1[69].19) दक्षिणतो मूलान्
(कौश्स्_9,1[69].20) पश्चात् प्रजननाम् <उर्वश्य् असि [त्स् 1.3.7.1 एत्च्.]>_इत्य् <आयुर् असि [त्स् 1.3.7.1 एत्च्.]>_इति
(कौश्स्_9,1[69].21) मूलत उत्तरारणिम् उपसंधाय
(कौश्स्_9,1[69].22) <पृतनाजितं [7.63.1]>_इत्य् आहूय
(कौश्स्_9,1[69].23) अभिदक्षिणं ज्येष्ठस् त्रिर् अभिमन्थति_<ओं भूर् गायत्रं छन्दो ऽनुप्रजायस्व त्रैष्ठुभं जागतम् आनुष्ठुबम् ओं भूर् भुवः स्वर् जनद् ओम् [च्f. त्स् 1.3.7.1 एत्च्.]> इति
(कौश्स्_9,1[69].24) अत ऊर्ध्वं यथाकामं
(कौश्स्_9,2[70].1) <मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्व् आ भज दीर्घम् आयुश् च धेहि नः ॥ [-]> <जातो ऽजनिष्ठा यशसा सहाग्रे प्रजां पशूंस् तेजो रयिम् अस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वम् आयुर् गमेम ॥ [-, च्f. ;साङ्ख्;स्स् 2.17.8> <उद् दीप्यस्व जातवेदो ऽव सेदिं तृणां क्षुधं जहि । अपास्मत् तम उछत्व् अप ह्रीतमुखो जह्य् अप दुर्हार्द्दिशो जहि ॥> <इहैवैधि धनसनिर् इह त्वा सम् इधीमहि । इहैधि पुष्टिवर्धन इह त्वा सम् इधीमहि [-, च्f. 18.4.38अ]>_इति
(कौश्स्_9,2[70].2) प्रथमया मन्थति
(कौश्स्_9,2[70].3) द्वितीयया जातम् अनुमन्त्रयते

(कौश्स्_9,2[70].4) तृतीयया_उद्दीपयति
(कौश्स्_9,2[70].5) चतुर्थ्या_उपसमादधाति
(कौश्स्_9,2[70].6) <यत् त्वा क्रुद्धाः [12.2.5, च्f. म्स् 1.7.1 एत्च्.]>_इति च_<ओं भूर् भुवः स्वर् जनद् ओम्> इत्य् <अङ्गिरसां त्वा देवानाम् आदित्यानां व्रतेना दधे [च्f. क्स् 7.13:76.15ff. एत्च्.]> । <द्यौर् मह्नासि भूमिर् भूम्ना तस्यास् ते देव्य् अदितिर् उपस्थे ऽन्नादायान्नपत्याया दधत् [च्f. क्स् 7.13:76.17f. एत्च्.]> इति
(कौश्स्_9,2[70].7) लक्षणे प्रतिष्ठाप्य_उपोत्थाय
(कौश्स्_9,2[70].8) अथ_उपतिष्ठते
(कौश्स्_9,2[70].9) <अग्ने गृहपते सुगृहपतिर् अहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस् त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः [च्f. व्स्म् 2.27 एत्च्.]>_इति
(कौश्स्_9,2[70].10) <व्याकरोमि [12.2.32]>_इति गार्हपत्यक्रव्यादौ समीक्षते
(कौश्स्_9,2[70].11) शान्तम् आज्यं गार्हपत्याय_उपनिदधाति
(कौश्स्_9,2[70].12) माषमन्थं क्रव्यादम्
(कौश्स्_9,2[70].13) <उप त्वा नमसा [3.15.7]>_इति पुरोऽनुवाक्या
(कौश्स्_9,2[70].14) <विश्वहा ते [3.15.8]>_इति पूर्णाहुतिं जुहोति
(कौश्स्_9,2[70].15) <यो नो अग्निः [12.2.33]>_इति सह कर्त्रा हृदयानि_अभिमृशन्ते
(कौश्स्_9,3[71].1) <अंशो राजा विभजतीमाव् अग्नी विधारयन् । क्रव्यादं निर् णुदामसि हव्यवाड् इह तिष्ठतु [-]>_इति विभागं जपति
(कौश्स्_9,3[71].2) <सुगार्हपत्यो [12.2.45च्]>_इति दक्षिणेन गार्हपत्ये समिधम् आदधाति
(कौश्स्_9,3[71].3) <यः क्रव्यात् तम् अशीशमम् [च्f. 3.21.9]> इति सव्येन नडमयीं क्रव्यादि
(कौश्स्_9,3[71].4) <अपावृत्य [12.2.34]>_इति मन्त्रोक्तं बाह्यतो निधाय
(कौश्स्_9,3[71].5) <नडम् आ रोह [12.2.1]> <सम् इन्धते [12.1.11]>_<इषीकां जरतीम् [12.1.54]>_<प्रत्यञ्चम् अर्कं [12.1.55]>_इत्य् उपसमादधाति
(कौश्स्_9,3[71].6) <यद्य् अग्निः [12.2.4]>_<यो अग्निः [12.2.7]>_<अविः कृष्णा [12.2.53]> <मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ् शमयामि सर्वान् [-]> इति शुक्त्या माषपिष्टानि जुहोति
(कौश्स्_9,3[71].7) सीसं दर्व्याम् अवधाय_उद्ग्रथ्य मन्थं जुह्वन्_शमयेत्
(कौश्स्_9,3[71].8) <नडम् आ रोह [12.2.1]>_इति चतस्रो_<अग्ने अक्रव्याद् [12.2.42]> <इमं क्रव्याद् [12.2.43]> <यो नो अश्वेषु [12.2.15]>_<अन्येभ्यस् त्वा [12.2.16]> <हिरण्यपाणिं [3.21.8]>_इति शमयति
(कौश्स्_9,3[71].9) दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति
(कौश्स्_9,3[71].10) शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय
(कौश्स्_9,3[71].11) <परं मृत्यो [12.2.21]> इत्य् उत्थापयति
(कौश्स्_9,3[71].12) <क्रव्यादम् [12.2.8]> इति तिसृभिर् ह्रीयमाणम् अनुमन्त्रयते
(कौश्स्_9,3[71].13) दीपादि_आभिनिगदनात् प्रतिहरणेन व्याख्यातम्
(कौश्स्_9,3[71].14) <अविः कृष्णा [12.2.53]>_इति निदधाति
(कौश्स्_9,3[71].15) उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि
(कौश्स्_9,3[71].16) <अस्मिन् वयं 12.2.13]> <यद् रिप्रं [12.2.40]> <सीसे मृड्ढ्वं [12.2.19]>_इत्य् अभ्यवनेजयति
(कौश्स्_9,3[71].17) कृष्णोर्णया पाणिपादान् निमृज्य
(कौश्स्_9,3[71].18) <इमे [एद्.: इमा; सेए चलन्द्, क्ल्. स्छ्र्., प्. 78] जीवा [12.2.22]> <उदीचीनैः [12.2.29]>_इति मन्त्रोक्तम्
(कौश्स्_9,3[71].19) <त्रिः सप्त [12.2.29च्]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा -- चोर्रिगेन्द एद्. प्. 424] नदीभ्यः
(कौश्स्_9,3[71].20) <मृत्योः पदं [12.2.30]>_इति द्वितीयया नावः
(कौश्स्_9,3[71].21) <परं मृत्यो [12.2.21]> इति प्राग्दक्षिणम् कूदीं प्रविध्य
(कौश्स्_9,3[71].22) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा
(कौश्स्_9,3[71].23) <आ रोहत सवितुर् नावम् एतां [12.2.48च्]> <सुत्रामाणं [7.6.3]> <महीम् ऊ षु [7.6.2]>_इति सहिरण्यां सयवां नावम् आरोहयति
(कौश्स्_9,3[71].24) <अश्मन्वती रीयते [12.2.26]>_<उत् तिष्ठता प्र तरता सखायो [12.2.27]>_इत्य् उदीचस् तारयति
(कौश्स्_9,4[72].1) उत्तरतो गर्त उदक्प्रस्रवणे_अश्मान निदधात्य् अन्तश्छिन्नम्
(कौश्स्_9,4[72].2) <तिरो मृत्युं [12.2.23द्]>_इत्य् अश्मानम् अतिक्रामति
(कौश्स्_9,4[72].3) <ता अधराद् उदीचीर् [12.2.41]> इत्य् अनुमन्त्रयते
(कौश्स्_9,4[72].4) <निस्सालाम् [2.14.1]> इति शालानिवेशनं संप्रोक्ष्य

(कौश्स्_9,4[72].5) <ऊर्जं बिभ्रद् [7.60.1]> इति प्रपादयति
(कौश्स्_9,4[72].6) <वैश्वदेवीं [12.2.28]>_इति वत्सतरीम् आलम्भयति
(कौश्स्_9,4[72].7) <इमम् इन्द्रं [12.2.47]> इत्य् वृषम्
(कौश्स्_9,4[72].8) <अनड्वाहं [12.2.48]> <अहोरात्रे [12.2.49]> इति तल्पम् आलम्भयति
(कौश्स्_9,4[72].9) <आ रोहतायुर् [12.2.24]> इत्य् आरोहति
(कौश्स्_9,4[72].10) <आसीना [12.2.30च्]> इत्य् आसीनाम् अनुमन्त्रयते
(कौश्स्_9,4[72].11) पिञ्जूलीर् आञ्जनं सर्पिषि पर्यस्य_<इमा नारीर् [12.2.31]> इति स्त्रीभ्यः प्रयछति
(कौश्स्_9,4[72].12) <इमे जीवा अविधवाः सुजामय [च्f. 12.2.22,31अ अन्द् प्स् 17.33.2]> इति पुंभ्य एक_एकस्मै तिस्रस्तिस्रस् ता अध्यध्य् उदधानं परिचृत्य प्रयछति
(कौश्स्_9,4[72].13) <परं मृत्यो [12.2.21]> <व्याकरोमि [12.2.32]>_<आ रोहत [12.2.24(48)]>_<अन्तर्धिर् [12.2.44]>_<प्रत्यञ्चम् अर्कं [12.2.55]> <ये अग्नयो [3.21.1]> <नमो देववधेभ्यो [6.13.1]>_<अग्ने ऽभ्यावर्तिन्न् [प्स् 1.41.1]> <अग्ने जातवेदः [प्स् 1.41.2]> <सह रय्या [प्स् 1.41.3]> <पुनर् ऊर्जा [प्स् 1.41.4]>_इति
(कौश्स्_9,4[72].14) <अग्ने ऽभ्यावर्तिन्न् अभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर् नो रयिम् आ कृधि ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि ॥ पुनर् ऊर्जा ववृत्स्व पुनर् अग्न इषायुषा । पुनर् नः पाह्य् अंहसः ॥ [प्स् 1.41.1-4]>
(कौश्स्_9,4[72].15) शर्करान् स्वयमातृणान्_शणरज्जुभ्यां विबध्य धारयति
(कौश्स्_9,4[72].16) समया खेन जुहोति
(कौश्स्_9,4[72].17) <इमं जीवेभ्यः [12.2.23]> इति द्वारे निदधाति
(कौश्स्_9,4[72].18) जुहोति_एतया_ऋचा । <आयुर्दावा धनधावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा []>_इति
(कौश्स्_9,4[72].19) षट्संपातं माता पुत्रान् आशयते
(कौश्स्_9,4[72].20) उच्छिष्टं जायाम्
(कौश्स्_9,4[72].21) संवत्सरम् अग्निं न_उद्वायात्_न हरेत्_नाहरेयुः
(कौश्स्_9,4[72].22) द्वासशरात्र इत्य् एके
(कौश्स्_9,4[72].23) दश दक्षिणा
(कौश्स्_9,4[72].24) पश्चाद् अग्नेर् वाग्यतः संविशति
(कौश्स्_9,4[72].25) अपरेद्युर् च_इन्द्राग्नी च यजेत
(कौश्स्_9,4[72].26) स्थालीपाकाभ्याम् अग्निं चाग्निषोमौ च पौर्णमास्याम्
(कौश्स्_9,4[72].27) सायंप्रातर् व्रीहीन् आवपेद् यवान् वा_<अग्नये स्वाहा प्रजापतये स्वाहा>_इति सायम् [सूत्र-दिविसिओन् wइथ् चलन्द्, क्ल्. स्छ्र्., प्. 30]
(कौश्स्_9,4[72].28) <सूर्याय स्वाहा प्रजापतये स्वाह>_इति प्रातः [सूत्र-दिविसिओन् wइथ् चलन्द्, क्ल्. स्छ्र्., प्. 30]
(कौश्स्_9,4[72].29) द्वादशरात्रे_अग्निं पशुना यजेत
(कौश्स्_9,4[72].30) स्थालीपाकेन वा_उभयोर् विरिष्यति
(कौश्स्_9,4[72].31) संवत्सरतम्यां शान्त्युदकं कृत्वा
(कौश्स्_9,4[72].32) <घृताहुतिर् नो भवाग्ने अक्रव्याहुतिर् घृताहुतिं त्वा वयम् अक्रव्याहुतिम् उप नि षदेम जातवेदः [-]>_इति चतुर उदपात्रे संपातान् आनीय
(कौश्स्_9,4[72].33) तान् +उल्लुप्य [एद्.: उल्लप्य]
(कौश्स्_9,4[72].34) पुरस्ताद् अग्नेः प्रत्यङ् आसीनो जुहोति । <हुते रभस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून् नः [-]>_इति
(कौश्स्_9,4[72].35) यद्य् उद्वायाद् भस्मनारणिं संस्पृश्य तूष्णीं मथित्वा_उद्दीप्य
(कौश्स्_9,4[72].36) पूर्णहोमं हुत्वा
(कौश्स्_9,4[72].37) संनतिभिर् आज्यं जुहुयाद् व्याहृतिभिर् वा
(कौश्स्_9,4[72].38) संसृष्टे चैवं जुहुयात्
(कौश्स्_9,4[72].39) अग्नौ_अनुगते जायमाने
(कौश्स्_9,4[72].40) आनडुहेन शकृत्पिण्डेनाग्न्यायतानि परिलिप्य
(कौश्स्_9,4[72].41) होम्यम् उपसाद्य
(कौश्स्_9,4[72].42) <प्राणापानाभ्यां स्वहा समानव्यानाभ्यां स्वाहा_उदानरूपाभ्यां स्वाहा>_इत्य् आत्मनि_एव जुहुयात्
(कौश्स्_9,4[72].43) अथ प्रातर् उत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरम् अग्निहोत्रं जुहुयात्
(कौश्स्_9,4[72].44) सायामाशप्रात्राशौ यज्ञौ_ऋत्विजौ

(कौश्स्_9,5[73].1) <पुरोदयाद् अस्तमयाच् च पावकं प्रबोधयेद् गृहिणी शुद्धहस्ता । समतीते संधिवर्णे ऽथ हावयेत् सुसमिद्धे पावक आहुतीषहिः [-]>
(कौश्स्_9,5[73].2) <अग्नये च प्रजापतये च रात्राव् आदित्यश् च दिवा प्रजापतिश् च । उदकं च समिधश् च होमेहोमे पुरो वरम् [-]>
(कौश्स्_9,5[73].3) <होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा । सायंप्रातर् होम एतेषाम् एकेनापि सिध्यति [-]>
(कौश्स्_9,5[73].4) <अभ्युद्धृतो हुतो ऽग्निः प्रमादाद् उपशाम्यति । मथिते व्याहृतीर् जुहुयात् पूर्णहोमौ यथऋत्विजौ [-]>
(कौश्स्_9,5[73].5) <वनस्पतिभ्यो वानस्पतेभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः [-, च्f. 11.6.24]>_इति प्राचीनं तद् उदकं निनीयते
(कौश्स्_9,5[73].6) <स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः [-]>_इति दक्षिणतः
(कौश्स्_9,5[73].7) <तार्क्ष्यायारिष्टनेमये ऽमृतं मह्यम् [-]> इति पश्चात्
(कौश्स्_9,5[73].8) <सोमाय सप्तर्षिभ्यः [-]>_इति उत्तरतः
(कौश्स्_9,5[73].9) <परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेद् अन्नम् अग्नौ । भूयो दत्त्वा स्वयम् अल्पं च भुक्त्वापराह्णे व्रतम् उपैति याज्ञिकम् [-]>
(कौश्स्_9,5[73].10) <अनशनं ब्रह्मचर्यं च भूमौ शुचिर् अग्निम् उपशेते सुगन्धिः [-]>
(कौश्स्_9,5[73].11) <अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्याम् अदर्शने । आग्नेयं तु पूर्वं नित्यम् अन्वाहार्यं प्रजापतेः [-]>
(कौश्स्_9,5[73].12) <अर्धाहुतिस् तु सौविष्टकृती सर्वेषां हविषां स्मृता । आनुमती वा भवति स्थालीपाकेष्व् अथर्वणाम् [-]>
(कौश्स्_9,5[73].13) <उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ । वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः [-]>
(कौश्स्_9,5[73].14) यथाशक्ति यथाबलं <हुतादो ऽन्ये अहुतादो ऽन्ये । वैश्वदेवं हविर् उभये सं चरन्ति । ते सम्यञ्च इह मादयन्ताम् इषम् ऊर्जं यजमाना यम् इछत [प्स् 5.15.2]> [सूत्र दिविसिओन् एमेन्देद्!]
(कौश्स्_9,5[73].15) <विश्वे देवा इदं हविर् आदित्यासः सपर्यत । अस्मिन् यज्ञे मा व्यथिष्य् अमृताय हविष्कृतम् [प्स् 19.35.1]>
(कौश्स्_9,5[73].16) <वैश्वदेवस्य हविषः सायंप्रातर् जुहोति । सायमाशप्रातराशौ यज्ञाव् एतौ स्मृताव् उभौ [-]>
(कौश्स्_9,5[73].17) <अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ । नाश्रोत्रियो नानवनिक्तपाणिर् नामन्त्रविज् जुहुयान् नाविपश्चित् [-]>
(कौश्स्_9,5[73].18) <बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर् जुषन्ते । ब्राह्मणेन ब्रह्मविदा तु हावयेन् न स्त्रीहुतं शूद्रहुतं च देवगम् [-]>
(कौश्स्_9,5[73].19) <यस् तु विद्याद् आज्यभागौ यज्ञान् मन्त्रपरिक्रमान् । देवताज्ञानम् आवृत आशिषश् च कर्म स्त्रिया अप्रतिषिद्धम् आहुः [-]>
(कौश्स्_9,6[74].1) तयोर् बलिहरणम्
(कौश्स्_9,6[74].2) <अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतये ऽनुमतये>_इति हुत्वा
(कौश्स्_9,6[74].3) निष्क्रम्य बहिः प्रचीनं <ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः>_इति बहुशो बलिं हरेत्
(कौश्स्_9,6[74].4) द्विः प्रोक्षन् प्रदक्षिणम् आवृत्यान्तरुपातीत्य द्वारे
(कौश्स्_9,6[74].5) द्वार्ययोर् <मृत्यवे धर्माधर्माभ्याम्>
(कौश्स्_9,6[74].6) उदधाने धन्वन्तरये <समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम्> इति
(कौश्स्_9,6[74].7) स्थूणावंशयोर् <दिग्भ्यो ऽन्तर्देशेभ्यः>_इति
(कौश्स्_9,6[74].8) स्रक्तिषु <वासुकये चित्तसेनाय चित्तरथाय तक्षोपतक्षाभ्याम्> इति
(कौश्स्_9,6[74].9) समन्तम् अग्नेर् <आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै>_इति
(कौश्स्_9,6[74].10) प्राचीनं अग्नेः <गृह्याभ्यो देवजामिभ्यः>_इति
(कौश्स्_9,6[74].11) भूयो_अभ्युद्धृत्य ब्राह्मणान् भोजयेत्
(कौश्स्_9,6[74].12) तद् अपि श्लोको वदति । <माब्राह्मण अग्रतः [एम्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. माब्राह्मणाग्रतः] कृतम् अश्नीयाद् विषवद् अन्नम् अन्नकाम्या । देवानां देवो ब्राह्मणो भ्ःवो नामैष देवता>_इति
(कौश्स्_9,6[74].13) आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलान् उपसाद्य
(कौश्स्_9,6[74].14) अप्सु स्थालीपाकं श्रपयित्वा पयसि वा
(कौश्स्_9,6[74].15) <सजूर् ऋतुभिः सजूर् विधाभिः सजूर् अग्नये स्वाहा । सजूर् इन्द्राग्निभ्यां सजूर् द्यावापृथिवीभ्यां सजूर् विश्वेभ्यो देवेभ्यः सजूर् ऋतुभिः सजूर् विधाभिः सजूः सोमाय स्वाहा>_इत्य् एकहविर् वा स्यात्_नानाहवींषि वा
(कौश्स्_9,6[74].16) सौम्यं तन्वत्_श्यामाकं शरदि
(कौश्स्_9,6[74].17) अथ यजमानः प्राशित्रं गृह्णीते
(कौश्स्_9,6[74].18) <प्रजापतेष् ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यम् आयुषे मह्यम् अन्नाय मह्यम् अन्नाद्याय मह्यं सहस्रपोषाय मह्यम् अपरिमितपोषाय [च्f. ;साङ्ख्ग्स् 3.8.2]>_इति
(कौश्स्_9,6[74].19) अथ प्राश्नाति । <भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नः पितो मधुमा;म् आ विवेश शिवस् तोकाय तन्वो न एहि [च्f. त्स् 5.7.2.4, ;साङ्ख्ग्स् 3.8.3 एत्च्.]>_इति
(कौश्स्_9,6[74].20) प्राशितम् अनुमन्त्रयते । <अमो ऽसि प्राण तद् ऋतं ब्रवीम्य् अमासि सर्वाङ् असि प्रविष्ट । स मे जरां रोगम् अपनुद्य शरीरादनामयैधि मा रिषाम इन्दो [च्f. ;साङ्ख्ग्स् 3.8.4 एत्च्.]> इति
(कौश्स्_9,6[74].21) वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा

(कौश्स्_9,6[74].22) शक्त्या वा दक्षिणां दद्यात्
(कौश्स्_9,6[74].23) नातिशक्तिर् विधीयते नातिशक्तिर् विधीयत इति
(कौश्स् 9 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे नवमो ऽध्यायः समाप्तः
(कौश्स्_10,1[75].1) अथ विवाहः
(कौश्स्_10,1[75].2) ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः
(कौश्स्_10,1[75].3) याथाकामी वा
(कौश्स्_10,1[75].4) चित्रापक्षं तु वर्जयेत्
(कौश्स्_10,1[75].5) <मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते [14.1.13च्द्]>_इति विज्ञायते मङ्गलं च
(कौश्स्_10,1[75].6) <सत्येनोत्तभिता [14.1.1]> <पूर्वापरं [14.1.23]>_इत्य् उपदधीत
(कौश्स्_10,1[75].7) पतिवेदनं च
(कौश्स्_10,1[75].8) <युवं भगं [14.1.31अ]>_इति संभलं सानुचरं प्रहिणोति
(कौश्स्_10,1[75].9) <ब्रह्मणस् पते [14.1.31च्]>_इति ब्रह्माणम्
(कौश्स्_10,1[75].10) तद् विवृहात्_शङ्कमानो निशि कुमारीकुलाद् वलीकानि_आदीप्य
(कौश्स्_10,1[75].11) <देवा अग्रे [14.2.32]>_इति पञ्चभिः सकृत् पूल्यानि_आवापयति
(कौश्स्_10,1[75].12) <अनृक्षरा [14.1.34अ]> इति कुमारीपालं प्रहिणोति
(कौश्स्_10,1[75].13) उदाहारस्य प्रतिहितेषुर् अग्रतो जघनतो ब्रह्मा
(कौश्स्_10,1[75].14) <यो अनिध्मो [14.1.37]>_इत्य् अप्सु लोगं प्रविध्यति
(कौश्स्_10,1[75].15) <इदम् अहं [14.1.38अ]>_इत्य् अपोह्य
(कौश्स्_10,1[75].16) <यो भद्रो [14.1.38च्]>_इत्य् अन्वीपम् उदच्य
(कौश्स्_10,1[75].17) <आस्यै ब्राह्मणाः [14.1.39अ]>_इति प्रयछति
(कौश्स्_10,1[75].18) आव्रजताम् अग्रतो ब्रह्मा जघनतो_अधिज्यधन्वा
(कौश्स्_10,1[75].19) बाह्यतः प्लक्षोदुम्बरस्य_उत्तरतो_अग्नेः शाखायाम् आसजति
(कौश्स्_10,1[75].20) तेन_उदकार्थान् कुर्वन्ति
(कौश्स्_10,1[75].21) ततश् चान्वासेचनम् अन्येन
(कौश्स्_10,1[75].22) अन्तरुपातीत्य_<अर्यमणं [14.1.17]>_इति जुहोति
(कौश्स्_10,1[75].23) <प्र त्वा मुञ्चामि [14.1.19]>_इति वेष्टं विचृतति
(कौश्स्_10,1[75].24) <उशतीः [14.2.52]>_इत्य् एतया त्रिर् आधापयति
(कौश्स्_10,1[75].25) सप्तभिर् उष्णाः संपातवतीः करोति
(कौश्स्_10,1[75].26) <यद् आसन्द्याम् [14.2.65]> इति पूर्वयोर् उत्तरस्यां स्रक्त्यां तिष्ठन्तीम् आप्लावयति
(कौश्स्_10,1[75].27) <यच् च वर्चो [14.1.35]> <यथा सिन्धुर् [14.1.43]> इत्य् उत्क्रान्ताम् अन्येनावसिञ्चति
(कौश्स्_10,2[76].1) <यद् दुष्कृतं [14.2.66]>_इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति
(कौश्स्_10,2[76].2) तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत्
(कौश्स्_10,2[76].3) तद् वन आसजति
(कौश्स्_10,2[76].4) <या अकृन्तंस् [14.1.45]> <त्वष्टा वासो [14.1.53]>_इत्य् अहतेनाछायति
(कौश्स्_10,2[76].5) <कृत्रिमः [14.2.68]>_इति शतदता_इषीकेण कङ्कतेन सकृत् प्रलिख्य
(कौश्स्_10,2[76].6) कृतयामम् इत्य् अवसृजति
(कौश्स्_10,2[76].7) <आशासाना [14.1.42]> <सं त्वा नह्यामि [14.2.70]> इत्य् उभयतः पाशेन योक्त्रेण (एद्. मिस्प्रिन्त्: योक्त्रेन; सेए चलन्द्, क्ल्. स्छ्र्., प्. 51) संनह्यति
(कौश्स्_10,2[76].8) <इयं वीरुद् [1.34.1 (7.56.2)]> इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति
(कौश्स्_10,2[76].9) अन्ततो ह मणिर् भवति बाह्यो ग्रन्थिः
(कौश्स्_10,2[76].10) <भगस् त्वेतो [14.1.20]>_इति हस्तेगृह्य निर्णयति

(कौश्स्_10,2[76].11) शाखायां युगम् आधाय दक्षिणतो_अन्यो धारयति
(कौश्स्_10,2[76].12) दक्षिणस्यां युगधुरि_उत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य <शं ते [14.1.40]>_इति ललाटे हिरण्यं संस्तभ्य जपति
(कौश्स्_10,2[76].13) तर्द्म समयावसिञ्चति
(कौश्स्_10,2[76].14) उपगृह्य_उत्तरतो_अग्नेर् <अङ्गादङ्गाद् [14.2.69]> इति निनयति
(कौश्स्_10,2[76].15) <स्योनं [14.1.47अ]>_इति शकृत्पिण्डे_अश्मानं निदधाति
(कौश्स्_10,2[76].16) <तम् आ तिष्ठ [14.1.47च्]>_इत्य् आस्थाप्य
(कौश्स्_10,2[76].17) <इयं नारी [14.2.63]>_इति ध्रुवां तिष्ठन्तीं पूल्यानि_आवापयति
(कौश्स्_10,2[76].18) त्रिर् अविछिन्दतीं चतुर्थीं कामाय
(कौश्स्_10,2[76].19) <येनाग्निर् [14.1.48]> इति पाणिं ग्राहयति
(कौश्स्_10,2[76].20) <अर्यम्णो [14.1.39च्]>_इत्य् अग्निं त्रिः परिणयति
(कौश्स्_10,2[76].21) <सप्त मर्यादाः [5.1.6]>_इत्य् उत्तरतो_अग्नेः सप्त लेखा लिखति प्राच्यः
(कौश्स्_10,2[76].22) तासु पदानि_उत्क्रामयति
(कौश्स्_10,2[76].23) इषे त्वा सुमङ्गलि प्रजावति सुशीम [एद्.: +सुसीम] इति प्रथमम्
(कौश्स्_10,2[76].24) ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुशीम [एद्.: +सुसीम] इति सप्तमं सखा सप्तपदी भव_इति
(कौश्स्_10,2[76].25) <आ रोह तल्पं [14.2.31]> <भगस् ततक्ष [14.1.60]>_इति तल्प उपवेशयति
(कौश्स्_10,2[76].26) उपविष्टायाः सुहृत्पादौ प्रक्षालयति
(कौश्स्_10,2[76].27) प्रक्षाल्यमानौ_अनुमन्त्रयते । <इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घम् आयुश् च धत्ताम् [-]> इति
(कौश्स्_10,2[76].28) <अहं वि ष्यामि [14.1.57]> <प्र त्वा मुञ्चामि [14.1.58]>_इति योक्त्रं विचृतति
(कौश्स्_10,2[76].29) अपरस्मिन् भृत्याः संरभन्ते
(कौश्स्_10,2[76].30) ये जयन्ति ते बलीयांस एव मन्यन्ते
(कौश्स्_10,2[76].31) <बृहस्पतिना [14.2.53]>_इति सर्वसुरभिचूर्णानि_ऋचर्चा काम्पीलपलाशेन मूर्ध्नि_आवपति
(कौश्स्_10,2[76].32) <उद् यछध्वम् [14.1.59]>_<भगस् ततक्ष [14.1.60]>_<अभ्रातृघ्नीं [14.1.62]>_इत्य् एक_एकया_उत्थापयति
(कौश्स्_10,2[76].33) <प्रति तिष्ठ [14.2.15]>_इति प्रतिष्ठापयति
(कौश्स्_10,3[77].1) <सुकिंशुकं [14.1.61]> <रुक्मप्रस्तरणं [14.2.30]>_इति यानम् आरोहयति
(कौश्स्_10,3[77].2) <एमम्ं पन्थाम् [14.2.8]>_<ब्रह्मापरं [14.1.64]>_इत्य् अग्रतो ब्रह्मा प्रपद्यते
(कौश्स्_10,3[77].3) <मा विदन्न् [14.2.11]> <अनृक्षरा [14.1.34]> अध्वानम् इत्य् उक्तम्
(कौश्स्_10,3[77].4) <येदं पुर्वा [14.2.74]>_इति तेनान्यस्याम् ऊढायां वाधूयस्य दशां चतुष्पथे दक्षिणैर् अभितिष्ठति
(कौश्स्_10,3[77].5) स चेद् उभयोः शुभकामो भवति <सूर्यायै देवेभ्यो [14.2.46]>_इत्य् एताम् ऋचं जपति
(कौश्स्_10,3[77].6) <सम् ऋछत स्वपथो ऽनवयन्तः सुशीमकामाव् [एद्.: +सुसीम-] उभे विराजाव् उभे सुप्रजसौ [-]>_इत्य् अतिक्रमयतो ऽन्तरा ब्रह्माणम्
(कौश्स्_10,3[77].7) <य ऋते चिद् अभिश्रिषः [14.2.47]>_इति यानं संप्रोक्ष्य विनिष्कारयति
(कौश्स्_10,3[77].8) <सा मन्दसाना [14.2.6]>_इति तीर्थे लोगं प्रविध्यति
(कौश्स्_10,3[77].9) <इदं सु मे [14.2.9]>_इति महावृक्षेषु जपति
(कौश्स्_10,3[77].10) <सुमङ्गलीर् [14.2.28]> इति वध्वीक्षीः प्रति जपति
(कौश्स्_10,3[77].11) <या ओषधयो [14.2.7]>_इति मन्त्रोक्तेषु
(कौश्स्_10,3[77].12) <ये पितरो [14.2.73]>_इति श्मशानेषु
(कौश्स्_10,3[77].13) <प्र बुध्यस्व [14.2.75]>_इति सुप्तां प्रबोधयेत्
(कौश्स्_10,3[77].14) <सं काशयामि [14.2.12]>_इति गृहसंकाशे जपति
(कौश्स्_10,3[77].15) <उद् व ऊर्मिः [14.2.16]>_इति यानं संप्रोक्ष्य विमोचयति
(कौश्स्_10,3[77].16) <उत् तिष्ठेतः [14.2.19]>_इति पत्नी शालां संप्रोक्षति
(कौश्स्_10,3[77].17) <स्योनं [14.1.47]>_इति दक्षिणतो वलीकानां शकृत्पिण्डे_अश्मानं निदधाति

(कौश्स्_10,3[77].18) तस्य_उपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि
(कौश्स्_10,3[77].19) <तम् आ तिष्ठ [14.1.47च्]>_इत्य् आस्थाप्य
(कौश्स्_10,3[77].20) <सुमङ्गली प्रतरणी [14.2.26]>_<इह प्रियं [14.1.21]> <मा हिंसिष्टं [14.1.63]> <ब्रह्मापरं [14.1.64]>_इति प्रत्यृचं प्रपादयति
(कौश्स्_10,3[77].21) सुहृत्पूर्णकंसेन प्रतिपादयति
(कौश्स्_10,3[77].22) <अघोरचक्षुर् [14.2.17]> इत्य् अग्निं त्रिः परिणयति
(कौश्स्_10,3[77].23) <यदा गार्हपत्यम् [14.2.20]>_<सूर्यायै देवेभ्यो [14.2.46]>_इति मन्त्रोक्तेभ्यो नमस्कुर्वतीम् अनुमन्त्रयते
(कौश्स्_10,4[78].1) <शर्म वर्म [14.2.21]>_इति रोहितचर्माहरन्तम्
(कौश्स्_10,4[78].2) <चर्म चोपस्तृणीथन [14.2.22ब्]>_इत्य् उपस्तृणन्तम्
(कौश्स्_10,4[78].3) <यं बल्बजं [14.2.22]>_इति बल्बजं न्यस्यन्तम्
(कौश्स्_10,4[78].4) <उप स्तृणीहि [14.2.23]>_इत्य् उपस्तृणन्तम्
(कौश्स्_10,4[78].5) <तद् आ रोहतु [14.2.22च्]>_इत्य् आरोहयति
(कौश्स्_10,4[78].6) <तत्रोपविश्य [14.2.23च्]>_इत्य् उपवेशयति
(कौश्स्_10,4[78].7) दक्षिणोत्तरम् उपस्थं कुरुते
(कौश्स्_10,4[78].8) <सुज्यैष्ठ्यो [14.2.24द्]>_इति कल्याणनामानं ब्राह्मणायनम् उपस्थ उपवेशयति
(कौश्स्_10,4[78].9) <वि तिष्ठन्तां [14.2.25]>_इति प्रमदनं प्रमाय_उत्थापयति
(कौश्स्_10,4[78].10) <तेन भूतेन [6.78.1]> <तुभ्यम् अग्रे [14.2.1]> <शुम्भनी [14.2.45]> <अग्निर् जनविन् मह्यं जायाम् इमाम् अदात् सोमो वसुविन् मह्यं जायाम् इमाम् अदात् पूषा ज्ञातिविन् [एद्. मिस्प्रिन्त् जातिविन्] मह्यं जायाम् इमाम् अदाद् इन्द्रः सहीयान् मह्यं जायाम् अदाद् अग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे ज्ञातिविदे [एद्. मिस्प्रिन्त् जातिविदे] स्वाहेन्द्राय सहीयसे स्वाहा [प्स् 1.34+1.35>_इति [एद्. इत्य् आगछतः: आगछतः मोवेद् तो नेxत् सूत्र अfतेर् ब्लोओम्fइएल्द् ग्ग 1902 514]
(कौश्स्_10,4[78].11) <आगछतः [6.82.1]><सविता प्रसवानाम् [5.24.1]> इति मूर्ध्नोः संपातान् आनयति [प्रतीक ओf 6.82.1 प्रेfइxएद् अfतेर् ब्लोओम्fइएल्द् ग्ग 1902 514]
(कौश्स्_10,4[78].12) उदपात्र उत्तरान्
(कौश्स्_10,4[78].13) शुम्भन्याञ्जल्योर् निनयति
(कौश्स्_10,4[78].14) <तेन भूतेन [6.78.1]>_इति समशनम्
(कौश्स्_10,4[78].15) रसान् आशयति स्थालीपाकं च
(कौश्स्_10,4[78].16) यवानाम् आज्यमिश्राणां पूर्णाञ्जलिं जुहोति
(कौश्स्_10,5[79].1) <सप्त मर्यादाः [5.1.6]>_इति तिसृणां प्रातर् आवपते
(कौश्स्_10,5[79].2) <अक्ष्यौ नौ [7.36.1]>_इति समाञ्जाते
(कौश्स्_10,5[79].3) <महीम् उ षु [7.6.2]>_इति तल्पम् आलम्भयति
(कौश्स्_10,5[79].4) <आ रोह तल्पं [14.2.31]>_इत्य् आरोहयति
(कौश्स्_10,5[79].5) <तत्रोपविश्य [14.2.23च्]>_इत्य् उपवेशयति
(कौश्स्_10,5[79].6) <देवा अग्रे [14.2.32]>_इति संवेशयति
(कौश्स्_10,5[79].7) <अभि त्वा [7.37.1]>_इत्य् अभिछादयति
(कौश्स्_10,5[79].8) <सं पितराव् [14.2.37]> इति समावेशयति
(कौश्स्_10,5[79].9) <इहेमाव् [14.2.64]> इति त्रिः संनुदति
(कौश्स्_10,5[79].10) मदुघमणिम् औक्षे_अपनीय_<इयं वीरुद् [1.34.1]> <अमो ऽहम् [14.2.71]> इति संस्पृशतः
(कौश्स्_10,5[79].11) <ब्रह्म जज्ञानं [4.1.1 (5.6.1)]>_इत्य् अङ्गुष्ठेन व्यचस्करोति
(कौश्स्_10,5[79].12) <स्योनाद् योनेर् [14.2.43]> इत्य् उत्थापयति
(कौश्स्_10,5[79].13) परिधापनीयाभ्याम् अहतेनाछादयति
(कौश्स्_10,5[79].14) <बृहस्पतिः [14.1.55]>_इति शष्पेणाभिघार्य व्रीहियवाभ्याम् अभिनिधाय दर्भपिञ्जुल्या सीमन्तं विचृतति
(कौश्स्_10,5[79].15) शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते
(कौश्स्_10,5[79].16) अनुवाकाभ्याम् अन्वारब्धाभ्याम् उपदधीत
(कौश्स्_10,5[79].17) <इहेद् असाथ [14.1.32]>_इत्य् एतया शुल्कम् अपाकृत्य
(कौश्स्_10,5[79].18) द्वाभ्यां निवर्तयतीह मम राध्यताम् अत्र तव_इति

(कौश्स्_10,5[79].19) यथा वा मन्यन्ते
(कौश्स्_10,5[79].20) <परा देहि [14.1.25]>_इति वाधूयं ददतम् अनुमन्त्रयते
(कौश्स्_10,5[79].21) <देवैर् दत्तं [14.2.41]>_इति प्रतिगृह्णाति
(कौश्स्_10,5[79].22) <अपास्मत् तम [14.2.48]> इति स्थाणौ_आसजति
(कौश्स्_10,5[79].23) <यावतीः कृत्या [14.2.49]> इति व्रजेत्
(कौश्स्_10,5[79].24) <या मे प्रियतमा [14.2.50]>_इति वृक्षं प्रतिछादयति
(कौश्स्_10,5[79].25) शुम्भन्याप्लुत्य
(कौश्स्_10,5[79].26) <ये अन्ता [14.2.51]> इत्य् आछादयति
(कौश्स्_10,5[79].27) <नवं वसानः [14.2.44]>_इत्य् आव्रजति
(कौश्स्_10,5[79].28) <पूर्वापरं [14.1.23]> यत्र नाधिगछेद् <ब्रह्मापरं [14.1.64]>_इति कुर्यात्
(कौश्स्_10,5[79].29) गौर् दक्षिणा प्रतीवाहः
(कौश्स्_10,5[79].30) <जीवं रुदन्ति [14.1.46]> <यदीमे केशिनो [14.2.59]>_इति जुहोति
(कौश्स्_10,5[79].31) एष सौर्यो विवाहः
(कौश्स्_10,5[79].32) <ब्रह्मापरं [14.1.64]>_इति ब्राह्म्यः
(कौश्स्_10,5[79].33) आवृतः प्राजापत्याः प्राजापत्याः
(कौश्स् 10 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे दशमो ऽध्यायः समाप्तः
(कौश्स्_11,1[80].1) अथ पितृमेधं व्याख्यास्यामः
(कौश्स्_11,1[80].2) दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम्
(कौश्स्_11,1[80].3) दुर्बलीभवन्तं शालातृणेषु दर्भान् आस्तीर्य <स्योनास्मै भव [18.2.19]>_इत्य् अवरोहयति
(कौश्स्_11,1[80].4) मन्त्रोक्तौ_अनुमन्त्रयते
(कौश्स्_11,1[80].5) <यत् ते कृष्णः [18.3.55]>_इत्य् अवदीपयति
(कौश्स्_11,1[80].6) आहिताग्नौ प्रेते संभारान् संभरति
(कौश्स्_11,1[80].7) आज्यं च पृषदाज्यं चाजं च गां च
(कौश्स्_11,1[80].8) वसनं पञ्चमम्
(कौश्स्_11,1[80].9) हिरण्यं षष्ठम्
(कौश्स्_11,1[80].10) शरीरं नान्वालभते
(कौश्स्_11,1[80].11) अन्यं चेष्टन्तम् अनुमन्त्रयते
(कौश्स्_11,1[80].12) शान्त्युदकं करोति_असकलं चातनानां चान्वावपते
(कौश्स्_11,1[80].13) शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति
(कौश्स्_11,1[80].14) आप्लावयन्ति
(कौश्स्_11,1[80].15) अनुलिम्पन्ति
(कौश्स्_11,1[80].16) स्रजो_अभिहरन्ति
(कौश्स्_11,1[80].17) एवंस्नातम् अलंकृतम् अहतेनावाग्दशेन वसनेन प्रछादयति_<एतत् ते देवः [18.4.31]>_<एतत् त्वा वासः प्रथमं न्व् आगन्न् [18.2.57अ]> इति
(कौश्स्_11,1[80].18) <अपेमं [18.2.27]>_इत्य् अग्निषु जुहोति
(कौश्स्_11,1[80].19) उखाः कुर्वन्ति
(कौश्स्_11,1[80].20) ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति
(कौश्स्_11,1[80].21) ताः पृथग् अग्निभिः संतापयन्ति_आ शकृदादीपनात्
(कौश्स्_11,1[80].22) तेषां हरणानुपूर्वम् आहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम्
(कौश्स्_11,1[80].23) अथ विदेशे प्रेतस्य_<आ रोहत जनित्रीं जातवेदसः [18.4.1]>_इति पृथग् अरणीषु_अग्नीन् समारोपयन्ति
(कौश्स्_11,1[80].24) तेषु यथोक्तं करोति

(कौश्स्_11,1[80].25) अपिवान्यवत्साया वा संधिनीक्षीरेण_एकशलाकेन वा मन्थेनाग्निहोत्रं जुहोति_आ दहनात्
(कौश्स्_11,1[80].26) दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः
(कौश्स्_11,1[80].27) पलालानि बर्हिः
(कौश्स्_11,1[80].28) तिल्पिञ्ज्या इध्माः
(कौश्स्_11,1[80].29) ग्रहान् आज्यभागौ पुरस्ताद्धोमसंस्थितहोमान् उद्धृत्य
(कौश्स्_11,1[80].30) प्राणापानौ_+अवरुध्योंनिधनाभिर् (एद्.: अवरुध्यै निधनाभिर्; सेए चलन्द्, क्ल्. स्छ्र्., प्. 45) जुहुयात्
(कौश्स्_11,1[80].31) अथ_उभयोर् <उत् तिष्ठ [18.3.8]>_इत्य् उत्थापयति
(कौश्स्_11,1[80].32) <प्र च्यवस्व [18.3.9]>_इति त्रिः संहापयति यावत्कृत्वश् च_उत्थापयति
(कौश्स्_11,1[80].33) एवम् एव कूदीं जघने निबध्य
(कौश्स्_11,1[80].34) <इमौ युनज्मि [18.2.56]>_इति गावौ युनक्ति पुरुषौ वा
(कौश्स्_11,1[80].35) <उत् तिष्ठ प्रेहि [18.3.8]> <प्र च्यवस्व [18.3.9]>_<उदन्वती [18.2.48]>_<इत एते [18.1.61]>_<अग्नीषोमा [18.2.53]>_<इदं पूर्वम् [18.4.44]> इति हरिणीभिर् हरेयुर् <अति द्रव [18.2.11-18]>_इत्य् अष्टभिः
(कौश्स्_11,1[80].36) <इदं त [18.3.7]> इत्य् अग्निम् अग्रतः
(कौश्स्_11,1[80].37) <प्रजानत्य् अघ्न्ये [18.3.4]>_इत्य् +जघन्यां (एद्.: जघन्यं; सेए चलन्द्, क्ल्. स्छ्र्., प्. 4) गाम् एधम् अग्निं परिणीय
(कौश्स्_11,1[80].38) <स्योनास्मै भव [18.2.19]>_इत्य् उत्तरतो_अग्नेः शरीरं निदधाति
(कौश्स्_11,1[80].39) अध्वर्यव इष्टिं निर्वपन्ति
(कौश्स्_11,1[80].40) तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमान् उद्धृत्य
(कौश्स्_11,1[80].41) प्राणापानौ_+अवरुध्योंनिधनाभिर् (सेए सूत्र 80.30) जुहुयात्
(कौश्स्_11,1[80].42) अथ_उभयोर् <अपेत [18.1.55]> <ददामि [18.2.37]>_इत्य् शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखाया दहनं संप्रोक्ष्य
(कौश्स्_11,1[80].43) <उद् ईरताम् [18.1.44]> इत्य् +उद्धत्य (एद्.: उद्धृत्य)_अभ्युक्ष्य लक्षणं कृत्वा पुनर् अभ्युक्ष्य प्राग्दक्षिणम् एधश् चिन्वन्ति
(कौश्स्_11,1[80].44) <इयं नारी [18.3.1]>_इति पत्नीम् उपसंवेशयति
(कौश्स्_11,1[80].45) <उद् ईर्ष्व [18.3.2]>_इत्य् उत्थापयति
(कौश्स्_11,1[80].46) यद् द्धिरण्यं बिभर्ति तद् दक्षिणे पाणौ_+आधाय (एद्.: आदाय)_आज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति_<इदं हिरण्यं [18.4.56]>_इति
(कौश्स्_11,1[80].47) <स्वर्गं यतः [18.4.56च्]>_इति दक्षिणं हस्तं निर्मार्जयति
(कौश्स्_11,1[80].48) <दण्डं हस्ताद् [18.2.59]> इति मन्त्रोक्तं ब्राह्मणस्यादापयति
(कौश्स्_11,1[80].49) <धनुर् हस्ताद् [18.2.60]> इति क्षत्रियस्य
(कौश्स्_11,1[80].50) <अष्ट्राम् [च्f. 18.2.59-60]> इति वैश्यस्य
(कौश्स्_11,1[80].51) <इदं पितृभ्यो [18.4.51, सेए चलन्द्, क्ल्. स्छ्र्., प्. 4]>_इति दर्भान् एधान् स्तृणाति
(कौश्स्_11,1[80].52) तत्र_एनम् उत्तानम् आदधीत_<ईजानश् +चितम् (एद्.: चित्तम्; च्f. वॢ. इन् ;स्स्-एदितिओन् ब्य् ;स्प्प्) आरुक्षद् अग्निं [18.4.14]>_इति
(कौश्स्_11,1[80].53) <प्राच्यां त्वा दिशि [18.3.30]>_इति प्रतिदिशम्
(कौश्स्_11,1[80].54) न_इत्य् उपरिबभ्रवः
(कौश्स्_11,1[80].55) अनुमन्त्रयते
(कौश्स्_11,1[80].56) अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलानि_अवास्यति_<अमृतम् अस्य् अमृतत्वायामृतम् अस्मिन् धेहि>_इति
(कौश्स्_11,2[81].1) अथाहिताग्नेर् दर्भेषु कृष्णाजिनम् अन्तर्लोमास्तीर्य
(कौश्स्_11,2[81].2) तत्र_एनम् उत्तानम् आधाय
(कौश्स्_11,2[81].3) अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति
(कौश्स्_11,2[81].4) दक्षिणे हस्ते जुहूम्
(कौश्स्_11,2[81].5) सव्य उपभृतम्
(कौश्स्_11,2[81].6) कण्ठे ध्रुवां मुखे_अग्निहोत्रहवनीं नासिकयोः स्रुवम्
(कौश्स्_11,2[81].7) तानि_अनुमन्त्रयते <जुहूर् दधार द्याम् [18.4.5]>_<ध्रुव आ रोह [18.4.6]>_इति
(कौश्स्_11,2[81].8) ललाटे प्राशित्रहरणम्

(कौश्स्_11,2[81].9) <इमम् अग्ने चमसं [18.3.53]>_इति शिरसीडाचमसम्
(कौश्स्_11,2[81].10) <देवा यज्ञम् [18.4.2]> इत्य् उरसि पुरोडाशम्
(कौश्स्_11,2[81].11) दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम्
(कौश्स्_11,2[81].12) उदरे पात्रीं
(कौश्स्_11,2[81].13) अष्ठीवतोर् उलूखलमुसलम्
(कौश्स्_11,2[81].14) श्रोण्योः शकटम्
(कौश्स्_11,2[81].15) अन्तरेण_ऊरू अन्यानि यज्ञपात्रानि
(कौश्स्_11,2[81].16) पादयोः शूर्पम्
(कौश्स्_11,2[81].17) अपो मृन्मयानि_उपहरन्ति
(कौश्स्_11,2[81].18) अयस्मयानि निदधति
(कौश्स्_11,2[81].19) अमा +पुत्रस्य (एद्.: पुत्रा च; सेए चलन्द्, क्ल्. स्छ्र्., प्. 4) दृषत्
(कौश्स्_11,2[81].20) अथ_उभयोर् <अपश्यं युवतिं [18.3.3]> <प्रजानत्य् अघ्न्ये [18.3.4]>_इति जघन्यां गां प्रसव्यं परिणीयमानाम् अनुमन्त्रयते
(कौश्स्_11,2[81].21) तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति
(कौश्स्_11,2[81].22) तस्याः पृष्ठतो वृक्कौ_उद्धार्य पाण्योर् अस्यादधति_<अति द्रव श्वानौ [18.2.11]>_इति
(कौश्स्_11,2[81].23) दक्षिणे दक्षिणं सव्ये सव्यम्
(कौश्स्_11,2[81].24) हृदये हृदयम्
(कौश्स्_11,2[81].25) <अग्नेर् वर्म [18.2.58]>_इति वपया सप्तछिद्रया मुखं प्रछादयन्ति
(कौश्स्_11,2[81].26) यथागात्रं गात्राणि
(कौश्स्_11,2[81].27) दक्षिणैर् दक्षिणानि सव्यैः सव्यानि
(कौश्स्_11,2[81].28) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य
(कौश्स्_11,2[81].29) <अजो भागस् [18.2.8]>_<उत् त्वा वहन्तु [18.2.22]>_इति दक्षिणतो_अजं बध्नाति
(कौश्स्_11,2[81].30) <अस्माद् वै त्वम् अजायथा अयं त्वद् अधि जायताम् असौ स्वाहा [च्f. ज्ब् 1.2, 1.47, च्f. त 6.2.1, 6.4.2, अअश्व्ग्स् 4.3.27]>_इत्य् उरसि गृहे जुहोति
(कौश्स्_11,2[81].31) तथाग्निषु जुहोति_<अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा [च्f. अअश्व्ग्स् 4.3.26]>_इति
(कौश्स्_11,2[81].32) दक्षिणाग्नौ_इत्य् एके
(कौश्स्_11,2[81].33) <मैनम् अग्ने वि दहः [18.2.4]> <शं तप [18.2.36]> <आ रभस्व [18.3.71 ए.अ.]> <प्रजानन्तः [2.34.5]>_इति कनिष्ठ आदीपयति
(कौश्स्_11,2[81].34) आदीप्ते स्रुवेण यामान् होमान्_जुहोति <परेयिवांसं प्रवतो महीर् इति [18.1.49]>
(कौश्स्_11,2[81].35) <यमो नो गातुं प्रथमो विवेद [18.1.50]> इति द्वे प्रथमे
(कौश्स्_11,2[81].36) <अङ्गिरसो नः पितरो नवग्वा [18.1.58]> इति संहिताः सप्त
(कौश्स्_11,2[81].37) <यो ममार प्रथमो मर्त्यानां [18.3.13]> <ये नः पितुः पितरो ये पितामहा [18.2.49]> इत्य् एकादश
(कौश्स्_11,2[81].38) अथ सारस्वताः
(कौश्स्_11,2[81].39) <सरस्वतीं देवयन्तो हवन्ते [18.1.41]> <सरस्वतीं पितरो हवन्ते [18.1.42]> <सरस्वति या सरथं ययाथ [18.1.43]> <सरस्वति व्रतेषु ते [7.68.1]>_<इदं ते हव्यं घृतवत् सरस्वति [7.68.2]>_<इन्द्रो मा मरुत्वान् [18.3.25]> इति
(कौश्स्_11,2[81].40) दक्षिणतो_अन्यस्मिन्न् अनुष्ठाता जुहोति
(कौश्स्_11,2[81].41) सर्वैर् उपतिष्ठन्ति त्रीणि प्रभृतिर् वा
(कौश्स्_11,2[81].42) अपि वानुष्ठानीभिः
(कौश्स्_11,2[81].43) एता अनुष्ठान्यः
(कौश्स्_11,2[81].44) <मैनम् अग्ने वि दहो [18.2.4]>_इतिप्रभृति_<अव सृज [18.2.10]>_इति वर्जयित्वा <सहस्रनीथाः [18.2.18]>_इत्य् आतः
(कौश्स्_11,2[81].45) <आ रोह जनित्रीं जातवेदसः [18.4.1]>_इति पञ्चदशभिर् आहिताग्निम्
(कौश्स्_11,2[81].46) <मित्रावरुणा परि माम् अधाताम् [18.3.12]> इति पाणी प्रक्षालयते
(कौश्स्_11,2[81].47) <वर्चसा मां [18.3.10(11)]>_इत्य् आचामति
(कौश्स्_11,2[81].48) <विवस्वान् नो [18.3.61]>_इत्य् उत्तरतो_अन्यस्मिन्न् अनुष्ठाता जुहोति

(कौश्स्_11,3[82].1) यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृतम्
(कौश्स्_11,3[82].2) अथ_एषां सप्तसप्त शर्कराः पाणिषु_+आवपति (एद्.: आवपते; थुस् चलन्द्, क्ल्. स्छ्र्., प्. 47)
(कौश्स्_11,3[82].3) तासाम् एक_एकां सव्येनावाचीनहस्तेनावकिरन्तो_अनवेक्षमाणा व्रजन्ति
(कौश्स्_11,3[82].4) अपाघेनानुमन्त्रयते
(कौश्स्_11,3[82].5) सर्वे_अग्रतो ब्रह्मणो व्रजन्ति
(कौश्स्_11,3[82].6) <मा प्र गाम [13.1.59]>_इति जपन्त उदकान्ते +व्यघापघे जपति+ (एद्.: व्यपाद्ये जपन्ति; सेए चलन्द्, क्ल्. स्छ्र्., प्. 71-72)
(कौश्स्_11,3[82].7) पश्चाद् अवसिञ्चति
(कौश्स्_11,3[82].8) <उद् उत्तमं [18.4.69]>_इति ज्येष्ठः
(कौश्स्_11,3[82].9) <पयस्वतीर् [18.3.56 (ए.अ.)]> इति ब्रह्मा_॥_उक्ताः पिञ्जूलीर् आवपति
(कौश्स्_11,3[82].10) शान्त्युदकेनाचम्याभ्युक्ष्य_<अश्वावतीं [18.2.31]>_इति नदीं तारयते
(कौश्स्_11,3[82].11) नक्षत्रं दृष्ट्वा_उपतिष्ठते <नक्षत्राणां मा संकाशश् च प्रतीकाशश् चावताम् [च्f. वैत्स् 11.13]> इति
(कौश्स्_11,3[82].12) शाम्याकीः समिध +आदाय (एद्.: आधाय; सेए चलन्द्, क्ल्. स्छ्र्., प्. 47)_अग्रतो ब्रह्मा जपति
(कौश्स्_11,3[82].13) <यस्य त्रया गतम् अनुप्रयन्ति देवा मनुष्याः पशवश् च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर् नो नयतु द्विषते मा रधाम [प्स् 1.78.4]>_इति शान्त्युदकेनाचम्याभ्युक्ष्य
(कौश्स्_11,3[82].14) <निस्सालाम् [2.14.1]> इति शालानिवेशनं संप्रोक्ष्य
(कौश्स्_11,3[82].15) <ऊर्जं बिभ्रद् [7.60.1]> इति प्रपादयति
(कौश्स्_11,3[82].16) नदीम् आलम्भयति गाम् अग्निम् अश्मानं च
(कौश्स्_11,3[82].17) <यवो ऽसि यवयास्मद् द्वेषो यवयारातिम् [च्f. त्स् 1.3.1.1 एत्च्.]> इति यवान्
(कौश्स्_11,3[82].18) <खल्वकास्य (एम्. ब्लोओम्fइएल्द्: +खल्वकासि ?) [-]>_इति खल्वान् खलकुलान्_च
(कौश्स्_11,3[82].19) +व्यघापघाभ्यां (एद्.: व्यपाद्याभ्यां; चलन्द्, क्ल्. स्छ्र्., प्. 71-72) शाम्याकीर् आधापयति
(कौश्स्_11,3[82].20) तासां धूमं भक्षयन्ति
(कौश्स्_11,3[82].21) यद्यत् क्रव्याद् गृह्येद् यदि क्रव्यादा नान्ते ऽपरेद्युः । <दिवो नभः शुक्रं पयो दुहाना इषम् ऊर्जं पिन्वमानाः ॥ अपां योनिम् अपाध्वं स्वधा याश् चकृषे जीवंस् तास् ते सन्तु मधुश्चुतः [च्f. प्स् 19.52.1-3]> इत्य् अग्नौ स्थालीपाकं निपृणाति
(कौश्स्_11,3[82].22) आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति <वैश्वानरे हविर् इदं जुहोमि [18.4.35 एत्च्.]>_इति
(कौश्स्_11,3[82].23) तस्याः पयसि
(कौश्स्_11,3[82].24) स्थालीपक इत्य् एके
(कौश्स्_11,3[82].25) <ये अग्नयो [3.21.1]>_इति पालाश्या दर्व्या मन्थम् उपमथ्य काम्पीलीभ्याम् उपमन्थनीभ्यां तृतीयस्याम् अस्थीनि_अभिजुहोति
(कौश्स्_11,3[82].26) <उप द्याम् [18.3.5]>_<शं ते नीहारो [18.3.60]>_इति मन्त्रोक्तानि_अवदाय
(कौश्स्_11,3[82].27) क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्य_उदकेन वैश्यस्य
(कौश्स्_11,3[82].28) <अव सृज [18.2.10]>_इत्य् अनुमन्त्रयते
(कौश्स्_11,3[82].29) <मा ते मनो [18.2.24]> <यत् ते अङ्गम् [18.2.26]> इति संचिनोति (एमेन्देद् तेxत् + सूत्र-दिविसिओन् [29-30-31] अच्च्. तो चलन्द्, क्ल्. स्छ्र्., प्. 47)
(कौश्स्_11,3[82].30) +पत्तः (थुस् चलन्द्; एद्.: पच्छः) प्रथमं शीर्षकपालानि पश्चात्
(कौश्स्_11,3[82].31) कलशे समोप्य सर्वसुरभिचूर्णैर् अवकीर्य_उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः
(कौश्स्_11,3[82].32) <मा त्वा वृक्षः [18.2.25]>_इति वृक्षमूले निदधाति
(कौश्स्_11,3[82].33) <स्योनास्मै भव [18.2.19]>_इति भूमौ त्रिरात्रम् अरसाशिनः कर्माणि कुर्वते
(कौश्स्_11,3[82].34) दशरात्र इत्य् एके
(कौश्स्_11,3[82].35) यथाकुलधर्मं वा
(कौश्स्_11,3[82].36) ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा <विवस्वान् नो [18.3.61]>_इति जुहोति
(कौश्स्_11,3[82].37) युक्ताभ्यां तृतीयाम्
(कौश्स्_11,3[82].38) आनुमतीं चतुर्थीम्
(कौश्स्_11,3[82].39) शेषं शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति
(कौश्स्_11,3[82].40) <आ प्र च्यवेथाम् [18.4.49]> इति गावौ_उपयछति

(कौश्स्_11,3[82].41) <एयम् अगन्न् [18.4.50]> इति दशगवावरार्ध्या दक्षिणा
(कौश्स्_11,3[82].42) द्वादशरात्रं कर्ता यमव्रतं चरेत्
(कौश्स्_11,3[82].43) एकचैलस् त्रिचैलो चा
(कौश्स्_11,3[82].44) हविष्यभक्षः
(कौश्स्_11,3[82].45) सायंप्रातर् उपस्पृशेत्
(कौश्स्_11,3[82].46) ब्रह्मचारी व्रती_अधः शयीत
(कौश्स्_11,3[82].47) स्वस्त्ययनानि प्रयुञ्जीत
(कौश्स्_11,4[83].1) पितॄन् निधास्यन् संभारान् संभरति
(कौश्स्_11,4[83].2) एकादश +चरून् अचक्रकृतान्+ (एद्.: चरूञ् चक्रकृतान्; सेए चलन्द्, गेब्रएउछे, प्. 134, न्. 493) कारयति
(कौश्स्_11,4[83].3) शतातृण्णसहस्रातृण्णौ च पाशीम् ऊषम् सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम्
(कौश्स्_11,4[83].4) द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कून्_चतुरः परिधीन् वारणं शामीलम् औदुम्बरं पालाशं वृक्षस्य शान्तौषधीः
(कौश्स्_11,4[83].5) माघे निदध्यात्_माघं भूद् इति
(कौश्स्_11,4[83].6) शरदि निदध्यात्_शाम्यत्व् अघम् इति
(कौश्स्_11,4[83].7) निदाघे निदध्यात्_निदह्यताम् अघम् इति
(कौश्स्_11,4[83].8) अमावास्यायां निदध्याद् अमा हि पितरो भवन्ति
(कौश्स्_11,4[83].9) अथावसानम्
(कौश्स्_11,4[83].10) तद् यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम्
(कौश्स्_11,4[83].11) यत्राकण्टका वृक्षाश् च_ओषधयश् च
(कौश्स्_11,4[83].12) उन्नतं स्वर्गकामश् च
(कौश्स्_11,4[83].13) श्वो ऽमावास्या_इति गां कारयते
(कौश्स्_11,4[83].14) तस्याः सव्यं चापघनं प्रपाकं च निधाय
(कौश्स्_11,4[83].15) भिक्षां कारयति
(कौश्स्_11,4[83].16) ग्रामे यामसारस्वतान् होमान् हुत्वा
(कौश्स्_11,4[83].17) संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनम् अनुचर्य
(कौश्स्_11,4[83].18) प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य
(कौश्स्_11,4[83].19) <पुनर् देहि [18.3.70]>_इति वृक्षमूलाद् आदत्ते
(कौश्स्_11,4[83].20) <यत् ते कृष्णः [18.3.55]>_इति भूमेर् वसने समोप्य सर्वसुरभिचूर्णैर् अवकीर्य_उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः
(कौश्स्_11,4[83].21) अविदन्तो देशात् पांसून्
(कौश्स्_11,4[83].22) अपि वा_उदकान्ते वसनम् आस्तीर्यासौ_इति ह्वयेत्
(कौश्स्_11,4[83].23) तत्र यो जन्तुर् निपतेत् तम् उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः
(कौश्स्_11,4[83].24) अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम्
(कौश्स्_11,4[83].25) ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैर् आस्तारयति
(कौश्स्_11,4[83].26) उत्तरं जीवसंचरो दक्षिणं पितृसंचरः
(कौश्स्_11,4[83].27) अनस्तमिते_<आ यात [18.4.62]>_इत्य् आयापयति
(कौश्स्_11,4[83].28) <आच्या जानु [18.1.52]>_इत्य् उपवेशयति
(कौश्स्_11,4[83].29) <सं विशन्त्व् [18.2.29]> इति संवेशयति
(कौश्स्_11,4[83].30) <एतद् वः पितरः पात्रम् [च्f. व्स्म् 2.32, मन्ब् 2.3.14 एत्च्.]> इति त्रीण्य् उदकंसान् निनयति
(कौश्स्_11,4[83].31) त्रीन् स्नातानुलिप्तान् ब्राह्मणान् मधुमन्थं पाययति
(कौश्स्_11,4[83].32) ब्रह्मणे मधुपर्कम् आहारयति
(कौश्स्_11,4[83].33) गां वेदयन्ते

(कौश्स्_11,4[83].34) कुरुत_इत्य् आह
(कौश्स्_11,4[83].35) तस्या दक्षिणम् अर्धं ब्राह्मणान् भोजयति सव्यं पितॄन्
(कौश्स्_11,5[84].1) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषाम् आशिषः सन्तु कामाः स्वाहा स्वधा [सेए 45.14, च्f. मन्ब् 2.3.18, व्स्म् 35.20]>_इति वपायास् त्रिर् जुहोति
(कौश्स्_11,5[84].2) <इमं यम [18.1.60]>_इति यमाय चतुर्थीम्
(कौश्स्_11,5[84].3) एकविंशत्या यवैः कृशरं रन्धयति युतम् अन्यत् प्रपाकं च
(कौश्स्_11,5[84].4) सयवस्य जीवाः प्राश्नन्ति
(कौश्स्_11,5[84].5) अथ_इतरस्य पिण्डं निपृणाति
(कौश्स्_11,5[84].6) <यं ते मन्थं [18.4.42]>_इति मन्त्रोक्तं विमिते निपृणाति
(कौश्स्_11,5[84].7) तद् उद्गतोष्म हर्तारो [एद्. -ओष्महर्त्-, चलन्द् अह्नेन्चुल्त् प्. 264] दासा भुञ्जते
(कौश्स्_11,5[84].8) वीणा वदन्तु_इत्य् आह
(कौश्स्_11,5[84].9) महयत पितॄन् इति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति
(कौश्स्_11,5[84].10) <कस्ये मृजाना [18.3.17]> इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणान् ऊरून् अघ्नानाः
(कौश्स्_11,5[84].11) एवं मध्यरात्रे_अपरात्रे च
(कौश्स्_11,5[84].12) पुरा विवाहात् समांसः पिण्डपितृयज्ञः
(कौश्स्_11,5[84].13) उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः
(कौश्स्_11,5[84].14) अथ_<अवसाय [?, .र्व् 10.169.1द्, प्स् 19.51.5द्? नोते चलन्द्, क्ल्. स्छ्र्., प्. 48)]>_इति पश्चात् पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्यो_अपराणि यवीयसाम्
(कौश्स्_11,5[84].15) प्राग्दक्षिणां दिशम् अभ्य् उत्तराम् अपरां दिशम् अभितिष्ठन्ति
(कौश्स्_11,5[84].16) यथा चितिं तथा श्मशानं दक्षिणापरां दिशम् अभि प्रवणम्
(कौश्स्_11,6[85].1) अथ मानानि
(कौश्स्_11,6[85].2) दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः
(कौश्स्_11,6[85].3) प्रादेशेन धनुषा च_<इमां मात्रां मिमीमहे [18.2.38]>_इति
(कौश्स्_11,6[85].4) सप्त दक्षिणतो मिमीते सप्त_उत्तरतः पञ्च पुरस्तात् त्रीणि पश्चात्
(कौश्स्_11,6[85].5) नव दक्षिणतो मिमीते नव_उत्तरतः सप्त पुरस्तात् पञ्च पश्चात्
(कौश्स्_11,6[85].6) एकादश दक्षिणतो मिमीत एकादश_उत्तरतो नव पुरस्तात् सप्त पश्चात्
(कौश्स्_11,6[85].7) एकादशभिर् देवदर्शिनाम्
(कौश्स्_11,6[85].8) अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम्
(कौश्स्_11,6[85].9) तथा हि दृश्यन्ते
(कौश्स्_11,6[85].10) यावान् पुरुष ऊर्ध्वनाहुस् तावान् अग्निश् चितः
(कौश्स्_11,6[85].11) सव्यानि दक्षिणाद्वाराणि_अयुग्मशिलानि_अयुग्मेष्टिकानि च
(कौश्स्_11,6[85].12) <इमां मात्रां मिमीमहे [18.2.38]>_इति दक्षिणतः सव्यरज्जुं मीत्वा
(कौश्स्_11,6[85].13) वारयताम् अघम् इति वारणं परिधिं परिदधाति शङ्कुं च निचृतति
(कौश्स्_11,6[85].14) पुरस्तान् मीत्वा शम् एभ्यो अस्त्व् अघम् इति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति
(कौश्स्_11,6[85].15) उत्तरतो मीत्वा शाम्यत्व् अघम् इत्य् औदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति
(कौश्स्_11,6[85].16) पश्चान् मीत्वा शान्तम् अघम् इति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति
(कौश्स्_11,6[85].17) <अमासि [18.2.45]>_इत्य् अनुमन्त्रयते
(कौश्स्_11,6[85].18) अक्ष्णया लोहितसूत्रेण निबध्य
(कौश्स्_11,6[85].19) <स्तुहि श्रुतं [18.1.40]>_इति मध्ये गर्तं खात्वा पाशिसिकता_ऊष_उदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति
(कौश्स्_11,6[85].20) निःशीयताम् अघम् इति निःशीयमानम् आस्तृणाति
(कौश्स्_11,6[85].21) असंप्रत्य् अघम्
(कौश्स्_11,6[85].22) वि लुम्पताम् अघम् इति परि चैलं दूर्शं विलुम्पति

मूल पाठ: Kauśikasūtra · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc