भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकसूत्र · भाग 6177

(कौश्स्_11,6[85].23) उक्तो होमो दक्षिणत स्तरणं च
(कौश्स्_11,6[85].24) <एतद् आ रोह [18.3.73]> <ददामि [18.2.37]>_इति कनिष्ठो निवपति
(कौश्स्_11,6[85].25) <एदं बर्हिर् [18.4.52]> इति स्थितसूनुर् यथापरु संचिनोति
(कौश्स्_11,6[85].26) <मा ते मनो [18.2.24]> <यत् ते अङ्गम् [18.2.26]> <इन्द्रो मा [18.3.25]>_<उदपूर् [18.3.37]> इत्य् आतो_अनुमन्त्रयते
(कौश्स्_11,6[85].27) धानाः सलिङ्गाभिर् आवपति
(कौश्स्_11,7[86].1) <इदं कसाम्बु [18.4.37]>_इति सजातान् अवेक्षयति
(कौश्स्_11,7[86].2) <ये च जीवा [18.4.57]> <ये ते पूर्वे परागता [18.3.72]> इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति
(कौश्स्_11,7[86].3) <अपूपवान् [18.4.16]> इति मन्त्रोक्तं दिक्षु_अष्टमदेशेषु निदधाति
(कौश्स्_11,7[86].4) मध्ये पचन्तम्
(कौश्स्_11,7[86].5) <सहस्रधारं शतधारम् [18.4.36]> इत्य् अद्भिर् अभिविष्यन्द्य
(कौश्स्_11,7[86].6) <पर्णो राजा [18.4.53]>_इति मध्यमपलाशैर् अभिनिदधाति
(कौश्स्_11,7[86].7) <ऊर्जो भागो [18.4.54]>_इत्य् अश्मभिः
(कौश्स्_11,7[86].8) <उत् ते स्तभ्नामि [18.3.52]>_इति लोगान् यथापरु
(कौश्स्_11,7[86].9) निःशीयताम् अघम् इति निःशीयमानेनावछाद्य दर्भैर् अवस्तीर्य
(कौश्स्_11,7[86].10) <इदम् इद् वा उ न [18.2.50]>_<उप सर्प [18.3.49]>_<असौ हा [18.4.66]> इति चिन्वन्ति
(कौश्स्_11,7[86].11) <यथा यमाय [18.4.55]>_इति संश्रित्य
(कौश्स्_11,7[86].12) शृणात्व् अघम् इत्य् उपरिशिर स्तम्बम् आदधाति
(कौश्स्_11,7[86].13) प्रतिषिद्धम् एकेषाम्
(कौश्स्_11,7[86].14) अकल्माषाणां काण्डानाम् अष्टाङ्गुलीं तेजनीम् अन्तर्हितम् अघम् इति ग्रामदेशाद् उच्छ्रयति
(कौश्स्_11,7[86].15) प्रसव्यं परिषिच्य कुम्भान् भिन्दन्ति
(कौश्स्_11,7[86].16) <समेत [7.21.1 (थुस् एम्.!)]>_इति अपरस्यां श्मशानस्रक्त्यां ध्रुवनानि_ उपयछन्ते
(कौश्स्_11,7[86].17) पश्चाद् उत्तरतो_अग्नेर् <वर्चसा मां [18.3.10]> <विवस्वान् [18.3.61]> <इन्द्र क्रतुं [18.3.67]>_इत्य् आतः
(कौश्स्_11,7[86].18) <सम् इन्धते [18.4.41 (ए.अ.)]>_इति पश्चात् संकसुकम् उद्दीपयति
(कौश्स्_11,7[86].19) <अस्मिन् वयं [12.2.13]> <यद् रिप्रं [12.2.40]> <सीसे मृड्ढ्वं [12.2.19]>_इत्य् अभ्यवनेजयति
(कौश्स्_11,7[86].20) कृष्णोर्णया पाणिपादान् निमृज्य
(कौश्स्_11,7[86].21) <इमे जीवा [12.2.22]> <उदीचीनैः [12.2.29]>_इति मन्त्रोक्तम्
(कौश्स्_11,7[86].22) <त्रिः सप्त [12.2.29च्]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा -- चोर्रिगेन्द एद्. प्. 424] श्मशानात्
(कौश्स्_11,7[86].23) <मृत्योः पदं [12.2.30]>_इति द्वितीयया नावः
(कौश्स्_11,7[86].24) <परं मृत्यो [12.2.21]> इति प्राग्दक्षिणम् कूदीं प्रविध्य
(कौश्स्_11,7[86].25) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा
(कौश्स्_11,7[86].26) <आ रोहत सवितुर् नावम् एतां [12.2.48च्]> <सुत्रामाणं [7.6.3]> <महीम् ऊ षु [7.6.2]>_इति सहिरण्यां सयवां नावम् आरोहयति
(कौश्स्_11,7[86].27) <अश्मन्वती रीयते [12.2.26]>_<उत् तिष्ठता प्र तरता सखायो [12.2.27]>_इत्य् उदीचस् तारयति
(कौश्स्_11,7[86].28) शर्करादि_आ समिदाधानात्
(कौश्स्_11,7[86].29) वैवस्वतादि समानम्
(कौश्स्_11,7[86].30) प्राप्य गृहान् समानः पिण्डपितृयज्ञः
(कौश्स्_11,8[87].1) अथ पिण्डपितृयज्ञः
(कौश्स्_11,8[87].2) अमावास्यायां सायं न्यह्ने_अहनि विज्ञायते [च्f. 18.4.65?]
(कौश्स्_11,8[87].3) <मित्रावरुणा परि माम् अधाताम् [18.3.12]> इति पाणी प्रक्षालयते
(कौश्स्_11,8[87].4) <वर्चसा मां [18.3.10]>_इत्य् आचामति
(कौश्स्_11,8[87].5) पुनः सव्येनाचमनाद् अपसव्यं कृत्वा प्रैषकृतं समादिशति

(कौश्स्_11,8[87].6) उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिर् उदकुम्भम् आ हर_इति
(कौश्स्_11,8[87].7) यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति
(कौश्स्_11,8[87].8) इदम् <अग्नये कव्यवाहनाय [18.4.71]> <स्वधा पितृभ्यः पृथिविषद्भ्यः [18.4.78]>_इतीदं <सोमाय पितृमते स्वधा [18.4.72]> <पितृभ्यः सोमवद्भ्यः [18.4.73]> <पितृभ्यो वान्तरिक्षसद्भ्यः [18.4.79]>_इतीदं <यमाय पितृमते [18.4.74]> <स्वधा पितृभ्यश् च दिविषद्भ्यः [18.4.80]>_इति त्रीन् अवाचीनकाशीन् निर्वपति
(कौश्स्_11,8[87].9) उलूखल ओप्य त्रिर् अवहन्ति_<इदं वः पितरो हविः>_इति
(कौश्स्_11,8[87].10) यथा हविस् तथा परिचरति
(कौश्स्_11,8[87].11) हविर् हि_एव पितृयज्ञः
(कौश्स्_11,8[87].12) प्रैषकृतं समादिशन्ति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलान् आवपस्व नेक्षणेन योधयन्न् आस्व मा शिरो ग्रहीः
(कौश्स्_11,8[87].13) शिरोग्रहं परिचक्षते
(कौश्स्_11,8[87].14) बाह्येन_उपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुख <उद् ईरताम् [18.1.44]> इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम्
(कौश्स्_11,8[87].15) अवागङ्गुरिं पर्वमात्रीम् इत्य् एके
(कौश्स्_11,8[87].16) <अपहता असुरा रक्षांसि ये पितृषदः [च्f. व्स्म् 2.29, मन्ब् 2.3.3]>_इति प्राग्दक्षिणं पांसून् उदूहति
(कौश्स्_11,8[87].17) कर्षूं च पाणी च प्रक्षाल्य_<एतद् वः पितरः पात्रम्> इति कर्षूम् उदकेन पूरयित्वा
(कौश्स्_11,8[87].18) अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चम् उद्वास्य
(कौश्स्_11,8[87].19) द्वे काष्ठे गृहीत्वा_<उशन्तस् [18.1.56]>_इत्य् आदीपयति
(कौश्स्_11,8[87].20) आदीप्तयोर् एकं प्रतिनिदधाति
(कौश्स्_11,8[87].21) <इहैवैधि धनसनिर् [18.4.38]> इत्य् एकं हृत्वा
(कौश्स्_11,8[87].22) पांसुषु_आधाय_उपसमादधाति <ये निखाताः [18.2.34]> <सम् इन्धते [18.4.41 (ए.अ.)]> <ये तातृषुर् [18.3.47]> <ये सत्यासो [18.3.48]>_इति
(कौश्स्_11,8[87].23) संभारान् उपसादयति
(कौश्स्_11,8[87].24) पर्युक्षणीं बर्हिर् उदकुम्भं कंसं दर्विम् आज्यम् आयवनं चरुं वासांस्य् आञ्जनम् अभ्यञ्जनम् इति
(कौश्स्_11,8[87].25) यद् अत्र_उपसमाहार्यं भवति तद् उपसमाहृत्य
(कौश्स्_11,8[87].26) अतो यज्ञोपवीती पित्र्युपवीती बर्हिर् गृहीत्वा विचृत्य संनहनं दक्षिणापरम् अष्टमदेशम् अभ्यवास्येत्
(कौश्स्_11,8[87].27) बर्हिर् उदकेन संप्रोक्ष्य <बर्हिषदः पितर [18.1.51]> <उपहूता नः पितरः [18.3.45]>_<अग्निष्वात्ताः पितरो [18.3.44]> <ये नः पितुः पितरो [18.3.46]> <ये ऽस्माकं [18.4.68]>_इति प्रस्तृणाति
(कौश्स्_11,8[87].28) आयापनादीनि त्रीणि
(कौश्स्_11,8[87].29) <उद् ईरताम् [18.1.44]> इति तिसृभिर् उदपात्राणि_अन्वृचं निनयेत्
(कौश्स्_11,8[87].30) अतः पित्र्युपवीती यज्ञोपवीती <ये दस्यवः [18.2.28]>_इत्य् उभयत आदीप्तम् उल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति
(कौश्स्_11,8[87].31) पर्युक्ष्य
(कौश्स्_11,9[88].1) <ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तान् अग्ने अप सेध दूरान् सत्याः नः पितॄणां सन्त्व् आशिषः स्वहा स्वधा [-, च्f. व्स् 2.20, मन्ब् 2.3.4]>_इति हुत्वा कुम्भीपाकम् अभिघारयति
(कौश्स्_11,9[88].2) <अग्नय कव्यवाहनाय [18.4.71]>_इति जुहोति
(कौश्स्_11,9[88].3) यथानिरुप्तं द्वितीयाम्
(कौश्स्_11,9[88].4) <यमाय पितृमते [18.4.74] <स्वधा पितृभ्यः [18.4.78]> इति तृतीयाम्
(कौश्स्_11,9[88].5) <यद् वो अग्निर् [18.4.64]> इति सायवनान्_तण्डुलान्
(कौश्स्_11,9[88].6) <सं बर्हिर् [7.98.1]> इति सदर्भान्_तण्डुलान् पर्युक्ष्य
(कौश्स्_11,9[88].7) अतो यज्ञोपवीती पित्र्युपवीती दर्व्या_उद्धरति
(कौश्स्_11,9[88].8) द्यौर् दर्विर् अक्षितापरिमितानुपदस्ता सा यथा द्यौर् दर्विर् अक्षितापरिमितानुपदस्ता_एवा [रेअद् _एवं? ;स्रौतकोश इ एन्ग्. इ प्. 488] प्रततामहस्य_इयं दर्विर् अक्षितापरिमितानुपदस्ता
(कौश्स्_11,9[88].9) अन्तरिक्षं दर्विर् अक्षितापरिमितानुपदस्ता सा यथान्तरिक्षम् दर्विर् अक्षितापरिमितानुपदस्ता_एवा [रेअद् _एवं? ;स्रौतकोश इ एन्ग्. इ प्. 488] ततामहस्य_इयं दर्विर् अक्षितापरिमितानुपदस्ता
(कौश्स्_11,9[88].10) पृथिवी दर्विर् अक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विर् अक्षितापरिमितानुपदस्ता_एवा [रेअद् _एवं? ;स्रौतकोश इ एन्ग्. इ प्. 488] ततस्य_इयं दर्विर् अक्षितापरिमितानुपदस्ता_इति
(कौश्स्_11,9[88].11) उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान् निदधाति_<एतत् ते प्रततामह [18.4.75]>_इति
(कौश्स्_11,9[88].12) दक्षिणतः पत्नीभ्यः_<इदं वः पत्न्यः>_इति
(कौश्स्_11,9[88].13) इदम् आशंसूनाम् इदम् आशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां <येषां वयं दातारो ये चास्माकम् उपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावद् अक्षय्यम् अस्तु [-]>_इति त्रिः प्रसव्यं तण्डुलैः परिकिरति
(कौश्स्_11,9[88].14) पिञ्जूलीर् आञ्जनं सर्पिषि पर्यस्य_<अद्ध्वं पितरः>_इति न्यस्यति

(कौश्स्_11,9[88].15) <वद्ध्वं पितरो मा वो ऽतो ऽन्यत् पितरो योयुवत [-]>_इति सूत्राणि
(कौश्स्_11,9[88].16) <अञ्जते व्य् अञ्जते [18.3.18]>_इत्य् अभ्यञ्जनम्
(कौश्स्_11,9[88].17) आज्येनाविछिन्नं पिण्डान् अभिघारयति <ये च जीवा [18.4.57]> <ये ते पूर्वे परागता [18.3.72]> इति
(कौश्स्_11,9[88].18) <अत्र पितरो मादयध्वं यथाभागं यथालोकम् आवृषायध्वम् [च्f. व्स्म् 2.31, मन्ब् 2.3.6 एत्च्.]> इति
(कौश्स्_11,9[88].19) <अत्र पत्न्यो मादयध्वं यथाभागं यथालोकम् आवृषायध्वम् [च्f. व्स्म् 2.31, मन्ब् 2.3.6 एत्च्.]> इति
(कौश्स्_11,9[88].20) यो_असौ_अन्तरग्निर् भवति तं प्रदक्षिणम् अवेक्ष्य तिस्रस् तामीस् ताम्यति
(कौश्स्_11,9[88].21) प्रतिपर्यावृत्य_<अमीमदन्त पितरो यथाभागं यथालोकम् आवृषायिषत [च्f. व्स्म् 2.31, मन्ब् 2.3.7 एत्च्.]>_इति
(कौश्स्_11,9[88].22) <अमीमदन्त पत्न्यो यथाभागं यथालोकम् आवृषायिषत [च्f. व्स्म् 2.31, मन्ब् 2.3.7 एत्च्.]>_इति
(कौश्स्_11,9[88].23) <आपो अग्निं [18.4.40]>_इत्य् अद्भिर् अग्निम् अवसिच्य
(कौश्स्_11,9[88].24) <पुत्रं पौत्रम् अभितर्पयन्तीर् [18.4.39]> इत्य् <आचामत मम प्रततामहास् ततामहास् तताः सपत्नीकास् तृप्यन्त्व् आचामन्तु [-]>_इति प्रसव्यं परिषिच्य
(कौश्स्_11,9[88].25) <वीरान् मे प्रततामहा दत्त वीरान् मे ततामहा दत्त वीरान् मे पितरो दत्त> पितॄन् वीरान् याचति
(कौश्स्_11,9[88].26) <नमो वः पितर [18.4.81ff.]> इत्य् उपतिष्ठते
(कौश्स्_11,9[88].27) <अक्षन्न् [18.4.61]> इत्य् उत्तरसिचम् अवधूय
(कौश्स्_11,9[88].28) <परा यात [18.4.63]>_इति परायापयति
(कौश्स्_11,9[88].29) अतः पित्र्युपवीती यज्ञोपवीती <यन् न इदं पितृभिः सह मनो ऽभूत् तद् उपाह्वयामि [-]>_इति मन उपाह्वयति
(कौश्स्_11,10[89].1) <मनो न्व् आ ह्वामहे नाराशंसेन [चोर्र्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. नार-] स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो [एद्. दैव्यः] जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस् तनूषु बिभ्रतः प्रजावन्तः सचेमहि [प्स् 19.24.10-13, वैत्स् 20.9]> ॥ <ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषा;म् श्रीर् मयि कल्पताम् अस्मिन् गोष्ठे शत;म् समाः [व्स्म् 19.46 एत्च्.]>_इति
(कौश्स्_11,10[89].2) यत्_चरुस्थाल्याम् ओदनावशिष्टं भवति तस्य_ऊष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात्
(कौश्स्_11,10[89].3) यदि ब्राह्मणो न लभ्येताप्सु_अभ्यवहरेत्
(कौश्स्_11,10[89].4) निजाय दासाय_इत्य् एके
(कौश्स्_11,10[89].5) मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति
(कौश्स्_11,10[89].6) <आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो ऽसत् ॥ [व्स्म् 2.33 एत्च्.]> <आ त्वारुक्षद् वृषभः पृश्निर् अग्रियो मेधाविनं पितरो गर्भम् आ दधुः । आ त्वायं पुरुषो गमेत् पुरुषः पुरुषाद् अधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु [-, च्f. .र्व् 9.83.3]>_इति
(कौश्स्_11,10[89].7) यदि_अन्या द्वितीया भवति_अपरं तस्यै
(कौश्स्_11,10[89].8) प्राग्रतमं श्रोत्रियाय
(कौश्स्_11,10[89].9) अथ यस्य भार्या दासी वा प्रद्राविणी भवति ये_अमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तान्_तस्यै प्रयछति
(कौश्स्_11,10[89].10) <अर्वाच्य् +उपसंक्राम [एद्. उपसंक्रमे] मा पराच्य् अप वर्तथाः [एद्. उप वस्तथा] । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि [-, एमेन्दतिओन्स् चलन्द्, अह्नेन्चुल्त् प्. 192, च्f. मन्ब् 1.3.10]>_इति
(कौश्स्_11,10[89].11) पर्युक्षणीं समिधश् चादाय <मा प्र गाम [13.1.59]>_इत्य् आव्रज्य_<ऊर्जं बिभ्रद् [7.60.1]> इति गृहान् उपतिष्ठते
(कौश्स्_11,10[89].12) <रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुर् ऊर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षम् ऊर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम ॥ [प्स् 18.82.3-5]> <वीर्यं मे देवा अददुः वीर्यं मनुष्या उत । वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा मम ॥ [-, च्f. प्स् 18.82.4-5]>_इति
(कौश्स्_11,10[89].13) अन्तरुपातीत्य समिधो ऽभ्यादधाति । <अयं नो अग्निर् अध्यक्षो ऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं सम् इन्धिषीमह्य् आयुष्मन्तः सुवर्चसः ॥ [प्स् 20.61.5-6]> <त्वम् अग्न ईडितो [18.3.42]>_<आ त्वाग्न इन्धीमहि [18.4.88]>_इति
(कौश्स्_11,10[89].14) <अभूद् दूतः [18.4.65]>_इत्य् अग्निं प्रत्यानयति
(कौश्स्_11,10[89].15) यदि सर्वः प्रणीतः स्याद् दक्षिणाग्नौ तु_एतद् आहिताग्नेः
(कौश्स्_11,10[89].16) गृह्ये +ऽपि_अनाहिताग्नेः [एद्. गृह्येष्व्, च्f. चलन्द् अह्नेन्चुल्त् प्. 15]
(कौश्स्_11,10[89].17) <इदं चिन् मे कृतम् अस्तीदं चिच् छक्नवानि । पितरश् चिन् मा वेदन् [-]>_इति
(कौश्स्_11,10[89].18) यो ह यजते तं देवा विदुर् यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस् तं पितरः
(कौश्स् 11 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे एकादशो ऽध्यायः समाप्तः
(कौश्स्_12,1[90].1) मधुपर्कम् आहारयिष्यन् दर्भान् आहारयति
(कौश्स्_12,1[90].2) अथ विष्टरान् कारयति
(कौश्स्_12,1[90].3) स खलु_एकशाखम् एव प्रथमं पाद्यं द्विशाखम् आसनं त्रिशाखं मधुपर्काय
(कौश्स्_12,1[90].4) स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्याद् इत्य् उपोत्कृष्य मध्यदेशे_अभिसंनह्यति
(कौश्स्_12,1[90].5) <ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा>_इति संनह्यति
(कौश्स्_12,1[90].6) अथ ह सृजति_<अतिसृष्टो द्वेष्टा यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः>

(कौश्स्_12,1[90].7) अस्य च दातुर् इति दातारम् ईक्षते
(कौश्स्_12,1[90].8) अथ_उदकम् आहारयति पाद्यं भो इति
(कौश्स्_12,1[90].9) हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश् च धारयाणीति
(कौश्स्_12,1[90].10) दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशस् च धारयाणीति
(कौश्स्_12,1[90].11) प्रक्षालितौ_अनुमन्त्रयते । <इमौ पादाव् अवनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर् द्विषन्तं निर् दहन्तु मे [-, च्f. ऐत्ब् 8.27]>
(कौश्स्_12,1[90].12) अस्य च दातुर् इति दातारम् ईक्षते
(कौश्स्_12,1[90].13) अथासनम् आहारयति । सविष्टरम् आसनम् भो इति
(कौश्स्_12,1[90].14) तस्मिन् प्रत्यङ्मुख उपविशति
(कौश्स्_12,1[90].15) <विमृग्वरीं पृथिवीम् [12.1.29]> इत्य् एतया विष्टरे पादौ प्रतिष्ठाप्य_<अधिष्ठितो द्वेष्टा यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः>
(कौश्स्_12,1[90].16) अस्य च दातुर् इति दातारम् ईक्षते
(कौश्स्_12,1[90].17) अथ_उदकम् आहारयति_अर्घ्यं भो इति
(कौश्स्_12,1[90].18) तत् प्रतिमन्त्रयते । <अन्नानां मुखम् असि मुखम् अहं श्रेष्ठः समानानां भूयासम् । आपो ऽमृतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्य् अश्वावद् गोमन् मय्य् अस्तु पुष्टों (एद्. पुष्टम् ओं; च्f. चलन्द्, क्ल्. स्छ्र्., प्. 45, न्. 1) भूर् भुवः स्वर् जनद् ओम्> इति
(कौश्स्_12,1[90].19) तूष्णीम् अध्यात्मं निनयति
(कौश्स्_12,1[90].20) <तेजो ऽस्य् अमृतम् असि>_इति ललाटम् आलभते
(कौश्स्_12,1[90].21) अथ_उदकम् आहारयति_आचमनीयं भो इति
(कौश्स्_12,1[90].22) जीवाभिर् आचम्य
(कौश्स्_12,1[90].23) अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति
(कौश्स्_12,1[90].24) द्वाभ्यां शाखाभ्याम् अधस्ताद् एकया_उपरिष्टाद् सापिधानम्
(कौश्स्_12,1[90].25) <मधु वाता ऋतायते [प्स् 19.45.5]>_इत्य् एताभिर् एवाभिमन्त्रणम्
(कौश्स्_12,1[90].26) तथा प्रतिमन्त्रणम्
(कौश्स्_12,2[91].1) <मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् गावो भवन्तु नः ॥ मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । माध्वीर् नः सन्त्व् ओषधीः ॥ मधुमान् नो वनस्पतिर् मधुमा;म् अस्तु सूर्यः । मधु द्यौर् अस्तु नः पिता ॥ [प्स् 19.45.5-7]>
(कौश्स्_12,2[91].2) तत् <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [प्स् 20.57.11, वैत्स् 3.8, ग्ब् 2.1.2, एत्च्.]> इति प्रतीक्षते
(कौश्स्_12,2[91].3) <अयुतो ऽहम् [19.51.1]> <देवस्य त्वा सवितुः [19.51.2]>_इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति
(कौश्स्_12,2[91].4) <पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या उपस्थे [वैत्स् 3.10, एत्च्.]>_इति भूमौ प्रतिष्ठाप्य
(कौश्स्_12,2[91].5) द्वाभ्याम् अङ्गुलिभ्यां प्रदक्षिणम् आचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति
(कौश्स्_12,2[91].6) <ओं भूस् तत् सवितुर् वरेण्यं भूः स्वाहा [.र्व् 3.62.10अ ए.अ.]>_इति प्रथमम्
(कौश्स्_12,2[91].7) <भर्गो देवस्य धीमहि भुवः स्वाहा [.र्व् 3.62.10ब् ए.अ.]>_इति द्वितीयम्
(कौश्स्_12,2[91].8) <धियो यो नः प्रचोदयात् स्वः स्वाहा [.र्व् 3.62.10च् ए.अ.]>_इति तृतीयम्
(कौश्स्_12,2[91].9) <वयं देवस्य धीमहि जनत् स्वाहा [.र्व् 3.62.10द् ए.अ.]>_इति चतुर्थम्
(कौश्स्_12,2[91].10) <तुरं देवस्य भोजनं वृधत् स्वाहा [-, च्f. .र्व् 5.82.1]>_इति पञ्चमम्
(कौश्स्_12,2[91].11) <करत् स्वाहा>_इति षष्ठम्
(कौश्स्_12,2[91].12) <रुहत् स्वाहा>_इति सप्तमम्
(कौश्स्_12,2[91].13) <महत् स्वाहा>_इत्य् अष्टमम्
(कौश्स्_12,2[91].14) <तत् स्वाहा>_इति नवमम्
(कौश्स्_12,2[91].15) <शं स्वाहा>_इति दशमम्
(कौश्स्_12,2[91].16) <ओम्> इति एकादशम्
(कौश्स्_12,2[91].17) तूष्णीं द्वादशम्
(कौश्स्_12,2[91].18) तस्य भूयोमात्रम् इव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत्
(कौश्स्_12,2[91].19) श्रोत्रियालाभे वृषलाय प्रयछेत्
(कौश्स्_12,2[91].20) अथाप्य् अयं निगमो भवति । <सोमम् एतत् पिबति यत् किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं +दात् [एम्. fअल्क्, म्.च्.; एद्.।लाट्य्;स्स् दात] मा सोमं पात्व् असोमपः [च्f. लाट्य्;स्स् 2.12.17]>_इति

(कौश्स्_12,3[92].1) दधि च मधु ब्राह्मो मधुपर्कः
(कौश्स्_12,3[92].2) पायस ऐन्द्रो मधुपर्कः
(कौश्स्_12,3[92].3) मधु चाज्यं च सौम्यो मधुपर्कः
(कौश्स्_12,3[92].4) मन्थश् चाज्यं च पौष्णो मधुपर्कः
(कौश्स्_12,3[92].5) क्षीरं चाज्यं च सारस्वतो मधुपर्कः
(कौश्स्_12,3[92].6) सुरा चाज्यं च मौसलो मधुपर्कः
(कौश्स्_12,3[92].7) स खलु_एष द्वये भवति सौत्रामण्यां च राजसूये च
(कौश्स्_12,3[92].8) उदकं चाज्यं च वारुणो मधुपर्कः
(कौश्स्_12,3[92].9) तैलं चाज्यं च श्रावणो मधुपर्कः
(कौश्स्_12,3[92].10) तैलश् च पिण्डश् च पारिव्राजको मधुपर्कः
(कौश्स्_12,3[92].11) इति खलु_एष नवविधो मधुपर्को भवति
(कौश्स्_12,3[92].12) अथास्मै गां वेदयन्ते गौर् भो इति
(कौश्स्_12,3[92].13) तान् प्रतिमन्त्रयते । <भूतम् असि भवद् अस्य् अन्नं प्राणो बहुर् भव । ज्येष्ठं यन् नाम नामत ओं भूर् भुवः स्वर् जनद् ओम् [-]> इति
(कौश्स्_12,3[92].14) अतिसृजति । <मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाम् अमृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ [च्f. .र्व् 8.101.15]> ओं तृणानि गौर् अत्त्व् इति आह
(कौश्स्_12,3[92].15) <सूयवसाद् [7.73.11]> इति प्रतिष्ठमानाम् अनुमन्त्रयते
(कौश्स्_12,3[92].16) नालोहितो मधुपर्को भवति
(कौश्स्_12,3[92].17) नानुज्ञानम् अधीमहे_इति कुरुत_इत्य् एव ब्रूयात्
(कौश्स्_12,3[92].18) <स्वधिते मैनं हिंसीः [व्स्म् 6.15, मन्ब् 1.6.6]>_इति शस्त्रं प्रयछति
(कौश्स्_12,3[92].19) पाप्मानं मे ऽप जहीति कर्तारम् अनुमन्त्रयते
(कौश्स्_12,3[92].20) आग्नेयीं वपां कुर्युः
(कौश्स्_12,3[92].21) अपि वा ब्राह्मण एव प्राश्नीयात् तद् देवतं हि तद् धविर् भवति
(कौश्स्_12,3[92].22) अथास्मै स्नानम् अनुलेपनं मालाभ्यञ्जनम् इति
(कौश्स्_12,3[92].23) यद् अत्र_उपसमाहार्यं भवति तद् उपसमाहृत्य
(कौश्स्_12,3[92].24) अथ_उपासकाः प्राय_उपासकाः स्मो भो इति वेदयन्ते
(कौश्स्_12,3[92].25) तान् प्रतिमन्त्रयते । <भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नो ऽन्ये भूयांसो जायन्ताम्>
(कौश्स्_12,3[92].26) अस्य च दातुर् इति दातारम् ईक्षते
(कौश्स्_12,3[92].27) अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति वेदयन्ते
(कौश्स्_12,3[92].28) तान् प्रतिमन्त्रयते । <अन्नादा भूयास्म ये च नो ऽनादान् कार्ष्टापि च नो ऽन्ये ऽन्नादा भूयांसो जायन्ताम्>
(कौश्स्_12,3[92].29) अस्य च दातुर् इति दातारम् ईक्षते
(कौश्स्_12,3[92].30) आहृते_अन्ने जुहोति <यत् काम कामयमाना [19.52.1, सकल fओल्लोwस् थुस् प्स् 1.30.5]> इत्य् एतया
(कौश्स्_12,3[92].31) <यत् काम कामयमाना इदं कृण्मसि ते हविः । तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा [19.52.1, सकल थुस् प्स् 1.30.5]>_इति
(कौश्स्_12,3[92].32) एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषो_अतिथिकल्प एषो ऽतिथिकल्पः
(कौश्स् 12 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वादशो ऽध्यायः समाप्तः
(कौश्स्_13,1[93].1) अथाद्भुतानि
(कौश्स्_13,1[93].2) वर्षे
(कौश्स्_13,1[93].3) यक्षेषु
(कौश्स्_13,1[93].4) गोमायुवदने
(कौश्स्_13,1[93].5) कुले कलहिनि
(कौश्स्_13,1[93].6) भूमिचले
(कौश्स्_13,1[93].7) आदित्योपप्लवे

(कौश्स्_13,1[93].8) चन्द्रमसश् च
(कौश्स्_13,1[93].9) औषस्याम् अनुद्यत्याम्
(कौश्स्_13,1[93].10) समायां दारुणायाम्
(कौश्स्_13,1[93].11) उपतारकशङ्कायाम्
(कौश्स्_13,1[93].12) ब्राह्मणेषु_आयुधिषु
(कौश्स्_13,1[93].13) दैवतेषु नृत्यत्सु च्योदत्सु हसत्सु गायत्सु
(कौश्स्_13,1[93].14) लाङ्गलयोः संसर्गे
(कौश्स्_13,1[93].15) रज्ज्वोस् तन्वोश् च
(कौश्स्_13,1[93].16) अग्निसंसर्गे
(कौश्स्_13,1[93].17) यमवत्सायां हवि
(कौश्स्_13,1[93].18) वडवागर्दभ्योर् मानुष्यां च
(कौश्स्_13,1[93].19) यत्र धेनवो लोहितं दुहते
(कौश्स्_13,1[93].20) अनडुहि धेनुं धयति
(कौश्स्_13,1[93].21) धेनौ धेनुं धयन्त्याम्
(कौश्स्_13,1[93].22) आकाशफेने
(कौश्स्_13,1[93].23) पिपीलिकानाचारे
(कौश्स्_13,1[93].24) नीलमक्षानाचारे
(कौश्स्_13,1[93].25) मधुमक्षानाचारे
(कौश्स्_13,1[93].26) अनाज्ञाते
(कौश्स्_13,1[93].27) अवदीर्णे
(कौश्स्_13,1[93].28) अनुदक उदकोन्मीले
(कौश्स्_13,1[93].29) तिलेषु समतैलेषु
(कौश्स्_13,1[93].30) हविःषु_अभिमृष्टेषु
(कौश्स्_13,1[93].31) प्रसव्येषु_आवर्तेषु
(कौश्स्_13,1[93].32) यूपे विरोहति
(कौश्स्_13,1[93].33) उल्कायाम्
(कौश्स्_13,1[93].34) धूमकेतौ सप्तर्षीन् उपधूपयति
(कौश्स्_13,1[93].35) नक्षत्रेषु पतापतेषु
(कौश्स्_13,1[93].36) मांसमुखे निपतति
(कौश्स्_13,1[93].37) अनग्नौ_अवभासे
(कौश्स्_13,1[93].38) अग्नौ श्वसति
(कौश्स्_13,1[93].39) सर्पिषि तैले मधुनि च विष्यन्दे
(कौश्स्_13,1[93].40) ग्राम्ये_अग्नौ शालां दहति
(कौश्स्_13,1[93].41) आगन्तौ च
(कौश्स्_13,1[93].42) वंशे स्फोटति
(कौश्स्_13,1[93].43) कुम्भोदधाने विकसति_उखायां सक्तुधान्यां च
(कौश्स्_13,2[94].1) अथ यत्र_एतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद् धिरण्यं यानि चापि_अन्यानि घोराणि वर्षाणि वर्षन्ति तत् पराभवति कुलं वा ग्रामो वा जनपदो वा
(कौश्स्_13,2[94].2) तत्र राजा भूमिपतिर् विद्वांसं ब्रह्माणम् इछेत्
(कौश्स्_13,2[94].3) एष ह वै विद्वान् यद् भृग्वङ्गिरोवित्
(कौश्स्_13,2[94].4) एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद् भृग्वङ्गिरसः

(कौश्स्_13,2[94].5) स आह_उपकल्पयध्वम् इति
(कौश्स्_13,2[94].6) तद् उपकल्पयन्ते कंसमहते वसने शुद्धम् आज्यं शान्ता ओषधीर् नवम् उदकुम्भम्
(कौश्स्_13,2[94].7) त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम्
(कौश्स्_13,2[94].8) अपि चेद् एव यदा कदा आर्ताय कुर्यात्
(कौश्स्_13,2[94].9) स्नातो_अहतवसनः सुरभिर् व्रतवान् कर्मण्य उपवसति_एकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा
(कौश्स्_13,2[94].10) द्वादश्याः प्रातर् यत्र_एवादः पतितं भवति तत उत्तरम् अग्निम् उपसमाधाय
(कौश्स्_13,2[94].11) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य
(कौश्स्_13,2[94].12) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च
(कौश्स्_13,2[94].13) अथ जुहोति
(कौश्स्_13,2[94].14) <घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद् धिरण्यम् । द्विषन्तम् एता अनु यन्तु वृष्टयो ऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद् वा वर्षं घोरम् अनिष्टम् अन्यत् । द्विषन्तम् एते अनु यन्तु सर्वे पराञ्चो यन्तु निर्वर्तमानाः ॥ अग्नये स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,2[94].15) <दिव्यो गन्धर्वो [2.2.1]>_इति मातृनामभिर् जुहुयात्
(कौश्स्_13,2[94].16) वरम् अनड्वाहम् ब्राह्मणः कर्त्रे दद्यात्
(कौश्स्_13,2[94].17) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(कौश्स्_13,2[94].18) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,3[95].1) अथ यत्र_एतानि यक्षाणि दृश्यन्ते तद् यथा_एतत्_मर्कटः श्वापदो वायसः पुरुषरूपम् इति तद् एवम् आशङ्क्यम् एव भवति
(कौश्स्_13,3[95].2) तत्र जुहुयात्
(कौश्स्_13,3[95].3) <यन् मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति पुरुषरक्षसं इषिरं यत् पताति । द्विषन्तम् एते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,3[95].4) <दिव्यो गन्धर्वो [2.2.1]>_इति मातृनामभिर् जुहुयात्
(कौश्स्_13,3[95].5) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,4[96].1) अथ ह गोमायू नाम मण्डूकौ यत्र वदतस् तद् यत्_मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तद् एवम् आशङ्क्यम् एव भवति
(कौश्स्_13,4[96].2) तत्र जुहुयात्
(कौश्स्_13,4[96].3) <यद् गोमायू वदतो जातवेदो ऽन्यया वाचाभि जञ्जभातः । रथंतरं बृहच् च सामैतद् द्विषन्तम् एताव् अभि नानदैताम् ॥ रथंतरेण त्वा बृहच् छमयामि बृहता त्वा रथटरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानाव् आयुष्मन्ताव् उत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [-, प्स् 1.83.4च्द्]>_इति हुत्वा
(कौश्स्_13,4[96].4) <दिव्यो गन्धर्वो [2.2.1]>_इति मातृनामभिर् जुहुयात्
(कौश्स्_13,4[96].5) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,5[97].1) अथ यत्र_एतत् कुलं कलहि भवति तन् निरृतिगृहीतम् इत्य् आचक्षते
(कौश्स्_13,5[97].2) तत्र जुहुयात्
(कौश्स्_13,5[97].3) <आराद् अरातिम् [8.2.12]> इति द्वे
(कौश्स्_13,5[97].4) <अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि । अयासा मनसा कृतो ऽयास् +सन् [एद्. ऽयास्य] हव्यम् ऊहिषे । आ [+अया?] नो धेहि भेषजम् । [म्स् 1.4.3:51.10, क्स् 5.4:57.1-4, कौश्स् 1.5.12 एत्च्.]> ॥ <स्वाहा>_इत्य् अग्नौ हुत्वा
(कौश्स्_13,5[97].5) तत्र_एव_एतान् होमाञ् जुहुयात्
(कौश्स्_13,5[97].6) <आराद् अग्निं क्रव्यादं निरूहञ् जिवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानाव् आयुष्मन्ताव् उत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [8.2.9च्द्, प्स् 16.3.8च्द्; प्स् 1.83.4च्द्]>_इति हुत्वा
(कौश्स्_13,5[97].7) <अपेत एतु निरृतिर् [प्स् 19.23.4ff.]> इत्य् अनेन सूक्तेन जुहुयात्
(कौश्स्_13,5[97].8) <अपेत एतु निरृतिर् नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान् मृत्यून् एकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस् ते यज्ञस्य मायया सर्वा;म् अप यजामसि ॥ निर् इतो यन्तु नैरृत्या मृत्यव एकशतं परः सेधामैषां यत् तमः प्राणं ज्योतिश् च दध्महे ॥ [प्स् 19.23.4-6]> <ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ [प्स् 18.82.7]> <ब्रह्म भ्राजद् उदगाद् अन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मद् अप हन्तु शमलं तमश् च ॥ [प्स् 16.150.2]>
(कौश्स्_13,5[97].9) वरम् अनड्वाहम् इति समानम्
(कौश्स्_13,6[98].1) अथ यत्र_एतद् भूमिचलो भवति तत्र जुहुयात्
(कौश्स्_13,6[98].2) <अच्युता द्यौर् अच्युतम् अन्तरिक्षम् अच्युता भूमिर् दिशो अच्युता इमाः । अच्युतो ऽयं रोधावरोधाद् ध्रुवो राष्ट्रे प्रति तिष्ठामि जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुर् एवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा पुरीषं नद्यः समुद्रम् अहोरात्रे अप्रमादं क्षरन्ति । एवा विशः संमनसो हवं मे ऽप्रमादम् इहोप यन्तु सर्वाः ॥ दृंहतां देवी सह देवताभिर् ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानम् अपनुद्यास्मद् अमित्रान् मे द्विषतो ऽनु विध्यतु ॥ पृथिव्यै स्वाहा [च्f. अव्परिश् 11.1.11]>_इति हुत्वा
(कौश्स्_13,6[98].3) <आ त्वाहार्षम् [6.87.1]>_<ध्रुवा द्यौर् [6.88.1]>_<सत्यं बृहद् [12.1.1]> इत्य् एतेनानुवाकेन जुहुयात्
(कौश्स्_13,6[98].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,7[99].1) अथ यत्र_एतद् आदित्यं तमो गृह्णाति तत्र जुहुयात्
(कौश्स्_13,7[99].2) <दिव्यं चित्रम् ऋतूया कल्पयन्तम् ऋतूनाम् उग्रं भ्रमयन्न् उदेति । तद् आदित्यः प्रतरन्न् एतु सर्वत आप इमां लोकान् अनुसंचरन्ति ॥ ओषधीभिः संविदानाव् इन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,7[99].3) <विषासहिं सहमानं [17.1.1]>_इत्य् अनेन सूक्तेन जुहुयात्

(कौश्स्_13,7[99].4) रोहितैर् उपतिष्ठते
(कौश्स्_13,7[99].5) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,8[100].1) अथ यत्र_एतत्_चन्द्रमसम् उपप्लवति तत्र जुहुयात्
(कौश्स्_13,8[100].2) <राहू राजानं त्सरति स्वरन्तम् ऐनम् इह हन्ति पूर्वः । सहस्रम् अस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,8[100].3) <शकधूमं नक्षत्राणि [6.128.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,8[100].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,9[101].1) अथ यत्र_एतद् औषसी न_उदेति तत्र जुहुयात्
(कौश्स्_13,9[101].2) <उद् एतु श्रीर् उषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान् मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,9[101].3) <दिव्यो गन्धर्वो [2.2.1]>_इति मातृनामभिर् जुहुयात्
(कौश्स्_13,9[101].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,10[102].1) अथ यत्र_एतत् समा दारुणा भवति तत्र जुहुयात्
(कौश्स्_13,10[102].2) <या समा रुशत्य् एति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस् तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत् ते घोरं यत् ते विषं तद् द्विषत्सु नि दध्मस्य् अमुष्मिन्न् [-]> इति ब्रूयात्
(कौश्स्_13,10[102].3) <शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,10[102].4) <समास् त्वाग्न [2.6.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,10[102].5) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,11[103].1) अथ यत्र_एतद् उपतारकाः शङ्कन्ते तत्र जुहुयात्
(कौश्स्_13,11[103].2) <रेवतीः शुभ्रा इषिरा मदन्तीस् त्वचो धूमम् अनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्व् आप इमां लोकान् अनुसंचरन्तु ॥ अद्भ्यः स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,11[103].3) <समुत्पतन्तु [4.15.1]> <प्र नभस्व [7.18.1]>_इति वर्षीर् जुहुयात्
(कौश्स्_13,11[103].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,12[104].1) अथ यत्र_एतद् ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात्
(कौश्स्_13,12[104].2) <य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश् चरान् इह । देवा वयं मनुष्यास् ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा [-, च्f. अव्परिश् 32.29]>_इति हुत्वा
(कौश्स्_13,12[104].3) <मा नो विदन् [1.19.1]> <नमो देववधेभ्यो [6.13.1]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्
(कौश्स्_13,12[104].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,13[105].1) अथ यत्र_एतद् दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति <य आसुरा मनुष्या [-, च्f. कौश्स् 104.2]> <मा नो विदन् [1.19.1]> <नमो देववधेभ्यो [6.13.1]>_इति अभयैर् जुहुयात्
(कौश्स्_13,13[105].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,14[106].1) अथ यत्र_एतत्_लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा
(कौश्स्_13,14[106].2) अरण्यस्यार्धम् अभिव्रज्य
(कौश्स्_13,14[106].3) प्राचीं सीतां स्थापयित्वा
(कौश्स्_13,14[106].4) सीताया मध्ये प्राञ्चम् इध्मम् उपसमाधाय
(कौश्स्_13,14[106].5) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा
(कौश्स्_13,14[106].6) अथ जुहोति । <वित्तिर् असि पुष्टिर् असि श्रीर् असि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा [-]>
(कौश्स्_13,14[106].7) <कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीर् इयं मयि ॥ उर्वीं त्वाहुर् मनुष्याः श्रियं त्वा मनसो विदुः । आशये ऽन्नस्य नो धेह्य् अनमीवस्य शुष्मिणः ॥ [-, च्f. ;साङ्ख्ग्स् 1.27.7 एत्च्.]> <पर्जन्यपत्नि हरिण्यभिजितास्य् अभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर् देवा असुरान् अकल्पयन् यातून् मनून् गन्धर्वान् राक्षसांश् च । ताभिर् नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ [-, च्f. 7.48.2च्द्]> <हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर् हिरण्यप्रकारा प्रत्यष्टा श्रीर् इयं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विशस् त्वा रासन्तां प्रदिशो ऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानाम् उत मर्त्यानां भर्त्री प्रजानाम् उत मानुषाणाम् । हस्तिभिर् इतरासैः क्षेत्रसारथिभिः सह । हिरण्यैर् अश्वैर् आ गोभिः प्रत्यष्टा श्रीर् इयं मयि ॥ [-]>
(कौश्स्_13,14[106].8) अत्र शूनासीराणि_अनुयोजयेत्
(कौश्स्_13,14[106].9) वरम् अनड्वाहम् इति समानम्
(कौश्स्_13,15[107].1) अथ यत्र_एतत् सृजन्त्योर् वा कृतन्त्योर् वा नाना तन्तू संसृजतो <मनायै तन्तुं प्रथमं [प्स् 2.87.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,15[107].2) <मनायै तन्तुं प्रथमं पश्येद् अन्या अतन्वत । तन् नारीः प्र ब्रवीमि वः साध्वीर् वः सन्तूर्वरीः ॥ साधुर् वस् तन्तुर् भवतु साधुर् एतु रथो वृतः । अथो होर्वरीर् यूयं प्रातर् वोढवे धावत ॥ खर्गला इव पत्वरीर् अपाम् उग्रम् इवायनम् । पतन्तु पत्वरीर् इवोर्वरीः साधुना पथा ॥ अपाच्यौ ते तोतुद्येते तोदेनाश्वतराव् इव । प्र स्तोमम् उर्वरीणां शशयानाम् अस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत् कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ [प्स् 2.87]>
(कौश्स्_13,15[107].3) वासः कर्त्रे दद्यात्
(कौश्स्_13,15[107].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,16[108].1) अथ यत्र_एतद् अग्निनाग्निः संसृज्यते <भवतं नः समनसौ समोकसाव् [-]> इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,16[108].2) <भवतं नः समनसौ समोकसाव् अरेपसौ । मा हि;म्सिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतम् अद्य नः [च्f. व्स्म् 5.3 एत्च्.]> <अग्निनाग्निः संसृज्यसे कविर् बृहस्पतिर् युवा । हव्यवाङ् जुह्वास्यः ॥ [च्f. .र्व् 1.12.6 एत्च्.]> <त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे ॥ [च्f. .र्व् 8.43.14]> <पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जांपते पाहि चतसृभिर् वसो ॥ समीची माहनी पाताम् आयुष्मत्या ऋचो मा सत्सि । तनूपात् साम्नो वसुविदं लोकम् अनुसंचराणि ॥ [प्स् 20.52.4-5]>

(कौश्स्_13,16[108].3) रुक्मं कर्त्रे दद्यात्
(कौश्स्_13,16[108].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,17[109].1) अथ यत्र_एतद् अयमसूर् यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा
(कौश्स्_13,17[109].2) तस्या एव गोर् दुग्धे स्थालीपाकं श्रपयित्वा
(कौश्स्_13,17[109].3) प्राञ्चम् इध्मम् उपसमाधाय
(कौश्स्_13,17[109].4) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य
(कौश्स्_13,17[109].5) <एकैकयैषा सृष्ट्या सं बभूव [3.28.1]> इत्य् एतेन सूक्तेनाज्यं जुह्वन्
(कौश्स्_13,17[109].6) उदपात्रे संपातान् आनयति
(कौश्स्_13,17[109].7) उत्तमं संपातम् ओदने प्रत्यानयति
(कौश्स्_13,17[109].8) ततो गां च प्राशयति वत्सौ च_उदपात्राद् एनान् आचामयति च संप्रोक्षति च
(कौश्स्_13,17[109].9) तां तस्य_एव दद्यात्
(कौश्स्_13,17[109].10) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,18[110].1) अथ चेद् वडवा वा गर्दभी वा स्याद् एवम् एव प्राञ्चम् इध्मम् उपसमाधाय
(कौश्स्_13,18[110].2) एवं परिस्तीर्य
(कौश्स्_13,18[110].3) एवम् उपसाद्य
(कौश्स्_13,18[110].4) एतेन_एव सूक्तेनाज्यं जुह्वन्
(कौश्स्_13,18[110].5) उदपात्रे संपातान् आनयति
(कौश्स्_13,18[110].6) उदपात्राद् एनान् आचामयति च संप्रोक्षति च
(कौश्स्_13,18[110].7) तां तस्य_एव दद्यात्
(कौश्स्_13,18[110].8) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,19[111].1) अथ चेद्_मानुषी स्याद् एवम् एव प्राञ्चम् इध्मम् उपसमाधाय
(कौश्स्_13,19[111].2) एवं परिस्तीर्य
(कौश्स्_13,19[111].3) एवम् उपसाद्य
(कौश्स्_13,19[111].4) उपस्थे जातकौ_आधाय
(कौश्स्_13,19[111].5) एतेन_एव सूक्तेनाज्यं जुह्वन्
(कौश्स्_13,19[111].6) अमीषां मूर्ध्नि स मातुः पुत्रयोर् इत्य् अनुपूर्वं संपातान् आनयति
(कौश्स्_13,19[111].7) उदपात्र उत्तरान् संपातान्
(कौश्स्_13,19[111].8) उदपात्राद् एनान् आचामयति च संप्रोक्षति च
(कौश्स्_13,19[111].9) तां तस्य_एव दद्यात्
(कौश्स्_13,19[111].10) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,19[111].11) तस्या निष्क्रयो यथार्हं यथासंपद् वा
(कौश्स्_13,20[112].1) अथ यत्र_एतद् धेनवो लोहितं दुहते <यः पौरुषेयेण क्रविषा समङ्क्ते [8.3.15]> इत्य् एताभिश् चतसृभिर् जुहुयात्
(कौश्स्_13,20[112].2) वरां धेनुं कर्त्रे दद्यात्
(कौश्स्_13,20[112].3) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,21[113].1) अथ यत्र_एतद् अनड्वान् धेनुं धयति तत्र जुहुयात्
(कौश्स्_13,21[113].2) <अनड्वान् धेनुम् अधयद् इन्द्रो गो रूपम् आविशत् । स मे भूतिं च पुष्टिं च दीर्घम् आयुश् च धेहि नः ॥ इन्द्राय स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,21[113].3) <मा नो विदन् [1.19.1]> <नमो देववधेभ्यो [6.13.1]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्
(कौश्स्_13,21[113].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,22[114].1) अथ यत्र_एतद् धेनुर् धेनुं धयति तत्र जुहुयात्
(कौश्स्_13,22[114].2) <योगक्षेमं धेनुं वाजपत्नीम् इन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान् माम् अग्ने परि पाहि घोरात् प्र +णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [-, च्f. कौश्स् 128.2]>_इति हुत्वा

(कौश्स्_13,22[114].3) <दिव्यो गन्धर्वो [2.2.1]>_इति मातृनामभिर् जुहुयात्
(कौश्स्_13,22[114].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,23[115].1) अथ यत्र_एतद् गौर् वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनम् अवगन्धयति तत्र जुहुयात्
(कौश्स्_13,23[115].2) <पयो देवेषु पय ओषधीषु पय आशासु पयो ऽन्तरिक्षे । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ पयो यद् अप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ यन् मृगेषु पय आविष्टम् अस्ति यद् एजति पतति यत् पतत्रिषु [चोर्र्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. पततत्रिषु] । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ यानि पयांसि दिव्य् आर्पितानि यान्य् अन्तरिक्षे बहुधा बहूनि । तेषाम् ईशानं वशिनी नो अद्य प्र दत्ता द्यावापृथिवी अहृणीयमाना ॥ [प्स् 1.91]> इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,23[115].3) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,24[116].1) अथ यत्र_एतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात्
(कौश्स्_13,24[116].2) <भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा>
(कौश्स्_13,24[116].3) <यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा । यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा । यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा । य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा । यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा । यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा । य ऊर्ध्वायां दिश्य् अरुणपिपीलिकानां राजा तस्मै स्वाहा>
(कौश्स्_13,24[116].4) ताश् चेद् एतावता न शाम्येयुस् तत उत्तरम् अग्निम् उपसमाधाय
(कौश्स्_13,24[116].5) शरमयं बर्हिर् उभयतः परिछिन्नं प्रसव्यं परिस्तीर्य
(कौश्स्_13,24[116].6) विषावध्वस्तम् इङ्गिडम् आज्यं शाकपलाशेन_उत्पूतं बाधकेन स्रुवेण जुहोति
(कौश्स्_13,24[116].7) <उत् तिष्ठत निर् द्रवत न व इहास्त्व् इत्य् अञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भान् आण्डानि भेत्स्यति [प्स् 17.13.3]> <फड् ढताः पिपीलिकाः [च्f. कौश्स् 47.21]>_इति
(कौश्स्_13,24[116].8) <इन्द्रो वो यमो वो वरुणो वो ऽग्निर् वो वायुर् वः सूर्यो वश् चेन्द्रो वः प्रजापतिर् व ईशानो वः>_इति
(कौश्स्_13,25[117].1) अथ यत्र_एतत्_नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात्
(कौश्स्_13,25[117].2) <या मत्यैः सरथं यान्ति घोरा मृत्योर् दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुर् उत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुर् उत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान् मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर् वायवे स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,25[117].3) <वात आ वातु भेषजं [प्स् 19.46.7 एत्च्.]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,25[117].4) <वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यद् अदो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे [प्स् 19.46.7-9, वैत्स् 38.1 एत्च्.]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,25[117].5) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,26[118].1) अथ यत्र_एतत्_मधुमक्षिका अनाचाररूपा दृश्यन्ते <मधु वाता [एद्. वात] ऋतायते [प्स् 19.45.5, च्f. कौश्स् 90.25-91.1]> इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,26[118].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,27[119].1) अथ यत्र_एतद् अनाज्ञातम् अद्भुतं दृश्यते तत्र जुहुयात्
(कौश्स्_13,27[119].2) <यद् अज्ञातम् अनाम्नातम् अर्थस्य कर्मणो मिथः । अग्ने त्वं नस् तस्मात् पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा [-]>
(कौश्स्_13,27[119].3) <वायो सूर्य चन्द्र>_इति च
(कौश्स्_13,27[119].4) <पुरुषसंमितो ऽर्थः कर्मार्थः पुरुषसंमितः । वायुर् मा तस्मात् पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा [-]>
(कौश्स्_13,27[119].5) <अग्निर् मा सूर्यो मा चन्द्रो मा>_इति च
(कौश्स्_13,28[120].1) अथ यत्र_एतद् ग्रामे वावसाने वाग्निशरणे समज्यायां वावदीर्येत चतस्रो धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी
(कौश्स्_13,28[120].2) तासाम् एतद् द्वादशरात्रं संदुग्धं नवनीतं निदधाति
(कौश्स्_13,28[120].3) द्वादश्याः प्रातर् यत्र_एवादो_अवदीर्णं भवति तत उत्तरम् अग्निम् उपसमाधाय
(कौश्स्_13,28[120].4) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय
(कौश्स्_13,28[120].5) <अग्निर् भूम्याम् [12.1.19]> इति तिसृभिर् अभिमन्त्र्यालभ्य
(कौश्स्_13,28[120].6) अथ जुहुयात्
(कौश्स्_13,28[120].7) तथा दक्षिणार्धे
(कौश्स्_13,28[120].8) तथा पश्चार्धे
(कौश्स्_13,28[120].9) उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर् जुहुयात्
(कौश्स्_13,28[120].10) अवदीर्णे संपातान् आनीय संस्थाप्य होमान्
(कौश्स्_13,28[120].11) अवदीर्णं शान्त्युदकेन संप्रोक्ष्य
(कौश्स्_13,28[120].12) ता एव ब्राह्मणो दद्यात्
(कौश्स्_13,28[120].13) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(कौश्स्_13,28[120].14) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,29[121].1) अथ यत्र_एतद् अनुदक उदकोन्मीलो भवति <हिरण्यवर्णाः [1.33.1]>_इत्य् अपां सूक्तैर् जुहुयात्

(कौश्स्_13,29[121].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,30[122].1) अथ यत्र_एतत् तिलाः समतैला भवन्ति तत्र जुहुयात्
(कौश्स्_13,30[122].2) <अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा>
(कौश्स्_13,30[122].3) स यं द्विष्यात् तस्याशायां <लोहितं ते प्र सिञ्चामि>_इति दक्षिणामुखः प्रसिञ्चेत्
(कौश्स्_13,31[123].1) अथ यत्र_एतद् वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुर् <ये अग्नयो [3.21.1]> <नमो देववधेभ्यो [6.13.1]>_इत्य् एताभ्यां सूक्ताभ्यां जुहुयात्
(कौश्स्_13,31[123].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,32[124].1) अथ यत्र_एतत् कुमारस्य कुमार्या वा द्वौ_आवर्तौ मूर्धन्यौ भवतः सव्यावृद् एको देशावर्तस् तत्र जुहुयात्
(कौश्स्_13,32[124].2) <त्वष्टा रूपाणि बहुधा विकुर्वञ् जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्व् अविपरीतम् अस्मान् अनुपूर्वं कल्पयताम् इहैव ॥ त्वष्ट्रे स्वाहा [-]>
(कौश्स्_13,32[124].3) <अन्तर् गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्व् अविपरीतम् अस्मान् अनुपूर्वं कल्पयताम् इहैव ॥ त्वष्ट्रे स्वाहा [-]>
(कौश्स्_13,32[124].4) <यद्य् उन्मृष्टं यदि वाबिमृष्टं तिरश्चीन् अर्थ उत मर्मृजन्ते । शिवं तद् देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा [-]>
(कौश्स्_13,32[124].5) <सव्यावृत्तान्य् उत या विश्वरूपा प्रत्यग्वृत्तान्य् उत या ते परुषः । तान्य् अस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,32[124].6) <त्वष्टा मे दैव्यं वचः [6.4.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,32[124].7) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,33[125].1) अथ यत्र_एतद् यूपो विरोहति तत्र जुहुयात्
(कौश्स्_13,33[125].2) <यूपो विरोहञ् छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतो ऽथर्वभिः शान्तः सुकृताम् एतु लोकान् ॥ यूपो ह्य् अरुक्षद् द्विषतां वधाय न मे यज्ञो यजमानश् च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस् तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पते स्वाहा [-, च्f. कात्य्;स्स् 2.2.8]]>_इति हुत्वा
(कौश्स्_13,33[125].3) <वनस्पतिः सह देवैर् न आगन्न् [12.3.15]> इति जुहुयात्
(कौश्स्_13,33[125].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,34[126].1) अथ यत्र_एतद् दिवोल्का पतति तद् अयोगक्षेमाशङ्कं भवति_अवृष्ट्याशङ्कं वा
(कौश्स्_13,34[126].2) तत्र राजा भूमिपतिर् विद्वांसं ब्रह्माणं वृणीयात्
(कौश्स्_13,34[126].3) स वृतो_अरण्यस्यार्धम् अभिव्रज्य तत्र द्वादशरात्रम् अनुशुष्येत्
(कौश्स्_13,34[126].4) स खलु पूर्वं नवरात्रम् आरण्यशाकमूलफलभक्षश् चाथ_उत्तरं त्रिरात्रं नान्यद् उदकात्
(कौश्स्_13,34[126].5) श्वो भूते सप्त धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी नीला पाटला सुरूपा बहुरूपा सप्तमी
(कौश्स्_13,34[126].6) तासाम् एतद् द्वादशरात्रं संदुग्धं नवनीतं निदधाति
(कौश्स्_13,34[126].7) द्वादश्याः प्रातर् यत्र_एवासौ पतिता भवति तत उत्तरम् अग्निम् उपसमाधाय
(कौश्स्_13,34[126].8) परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिः
(कौश्स्_13,34[126].9) अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश् च सूक्तैर् <याम् आहुस् तारकैषा विकेशीति [5.17.4]>_एतेन सूक्तेनाज्यं जुह्वन्
(कौश्स्_13,34[126].10) अवपतिते संपातान् आनीय संस्थाप्य होमान्
(कौश्स्_13,34[126].11) अवपतितं शान्त्युदकेन संप्रोक्ष्य
(कौश्स्_13,34[126].12) ता एव ब्राह्मणो दद्यात्
(कौश्स्_13,34[126].13) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा
(कौश्स्_13,34[126].14) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,35[127].1) अथ यत्र_एतद् धूमकेतुः सप्तर्षीन् उपधूपयति तद् अयोगक्षेमाशङ्कम् इत्य् उक्तम्
(कौश्स्_13,35[127].2) पञ्च पशवस् तायन्ते वारुणः कृष्णो गौर् वाजो वाविर् वा हरिर् वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश् च क्षीरौदनो_अपां नप्त्र उद्रः
(कौश्स्_13,35[127].3) <उतेयं भूमिर् [4.16.3]> इति त्रिर् वरुणम् अभिष्टूय
(कौश्स्_13,35[127].4) <अप्सु ते राजन्न् [7.83.1]> इति चतसृभिर् वारुणस्य जुहुयात्
(कौश्स्_13,35[127].5) <वायव् आ रुन्धि नो मृगान् अस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठम् आ कृधि वातो हि रशनाकृतः [प्स् 20.51.4]>_इति वायव्यस्य
(कौश्स्_13,35[127].6) <आशानाम् [1.31.1]> इति दिश्यस्य
(कौश्स्_13,35[127].7) <प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । मरुद्भिर् अग्न आ गहि [प्स् 6.17.1, .र्व् 1.19.1]>_इति मारुतस्य
(कौश्स्_13,35[127].8) <अपाम् अग्निस् [4.15.10]>_इत्य् आग्नेयस्य
(कौश्स्_13,35[127].9) <प्रजापतिः सलिलाद् [4.15.11]>_इति प्राजापत्यस्य

(कौश्स्_13,35[127].10) अपां सूक्तैर् हिरण्यशकलेन सह_उद्रम् अप्सु प्रवेशयेत्
(कौश्स्_13,35[127].11) प्र हैव वर्षति
(कौश्स्_13,35[127].12) सर्वस्वं तत्र दक्षिणा
(कौश्स्_13,35[127].13) तस्य निष्क्रयो यथार्हं यथासंपद् वा
(कौश्स्_13,36[128].1) अथ यत्र_एतत्_नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात्
(कौश्स्_13,36[128].2) <यन् नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान् माम् अग्ने परि पाहि घोरात् प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [-, च्f. कौश्स् 114.2]>_इति हुत्वा
(कौश्स्_13,36[128].3) <सोमो राजा सविता च राजा [प्स् 19.33.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,36[128].4) <सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर् नो बृहस्पतिर् भगः सोमेन नः सह । विश्वे देवा उर्व् अन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ उताविद्वान् निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिम् इछत [प्स् 19.33.1-3]>
(कौश्स्_13,36[128].5) रुक्मं कर्त्रे दद्यात्
(कौश्स्_13,36[128].6) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,37[129].1) अथ यत्र_एतत्_मांसमुखो निपतति तत्र जुहुयात्
(कौश्स्_13,37[129].2) <घोरो वज्रो देवसृष्टो न आगन् यद् वा गृहान् घोरम् उता जगाम । तन् निर् जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,37[129].3) <भवाशर्वौ मृडतं माभि यातं [11.2.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,37[129].4) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,38[130].1) अथ यत्र_एतद् अनग्नौ_अवभासो भवति तत्र जुहुयात्
(कौश्स्_13,38[130].2) <या ते ऽवदीप्तिर् अवरूपा जातवेदो ऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,38[130].3) <अग्नी रक्षांसि सेधति [8.3.26]>_इति प्रायश्चित्तिः
(कौश्स्_13,39[131].1) अथ यत्र_एतद् अग्निः श्वसतीव तत्र जुहुयात्
(कौश्स्_13,39[131].2) <श्वेता कृष्णा रोहिणी जातवेदो यास् ते तनूस् तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर् दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,39[131].3) <अग्नी रक्षांसि सेधति [8.3.26]>_इति प्रायश्चित्तिः
(कौश्स्_13,40[132].1) अथ यत्र_एतत् सर्पिर् वा तैलं वा मधु वा विष्यन्दति <यद् यामं चक्रुर् निखनन्तो [6.116.1]>_इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,40[132].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,41[133].1) अथ यत्र_एतद् ग्राम्यो_अग्निः शालां दहति_<अपमित्यम् अप्रतीत्तं [6.117-119]>_इत्य् एतैस् त्रिभिः सूक्तैर् मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा
(कौश्स्_13,41[133].2) <ममोभा मित्रावरुणा [प्स् 1.40]> <मह्यम् आपो मधुमद् एरयन्तां [6.61.1]>_इत्य् एताभ्यां सूक्ताभ्यां जुहुयात्
(कौश्स्_13,41[133].3) <ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश् च सोमश् च ममैव मरुतो भवन् । सरस्वांश् च भगश् च विश्वे देवा वशे मम ॥ ममोभे [एद्. मिस्प्रिन्त् ममोभा] द्यावापृथिवी अन्तरिक्षं स्वर् मम । ममेमाः सर्वा ओषधीर् आपः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश् चावयश् च ममैव पुरुषा भवन् । ममेदं सर्वम् आत्मन्वद् एजत् प्राणद् वशे मम ॥ [प्स् 1.40]>_इति
(कौश्स्_13,41[133].4) अरणी प्रताप्य स्थण्डिलं परिमृज्य
(कौश्स्_13,41[133].5) अथाग्निं जनयेत्
(कौश्स्_13,41[133].6) <इत एव प्रथमं जज्ञे अग्निर् आभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्न् [-]> इति जनित्वा
(कौश्स्_13,41[133].7) <भवतं नः समनसौ समोकसाव् [-, च्f. कौश्स् 108.2]> इत्य् एतेन सूक्तेन जुहुयात्
(कौश्स्_13,41[133].8) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,42[134].1) अथ चेद् आगन्तुर् दहति_एवम् एव कुर्यात्
(कौश्स्_13,42[134].2) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,43[135].1) अथ यत्र_एतद् वंश स्फोटति कपाले_अङ्गारा भवन्ति_उदपात्रं बर्हिर् आज्यं तद् आदाय
(कौश्स्_13,43[135].2) शालायाः पृष्ठम् उपसर्पति
(कौश्स्_13,43[135].3) तत्राङ्गारान् वा कपालं वा_उपनिदधाति_आ संतपनात्
(कौश्स्_13,43[135].4) प्राञ्चम् इध्मम् उपसमाधाय
(कौश्स्_13,43[135].5) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य
(कौश्स्_13,43[135].6) परिचरणेनाज्यं परिचर्य
(कौश्स्_13,43[135].7) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च
(कौश्स्_13,43[135].8) अथ जुहोति

(कौश्स्_13,43[135].9) <असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशम् अधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समंदधानस् ते दूतः स्ववंशम् अधि तिष्ठति ॥ बहवो ऽस्य पाशा वितताः पृथिव्याम् असंख्येया अपर्यन्ता अनन्ताः । याभिर् वंशान् अभिनिदधाति प्राणिनां यान् कांश् चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिर् आङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्र ददुर् विश्वम् एजत् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य ते ऽन्नं न क्षीयते भूय एवोपजातये । यस्मै भूतं च भव्यं च सर्वम् एतत् प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् इन्द्राय स्वाहा ॥ मुखं देवानाम् इह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् अग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्न् एति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्न् एति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यम् ऋचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् आदित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश् चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर् यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् ओषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ ओषधयो वरुणराज्ञीर् यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् ओषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश् चैव पशूंश् चाभि रक्ष वनस्पते ॥ यो वनस्पतीनाम् उपतापो बभूव यद् वा गृहान् घोरम् उता जगाम तन् निर् जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनाम् उपतापो न आगद् यद् वा यज्ञं नो ऽद्भुतम् आ जगाम । सर्वं तद् अग्ने हुतम् अस्तु भागशः शिवान् वयम् उत् तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा [-]>_इति हुत्वा
(कौश्स्_13,43[135].10) <त्वष्टा मे दैव्यं वचः [6.4.1]>_इत्य् अत्र_उदपात्रं निनयति
(कौश्स्_13,43[135].11) कपाले_अग्निं चादाय_उपसर्पति
(कौश्स्_13,43[135].12) सा तत्र प्रायश्चित्तिः
(कौश्स्_13,44[136].1) अथ यत्र_एतत् कुम्भोदधानः सक्तुधानी वा_उखा वानिङ्गिता विकसति तत्र जुहुयात्
(कौश्स्_13,44[136].2) <भूमिर् भूमिम् अगान् [एद्. एम्.: अवागान्, बुत् नोते अव्परिश् 40.6.5 अन्द् केशव] माता मातरम् अप्य् अगात् । ऋध्यास्म पुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् [-]> इति
(कौश्स्_13,44[136].3) सदसि सन् मे भूयाद् इति सक्तून् आवपते
(कौश्स्_13,44[136].4) अथ चेद् ओदनस्य_<अन्नम् अस्य् अन्नं मे देह्य् अन्नं मा मा हिंसीर्> इति त्रिः प्राश्य
(कौश्स्_13,44[136].5) अथ यथाकामं प्राश्नीयात्
(कौश्स्_13,44[136].6) अथ चेद् उदधानः स्यात् <समुद्रं वः प्र हिणोमि [10.5.23-24]>_इत्य् एताभ्याम् अभिमन्त्र्य
(कौश्स्_13,44[136].7) अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा
(कौश्स्_13,44[136].8) तत्र <हिरण्यवर्णाः [1.33.1]>_इत्य् उदकम् आसेचयेत्
(कौश्स्_13,44[136].9) स खलु_एतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनानि_अनुयोजयेत्_मातृनामानि च
(कौश्स्_13,44[136].10) सर्वत्र वरां धेनुं कर्त्रे दद्यात्
(कौश्स्_13,44[136].11) सर्वत्र कंसवसनं गौर् दक्षिणा
(कौश्स्_13,44[136].12) ब्राह्मणान् भक्तेन_उपेप्सन्ति
(कौश्स्_13,44[136].13) यथोद्दिष्टं चादिष्टासु_इति प्रायश्चित्तिः प्रायश्चित्तिः
(कौश्स् 13 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे त्रयोदशो ऽध्यायः समाप्तः
(कौश्स्_14,1[137].1) यथावितानं यज्ञवास्तु_अध्यवसेत्
(कौश्स्_14,1[137].2) वेदिर् यज्ञस्याग्नेर् उत्तरवेदिः
(कौश्स्_14,1[137].3) उभे प्रागायते किंचिद्प्रथीयस्यौ पश्चाद् उद्यततरे
(कौश्स्_14,1[137].4) अपृथुसंमितां वेदिं विदध्यात्
(कौश्स्_14,1[137].5) षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम्
(कौश्स्_14,1[137].6) त्रीन् मध्ये अर्धचतुर्थान् अग्रतः
(कौश्स्_14,1[137].7) त्रयाणां पुरस्ताद् उत्तरवेदिं विदध्यात्
(कौश्स्_14,1[137].8) द्विःशमीं प्रागायताम् ऋज्वीम् अध्यर्धशमीं श्रोण्याम्
(कौश्स्_14,1[137].9) <ग्रीष्मस् ते भूमे [12.1.36]>_इत्य् उपस्थाय
(कौश्स्_14,1[137].10) <वि मिमीष्व पयस्वतीं [13.1.27]>_इति मिमानम् अनुमन्त्रयते
(कौश्स्_14,1[137].11) <बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्व् अन्तरहिंस्रा णः पृथिवी देव्य् अस्तु [कात्य्;स्स् 2.2.12]>_इति परिगृह्णाति
(कौश्स्_14,1[137].12) <यत् ते भूमे [12.1.35]>_इति विखनति
(कौश्स्_14,1[137].13) <यत् ते ऊनं [12.1.61च्]>_इति संवपति
(कौश्स्_14,1[137].14) <त्वम् अस्य् आवपनी जनानाम् [12.1.61]> इति ततह् पांसून् अन्यतोदाहार्य [-उदाहार्य]
(कौश्स्_14,1[137].15) <बृहस्पते परि गृहाण वेदिं [कात्य्;स्स् 2.2.12, सेए कौश्स् 137.11]>_इति उत्तरवेदिम् ओप्यमानाण् परिगृह्णाति
(कौश्स्_14,1[137].16) <असंबाधं मध्यतो [एद्.: बध्यतो] मानवानां [12.1.2]>_इति प्रथयति
(कौश्स्_14,1[137].17) <यस्याश् चतस्रः प्रदिशः पृथिव्या [12.1.4]> इति चतुरस्रां करोति
(कौश्स्_14,1[137].18) <देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आ ददे [च्f. 19.51.2 एत्च्.]>_इति लेखनम् आदाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति
(कौश्स्_14,1[137].19) <इन्द्रः सीतां नि गृह्णातु [3.17.4]>_इति दक्षिणत आरभ्य_उत्तर आलिखति
(कौश्स्_14,1[137].20) प्राचीम् आवृत्य दक्षिणतः प्राचीम्
(कौश्स्_14,1[137].21) अपरास् तिस्रो मध्ये
(कौश्स्_14,1[137].22) तस्यां व्रीहियवौ_ओप्य

(कौश्स्_14,1[137].23) <वर्षेण भूमिः पृथिवी वृतावृता [12.1.52च्]>_इत्य् अद्भिः संप्रोक्ष्य
(कौश्स्_14,1[137].24) <यस्याम् अन्नं व्रीहियवौ [12.1.42]>_इति भूमिं नमस्कृत्य
(कौश्स्_14,1[137].25) अथाग्निं प्रणयेत् । <त्वाम् अग्ने भृगवो नयन्ताम् अङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थाम् अनु ते दिशाम [-]>_इति
(कौश्स्_14,1[137].26) भद्रश्रेयःस्वस्त्या वा
(कौश्स्_14,1[137].27) <अग्ने प्रेहि [4.14.5]>_इति वा
(कौश्स्_14,1[137].28) <विश्वंभरा वसुधानी प्रतिष्ठा [12.1.6]>_इति लक्षणे प्रतिष्ठाप्य
(कौश्स्_14,1[137].29) अथ_इध्मम् उपसमादधाति
(कौश्स्_14,1[137].30) <अग्निर् भूम्याम् ओषधीष्व् [12.1.19]> <अग्निर् दिव आ तपत्य् [12.1.20]> <अग्निवासाः पृथिव्य् असितज्ञूर् [चोर्र्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्.: असितजूर्] [12.1.21]> <एतम् इध्मं समाहितं जुषाणो [10.6.35]>_<अस्मै क्षत्राणि धारयन्तम् अग्ने [7.78.2]>_इति पञ्चभि स्तरणम्
(कौश्स्_14,1[137].31) अत ऊर्ध्वं बर्हिषः
(कौश्स्_14,1[137].32) <त्वं भूमिम् अत्य् एष्य् ओजसा [प्स् 11.13.3, सेए कौश्स् 2.1]>_इति दर्भान् संप्रोक्ष्य
(कौश्स्_14,1[137].33) <ऋषीणां प्रस्तरो ऽसि [16.2.6]>_इति दक्षिणतो_अग्नेर् ब्रह्मासनं निदधाति
(कौश्स्_14,1[137].34) पुरस्ताद् अग्नेर् उदक् संस्तृणाति
(कौश्स्_14,1[137].35) तथा प्रत्यक्
(कौश्स्_14,1[137].36) प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या [-उत्तरस्या] वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य
(कौश्स्_14,1[137].37) <अहे दैधिषव्योद् अतस् तिष्ठान्य् अस्य सदने सीद यो ऽस्मत् पाकतरः [त्स् 3.2.4.4, वैत्स् 1.20]>_इति ब्रह्मासनम् अन्वीक्षते
(कौश्स्_14,1[137].38) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सो ऽस्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः [गोभ्ग्स् 1.6.14, ;स्ब्म् 1.5.1.23 एत्च्.]>_इति दक्षिणा तृणं निरस्यति (च्f. कौश्स् 3.5ff.)
(कौश्स्_14,1[137].39) तद् अन्वालभ्य जपति_<इदम् अहम् अर्वाग्वसोः सदने सीदामि_[ग्ब् 2.1.1, ;स्ब्म् 1.5.1.24]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[प्ब् 1.2.2 एत्च्.]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषद् एव बर्हिः स्वासस्थं त्वाध्यासदेयम् ऊर्णम्रदम् अनभिशोकम् [च्f. अअश्व्;स्स् 1.4.7]>
(कौश्स्_14,1[137].40) <विमृग्वरीं [12.1.29]>_इत्य् उपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्यते [थुस् ब्लोओम्fइएल्द्] [अअश्व्;स्स् 1.12.9]> <बृहस्पते यज्ञं गोपाय [अअश्व्;स्स् 1.12.9, त्ब् 3.7.6.3]> <यद् उद् उद्वत उन् निवतः शकेयम् [त्स् 3.2.4.4]>
(कौश्स्_14,1[137].41) <पातं मा द्यावापृथिवी अद्याह्न [एम्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. अघान् न] [-]> इति द्यावापृथिव्यौ समीक्षते
(कौश्स्_14,1[137].42) <सविता प्रसवानाम् [5.24.1]> इति कर्मणिकर्मणि_अभितो_अभ्यातानैर् आज्यं जुहुयात्
(कौश्स्_14,1[137].43) व्याख्यातं सर्वपाकयज्ञियं तन्त्रम्
(कौश्स्_14,2[138].1) अष्टकायाम् अष्टकाहोमाञ् जुहुयात्
(कौश्स्_14,2[138].2) तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षिरौदनस् तिलौदनो यथोपपादिपशुः
(कौश्स्_14,2[138].3) सर्वेषां हविषां समुद्धृत्य
(कौश्स्_14,2[138].4) दर्व्या जुहुयात् <प्रथमा ह व्य् उवास सा [3.10.1]>_इति पञ्चभिः
(कौश्स्_14,2[138].5) <आयम् आगन् संवत्सर [3.10.8]>_इति चतसृभिर् विज्ञायते
(कौश्स्_14,2[138].6) <ऋतुभ्यस् त्वा [3.10.10]>_इति विग्राहम् अष्टौ
(कौश्स्_14,2[138].7) <इन्द्रपुत्रे [3.10.13]> इत्य् अष्टादशीम्
(कौश्स्_14,2[138].8) <अहोरात्राभ्यां [6.128.3]>_इत्य् ऊनविंशीम्
(कौश्स्_14,2[138].9) पशौ_उपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य
(कौश्स्_14,2[138].10) <इडायास् पदं [3.10.6]>_इति द्वाभ्यां विंशीम्
(कौश्स्_14,2[138].11) अनुपद्यमान आज्यं जुहुयात्
(कौश्स्_14,2[138].12) हविषां दर्विं पूरयित्वा <पूर्णा दर्वे [3.10.7च्]>_इति सदर्वीम् एकविंशीम्
(कौश्स्_14,2[138].13) एकविंशतिसंस्थो यज्ञो विज्ञायते [च्f. ग्ब् 1.1.12]
(कौश्स्_14,2[138].14) सर्वा एव यज्ञतनूर् अवरुन्द्धे सर्वा एवास्य यज्ञतनूः पितरम् उपजीवन्ति य एवम् अष्टकाम् उपैति
(कौश्स्_14,2[138].15) न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेत_इत्य् एके
(कौश्स्_14,2[138].16) अष्टकायां क्रियेत_इतीषुफालिमाठरौ
(कौश्स्_14,3[139].1) अभिजिति शिष्यान् उपनीय श्वो भूते संभारान् संभरति
(कौश्स्_14,3[139].2) दधिसक्तून् पालाशं दण्डम् अहते वसने शुद्धम् आज्यं शान्ता ओषधीर् नवम् उदकुम्भम्
(कौश्स्_14,3[139].3) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चम् उपसमाधाय

(कौश्स्_14,3[139].4) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य
(कौश्स्_14,3[139].5) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च
(कौश्स्_14,3[139].6) पश्चाद् अग्नेर् दधिसक्तूञ् जुहोति_अग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय
(कौश्स्_14,3[139].7) ततो_अभयैर् अपराजितैर् गणकर्मभिर् विश्वकर्मभिर् आयुष्यैः स्वस्त्ययनैर् आज्यं जुहुयात्
(कौश्स्_14,3[139].8) <मा नो देवा अहिर् वधीत् [6.56.1]>_<अरसस्य शर्कोटस्य [7.56.5]>_<इन्द्रस्य प्रथमो रथो [10.4.1]> <यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा [12.1.46]> <नमस् ते अस्तु विद्युते [1.13.1]>_<आरे ऽसाव् अमद् अस्तु [1.26.1]> <यस् ते पृथु स्तनयित्नुर् [7.11.1]> इति संस्थाप्य होमान्
(कौश्स्_14,3[139].9) प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्य_उदकम् उपसमारभन्ते
(कौश्स्_14,3[139].10) <अव्यचसश् च [19.68.1]>_इति जपित्वा सावित्रीं <ब्रह्म जज्ञानं [4.1.1]>_इत्य् एकां त्रिषप्तीयं च पच्छो वाचयेत्
(कौश्स्_14,3[139].11) शेषम् अनुवाकस्य जपन्ति
(कौश्स्_14,3[139].12) योयो भोगः कर्तव्यो भवति तंतं कुर्वते
(कौश्स्_14,3[139].13) स खलु_एतं पक्षम् अपक्षीयमाणः पक्षम् अधीयान उपश्राम्येता दर्शात्
(कौश्स्_14,3[139].14) दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसान् उपसादयति
(कौश्स्_14,3[139].15) <विश्वे देवा [1.30.1]> <अहं रुद्रेभिर् [4.30.1]>_<सिंहे व्याघ्रे [6.38.1]> <यशो हविर् [6.39.1]> <यशसं मेन्द्रो [6.58.1]> <गिराव् अरगराटेषु (एद्.: अरागराटेषु) [6.69.1]> <यथा सोमः प्रातःसवने [9.1.11]> <यच् च वर्चो अक्षेषु [14.1.35]> <येन महानघ्न्या जघनम् [14.1.36]>_स्वाहा_इत्य् अग्नौ हुत्वा
(कौश्स्_14,3[139].16) रसेषु संपातान् आनीय संस्थाप्य होमान्
(कौश्स्_14,3[139].17) तत एतान् प्राशयति रसान् मधु घृतान्_शिष्यान्
(कौश्स्_14,3[139].18) योयो भोगः कर्तव्यो भवति तटं कुर्वते
(कौश्स्_14,3[139].19) नान्यत आगतान्_शिष्यान् परिगृह्णीयात् परसंदीक्षितत्वात्
(कौश्स्_14,3[139].20) त्रिरात्रोनान्_चतुरो मासान्_शिष्येभ्यः प्रब्रूयाद् अर्धपञ्चमान् वा
(कौश्स्_14,3[139].21) पादं पूर्वरात्रे_अधीयानः पादम् अपररात्रे मध्यरात्रे स्वपन्
(कौश्स्_14,3[139].22) अभुक्त्वा पूर्वरात्रे_अधीयान इत्य् एके
(कौश्स्_14,3[139].23) यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः
(कौश्स्_14,3[139].24) पौषस्यापरपक्षे त्रिरात्रं नाधीयीत
(कौश्स्_14,3[139].25) तृतीयस्याः प्रातः समासं संदिश्य <यस्मात् कोशाद् [19.72.1, प्स् 19.35.3]> इत्य् अन्तः
(कौश्स्_14,3[139].26) <यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् । अधीतम् [सिच्!] इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह [19.72.1 (बुत् नोते सकलपाठ) = प्स् 19.35.3]>_इति
(कौश्स्_14,3[139].27) योयो भोगः कर्तव्यो भवति तंतं कुर्वते
(कौश्स्_14,3[139].28) ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते
(कौश्स्_14,4[140].1) अथ राज्ञाम् इन्द्रमहस्य_उपाचारकल्पं व्याख्यास्यामः
(कौश्स्_14,4[140].2) प्रोष्ठपदे शुक्लपक्षे_अश्वयुजे वाष्टम्यां प्रवेशः
(कौश्स्_14,4[140].3) श्रवणेन_उत्थापनम्
(कौश्स्_14,4[140].4) संभृतेषु संभारेषु ब्रह्मा राजा च_उभौ स्नातौ_अहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः
(कौश्स्_14,4[140].5) श्वो भूते शं नो देव्याः पादैर् अर्धर्चाभ्याम् ऋचा षट्कृत्वा_उदकम् आचामतः
(कौश्स्_14,4[140].6) <अर्वाञ्चम् इन्द्रम् [5.3.11]>_<त्रातारम् [7.86.1]> <इन्द्रः सुत्रामा [7.91.1]>_इत्य् आज्यं हुत्वा
(कौश्स्_14,4[140].7) अथ_इन्द्रम् उत्थापयन्ति
(कौश्स्_14,4[140].8) <आ त्वाहार्षम् [6.87.1]>_<ध्रुवा द्यौर् [6.88.1]> <विशस् त्वा सर्वा वाञ्छन्तु [6.87.1च्]>_इति सर्वतो_अप्रमत्ता धारयेरन्
(कौश्स्_14,4[140].9) अद्भुतं हि विमानोत्थितम् उपतिष्ठन्ते
(कौश्स्_14,4[140].10) <अभिभूर् यज्ञो [6.97.1]>_इत्य् एतैस् त्रिभिः सूक्तैर् अन्वारब्धे राजनि पूर्णहोमं जुहुयात्
(कौश्स्_14,4[140].11) अथ पशूनाम् उपाचारम्
(कौश्स्_14,4[140].12) इन्द्रदेवताः स्युः
(कौश्स्_14,4[140].13) ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः
(कौश्स्_14,4[140].14) इन्द्रं च_उपसद्य यजेरन्_त्रिरात्रं पञ्चरात्रं वा
(कौश्स्_14,4[140].15) त्रिर् अयनम् अह्नाम् उपतिष्ठन्ते हविषा च यजन्ते

(कौश्स्_14,4[140].16) आवृत <इन्द्रम् अहं [3.15.1]>_इति
(कौश्स्_14,4[140].17) <इन्द्र क्षत्रम् [7.84.2]> इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः
(कौश्स्_14,4[140].18) न संस्थितहोमाञ् जुहुयाद् इत्य् आहुर् आचार्याः
(कौश्स्_14,4[140].19) इन्द्रस्यावभृथाद् इन्द्रम् अवभृथाय व्रजन्ति
(कौश्स्_14,4[140].20) अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति
(कौश्स्_14,4[140].21) ब्राह्मणान् भक्तेन_उपेप्सन्ति
(कौश्स्_14,4[140].22) श्वःश्वो_अस्य राष्ट्रं ज्यायो भवति_एको_अस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवण् वेद यश् च_एवं विद्वान् इन्द्रमहेण चरति
(कौश्स्_14,5[141].1) अथ वेदस्याध्ययनविधिं वक्ष्यामः
(कौश्स्_14,5[141].2) श्रावण्यां प्रौष्ठपद्यां वा_उपाकृत्यार्धपञ्चमान् मासान् अधीयीरन्
(कौश्स्_14,5[141].3) एवं छन्दांसि
(कौश्स्_14,5[141].4) लोम्नां चानिवर्तनम्
(कौश्स्_14,5[141].5) <अर्धमासं चोपाकृत्य क्षपेरंस् त्र्यहम् उत्सृज्य । आरम्भः श्रावण्याम् उक्तः पौष्याम् उत्सर्ग उच्यते [-]>
(कौश्स्_14,5[141].6) अथानध्यायान् वक्ष्यामः
(कौश्स्_14,5[141].7) ब्रह्मज्येषु निवर्तते
(कौश्स्_14,5[141].8) श्राद्धे
(कौश्स्_14,5[141].9) सूतकोत्थानछर्दनेषु त्रिषु चरणम्
(कौश्स्_14,5[141].10) आचार्यास्तमिते वा येषां च मानुषी योनिः
(कौश्स्_14,5[141].11) यथाश्राद्धं तथा_एव तेषु
(कौश्स्_14,5[141].12) सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः
(कौश्स्_14,5[141].13) प्राणि चाप्राणि च
(कौश्स्_14,5[141].14) दन्तधावने
(कौश्स्_14,5[141].15) क्षुरसंस्पर्शे
(कौश्स्_14,5[141].16) प्रादुष्कृतेषु_अग्निषु
(कौश्स्_14,5[141].17) विद्युतार्धरात्रे स्तनिते
(कौश्स्_14,5[141].18) सप्तकृत्वो वर्षेण विरत आ प्रातराशम्
(कौश्स्_14,5[141].19) वृष्टे
(कौश्स्_14,5[141].20) निर्घाते
(कौश्स्_14,5[141].21) भूमिचलने
(कौश्स्_14,5[141].22) ज्योतिषा_उपसर्जन ऋतौ_अपि_आ कालम्
(कौश्स्_14,5[141].23) विषमे न प्रवृत्तिः
(कौश्स्_14,5[141].24) अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रो_अष्टकाः
(कौश्स्_14,5[141].25) अमावास्यायां च
(कौश्स्_14,5[141].26) त्रीणि चानध्यानि
(कौश्स्_14,5[141].27) <जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात् सर्वेषु च स्वयोनिषु [-]>
(कौश्स्_14,5[141].28) सूतके तु_एको नाधीयीत त्रिरात्रम् उपाध्यायं वर्जयेत्
(कौश्स्_14,5[141].29) आचार्यपुत्रभार्याश् च
(कौश्स्_14,5[141].30) अथ शिष्यं सहाध्यायिनम् अप्रधानगुरुं च_उपसन्नम् अहोरात्रं वर्जयेत्
(कौश्स्_14,5[141].31) तथा सब्रह्मचारिणं राजानं च
(कौश्स्_14,5[141].32) अपर्तुदैवम् आ कालम्
(कौश्स्_14,5[141].33) <अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच् चान्यद् दैवम् अद्भुतं सर्वं निर्घातवद् भवेत् [-]>

(कौश्स्_14,5[141].34) <ऋताव् अध्यायश् छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋताव् ऊर्ध्वं प्रातराशाद् यस् तु कश् चिद् अनध्यायः । संध्यां प्राप्नोति पश्चिमाम् [-]>
(कौश्स्_14,5[141].35) सर्वेण प्रदोषो लुप्यते
(कौश्स्_14,5[141].36) निशि निगदायां च विद्युति शिष्टं नाधीयीत
(कौश्स्_14,5[141].37) <अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत् कालं भुक्त्वा प्रदोष [चोर्र्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. पदोष] उभे संध्ये [-]>
(कौश्स्_14,5[141].38) <अप्सु श्मशाने शय्यायाम् अभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते [-]>
(कौश्स्_14,5[141].39) <दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च [-]>
(कौश्स्_14,5[141].40) <अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः [-]>
(कौश्स्_14,5[141].41) <विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्युते [-]>
(कौश्स्_14,5[141].42) पौषी प्रमाणम् अभ्रेषु_आपर्तु चेद् अधीयानाम्
(कौश्स्_14,5[141].43) वर्षं विद्युत् स्तनयित्नुर् वा विपद्यते
(कौश्स्_14,5[141].44) त्रिरात्रं स्थानासनं ब्रह्मचर्यम् अरसाशं च_उपयेयुः
(कौश्स्_14,5[141].45) सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः
(कौश्स् 14 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्दशो ऽध्यायः समाप्तः
(कौश्स् पोस्त् चोलोफोन्) इति कौशिकसूत्रं समाप्तम्

मूल पाठ: Kauśikasūtra · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc