कौशिकसूत्र · भाग 2140
(कौश्स्_4,6[30].15) कपाले प्रशृतं काष्ठेनालिम्पति
(कौश्स्_4,6[30].16) किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादीभ्यां दंशयति
(कौश्स्_4,6[30].17) निश्य् <अव मा पाप्मन् [6.26.1]>_इति तित-उनि पूल्यानि_अवसिच्यापविध्य
(कौश्स्_4,6[30].18) अपरेद्युः सहस्राक्षायाप्सु बलीन्_त्रीन् पुरोडाशसंवर्तान्_चतुष्पथे_अवक्षिप्यावकिरति
(कौश्स्_4,7[31].1) <यस् ते मदो [6.30.2]>_इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति
(कौश्स्_4,7[31].2) अधिशिरः
(कौश्स्_4,7[31].3) <अन्तर्दावे [6.32.1]>_इति समन्तम् अग्नेः कर्ष्वाम् उष्णपूर्णायां जपन्_त्रिः परिक्रम्य पुरोडाशं जुहोति
(कौश्स्_4,7[31].4) <प्राग्नये [6.34.1]> <प्रेतो [7.114.2]>_उपदधीत
(कौश्स्_4,7[31].5) वैश्वानरीभ्यां पायनानि
(कौश्स्_4,7[31].6) <अस्थाद् द्यौर् [6.44.1।6.77.1(?)]> इत्य् अपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन्
(कौश्स्_4,7[31].7) <यां ते रुद्र [6.90.1]> इति शूलिने शूलम्
(कौश्स्_4,7[31].8) <उत् सूर्यो [6.52.1]>_इति शमीबिम्बशीर्णपर्ण्यौ_अधि (ओर्: -शीर्णपर्ण्यावधि)
(कौश्स्_4,7[31].9) <द्यौश् च म [6.53.1]> इत्य् अभ्यज्यावमार्ष्टि
(कौश्स्_4,7[31].10) स्थूणायां निकर्षति
(कौश्स्_4,7[31].11) <इदम् इद् वा [6.57.1]> इत्य् अक्षतं मूत्रफेनेनाभ्युद्य
(कौश्स्_4,7[31].12) प्रक्षिपति
(कौश्स्_4,7[31].13) प्रक्षालयति
(कौश्स्_4,7[31].14) दन्तरजसावदेग्धि
(कौश्स्_4,7[31].15) स्तम्बरजसा
(कौश्स्_4,7[31].16) <अपचितः [6.83.1]>_<आ सुस्रसः [7.76.1]>_इति किंस्त्यादीनि
(कौश्स्_4,7[31].17) लोहितलवणं संक्षुद्याभिनिष्ठीवति
(कौश्स्_4,7[31].18) <अन्तरिक्षेण [6.80.1]>_इति पक्षहतं मन्त्रोक्तं चङ्क्रमया
(कौश्स्_4,7[31].19) कीटेन धूपयति
(कौश्स्_4,7[31].20) <ग्लौर् [6.83.3च्]> इत्य् अक्षतेन
(कौश्स्_4,7[31].21) <वीहि स्वाम् [6.83.4]> इत्य् अज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता
(कौश्स्_4,7[31].22) <या ओषधयः [6.96.1]>_इति मन्त्रोक्तस्य_ओषधीभिर् धूपयति
(कौश्स्_4,7[31].23) मधूदश्वित् पाययति
(कौश्स्_4,7[31].24) क्षीरोदश्वित्
(कौश्स्_4,7[31].25) उभयं च
(कौश्स्_4,7[31].26) <देवा अदुः [6.100.1]>_इति वल्मीकेन बन्धनपायनाचमनप्रदेहनम् उष्णेण
(कौश्स्_4,7[31].27) <यथा मनो [6.105.1]>_<अव दिवस् [7.107.1]>_इत्य् अरिष्टेन
(कौश्स्_4,7[31].28) <देवी देव्याम् [6.136.1]>_<यां जमदग्निर् [6.137.1]> इति मन्त्रोक्ताफलं जीव्यलाकाभ्याम् अमावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपाताद् अवनक्षत्रे_अवसिञ्चति
(कौश्स्_4,8[32].1) <यस् ते स्तनः [7.10.1]>_इति जम्भगृहीताय स्तनं प्रयछति
(कौश्स्_4,8[32].2) प्रियङ्गुतण्डुलान् अभ्यवदुग्धान् पाययति
(कौश्स्_4,8[32].3) <अग्नाविष्णू [7.29.1]> <सोमारुद्रा [7.42.1]> <सिनीवालि [7.46.1]> <वि ते मुञ्चामि [7.78.1]> <शुम्भनी [7.112.1]> इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जुलीभिर् आप्लावयति
(कौश्स्_4,8[32].4) अवसिञ्चति
(कौश्स्_4,8[32].5) <तिरश्चिराजेर् [7.56.1]> इति मन्त्रोक्तम्
(कौश्स्_4,8[32].6) आकृतिलोष्टवल्मीकौ परिलिख्य
(कौश्स्_4,8[32].7) पायनानि
(कौश्स्_4,8[32].8) <अपचितां [7.74.1]>_इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैर् इति मन्त्रोक्तम्
(कौश्स्_4,8[32].9) चतुर्थ्याभिनिधायाभिविध्यति
(कौश्स्_4,8[32].10) ज्यास्तुकाज्वालेन
(कौश्स्_4,8[32].11) <यः कीकसाः [7.76.3]>_इति पिशीलवीणातन्त्रीं बध्नाति
(कौश्स्_4,8[32].12) तन्त्र्या क्षितिकां
(कौश्स्_4,8[32].13) वीरिणवध्रीं स्वयंम्लानं त्रिः समस्य
(कौश्स्_4,8[32].14) <अप्सु ते [7.83.1]>_इति वहन्त्योर् मध्ये विमिते पिञ्जूलीभिर् आप्लावयति
(कौश्स्_4,8[32].15) अवसिञ्चति
(कौश्स्_4,8[32].16) उष्णाः संपातवतीर् असंपाताः
(कौश्स्_4,8[32].17) <नमो रूराय [7.116.1]>_इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा
(कौश्स्_4,8[32].18) <शीर्षक्तिं [9.8.1]>_इत्य् अभिमृशति
(कौश्स्_4,8[32].19) उत्तमाभ्याम् आदित्यम् उपतिष्ठते
(कौश्स्_4,8[32].20) <इन्द्रस्य प्रथमो [10.4.1]>_इति तक्षकाय_इत्य् उक्तम्
(कौश्स्_4,8[32].21) पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः
(कौश्स्_4,8[32].22) अहिभये सिचि_अवगूहयति
(कौश्स्_4,8[32].23) <अङ्गादङ्गात् [10.4.25]>_इत्य् आ प्रपदात्
(कौश्स्_4,8[32].24) दंश्मोत्तमया निताप्याहिम् अभिनिरस्यति
(कौश्स्_4,8[32].25) यतो दष्टः
(कौश्स्_4,8[32].26) ओषधिवनस्पतीनाम् अनूक्तानि_अप्रतिषिद्धानि भैषज्यानाम्
(कौश्स्_4,8[32].27) अंहोलिङ्गाभिः
(कौश्स्_4,8[32].28) पूर्वस्य पुत्रकामावतोकयोर् उदकान्ते शान्ता अधिशिरो_अवसिञ्चति
(कौश्स्_4,8[32].29) आव्रजितायै पुरोडाशप्रमन्दालंकारान् संपातवतः प्रयछति
(कौश्स्_4,9[33].1) <वषट् ते पूषन्न् [1.11.1]> इति चतुर उदपात्रे संपातान् आनीय चतुरो मुञ्जान् मूर्ध्नि विबृहति प्राचः
(कौश्स्_4,9[33].2) प्रतीचीर् इषीकाः
(कौश्स्_4,9[33].3) छिद्यमानासु संशयः
(कौश्स्_4,9[33].4) उष्णेनाप्लावयति दक्षिणात् केशस्तुकात्
(कौश्स्_4,9[33].5) शालान् ग्रन्थीन् विचृतति
(कौश्स्_4,9[33].6) उभयतः पाशं योक्त्रम् आबध्नाति
(कौश्स्_4,9[33].7) <यदि सोमस्यासि राज्ञः सोमात् त्वा राज्ञो ऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात् त्वा राज्ञो ऽधिक्रीणामि [च्f. गोभ्ग्स् 2.6.6>_इत्य् एकविंशत्या यवैः स्रजं परिकिरति
(कौश्स्_4,9[33].8) <अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् [प्स् 1.65.4]> इति संनयति
(कौश्स्_4,9[33].9) <मा ते रिषन् खनिता यस्मै च त्वा खनामसि । द्विपाच् चतुष्पाद् अस्माकं मा रिषद् देव्य् ओषधे ॥ [प्स् 1.65.3]> <स्रजो नामासि> <प्रजापतिष् ट्वाम् अखनद् आत्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्य् अमुष्मै त्वा शल्यस्रंसनम् [-]> इत्य् अस्तमिते छत्त्रेण वान्तर्धाय [एद्. चान्तर्-, सेए चलन्द्, क्ल्. स्छ्र्. प्. 70] फालेन खनति
(कौश्स्_4,9[33].10) <अत्र तव राध्यताम् [-]> इत्य् अग्रम् अवदधाति
(कौश्स्_4,9[33].11) <इह मम [-]>_इति मूलम् उपयछति
(कौश्स्_4,9[33].12) एकसरे_अनुपलीढे कुमारः
(कौश्स्_4,9[33].13) दर्भेण परिवेष्ट्य केशेषूपचृतति
(कौश्स्_4,9[33].14) एवं ह विबृहशाकवृषे
(कौश्स्_4,9[33].15) अवपन्ने जरायुणि_उपोद्धरन्ति
(कौश्स्_4,9[33].16) स्रजेन_ओषधिखननं व्याख्यातम्
(कौश्स्_4,9[33].17) चत्वारि_उमाफलानि पाणौ_अद्भिः श्चोतयते
(कौश्स्_4,9[33].18) संवर्तमानेषु कुमारः
(कौश्स्_4,9[33].19) ब्राह्मणायनो_अङ्गानि_अभिमृशति
(कौश्स्_4,9[33].20) पुंनामधेये कुमारः
(कौश्स्_4,10[34].1) <इदं जनासो [1.32.1]>_इत्य् अस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरो_अवसिञ्चति
(कौश्स्_4,10[34].2) आव्रजितायै
(कौश्स्_4,10[34].3) <निस्सालाम् [2.14.1]> इत्य् अवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेषु_अप्सु संपातान् आनयति
(कौश्स्_4,10[34].4) पलाशे सीसेषूत्तरान्
(कौश्स्_4,10[34].5) सीसानि_अधिष्ठाप्याप्लावयति
(कौश्स्_4,10[34].6) निधाय कृष्णं व्रजति
(कौश्स्_4,10[34].7) आदीप्य ब्रह्मा
(कौश्स्_4,10[34].8) एवं पूर्वयोः पृथक्संभार्ये
(कौश्स्_4,10[34].9) शाखासूक्तम्
(कौश्स्_4,10[34].10) पश्चाद् अग्नेर् अभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीर् आधापयति
(कौश्स्_4,10[34].11) उत्तमाव्रजितायै
(कौश्स्_4,10[34].12) पतिवेदनानि
(कौश्स्_4,10[34].13) <आ नो अग्ने [2.36.1]>_इत्य् आगमकृशरम् आशयति
(कौश्स्_4,10[34].14) मृगाखराद् वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयछति
(कौश्स्_4,10[34].15) उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति
(कौश्स्_4,10[34].16) पश्चाद् अग्नेः प्रक्षाल्य संधाव्य संपातवतीं <भगस्य नावम् [2.36.5]> इति मन्त्रोक्तम्
(कौश्स्_4,10[34].17) सप्तदाम्न्यां संपातवत्यां वत्सान् प्रत्यन्तान् +प्रचृतन्ती +वहति [एद्.: प्रचृतन्तो वहन्ति; चलन्द्, अz, प्. 113, न्. 11]
(कौश्स्_4,10[34].18) अहतेन संपातवता ऋषभ अभ्यस्यति
(कौश्स्_4,10[34].19) उदर्दयति यां दिशम्
(कौश्स्_4,10[34].20) जाम्यै <प्र यद् एते [5.1.4]>_इत्य् आगमकृशरम्
(कौश्स्_4,10[34].21) <इमा ब्रह्म [5.2.8]>_इति स्वस्रे
(कौश्स्_4,10[34].22) <अयम् आ यात्य् [6.60.1]>_इति पुरा काकसंपाताद् अर्यम्णे जुहोति
(कौश्स्_4,10[34].23) अन्तःस्राक्तिषु बलीन् हरन्ति
(कौश्स्_4,10[34].24) आपतन्ति यतः
(कौश्स्_4,11[35].1) पुंसवनानि
(कौश्स्_4,11[35].2) रज-उद्वासायाः पुंनक्षत्रे
(कौश्स्_4,11[35].3) <येन वेहद् [3.23.1]> इति बाणं मूर्ध्नि विबृहति बध्नाति
(कौश्स्_4,11[35].4) फालचमसे सरूपवत्साया दुद्घे व्रीहियवौ_अवधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वम् इव
(कौश्स्_4,11[35].5) <पर्वताद् दिवो [5.25.1]>_इत्य् आगमकृशरम् आशयति
(कौश्स्_4,11[35].6) युगतर्द्मना संपातवन्तं द्वितीयम्
(कौश्स्_4,11[35].7) खे लूनान्_च पलाशत्सरून् निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति
(कौश्स्_4,11[35].8) <शमीम् अश्वत्थ [6.11.1]> इति मन्त्रोक्ते_अग्निं मथित्वा पुंस्याः सर्पिषि पैद्वम् इव
(कौश्स्_4,11[35].9) मधुमन्थे पाययति
(कौश्स्_4,11[35].10) कृष्णोर्णाभिः परिवेष्ट्या बध्नाति
(कौश्स्_4,11[35].11) <यन्तासि [6.80.2]>_इति मन्त्रोक्तं बध्नाति
(कौश्स्_4,11[35].12) <ऋधङ्मन्त्रो [5.1.1]>_इत्य् एका <यथेयं पृथिवी [6.17.1-4]>_<अच्युता [च्f. सकलपाठ-मन्त्रस् अत् कौश्स् 98.2, अव्परिश् 11.1.11]>_इति गर्भदृंहणानि
(कौश्स्_4,11[35].13) जम्भगृहीताय प्रथमावर्जं ज्यां त्रिर् उद्ग्रथ्य बध्नाति
(कौश्स्_4,11[35].14) लोष्टान् अन्वृचं प्राशयति
(कौश्स्_4,11[35].15) श्यामसिकताभिः शयनं परिकिरति
(कौश्स्_4,11[35].16) याम् इछेद् वीरं जनयेद् इति +धातृव्याभिर् (एद्.: धातर्-; च्f. चलन्द्, क्ल्. स्छ्र्., प्. 60) उदरम् अभिमन्त्रयते
(कौश्स्_4,11[35].17) <प्रजापतिर् [6.11.3।7.19.1]> इति प्रजाकामाया उपस्थे जुहोति
(कौश्स्_4,11[35].18) लोहिताजापिशितानि_आशयति
(कौश्स्_4,11[35].19) प्रपान्तानि [एद्. व्रप्-]
(कौश्स्_4,11[35].20) <यौ ते माता [8.6.1]>_इति मन्त्रोक्तौ बध्नाति
(कौश्स्_4,11[35].21) <यथेदं भूम्या अधि [2.30.1]> <यथा वृक्षं [6.8.1]> <+वाञ्छ मे [6.9.1]> <यथायं वाहो [6.102.1]>_इति संस्पृष्टयोर् वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणम् आज्येन संनीय संस्पृशति
(कौश्स्_4,11[35].22) <उत्तुदस् त्वा [3.25.1]>_इत्य् अङ्गुल्या_उपनुदति
(कौश्स्_4,11[35].23) एकविंशतिं प्राचीनकण्टकान् अलंकृतान् अनूक्तान् आदधाति
(कौश्स्_4,11[35].24) कूदीप्रान्तानि ससूत्राणि
(कौश्स्_4,11[35].25) नवनीतान्वक्तं कुष्ठं त्रिर् अह्नः प्रतपति त्रिरात्रे
(कौश्स्_4,11[35].26) दीर्घोत्पले_अवगृह्य संविशति
(कौश्स्_4,11[35].27) उष्णोदकं त्रिपादे पत्तः +प्रबध्य_(एद्.: प्रबद्धा; ब्लोओम्fइएल्द्, स्बे 42, प्. 358, न्. 3]_अङ्गुष्ठाभ्याम् अर्दयन्_शेते (एद्. मिस्प्रिन्त्: अर्दयञ् छते; सेए चलन्द्, क्ल्. स्छ्र्., प्. 51)
(कौश्स्_4,11[35].28) प्रतिकृतिम् आवलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्यया_उलूकपत्त्रयासितालकाण्डया हृदये विध्यति
(कौश्स्_4,12[36].1) <सहस्रशृङ्गो [4.5.1]>_इति स्वापनम्
(कौश्स्_4,12[36].2) उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति
(कौश्स्_4,12[36].3) एवं नग्नः
(कौश्स्_4,12[36].4) उलूखलम् उत्तरां स्रक्तिं दक्षिणशयनपादं तन्तून् अभिमन्त्रयते
(कौश्स्_4,12[36].5) <अस्थाद् द्यौर् [6.77.1।6.44.1]> इति निवेष्टनम्
(कौश्स्_4,12[36].6) आवेष्टनेन वंशाग्रम् अवबध्य मध्यमायां बध्नाति
(कौश्स्_4,12[36].7) शयनपादम् उत्पले च
(कौश्स्_4,12[36].8) आकृष्ते च
(कौश्स्_4,12[36].9) आकर्षेण तिलान्_जुहोति
(कौश्स्_4,12[36].10) <इदं यत् प्रेण्यः [6.89.1]>_इति शिरःकर्णम् अभिमन्त्रयते
(कौश्स्_4,12[36].11) केशान् धारयति
(कौश्स्_4,12[36].12) <भगेन मा [6.129.1]> <न्यस्तिका [6.139.1]>_<इदं खनामि [7.38.1]>_इति सौवर्चलम् ओषधिवत्_शुक्लप्रसूनं शिरसि_उपचृत्य ग्रामं प्रविशति
(कौश्स्_4,12[36].13) <रथजितां [6.130.1]>_इति माषस्मरान् निवपति
(कौश्स्_4,12[36].14) शरभृष्टीर् आदीप्ताः प्रतिदिशम् अभ्यस्यति_अर्वाच्या आवलेखन्याः
(कौश्स्_4,12[36].15) <भगम् अस्या वर्च [1.14.1]> इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशम् उलूखलदरणे त्रिशिले निखनति
(कौश्स्_4,12[36].16) मालाम् उपमथ्यान्वाह
(कौश्स्_4,12[36].17) त्रीणि केशमण्डलानि कृष्णसूत्रेन विग्रथ्य त्रिशिले_अश्मोत्तराणि व्यत्यासम्
(कौश्स्_4,12[36].18) अथास्यै भगम् उत्खनति <यं ते भगं निचख्नुस् त्रिशिले यं चतुःशिले । इदं तम् उत्खनामि प्रजया च धनेन च [-]>_इति
(कौश्स्_4,12[36].19) <इमां खनाम्य् [3.18.1]>_इति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनम् अनुपरिकिरति
(कौश्स्_4,12[36].20) <अभि ते ऽधां [3.18.6अ]>_इत्य् अधस्तात् पलाशम् उपचृतति
(कौश्स्_4,12[36].21) <उप ते ऽधां [3.18.6ब्]>_इत्य् उपरि_उपास्यति
(कौश्स्_4,12[36].22) कामं विनेष्यमाणो_अपाघेनासंख्याताः शर्कराः परिकिरन् व्रजति
(कौश्स्_4,12[36].23) संमृद्नन्_जपति
(कौश्स्_4,12[36].24) असंमृद्नन्
(कौश्स्_4,12[36].25) <ईर्ष्याया ध्राजिं [6.18.1]> <जनाद् विश्वजनीनात् [7.45.1]> <त्वाष्ट्रेणाहं [7.74.3]>_इति प्रतिजापः प्रदानाभिमर्शनानि
(कौश्स्_4,12[36].26) प्रथमेन वक्षणासु मन्त्रोक्तम्
(कौश्स्_4,12[36].27) <अग्नेर् इव [7.45.2]>_इति परशुफाण्टम्
(कौश्स्_4,12[36].28) <अव ज्याम् इव [6.42.1]>_इति दृष्ट्वाश्मानम् आदत्ते
(कौश्स्_4,12[36].29) द्वितीययाभिनिदधाति
(कौश्स्_4,12[36].30) तृतीययाभिनिष्ठीवति
(कौश्स्_4,12[36].31) छायायां सज्यं करोति
(कौश्स्_4,12[36].32) <अयं दर्भो [6.43.1]>_इत्य् ओषधिवत्
(कौश्स्_4,12[36].33) <अग्ने जातान् [7.34.1]> इति न वीरं जनयेत् <प्रान्यान् [7.35.1]> इति न विजायेत_इत्य् अश्वतरीमूत्रम् अश्ममण्डलाभ्यां संघृष्य भक्ते_अलंकारे
(कौश्स्_4,12[36].34) सीमन्तम् अन्वीक्षते
(कौश्स्_4,12[36].35) <अपि वृश्च [7.90.1]>_इति जायायै जारम् अन्वाह
(कौश्स्_4,12[36].36) क्लीबपदे बाधकं धनुर् वृश्चति
(कौश्स्_4,12[36].37) आशये_अश्मानं प्रहरति
(कौश्स्_4,12[36].38) <तृष्टिके [7.113.1]>_इति बाणापर्णीम्
(कौश्स्_4,12[36].39) <आ ते ददे [7.114.1]>_इति मन्त्रोक्तानि संस्पृशति
(कौश्स्_4,12[36].40) अपि चान्वाहापि चान्वाह
(कौश्स् 4 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्थो ऽध्यायः समाप्तः
(कौश्स्_5,1[37].1) <अम्बयो यन्त्य् [1.4.1]>_इति क्षीरौदन_उत्कुचस्तम्बपाटाविज्ञानानि
(कौश्स्_5,1[37].2) सांग्रामिकं वेदिविज्ञानम्
(कौश्स्_5,1[37].3) <वेनस् तत् [2.1.1]>_इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुग_इध्माक्षेषु पाण्योर् एकविंशत्यां शर्करासु_ईक्षते
(कौश्स्_5,1[37].4) कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातान् अतिनयति
(कौश्स्_5,1[37].5) अनतीकाशम् अवछाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम्
(कौश्स्_5,1[37].6) एवं सीरे साक्षे
(कौश्स्_5,1[37].7) लोष्टानां कुमारीम् आह यम् इछसि तम् आदत्स्व_इति
(कौश्स्_5,1[37].8) आकृतिलोष्टवल्मीकौ कल्याणम्
(कौश्स्_5,1[37].9) चतुष्पथाद् बहुचारिणी
(कौश्स्_5,1[37].10) श्मशानात्_न चिरं जीवति
(कौश्स्_5,1[37].11) उदकाञ्जलिं निनय_इत्य् आह
(कौश्स्_5,1[37].12) प्राचीनम् अपक्षिपन्त्यां कल्याणम्
(कौश्स्_5,2[38].1) <जरायुजः [1.12.1]>_इति दुर्दिनम् आयन् प्रत्युत्तिष्ठति
(कौश्स्_5,2[38].2) अन्वृचम् उदवज्रैः
(कौश्स्_5,2[38].3) असि_उल्मुककिष्कुरून् आदाय
(कौश्स्_5,2[38].4) नग्नो ललाटम् उन्मृजानः
(कौश्स्_5,2[38].5) उत्साद्य बाह्यतो_अङ्गारकपाले शिग्रुशर्करा जुहोति
(कौश्स्_5,2[38].6) केरार्कौ_आदधाति
(कौश्स्_5,2[38].7) वर्षपरीतः प्रतिलोमकर्षितस् त्रिः परिक्रम्य खदायाम् अर्कं क्षिप्रं संवपति
(कौश्स्_5,2[38].8) <नमस् ते अस्तु [1.13.1]> <यस् ते पृथु स्तनयित्नुर् [7.11.1]> इत्य् अशनियुक्तम् अपादाय
(कौश्स्_5,2[38].9) प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरसि_उर्वरामध्ये निखनति
(कौश्स्_5,2[38].10) दधि नवेनाश्नाति_आ संहरणात्
(कौश्स्_5,2[38].11) आशापालीयं तृतीयावर्जं दृंहणानि
(कौश्स्_5,2[38].12) भौमस्य दृतिकर्माणि
(कौश्स्_5,2[38].13) पुरोडाशान् अश्मोत्तरान् अन्तःस्रक्तिषु निदधाति
(कौश्स्_5,2[38].14) उभयान् संपातवतः
(कौश्स्_5,2[38].15) सभाभागधानेषु च
(कौश्स्_5,2[38].16) असंतापे ज्योतिरायतनस्य_एकतो_अन्यं शयानो भौमं जपति
(कौश्स्_5,2[38].17) <इयं वीरुन् [1.34.1]>_इति मदुघं खादन्न् अपराजितात् परिषदम् आव्रजति
(कौश्स्_5,2[38].18) <नेच् छत्रुः [2.27.1]>_इति पाटामूलं प्रतिप्राशितम्
(कौश्स्_5,2[38].19) अन्वाह
(कौश्स्_5,2[38].20) बध्नाति
(कौश्स्_5,2[38].21) मालां सप्तपलाशीं धारयति
(कौश्स्_5,2[38].22) <ये भक्षयन्तो [2.35.1]>_इति परिषदि_एकभक्तम् अन्वीक्षमाणो भुङ्क्ते
(कौश्स्_5,2[38].23) <ब्रह्म जज्ञानं [4.1.1]>_इत्य् अध्यायान् उपाकरिष्यन्न् अभिव्याहारयति
(कौश्स्_5,2[38].24) प्राशम् आख्यास्यन्
(कौश्स्_5,2[38].25) ब्रह्मोद्यं वदिष्यन्
(कौश्स्_5,2[38].26) <ममाग्ने वर्चो [5.3.1]>_इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति
(कौश्स्_5,2[38].27) <सभा च मा [7.12.1]>_इति भक्षयति
(कौश्स्_5,2[38].28) स्थूणे गृह्णाति_उपतिष्ठते
(कौश्स्_5,2[38].29) <यद् वदामि [12.1.58]>_इति मन्त्रोक्तम्
(कौश्स्_5,2[38].30) <अहम् अस्मि [12.1.54]>_इत्य् अपराजितात् परिषदम् आव्रजति
(कौश्स्_5,3[39].1) <दूष्या दूषिर् असि [2.11.1]>_इति स्राक्त्यं बध्नाति
(कौश्स्_5,3[39].2) पुरस्ताद् अग्नेः पिशङ्गं गां कारयति
(कौश्स्_5,3[39].3) पश्चाद् अग्नेर् लोहिताजम्
(कौश्स्_5,3[39].4) यूषपिशितार्थम्
(कौश्स्_5,3[39].5) मन्त्रोक्ताः
(कौश्स्_5,3[39].6) वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय
(कौश्स्_5,3[39].7) <दूष्या दुषिर् असि [2.11.1]> <ये पुरस्ताज् [4.40.1]>_<ईशानां त्वा [4.17.1]> <समं ज्योतिः [4.18.1]>_<उतो अस्य् अबन्धुकृद् [4.19.1]>_<सुपर्णस् त्वा [5.14.1]>_<यां ते चक्रुर् [5.31.1]> <अयं प्रतिसरो [8.5.1]> <यां कल्पयन्ति [10.1.1]>_इति महाशान्तिम् आवपते
(कौश्स्_5,3[39].8) निशि_अवमुच्य_उष्णीषी_अग्रतः प्रोक्षन् व्रजति
(कौश्स्_5,3[39].9) यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुशीमे [एद्.: +सुसीमे]_अहं वामाभूर् इति
(कौश्स्_5,3[39].10) अभावाद् अपविध्यति
(कौश्स्_5,3[39].11) कृत्ययामित्रचक्षुषा समीक्षन् [नोते स्पेइजेर् मुसेउम् 9 251: चोन्ज्. समक्षं] <कृतव्यधनि [5.14.9]>_इत्य् अवलिप्तं कृत्यया विध्यति
(कौश्स्_5,3[39].12) उक्तावलेखनीम्
(कौश्स्_5,3[39].13) <दूष्या दुषिर् असि [2.11.1]>_इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति
(कौश्स्_5,3[39].14) शकलेनावसिच्य यूषपिशितानि_आशयति
(कौश्स्_5,3[39].15) यष्टिभिस्_चर्म पिनह्य प्रैषकृत् परिक्रम्य बन्धान् मुञ्चति संदंशेन
(कौश्स्_5,3[39].16) अन्यत्पार्श्वीं संवेशयति
(कौश्स्_5,3[39].17) शकलेनोक्तम्
(कौश्स्_5,3[39].18) <अभ्यक्ता [10.1.25]>_इति नवनीतेन मन्त्रोक्तम्
(कौश्स्_5,3[39].19) दर्भरज्ज्वा संनह्य_<उत्तिष्ठैव [10.1.20च्]>_इत्य् उत्थापयति
(कौश्स्_5,3[39].20) सव्येन दीपं दक्षिणेन_उदकालाबु_आदाय वाग्यताः
(कौश्स्_5,3[39].21) प्रैषकृद् अग्रतः
(कौश्स्_5,3[39].22) अनावृतम्
(कौश्स्_5,3[39].23) अगोष्पदम्
(कौश्स्_5,3[39].24) अनुदकखातम्
(कौश्स्_5,3[39].25) दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वा_इरिणे_अन्याशायां वा निदधाति
(कौश्स्_5,3[39].26) अलाबुना दीपम् अवसिच्य <यथा सूर्यो [10.1.32]>_इत्य् आवृत्याव्रजति
(कौश्स्_5,3[39].27) तिष्ठन्_तिष्ठन्तीं महाशान्तिम् उच्चैर् अभिनिगदति
(कौश्स्_5,3[39].28) मर्माणि संप्रोक्षन्ते
(कौश्स्_5,3[39].29) कृष्णसीरेण कर्षति
(कौश्स्_5,3[39].30) अधि सीरेभ्यो दश दक्षिणा
(कौश्स्_5,3[39].31) अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि
(कौश्स्_5,4[40].1) <यद् अदः संप्रयतीर् [3.13.1]> इति येन_इछेत्_नदी प्रतिपद्येत_इति प्रसिञ्चन् व्रजति
(कौश्स्_5,4[40].2) काशदिविधुवकवेतसान् निमिनोति
(कौश्स्_5,4[40].3) <इदं व आपो [3.13.7अ]>_इति हिरण्यम् अधिदधाति
(कौश्स्_5,4[40].4) <अयं वत्स [3.13.7ब्]> इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा
(कौश्स्_5,4[40].5) <इहेत्थम् [3.13.7च्]> इत्य् अवकया प्रछादयति
(कौश्स्_5,4[40].6) <यत्रेदं [3.13.7द्]>_इति निनयति
(कौश्स्_5,4[40].7) मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर् जुहोति
(कौश्स्_5,4[40].8) उक्तम् उपमन्थनम्
(कौश्स्_5,4[40].9) दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन् व्रजति
(कौश्स्_5,4[40].10) पाणिना वेत्रेण वा प्रत्याहत्य_उपरि निपद्यते
(कौश्स्_5,4[40].11) <अयं ते योनिर् [3.20.1]> इत्य् अरण्योर् अग्निं समारोपयति
(कौश्स्_5,4[40].12) आत्मनि वा
(कौश्स्_5,4[40].13) <उपावरोह जातवेदः पुनर् देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि [च्f. त्ब् 2.5.8.8, ;साङ्ख्;स्स् 2.17.1, ;साङ्ह्ग्स् 5.1.7]>_इत्य् उपावरोहयति
(कौश्स्_5,4[40].14) <यां त्वा गन्धर्वो अखनद् [4.4.1 (= प्स् 4.5.1)]> <वृषणस् ते खनितारो वृषा त्वम् अस्य् ओषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि [प्स् 4.5.2]>_इत्य् उच्छुष्मापरिव्याधाव् आयसेन खनति
(कौश्स्_5,4[40].15) दुग्धे फाण्टौ_+अधिज्यम् उपस्थ+ (एद्.: अदिज्योपस्थ; च्f. ब्लोओम्fइएल्द्, स्बे 42, प्. 369, न्. 2) आधाय पिबति
(कौश्स्_5,4[40].16) मयूखे मुसले वासीनो <यथासितः [6.72.1]>_इत्य् एकार्कसूत्रम् आर्कं बध्नाति
(कौश्स्_5,4[40].17) <यावद् अङ्गीनं [6.72.3]>_इत्य् असितस्कन्धम् असितवालेन
(कौश्स्_5,4[40].18) <आ वृषायस्व [6.101.1]>_इत्य् उभयम् अप्येति
(कौश्स्_5,5[41].1) <समुत्पतन्तु [4.15.1]> <प्र नभस्व [7.18.1]>_इति वर्षकामो द्वादशरात्रम् अनुशुष्येत्
(कौश्स्_5,5[41].2) सर्वव्रत उपश्राम्यति
(कौश्स्_5,5[41].3) मरुतो यजते यथा वरुणं जुहोति
(कौश्स्_5,5[41].4) ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति
(कौश्स्_5,5[41].5) विप्लावयेत
(कौश्स्_5,5[41].6) श्वशिर-एटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति
(कौश्स्_5,5[41].7) उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादे_अश्मानम् अवधायाप्सु निदधाति
(कौश्स्_5,5[41].8) <अयं ते योनिर् [3.20.1]> <आ नो भर [5.7.1]> <धीती वा [7.1.1]>_इत्य् अर्थम् उत्थास्यन्न् उपदधीत
(कौश्स्_5,5[41].9) जपति
(कौश्स्_5,5[41].10) पूर्वासु_अषाढासु गर्तं खनति
(कौश्स्_5,5[41].11) उत्तरासु संचिनोति
(कौश्स्_5,5[41].12) आदेवनं संस्तीर्य
(कौश्स्_5,5[41].13) <उद्भिन्दतीं संजयन्तीम् [4.38.1]>_<यथा वृक्षम् अशनिर् [7.50.1]> <इदम् उग्राय [7.109.1]>_इति वासितान् अक्षान् निवपति
(कौश्स्_5,5[41].14) <अम्बयो यन्त्य् [1.4.1]>_शंभुमयोभू [1.5, 1.6] <हिरण्यवर्णाः [1.33.1]>_<यद् अदः [3.13.1]> <पुनन्तु मा [6.19.1]> <सस्रुषीस् [6.23.1]>_<हिमवतः प्र स्रवन्ति [6.24.1]> <वायोः पूतः पवित्रेण [6.51.1]> <शं च नो मयश् च नो [6.57.3]>_<अनडुद्भ्यस् त्वं प्रथमं [6.59.1]> <मह्यम् आपो [6.61.1]> <वैश्वानरो रश्मिभिर् [6.62.1]> इत्य् अभिवर्षणावसेचनानाम्
(कौश्स्_5,5[41].15) उत्तमेन वाचस्पतिलिङ्गाभिर् उद्यन्तम् उपतिष्ठते
(कौश्स्_5,5[41].16) स्नातो_अहतवसनो निक्त्वाहतम् आछादयति
(कौश्स्_5,5[41].17) ददाति
(कौश्स्_5,5[41].18) <यथा मांसम् [6.70.1]> इति वचनम्
(कौश्स्_5,5[41].19) वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीय_उपचृतति
(कौश्स्_5,5[41].20) शिरःकर्णम् अभिमन्त्रयते
(कौश्स्_5,5[41].21) <वातरंहा [6.92.1]> इति स्नाते_अश्वे संपातान् अभ्यतिनयति
(कौश्स्_5,5[41].22) पलाशे चूर्णेषूत्तरान्
(कौश्स्_5,5[41].23) आचमयति
(कौश्स्_5,5[41].24) आप्लावयति
(कौश्स्_5,5[41].25) चूर्णैर् अवकिरति
(कौश्स्_5,5[41].26) त्रिर् <एकया च [7.4.1]>_इति
(कौश्स्_5,6[42].1) <भद्राद् अधि [7.8.1]>_इति प्रवत्स्यन्न् उपदधीत
(कौश्स्_5,6[42].2) जपति
(कौश्स्_5,6[42].3) यानं संप्रोक्ष्य विमोचयति
(कौश्स्_5,6[42].4) द्रव्यं संपातवद् उत्थापयति
(कौश्स्_5,6[42].5) निर्मृज्य_उपयछति
(कौश्स्_5,6[42].6) <उभा जिग्यथुर् [7.44.1]> इत्य् आर्द्रपादाभ्यां सांमनस्यम्
(कौश्स्_5,6[42].7) यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयछति
(कौश्स्_5,6[42].8) आयातः समिध आदाय_<ऊर्जं बिभ्रद् [7.60.1]> इत्य् असंकल्पयन्न् एत्य सकृद् आदधाति
(कौश्स्_5,6[42].9) <ऋचं साम [7.54.1]>_इत्य् अनुप्रवचनीयस्य जुहोति
(कौश्स्_5,6[42].10) युक्ताभ्यां तृतीयाम्
(कौश्स्_5,6[42].11) आनुमतीं चतुर्थीम्
(कौश्स्_5,6[42].12) समावर्तनीयसमापनीययोस्_च_एषा_इज्या
(कौश्स्_5,6[42].13) <आपो दिव्या [7.89.1।10.5.46]> इति पर्यवेतव्रत उदकान्ते शान्त्युदकम् अभिमन्त्रयते
(कौश्स्_5,6[42].14) अस्तमिते समित्पाणिर् एत्य तृतीयवर्जं समिध आदधाति
(कौश्स्_5,6[42].15) <इदावत्सराय [प्स् 19.51.1-4]>_इति व्रतविसर्जनम् आज्यं जुहुयात्
(कौश्स्_5,6[42].16) समिधो_अभ्यादध्यात्
(कौश्स्_5,6[42].17) <इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एनत् । यद् व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन् मे व्रतं व्रतपते लुलोभाहोरात्रे सम् अधातां म एनत् । उद्यन् पुरस्ताद् भिषग् अस्तु चन्द्रमाः सूर्यो रश्मिभिर् अभि गृणात्व् एनत् ॥ यद् व्रतम् अतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास् तन् मयि वसवश् च सम् इन्धताम् ॥ व्रतानि व्रतपतय उपा करोम्य् अग्नये । स मे द्युम्नं बृहद् यशो दीर्घम् आयुः कृणोतु मे ॥ [प्स् 19.51.1-4]>_इति व्रतसमापनीर् आदधाति
(कौश्स्_5,6[42].18) त्रिरात्रम् अरसाशी स्नातव्रतं चरति
(कौश्स्_5,6[42].19) <निर् लक्ष्म्यं [1.18.1]>_इति पापलक्षणाया मुखम् उक्षति_अन्वृचं दक्षिणात् केशस्तुकात्
(कौश्स्_5,6[42].20) पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति
(कौश्स्_5,6[42].21) फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति
(कौश्स्_5,6[42].22) अपनोदनापाघाभ्याम् अन्वीक्षं प्रतिजपति
(कौश्स्_5,6[42].23) <दीर्घायुत्वाय [2.4.1]>_इति मन्त्रोक्तं बध्नाति
(कौश्स्_5,7[43].1) <कर्शफस्य [3.9.1]>_इति पिशङ्गसूत्रम् अरलुदण्डं यद् आयुधम्
(कौश्स्_5,7[43].2) फलीकरणैर् धूपयति
(कौश्स्_5,7[43].3) <अति धन्वान्य् [7.41.1]>_इत्य् अवसाननिवेशनानुचरणातिनयन+_इज्या [एद्.: चरणानि निनयन्नेज्या; च्f. चलन्द्, अz, प्. 147, न्. 2; बुत् ब्लोओम्fइएल्द् ग्ग 1902 512!]
(कौश्स्_5,7[43].4) वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतो_अग्नेः संभारम् आहरति
(कौश्स्_5,7[43].5) वास्तोष्पत्यादीनि महाशान्तिम् आवपते
(कौश्स्_5,7[43].6) मध्यमे गर्ते दर्भेषु व्रीहियवम् आवपति
(कौश्स्_5,7[43].7) शान्त्युदकशष्पशर्करम् अन्येषु
(कौश्स्_5,7[43].8) <इहैव ध्रुवां [3.12.1]>_इत्य् मीयमानाम् उच्छ्रीयमाणाम् अनुमन्त्रयते
(कौश्स्_5,7[43].9) अभ्यज्य_<ऋतेन [3.12.6]>_इति मन्त्रोक्तम्
(कौश्स्_5,7[43].10) <पूर्णं नारि [3.12.8]>_इत्य् उदकुम्भम् अग्निम् आदाय प्रपद्यन्ते
(कौश्स्_5,7[43].11) ध्रुवाभ्यां दृंहयति
(कौश्स्_5,7[43].12) शंभुमयोभुभ्यां विष्यन्दयति
(कौश्स्_5,7[43].13) <वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो न एधि । यत् त्वेमहे प्रति नस् तज् जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ [प्स् 7.6.10]> <अनमीवो वास्तोष् पते विश्वा रूपाण्य् आविशन् । सखा सुशेव एधि नः ॥ [प्स् 20.23.2]>_इति वास्तोष्पतये क्षीरौदनस्य जुहोति
(कौश्स्_5,7[43].14) सर्वान्नानि ब्राह्मणान् भोजयति
(कौश्स्_5,7[43].15) मङ्गल्यानि
(कौश्स्_5,7[43].16) <ये अग्नयो [3.21.1-7]>_इति क्रव्यादनुपहत इति पलाशं बध्नाति
(कौश्स्_5,7[43].17) जुहोति
(कौश्स्_5,7[43].18) आदधाति
(कौश्स्_5,7[43].19) उदञ्चनेन_उदपात्र्यां यवान् अद्भिर् आनीय_उल्लोपम्
(कौश्स्_5,7[43].20) <ये अग्नयो [3.21.1]>_इति पालाश्या दर्व्या मन्थम् उपमथ्य काम्पीलीभ्याम् उपमन्थनीभ्याम्
(कौश्स्_5,7[43].21) शमनं च
(कौश्स्_5,8[44].1) <य आत्मदा [4.2.1]> इति वशाशमनम्
(कौश्स्_5,8[44].2) पुरस्ताद् अग्नेः प्रतीचीं धारयति
(कौश्स्_5,8[44].3) पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति
(कौश्स्_5,8[44].4) तत्र_एतत् सूक्तम् अनुयोजयति
(कौश्स्_5,8[44].5) तेन_एनाम् आचामयति च संप्रोक्षति च
(कौश्स्_5,8[44].6) तिष्ठन्_तिष्ठन्तीं महाशान्तिम् उच्चैर् अभिनिगदति
(कौश्स्_5,8[44].7) <य ईशे पशुपतिः पशूनाम् [2.34.1]> इति हुत्वा वशाम् अनक्ति शिरसि ककुदे जघनदेशे
(कौश्स्_5,8[44].8) अन्यतरां स्वधितिधाराम् अनक्ति
(कौश्स्_5,8[44].9) अक्तया वपाम् उत्खनति
(कौश्स्_5,8[44].10) दक्षिणे पार्श्वे दर्भाभ्याम् अधिक्षिपति_अमुष्मै त्वा जुष्टम् इति यथादेवतम्
(कौश्स्_5,8[44].11) <निस्सालाम् [2.14.1]> इत्य् उल्मुकेन त्रिः प्रसव्यं परिहरति_अनभिपरिहरन् आत्मानम्
(कौश्स्_5,8[44].12) दर्भाभ्याम् अन्वारभते
(कौश्स्_5,8[44].13) पश्चाद् उत्तरतो_अग्नेः प्रत्यक्शीर्षीम् उदक्पादीं निविध्यति
(कौश्स्_5,8[44].14) <सम् अस्यै तन्वा भव [- (नोते अस्यै = गेनितिवे?)]>_इत्य् अन्यतरं दर्भम् अवास्यति
(कौश्स्_5,8[44].15) अथ प्राणान् आस्थापयति <प्रजानन्तः [2.34.5]>_इति
(कौश्स्_5,8[44].16) दक्षिणतस् तिष्ठन् रक्षोहणं जपति
(कौश्स्_5,8[44].17) संज्ञप्तायां जुहोति <यद् वशा मायुम् अक्रतोरो वा पड्भिर् आहत । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः [-, च्f. त्स् 3.1.4.3, मन्ब् 2.2.8 एत्च्.]>_इति
(कौश्स्_5,8[44].18) उदपात्रेण पत्नी_अभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते
(कौश्स्_5,8[44].19) मुखं शुन्धस्व देवज्याया इति
(कौश्स्_5,8[44].20) प्राणान् इति नासिके
(कौश्स्_5,8[44].21) चक्षुर् इति चक्षुषी
(कौश्स्_5,8[44].22) श्रोत्रम् इति कर्णौ
(कौश्स्_5,8[44].23) <यत् ते क्रूरं यद् आस्थितं [व्स्म् 6.15]>_इति समन्तं रज्जुधानम्
(कौश्स्_5,8[44].24) चरित्राणीति पादात् समाहृत्य
(कौश्स्_5,8[44].25) नाभिम् इति नाभिम्
(कौश्स्_5,8[44].26) मेढ्रम् इति मेढ्रम्
(कौश्स्_5,8[44].27) पायुम् इति पायुम्
(कौश्स्_5,8[44].28) <यत् ते क्रूरं यद् आस्थितं तच् छुन्धस्व [-, च्f. व्स्म् 6.14-15, त्स् 1.3.9.1, बौध्;स्स् 4.6:118.15 एत्च्.]>_इति अवशिष्टाः पार्श्वदेशे_अवसिच्य यथार्थं व्रजति
(कौश्स्_5,8[44].29) वपाश्रपण्यौ_आज्यं स्रुवं स्वधितिं दर्भम् आदायाभिव्रज्य_उत्तानां +परिवर्त्यानुलोमं (एद्.: परिवर्त्मा-; सेए चलन्द्, क्ल्. स्छ्र्., प्. 61) नाभिदेशे दर्भम् आस्तृणाति
(कौश्स्_5,8[44].30) <ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः [व्स्म् 6.15]>_इति शस्त्रं प्रयछति
(कौश्स्_5,8[44].31) इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानाव् अपकृन्तामीत्य् अपकृत्य
(कौश्स्_5,8[44].32) अधरप्रव्रस्केन लोहितस्यापहत्य
(कौश्स्_5,8[44].33) इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्य् आस्ये निखनति
(कौश्स्_5,8[44].34) <वपया द्यावापृथिवी प्रोर्णुवाथाम् [-, च्f. व्स्म् 6.16]> इति वपाश्रपण्यौ वपया प्रछाद्य
(कौश्स्_5,8[44].35) स्वधितिना प्रकृत्य_उत्कृत्य
(कौश्स्_5,8[44].36) आव्रस्कम् अभिघार्य
(कौश्स्_5,8[44].37) <वायो वे [एद्. वायवे, सेए ब्लोओम्fइएल्द् अज्फ् 27 (1906), प्.416] स्तोकानाम् [व्स्म् 6.16]> इति दर्भाग्रं प्रास्यति
(कौश्स्_5,8[44].38) <प्रत्युष्टं रक्षः [त्स् 1.1.2.1, कौश्स् 1.3.9 एत्च्.]>_इति चरुम् अङ्गारे निदधाति
(कौश्स्_5,8[44].39) <देवस् त्वा सविता श्रपयतु [च्f. व्स्म् 1.22, त्ब् 3.2.8.6]>_इति श्रपयति
(कौश्स्_5,8[44].40) सुशृतां करोति
(कौश्स्_5,9[45].1) यदि_अष्टापदी स्याद् गर्भमञ्जलौ सहिरण्यं सयवं वा <य आत्मदा [4.2.1]> इति खदायां त्र्यरत्नौ_अग्नौ सकृत्_जुहोति
(कौश्स्_5,9[45].2) विशस्य समवत्तानि_अवद्येत्
(कौश्स्_5,9[45].3) <हृदयं जिह्वा श्येनश् च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्य् एकादश दैवतानि । [-, च्f. अअप्;स्स् 7.22.6, कात्य्;स्स् 6.7.6 एत्च्.]>
(कौश्स्_5,9[45].4) <दक्षिणः कपिललाटः सव्या श्रोणिर् गुदश् च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव । [-, च्f. अअप्;स्स् 7.22.6, कात्य्;स्स् 6.7.7 एत्च्.]>
(कौश्स्_5,9[45].5) तद् अवद्य प्रज्ञातानि श्रपयेत्
(कौश्स्_5,9[45].6) होष्यन् द्विर्द्विर् देवतानाम् अवद्येत्
(कौश्स्_5,9[45].7) सकृत्सकृत् सौविष्टकृतानाम्
(कौश्स्_5,9[45].8) वपायाः <समिद्धो [5.12.1]>_<ऊर्ध्वा अस्य [5.27.1]>_इति जुहोति
(कौश्स्_5,9[45].9) युक्ताभ्यां तृतीयाम्
(कौश्स्_5,9[45].10) आनुमतीं चतुर्थीम्
(कौश्स्_5,9[45].11) <जातवेदो वपया गछ देवांस् त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा । [च्f. त्स् 3.1.4.4]>
(कौश्स्_5,9[45].12) ऊर्ध्वनभसं [एम्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. ऊर्ध्वं नभसं] गछतम् इति वपाश्रपण्यौ_अनुप्रहरति
(कौश्स्_5,9[45].13) प्राचीम् एकशृङ्गां प्रतीचीं द्विशृङ्गाम्
(कौश्स्_5,9[45].14) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषाम् आशिषः सन्तु कामाः स्वाहा स्वधा [सेए 84.1, च्f. मन्ब् 2.3.18, व्स्म् 35.20]>_इति वपायास् त्रिर् जुहोति
(कौश्स्_5,9[45].15) समवत्तानाम्
(कौश्स्_5,9[45].16) स्थालीपाकस्य <सम्राड् अस्य् अधिश्रयणं नाम सखीनाम् अभ्य् अहं विश्वा आशाः साक्षीय । कामो ऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि । अन्व् अद्य नो ऽनुमतिः पूषा सरस्वती मही । यत् करोमि तद् ऋध्यताम् अनुमतये स्वाहा [-]>_इति जुहोति
(कौश्स्_5,9[45].17) <क इदं कस्मा अदात् [3.29.7-8]> <कामस् तद् अग्रे [19.52.1]> <यद् अन्नम् [6.71.1]>_<पुनर् मैत्व् इन्द्रियं [7.67.1]>_इति प्रतिगृह्णाति
(कौश्स्_5,9[45].18) उत्तमा सर्वकामा
(कौश्स्_5,9[45].19) वशया पाकयज्ञा व्याख्याताः
(कौश्स्_5,10[46].1) <उतामृतासुर् [5.1.7]>_<शिवास् त [7.43.1]> इत्य् अभ्याख्याताय प्रयछति
(कौश्स्_5,10[46].2) द्रुघणशिरो रज्ज्वा बध्नाति
(कौश्स्_5,10[46].3) प्रतिरूपं पलाशायोलोहहिरण्यानाम्
(कौश्स्_5,10[46].4) <येन सोम [6.7.1]>_इति याजयिष्यन् सारूपवत्सम् अश्नाति
(कौश्स्_5,10[46].5) निधने यजते
(कौश्स्_5,10[46].6) <यं याचाम्य् [5.7.5]>_<यद् आशसा [7.57.1]>_इति याचिष्यन्
(कौश्स्_5,10[46].7) मन्त्रोक्तानि पतितेभ्यो <देवाः कपोत [6.27.1]> <ऋचा कपोतं [6.28.1]>_<अमून् हेतिः [6.29.1]>_इति महाशान्तिम् आवपते
(कौश्स्_5,10[46].8) <परीमे ऽग्निम् [6.28.2]> इत्य् अग्निं गाम् आदाय निशि कारयमाणस् त्रिः शालां परिणयति
(कौश्स्_5,10[46].9) <परो ऽपेहि [6.45.1]> <यो न जीवो [6.46.1]>_इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि
(कौश्स्_5,10[46].10) अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशम् अन्याशायां वा निदधाति
(कौश्स्_5,10[46].11) <पर्यावर्ते [7.100.1]>_इति पर्यावर्तते
(कौश्स्_5,10[46].12) <यत् स्वप्ने [7.101.1]>_इति अशित्वा वीक्षते
(कौश्स्_5,10[46].13) <विद्म [एद्. मिस्प्रिन्त्: विद्मा] ते स्वप्न [6.46.2]>_इति सर्वेषाम् अप्ययः
(कौश्स्_5,10[46].14) <नहि ते अग्ने तन्वः [6.49.1]>_इति ब्रह्मचारी_आचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति
(कौश्स्_5,10[46].15) त्रिरात्रम् अपर्यावर्तमानः शयीत
(कौश्स्_5,10[46].16) न_उपशयीत_इति कौशिकः
(कौश्स्_5,10[46].17) स्नानीयाभिः स्नायात्
(कौश्स्_5,10[46].18) अपर्यवेतव्रतः प्रत्युपेयात्
(कौश्स्_5,10[46].19) अवकीर्णिने दर्भशुल्बम् आसज्य <यत् ते देवी [6.63.1]>_इति आवपति
(कौश्स्_5,10[46].20) एवं संपातवता_उदपात्रेणावसिच्य
(कौश्स्_5,10[46].21) मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य
(कौश्स्_5,10[46].22) <संसम् इद् [6.63.4]> इति स्वयंप्रज्वलिते_अग्नौ
(कौश्स्_5,10[46].23) <अग्नी रक्षांसि सेधति [8.3.26]>_इति सेधन्तम्
(कौश्स्_5,10[46].24) <यद् अस्मृति [7.106.1]>_इति संदेशम् अपर्याप्य
(कौश्स्_5,10[46].25) <प्रत्नो हि [6.110.1]>_इति पापनक्षत्रे जाताय मूलेन
(कौश्स्_5,10[46].26) <मा ज्येष्ठं [6.112.1]> <तृते [रेअद्: त्रिते] देवा [6.113.1]> इति परिवित्तिपरिविविदानौ_उदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिर् आप्लावयति
(कौश्स्_5,10[46].27) अवसिञ्चति
(कौश्स्_5,10[46].28) फेनेषूत्तरान् पाशान् आधाय <नदीनां फेनान् [6.113.2च्]> इति प्रप्लावयति
(कौश्स्_5,10[46].29) सर्वैस्_च प्रविश्यापां सूक्तैः
(कौश्स्_5,10[46].30) देवहेडनेन मन्त्रोक्तम्
(कौश्स्_5,10[46].31) आचार्याय
(कौश्स्_5,10[46].32) उपदधीत
(कौश्स्_5,10[46].33) खदाशयस्यावपते
(कौश्स्_5,10[46].34) वैवस्वतं यजते
(कौश्स्_5,10[46].35) चतुःशरावं ददाति
(कौश्स्_5,10[46].36) उत्तमर्णे मृते तदपत्याय प्रयछति
(कौश्स्_5,10[46].37) सगोत्राय
(कौश्स्_5,10[46].38) श्मशाने निवपति
(कौश्स्_5,10[46].39) चतुष्पथे च
(कौश्स्_5,10[46].40) कक्षान् आदीपयति
(कौश्स्_5,10[46].41) <दिवो नु माम् [6.124.1]> इति वीध्रबिन्दून् प्रक्षालयति
(कौश्स्_5,10[46].42) मन्त्रोक्तैः स्पृशति
(कौश्स्_5,10[46].43) यस्य_उत्तमदन्तौ पूर्वौ जायेते <यौ व्याघ्राव् [6.140.1]> इत्य् आवपति
(कौश्स्_5,10[46].44) मन्त्रोक्तान् दंशयति
(कौश्स्_5,10[46].45) शान्त्युदकशृतम् आदिष्टानाम् आशयति
(कौश्स्_5,10[46].46) पितरौ च
(कौश्स्_5,10[46].47) <इदं यत् कृष्णः [7.64.1]>_इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति
(कौश्स्_5,10[46].48) उपमृष्टं पर्यग्नि करोति
(कौश्स्_5,10[46].49) <प्रतीचीनफलो [7.65.1]>_इत्य् अपामार्गेध्मे_अपमार्गीर् आदधाति
(कौश्स्_5,10[46].50) <यद् अर्वाचीनं [10.5.22]>_इत्य् आचामति
(कौश्स्_5,10[46].51) <यत् ते भूमे [12.1.35]>_इति विखनति
(कौश्स्_5,10[46].52) <यत् त ऊनं [12.1.61च्]>_इति संवपति
(कौश्स्_5,10[46].53) <प्रेहि प्र हर [प्स् 20.50.5-7, .र्व्ख् 2.2.2, .र्व् 2.43.3, प्स् 20.50.8]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति
(कौश्स्_5,10[46].54) <प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रम् उत्तरतो वद । भद्रं पुरस्तान् नो वद भद्रं पश्चात् कपिञ्जल ॥ शुनं वद दक्षिणतः शुनम् उत्तरतो वद । शुनं पुरस्तान् नो वद शुनं पश्चात् कपिञ्जल ॥ [प्स् 20.50.5-7]> <भद्रं वद पुत्रैर् भद्रं वद गृहेषु च । भद्रम् अस्माकं वद भद्रं नो अभयं वद ॥ [.र्व्ख् 2.2.2]> <आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥ [.र्व् 2.43.3]> <यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ [प्स् 20.50.8, च्f. .र्व्ख् 2.2.5]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति
(कौश्स्_5,10[46].55) <यो अभ्य् उ बभ्रुणायसि स्वपन्तम् अत्सि पुरुषं शयानम् अगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधत् [प्स् 20.9.4]>_इत्य् अभ्यवकाशे संविशति_अभ्यवकाशे संविशति
(कौश्स् 5 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे पञ्चमो ऽध्यायः समाप्तः
(कौश्स्_6,1[47].1) उभयतः परिछिन्नं शरमयं बर्हिर् आभिचारिकेषु
(कौश्स्_6,1[47].2) दक्षिणतः संभारम् आहरति_आङ्गिरसम्
(कौश्स्_6,1[47].3) इङ्गिडम् आज्यम्
(कौश्स्_6,1[47].4) सव्यानि
(कौश्स्_6,1[47].5) दक्षिणापवर्गाणि
(कौश्स्_6,1[47].6) दक्षिणाप्रवणे इरिणे दक्षिणामुखः प्रयुङ्क्ते
(कौश्स्_6,1[47].7) साग्नीनि
(कौश्स्_6,1[47].8) <अग्ने यत् ते तपस् [2.19.1]>_इति पुरस्ताद्धोमाः
(कौश्स्_6,1[47].9) <तथा तद् अग्ने कृणु जातवेदो [5.29.2]>_इत्य् आज्यभागौ
(कौश्स्_6,1[47].10) <निर् अमुं नुद [6.75.1]> इति संस्थितहोमाः
(कौश्स्_6,1[47].11) कृत्तिकारोकारोधावाप्येषु
(कौश्स्_6,1[47].12) भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति
(कौश्स्_6,1[47].13) <मृत्योर् अहं [6.133.3]>_इति बाधकीम् आदधाति
(कौश्स्_6,1[47].14) <य इमां [6.133.1]>_<अयं वज्रस् [6.134.1]>_इति द्विगुणाम् एकवीरान् संनह्य (संव्यूह्य? सेए चलन्द्, अz, अऌ.) पाशान् निमुष्टितृतीयं दण्डं संपातवत्
(कौश्स्_6,1[47].15) पूर्वाभिर् बध्नीते
(कौश्स्_6,1[47].16) <वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि ॥ स न इन्द्रपुरोहितो [सेए ब्लोओम्fइएल्द्, अज्फ् 27 (1906), 416] विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृ;ल । निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥ [प्स् 19.42.4-6 (अल्सो अत् अव्परिश् 37.1.8) - च्f. 19.44.4]> इति दण्डम् आदत्ते
(कौश्स्_6,1[47].17) भक्तस्याहुतेन मेखलाया ग्रन्थिम् आलिम्पति
(कौश्स्_6,1[47].18) <अयं वज्रस् [6.134.1]>_इति बाह्यतो दण्डम् ऊर्ध्वम् अवागग्रं तिसृभिर् अन्वृचं निहन्ति
(कौश्स्_6,1[47].19) अन्तर् उपस्पृशेत्
(कौश्स्_6,1[47].20) <यद् अश्नामि [6.135.1]>_इति मन्त्रोक्तम्
(कौश्स्_6,1[47].21) यत् पात्रम् आहन्ति <फड् ढतो ऽसौ [च्f. कौश्स् 116.7, अन्द् व्स्म् 7.3 = ;स्ब्म् 4.1.1.26 एत्च्.]>_इति
(कौश्स्_6,1[47].22) इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानाव् अप्य् आयछामीत्य् आयछति
(कौश्स्_6,1[47].23) <ये ऽमावास्यां [1.16.1]>_इति संनह्य सीसचूर्णानि भक्ते_अलंकारे
(कौश्स्_6,1[47].24) पराभूतवेणोर् यष्ट्या बाहुमात्र्यालंकृतयाहन्ति
(कौश्स्_6,1[47].25) <द्यावापृथिवी उर्व् [2.12.1]> इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति
(कौश्स्_6,1[47].26) अन्वक् त्रिस् तिर्यक् त्रिः
(कौश्स्_6,1[47].27) अक्ष्णया संस्थाप्य
(कौश्स्_6,1[47].28) +आव्रस्कात् पांसून्+ (एद्.: आव्रस्कान्यांशून्; सेए चलन्द्, अz, अऌ.) पलाशम् उपनह्य भ्रष्ट्रे_अभ्यस्यति
(कौश्स्_6,1[47].29) स्फोटत्सु स्तृतः
(कौश्स्_6,1[47].30) पश्चाद् अग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रम् अपर्यावर्तमानः शयीत
(कौश्स्_6,1[47].31) तत उत्थाय त्रिर् अह्न उदवज्रान् प्रहरति
(कौश्स्_6,1[47].32) नद्या अनामसंपन्नाया अश्मानं प्रास्यति
(कौश्स्_6,1[47].33) उष्णे_अक्षतसक्तून् अनूपमथितान् अनुच्छ्वसन् पिबति
(कौश्स्_6,1[47].34) कथं त्रींस्त्रीन् काशीन्_त्रिरात्रम्
(कौश्स्_6,1[47].35) द्वौद्वौ त्रिरात्रम्
(कौश्स्_6,1[47].36) एकैकं षड्रात्रम्
(कौश्स्_6,1[47].37) द्वादश्याः प्रातः क्षीरौदनं भोजयित्वा_उच्छिष्टान् उच्छिष्टं बहुमत्स्ये प्रकिरति
(कौश्स्_6,1[47].38) संधावत्सु स्तृतः
(कौश्स्_6,1[47].39) लोहितशिरसं कृकलासम् अमून् हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने
(कौश्स्_6,1[47].40) लोहितालंकृतं कृष्णवसनम् अनूक्तं दहति
(कौश्स्_6,1[47].41) एकपदाभिर् अन्यो_अनुतिष्ठति
(कौश्स्_6,1[47].42) अङ्गशः सर्वहुतम् अन्यम्
(कौश्स्_6,1[47].43) पश्चाद् अग्नेः शरभृष्टीर् निधाय_उदग् व्रजति_आ स्वेदजननात्
(कौश्स्_6,1[47].44) निवृत्य स्वेदालंकृता जुहोति
(कौश्स्_6,1[47].45) कोश उरःशिरो_अवधाय पदात् पांसून्
(कौश्स्_6,1[47].46) पश्चाद् अग्नेर् लवणमृडीचीस् तिस्रो_अशीतीर् विकर्णीः शर्कराणाम्
(कौश्स्_6,1[47].47) विषं शिरसि
(कौश्स्_6,1[47].48) बाधकेन अवागग्रेण प्रणयन्न् अन्वाह
(कौश्स्_6,1[47].49) <पाशे स [2.12.2च्]> इति कोशे ग्रन्थीन् उद्ग्रथ्नाति
(कौश्स्_6,1[47].50) <आमुं [2.12.4द्]>_इत्य् आदत्ते
(कौश्स्_6,1[47].51) मर्मणि खादिरेण स्रुवेण गर्तं खनति
(कौश्स्_6,1[47].52) बाहुमात्रम् <अतीव यो [2.12.6]>_इति शरैर् अवज्वालयति
(कौश्स्_6,1[47].53) अवधाय संचित्य लोष्टं स्रुवेण समोप्य
(कौश्स्_6,1[47].54) अमुम् उन्नैषम् इत्य् उक्तावलेखनीम्
(कौश्स्_6,1[47].55) छायां वा
(कौश्स्_6,1[47].56) उपनिनयते
(कौश्स्_6,1[47].57) अन्वाह
(कौश्स्_6,2[48].1) <भ्रातृव्यक्षयणं [2.18.1]>_इत्य् अरण्ये सपत्नक्षयणीर् आदधाति
(कौश्स्_6,2[48].2) ग्रामम् एत्यावपति
(कौश्स्_6,2[48].3) <पुमान् पुंसः [3.6.1]>_इति मन्त्रोक्तम् अभिहुतालंकृतं बध्नाति
(कौश्स्_6,2[48].4) यावन्तः सपत्नास् तावतः पाशान् इङ्गिडालंकृतान् संपातवतो_अनूक्तान् ससूत्रान्_चम्वा मर्मणि निखनति
(कौश्स्_6,2[48].5) नावि <प्रैणान् [3.6.8]> <नुदस्व काम [9.2.4]>_इति मन्त्रोक्तं शाखया प्रणुदति
(कौश्स्_6,2[48].6) <ते ऽधराञ्चः [3.6.7]>_इति प्रप्लावयति
(कौश्स्_6,2[48].7) <बृहन्न् एषाम् [4.16.1]> इत्य् आयन्तं शप्यमानम् अन्वाह
(कौश्स्_6,2[48].8) <वैकङ्कतेन [5.8.1]>_इति मन्त्रोक्तम्
(कौश्स्_6,2[48].9) <ददिर् हि [5.13.1]>_इति साग्नीनि
(कौश्स्_6,2[48].10) देशकपटु प्रक्षिणाति
(कौश्स्_6,2[48].11) <ते ऽवदन् [5.17.1]>_इति नेतॄणां पदं वृश्चति
(कौश्स्_6,2[48].12) अन्वाह
(कौश्स्_6,2[48].13) ब्रह्मगवीभ्याम् अन्वाह
(कौश्स्_6,2[48].14) चेष्टाम्
(कौश्स्_6,2[48].15) विचृतति
(कौश्स्_6,2[48].16) ऊबध्ये
(कौश्स्_6,2[48].17) श्मशाने
(कौश्स्_6,2[48].18) त्रिर् अमून् हरस्व_इत्य् आह
(कौश्स्_6,2[48].19) द्वितीययाश्मानम् ऊबध्यगूहे [एम्. चलन्द्, अz प्. 168 न्. 9 -- एद्.: ऊबध्ये गूहयति]
(कौश्स्_6,2[48].20) द्वाशरात्रं सर्वव्रत उपश्राम्यति
(कौश्स्_6,2[48].21) द्विर् उदिते स्तृतः
(कौश्स्_6,2[48].22) अवागग्रेण निवर्तयति
(कौश्स्_6,2[48].23) <उप प्रागात् [6.37.1]>_इति शुने पिण्डं पाण्डुं प्रयछति
(कौश्स्_6,2[48].24) तार्छं बध्नाति
(कौश्स्_6,2[48].25) जुहोति
(कौश्स्_6,2[48].26) आदधाति
(कौश्स्_6,2[48].27) <इदं तद् युज [6.54.1]>_<यत् किं चासौ मनसा [7.70.1]>_इत्य् आहिताग्निं प्रतिनिर्वपति
(कौश्स्_6,2[48].28) मध्यमपलाशेन फलीकरणान्_जुहोति
(कौश्स्_6,2[48].29) <निर् अमुं [6.75.1]>_इत्य् अङ्गुष्ठेन त्रिर् अनुप्रस्तृणाति
(कौश्स्_6,2[48].30) शरं कद्विन्दुकोष्ठैर् अनुनिर्वपति
(कौश्स्_6,2[48].31) लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति
(कौश्स्_6,2[48].32) <त्वं वीरुधां [6.138.1]>_इति मूत्रपुरीषं वत्सशेप्यायां ककुचैर् अपिधाप्य संपिष्य निखनति
(कौश्स्_6,2[48].33) शेप्यानडे
(कौश्स्_6,2[48].34) शेप्यायाम्
(कौश्स्_6,2[48].35) <यथा सूर्यो [7.13.1]>_इत्य् अन्वाह
(कौश्स्_6,2[48].36) उत्तरया यान्_तान् पश्यति
(कौश्स्_6,2[48].37) <इन्द्रोतिभिर् [7.31.1]> <अग्ने जातान् [7.34.1]> <यो न स्तायद् दिप्सति [7.108.1]> <यो नः शपाद् [7.59.1।6.37.3]> इति वैद्युद्धतीः
(कौश्स्_6,2[48].38) <सांतपना [7.77.1]> इत्य् ऊर्ध्वशुषीः
(कौश्स्_6,2[48].39) घ्रंसशृतं पुरोडाशम् घ्रंसविलीनेन सर्वहुतम्
(कौश्स्_6,2[48].40) <उद् अस्य श्यावौ [7.95.1]>_इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा_उष्णोदके व्यादाय प्रत्याहुति मण्डूकम् अपनुदति_अभिन्युब्जति
(कौश्स्_6,2[48].41) उपधावन्तम् <असदन् गावः [7.96.1]>_इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम्
(कौश्स्_6,2[48].42) अशिशिषोः क्षीरौदनम्
(कौश्स्_6,2[48].43) आमपात्रम् अभ्यवनेनेक्ति
(कौश्स्_6,3[49].1) <सपत्नहनम् [9.2.1]> इत्य् ऋषभं संपातवन्तम् अतिसृजति
(कौश्स्_6,3[49].2) आश्वत्थीर् अवपन्नाः
(कौश्स्_6,3[49].3) स्वयम् <इन्द्रस्यौज [10.5.1अ]> इति प्रक्षालयति
(कौश्स्_6,3[49].4) <जिष्णवे योगाय [10.5.1ब्]>_इत्य् अपो युनक्ति
(कौश्स्_6,3[49].5) वातस्य रंहितस्यामृतस्य योनिर् इति प्रतिगृह्णाति
(कौश्स्_6,3[49].6) उत्तमाः प्रताप्याधराः प्रदाय_एनम् एनान् अधराचः पराचो_अवाचस् तमसस् [एम्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. तपसस्] तम् उन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानाम् इत्य् अतिसृजति
(कौश्स्_6,3[49].7) इदम् अहं <यो मा प्राच्या दिशो_अघायुर् अभिदासाद् अपवादीद् इषुगूहः [च्f. 5.10, 4.40]> तस्य_इमौ प्राणापानौ_अपक्रामामि ब्रह्मणा
(कौश्स्_6,3[49].8) दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाय ऊर्ध्वायाः
(कौश्स्_6,3[49].9) इदम् अहम् <यो मा दिशाम् अन्तर्देशेभ्य [-]> इत्य् <अपक्रामामि [-]>_इति
(कौश्स्_6,3[49].10) एवम् अभिष्ठानापोहननिवेष्टनानि (सेए चलन्द्, क्ल्. स्छ्र्., प्. 50, ओन् थे रेअदिन्ग् अन्द् सूत्र दिविसिओन्)
(कौश्स्_6,3[49].11) सर्वाणि खलु शश्वद् भूतानि
(कौश्स्_6,3[49].12) ब्राह्मणाद् वज्रम् उद्यछमानात्_शङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्यो_अभयं वदेत्_शम् अग्नये शं पृथिव्यै शम् अन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवम् मह्यम् इति
(कौश्स्_6,3[49].13) <यो व आपो ऽपां [10.5.15]> <यं वयं [10.5.42]>_<अपाम् अस्मै वज्रं [10.5.50]>_इत्य् अन्वृचम् उदवज्रान्
(कौश्स्_6,3[49].14) <विष्णोः क्रमो ऽसि [10.5.25]>_इति विष्णुक्रमान्
(कौश्स्_6,3[49].15) <ममाग्ने वर्चो [5.3.1]>_इति बृहस्पतिशिरसं पृषातकेन_उपसिच्याभिमन्त्र्य_उपनिदधाति
(कौश्स्_6,3[49].16) प्रतिजानन् नानुव्याहरेत्
(कौश्स्_6,3[49].17) उत्तमेन_उपद्रष्टारम्
(कौश्स्_6,3[49].18) <उदेहि वाजिन् [13.1.1अब्]>_इत्य् अर्धर्चेन नावं मज्जतीम्
(कौश्स्_6,3[49].19) <समिद्धो ऽग्निः [13.1.28]>_<य इमे द्यावापृथिवी [13.3.1]> <अजैष्म [16.6.1]>_इत्य् अधिपाशान् आदधाति
(कौश्स्_6,3[49].20) पदेपदे पाशान् वृश्चति
(कौश्स्_6,3[49].21) अधिपाशान् बाधकान्_शङ्कून्_तान् संक्षुद्य संनह्य भ्रष्ट्रे_अध्यस्यति
(कौश्स्_6,3[49].22) अशिशिषोः क्षीरौदनादीनि त्रीणि
(कौश्स्_6,3[49].23) गर्तेध्मौ_अन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातान् अभ्यतिनिनयति
(कौश्स्_6,3[49].24) षष्ठ्या_उदवज्रान् प्रहरति
(कौश्स्_6,3[49].25) सप्तम्याचामति
(कौश्स्_6,3[49].26) <यश् च गां [13.1.56]>_इत्य् अन्वाह
(कौश्स्_6,3[49].27) <निर् दुरर्मण्य (एद्. मिस्प्रिन्त्: निर्दुर्मण्य) [16.2.1]> इति संधाव्याभिमृशति
(कौश्स् 6 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे षष्ठो ऽध्यायः समाप्तः
(कौश्स्_7,1[50].1) <स्वस्तिदा [1.21.1]> <ये ते पन्थानो [7.55.1।12.1.47]>_इत्य् अध्वानं दक्षिणेन प्रक्रामति
(कौश्स्_7,1[50].2) व्युदस्यति_असंख्याताः शर्कराः
(कौश्स्_7,1[50].3) तृणानि छित्वा_उपतिष्ठते
(कौश्स्_7,1[50].4) <आरे [1.26.1]>_<अमूः पारे [1.27.1]> <पातं न [6.3.1]>_<य एनं परिषीदन्ति [6.76.1]> यद् आयुधं दण्डेन व्याख्यातम्
(कौश्स्_7,1[50].5) दिष्ट्या मुखं विमाय संविशति
(कौश्स्_7,1[50].6) त्रीणि पदानि प्रमाय_उत्तिष्ठति
(कौश्स्_7,1[50].7) तिस्रो दिष्टीः
(कौश्स्_7,1[50].8) <प्रेतं पादौ [1.27.4]>_इत्य् +अवसस्य (एद्.: अवशस्य; सेए चलन्द्, क्ल्. स्छ्र्., प्. 61)
(कौश्स्_7,1[50].9) पाययति
(कौश्स्_7,1[50].10) <उपस्थास् ते [12.1.62]>_इति त्रीणि_ओप्यातिक्रामति
(कौश्स्_7,1[50].11) <स्वस्ति मात्र [1.31.4]> इति निशि_उपतिष्ठते
(कौश्स्_7,1[50].12) <इन्द्रम् अहं [3.15.1]>_इति पण्यं संपातवद् उत्थापयति
(कौश्स्_7,1[50].13) निमृज्य दिग्युक्ताभ्यां <दोषो गाय [6.1.1]> <पातं न [6.3-6.7]> इति पञ्च_<अनडुद्भ्यस् [6.59.1]>_<यमो मृत्युर् [6.93.1]> <विश्वजित् [6.107.1]>_<शकधूमं [6.128.1]> <भवाशर्वौ [4.28.1।11.2.1।11.6.9]>_इत्य् उपदधीत
(कौश्स्_7,1[50].14) उत्तमेन सारूपवत्सस्य रुद्राय त्रिर् जुहोति
(कौश्स्_7,1[50].15) उप_उत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वसु_आधाय शकधूमं किम् अद्याहर् इति पृछति
(कौश्स्_7,1[50].16) भद्रं सुमङ्गलिम् इति प्रतिपद्यते
(कौश्स्_7,1[50].17) युक्तयोर् <मा नो देवा [6.56.1]> <यस् ते सर्पो [12.1.46]>_इति शयनशाला_उर्वराः परिलिखति
(कौश्स्_7,1[50].18) तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति
(कौश्स्_7,1[50].19) ऊबध्यं संभिनत्ति
(कौश्स्_7,1[50].20) निखनति
(कौश्स्_7,1[50].21) आदधाति
(कौश्स्_7,1[50].22) अपामार्गप्रसूनान् कुद्रीचीशफान् परीचीनमूलान्
(कौश्स्_7,2[51].1) <उद् इतस् [4.3.1]>_इति खादिरं शङ्कुं संपातवन्तम् उद्गृह्णन् निखनन् गा अनुव्रजति
(कौश्स्_7,2[51].2) निनयनं समुह्य चारे सारूपवत्सस्य_इन्द्राय त्रिर् जुहोति
(कौश्स्_7,2[51].3) दिश्यान् बलीन् हरति
(कौश्स्_7,2[51].4) प्रतिदिशम् उपतिष्ठते
(कौश्स्_7,2[51].5) मध्ये पञ्चमम् अनिर्दिष्टम्
(कौश्स्_7,2[51].6) शेषं निनयति
(कौश्स्_7,2[51].7) <ब्रह्म जज्ञानं [4.1.1।5.6.1]>_<भवाशर्वौ [4.28.1।11.2.1।11.6.9]>_इत्य् आसन्नम् अरण्ये पर्वतं यजते
(कौश्स्_7,2[51].8) अन्यस्मिन् भवशर्वपशुपति_उग्ररुद्रमहादेव_ईशानानां पृथग् आहुतीः
(कौश्स्_7,2[51].9) गोष्ठे च द्वितीयम् अश्नाति
(कौश्स्_7,2[51].10) दर्भान् आधाय धूपयति
(कौश्स्_7,2[51].11) भूत्यै वः पुष्ट्यै व इति प्रथमजयोर् मिथुनयोर् मुखम् अनक्ति
(कौश्स्_7,2[51].12) तिस्रो नलदशाखा वत्सान् पाययति
(कौश्स्_7,2[51].13) शाखया_उदकधारया गाः परिक्रामति
(कौश्स्_7,2[51].14) <अश्मवर्म मे [5.10.1]>_इति षड् अश्मनः संपातवतः +स्रक्तिषूपरि_(एद्.: स्रक्तिषु पर्य्; सेए चलन्द्, क्ल्. स्छ्र्., प्. 61)_अधस्तान् निखनति
(कौश्स्_7,2[51].15) <अलसाला [6.16.4]>_इत्य् आलभेषजम्
(कौश्स्_7,2[51].16) त्रीणि सिलाञ्जालाग्राणि_उर्वरामध्ये निखनति
(कौश्स्_7,2[51].17) <हतं तर्दं [6.50.1]>_इति अयसा सीसं कर्षन्न् उर्वरां परिक्रामति
(कौश्स्_7,2[51].18) अश्मनो_अवकिरति
(कौश्स्_7,2[51].19) तर्दम् अवशिरसं वदनात् केशेन समुह्य_उर्वरामध्ये निखनति
(कौश्स्_7,2[51].20) उक्तं चारे
(कौश्स्_7,2[51].21) बलीन् हरति_आशाया आशापतये_अश्विभ्यां क्षेत्रपतये
(कौश्स्_7,2[51].22) यदा_एतेभ्यः कुर्वीत वाग्यतस् तिष्ठेद् आस्तमयाद्
(कौश्स्_7,3[52].1) <ये पन्थानो [6.55.1]>_इति परीत्य_उपदधीत
(कौश्स्_7,3[52].2) प्रयछति
(कौश्स्_7,3[52].3) <यस्यास् ते [6.84.1]> <यत् ते देवी [6.63.1]> <विषाणा पाशान् [6.121.1]> इत्य् उन्मोचनप्रतिरूपं संपातवन्तं करोति
(कौश्स्_7,3[52].4) वाचा बद्धाय भूमिपरिलेखम्
(कौश्स्_7,3[52].5) <आयने [6.106.1]>_इति शमनम् अन्तरा ह्रदं करोति
(कौश्स्_7,3[52].6) शाले च
(कौश्स्_7,3[52].7) अवकया शालां परितनोति
(कौश्स्_7,3[52].8) शप्यमानाय प्रयछति
(कौश्स्_7,3[52].9) निदग्धं प्रक्षालयति
(कौश्स्_7,3[52].10) <महीम् ऊ षु [7.6.2]>_इति तरणानि_आलम्भयति
(कौश्स्_7,3[52].11) दूरात्_नावं संपातवतीं नैमणिं बध्नाति
(कौश्स्_7,3[52].12) <प्रपथे [7.9.1]>_इति नष्ट_एषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन् निमृज्य_उत्थापयति
(कौश्स्_7,3[52].13) एवं संपातवतः
(कौश्स्_7,3[52].14) निमृज्य_एकविंशतिं शर्करास्_चतुष्पथे_अवक्षिप्यावकिरति
(कौश्स्_7,3[52].15) <नमस्कृत्य [7.102.1]>_इति मन्त्रोक्तम्
(कौश्स्_7,3[52].16) अंहोलिङ्गानाम् आपो भोजनहवींषि_अभिमर्शन_उपस्थानम् आदित्यस्य
(कौश्स्_7,3[52].17) स्वयं हविषां भोजनम्
(कौश्स्_7,3[52].18) <विश्वे देवा [1.30.1]>_इत्य् आयुष्याणि
(कौश्स्_7,3[52].19) स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति
(कौश्स्_7,3[52].20) <अस्मिन् वसु [1.9.1]> <यद् आबध्नन् [1.35.1]> <नव प्राणान् [5.28.1> इति युग्मकृष्णलम् आदिष्टानां स्थालीपाके_आधाय बध्नाति
(कौश्स्_7,3[52].21) आशयति
(कौश्स्_7,4[53].1) <आयुर्दा [2.13.1]> इति गोदानं कारयिष्यन् संभारान् संभरति
(कौश्स्_7,4[53].2) अमम्रिम् ओजोमानीं दूर्वाम् अकर्णम् अश्ममण्डलम् आनडुहशकृत्पिण्डं षड् दर्भप्रान्तानि कंसम् अहते वसने शुद्धम् आज्यम् शान्ता ओषधीर् नवम् उदकुम्भम्
(कौश्स्_7,4[53].3) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चम् उपसमाधाय
(कौश्स्_7,4[53].4) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य
(कौश्स्_7,4[53].5) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च
(कौश्स्_7,4[53].6) पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति
(कौश्स्_7,4[53].7) तत्र_एतत् सूक्तम् अनुयोजयति
(कौश्स्_7,4[53].8) त्रिर् एवाग्निं संप्रोक्षति त्रिः पर्युक्षति
(कौश्स्_7,4[53].9) त्रिः कारयमाणम् आचामयति च संप्रोक्षति च
(कौश्स्_7,4[53].10) शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयछति
(कौश्स्_7,4[53].11) तत् सुहृद् दक्षिणतो_अग्नेर् उदङ्मुख आसीनो धारयति
(कौश्स्_7,4[53].12) अथास्मै_अन्वारब्धाय करोति
(कौश्स्_7,4[53].13) <आयुर्दा [2.13.1]> इत्य् अनेन सूक्तेनाज्यं जुह्वन् मूर्ध्नि संपातान् आनयति
(कौश्स्_7,4[53].14) दक्षिणे पाणौ_अश्ममण्डले_उदपात्रे_उत्तरसंपातान् स्थालरूप आनयति
(कौश्स्_7,4[53].15) अमम्रिम् ओजोमानीं च_उदपात्रे_अवधाय
(कौश्स्_7,4[53].16) स्थालरूपे दूर्वां शान्त्युदकम् उष्णोदकं च_एकधाभिसमासिच्य
(कौश्स्_7,4[53].17) <आयम् अगन् सविता क्षुरेण [6.68.1]>_इत्य् उदपात्रम् अनुमन्त्रयते
(कौश्स्_7,4[53].18) <अदितिः श्मश्रु [6.68.2]>_इत्य् उन्दति
(कौश्स्_7,4[53].19) <यत् क्षुरेण [8.2.17]>_इत्य् उदक्पत्त्रं क्षुरम् अद्भि श्चोत्य त्रिः प्रमार्ष्टि
(कौश्स्_7,4[53].20) <येनावपत् [6.68.3]>_इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जुल्या केशान् अभिनिधाय प्रछिद्य स्थालरूपे करोति
(कौश्स्_7,4[53].21) एवम् एव द्वितीयं करोति
(कौश्स्_7,4[53].22) एवं तृतीयम्
(कौश्स्_7,4[53].23) एवम् एव_उत्तरस्य केशपक्षस्य करोति
(कौश्स्_7,5[54].1) अथ नापितं समादिशति_अक्षण्वन् वप केशश्मश्रुर् ओम परिवप नखानि कुरु_इति
(कौश्स्_7,5[54].2) <पुनः प्राणः [6.53.2]> <पुनर् मैत्व् इन्द्रियं [7.67.1]>_इति त्रिर् निमृज्य
(कौश्स्_7,5[54].3) त्वयि महिमानं सादयामीत्य् अन्ततो योजयेत्
(कौश्स्_7,5[54].4) अथ_एनम् उप्तकेशश्मश्रुं कृतनखम् (एद्.: कृत्तनखं; सेए चलन्द्, क्ल्. स्छ्र्., प्. 61) आप्लावयति
(कौश्स्_7,5[54].5) <हिरण्यवर्णाः [1.33.1]>_इत्य् एतेन सूक्तेन गन्धप्रवादाभिर् अलंकृत्य
(कौश्स्_7,5[54].6) <स्वाक्तं (एद्.: स्वक्तं; सेए चलन्द्, क्ल्. स्छ्र्., प्. 78) मे [7.30.1]>_इत्य् आनक्ति
(कौश्स्_7,5[54].7) अथ_एनम् अहतेन वसनेन परिधापयति <परि धत्त [2.13.2]>_इति द्वाभ्याम्
(कौश्स्_7,5[54].8) <एह्य् अश्मानम् आ तिष्ठ [2.13.4]>_इति दक्षिणेन पादेनाश्ममण्डलम् आस्थाप्य प्रदक्षिणम् अग्निम् अनुपरिणीय
(कौश्स्_7,5[54].9) अथास्य वासो निर्मुष्णाति <यस्य ते वासः [2.13.5]>_इत्य् अनया
(कौश्स्_7,5[54].10) अथ_एनम् अपरेणाहतेन वसनेनाछादयति_<अयं वस्ते गर्भं पृथिव्या [13.1.16]> इति पञ्चभिः
(कौश्स्_7,5[54].11) <यथा द्यौः [2.15.1]>_<मनसे चेतसे धिय [6.41.1]> इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति
(कौश्स्_7,5[54].12) <प्राणापानौ [2.16.1]> <ओजो ऽसि [2.17.1]>_इत्य् उपदधीत
(कौश्स्_7,5[54].13) <तुभ्यम् एव जरिमन् [2.28.1]>_इति कुमारं मातापितरौ त्रिः संप्रयछेते
(कौश्स्_7,5[54].14) घृतपिण्डाअन् आशयतः
(कौश्स्_7,5[54].15) चूडाकरणम् च गोदानेन व्याख्यातम्
(कौश्स्_7,5[54].16) परिधापनाश्ममण्डलवर्जम्
(कौश्स्_7,5[54].17) <शिवे ते स्तां [8.2.14]>_इति परिदानान्तानि
(कौश्स्_7,5[54].18) <पार्थिवस्य [2.29.1]> <मा प्र गाम [13.1.59]>_इति चतस्रः सर्वाणि_अपियन्ति
(कौश्स्_7,5[54].19) अमम्रिम् ओजोमानीं च दूर्वां च केशान्_च शकृत्पिण्डं च_एकधाब्दिसमाहृत्य
(कौश्स्_7,5[54].20) शान्तवृक्षस्य_उपरि_आदधाति
(कौश्स्_7,5[54].21) अधिकरणं ब्रह्मणः कंसवसनं गौर् दक्षिणा
(कौश्स्_7,5[54].22) ब्राह्मणान् भक्तेन_उपेप्सन्ति
(कौश्स्_7,6[55].1) उपनयनम्
(कौश्स्_7,6[55].2) <आयम् अगन् [6.68.1]>_इति मन्त्रोक्तम्
(कौश्स्_7,6[55].3) <यत् क्षुरेण [8.2.17]>_इत्य् उक्तम्
(कौश्स्_7,6[55].4) <येनावपत् [6.68.3]>_इति शकृद् अपिञ्जूलि
(कौश्स्_7,6[55].5) लौकिकं च समानाम् आ परिधानात्
(कौश्स्_7,6[55].6) उपेतपूर्वस्य नियतं सवान् दास्यतो_अग्नीन् आधास्यमानपर्यवेतव्रतदीक्षिष्यमाणानाम् (एद्.: आधास्यमानः पर्य्-; सेए चलन्द्, क्ल्. स्छ्र्., प्. 61)
(कौश्स्_7,6[55].7) सोष्णोदकं शान्त्युदकं प्रदक्षिणम् अनुपरिणीय पुरस्ताद् अग्नेः प्रत्यङ्मुखम् अवस्थाप्य
(कौश्स्_7,6[55].8) आह ब्रूहि
(कौश्स्_7,6[55].9) ब्रह्मचर्यम् आगम् उप मा नयस्व_इति
(कौश्स्_7,6[55].10) को नामासि किंगोत्र इत्य् असौ_इति यथा नामगोत्रे भवतस् तथा प्रब्रूहि
(कौश्स्_7,6[55].11) आर्षेयं मा कृत्वा बन्धुम् अन्तम् उपनय
(कौश्स्_7,6[55].12) आर्षेयं त्वा कृत्वा बन्धुम् अन्तम् उपनयामीति
(कौश्स्_7,6[55].13) ओं भूर् भुवः स्वर् जनद् ओम् इत्य् अञ्जलौ_उदकम् आसिञ्चति
(कौश्स्_7,6[55].14) उत्तरो ऽअसानि ब्रह्मचारिभ्य इत्य् उत्तमं पाणिम् अन्वादधाति
(कौश्स्_7,6[55].15) एष म आदित्यपुत्रस् तन् मे गोपायस्व_इत्य् आदित्येन समीक्षते
(कौश्स्_7,6[55].16) <अपक्रामन् पौरुषेयाद् वृणानो [7.105.1]> इत्य् एनं बाहुगृहीतं प्राञ्चम् अवस्थाप्य दक्षिणेन पाणिना नाभिदेशे_अभिसंस्तभ्य जपति
(कौश्स्_7,6[55].17) <अस्मिन् वसु वसवो धारयन्तु [1.9.1]>_<विश्वे देवा वसवो [1.30.1]>_<आ यतु मित्र [3.8.1]>_<अमुत्रभूयाद् [7.53.1]> <अन्तकाय मृत्यवे [8.1.1]>_<आ रभस्व [8.2.1]>_<प्राणाय नमो [11.4.1]> <विषासहिम् [17.1.5]> इत्य् अभिमन्त्रयते
(कौश्स्_7,6[55].18) अथापि परित्वरमाण <आ यातु मित्र [3.8.1]>_इत्य् अपि खलु_एतवता_एव_उपनीतो भवति
(कौश्स्_7,6[55].19) प्रछाद्य त्रीन् प्राणायामान् कृत्वावछाद्य वत्सतरीम् उदपात्रे समवेक्षयेत्
(कौश्स्_7,6[55].20) <सम् इन्द्र नो [7.97.2]>_<सं वर्चसा [6.53.3]>_इति द्वाभ्याम् उत्सृजन्ति गाम्
(कौश्स्_7,7[56].1) <श्रद्धाया दुहिता [6.133.4]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति
(कौश्स्_7,7[56].2) मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं प्रयछति
(कौश्स्_7,7[56].3) मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्व् अवक्रो ऽविथुरो ऽहं भूयासम् इति प्रतिगृह्णाति
(कौश्स्_7,7[56].4) <श्येनो ऽसि [6.48.1]>_इति च
(कौश्स्_7,7[56].5) अथ_एनं व्रतादानीयाः समिध आधापयति
(कौश्स्_7,7[56].6) <अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तत् समापेयं तन् मे राध्यतां तन् मे समृध्यतां तन् मे मा व्यनशत् तेन राध्यासं तत् ते प्रब्रवीमि तद् उपाकरोमि अग्नये व्रतपतये स्वाहा [च्f. त्स् 1.5.10.3 एत्च्.]>
(कौश्स्_7,7[56].7) <वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । व्रतानां व्रतपतयो व्रतम् अचारिषं तद् अशकं तत् समाप्तं तन् मे राद्धं तन् मे समृद्धं तन् मे मा व्यनशत् तेन राधो ऽस्मि तद् वः प्रब्रवीमि तद् उपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाह [च्f. त्स् 1.6.6.3 एत्च्.]>
(कौश्स्_7,7[56].8) अथ_एनं बद्धमेखलम् आहितसमित्कं सावित्रीं वाचयति
(कौश्स्_7,7[56].9) पच्छः प्रथमम्
(कौश्स्_7,7[56].10) ततो_अर्धर्चशः
(कौश्स्_7,7[56].11) ततः संहिताम्
(कौश्स्_7,7[56].12) अथ_एनं संशास्ति_<अग्नेश् चासि ब्रह्मचारिन् मम चापो ऽशान कर्म कुरूर्ध्वस् तिष्ठन् मा दिवा स्वाप्सीः समिध आधेहि [च्f. मन्ब् 1.6.23]>
(कौश्स्_7,7[56].13) अथ_एनं भूतेभ्यः परिददाति_<अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्य् उदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुंजयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्य् अघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस् त्वा देवेभ्यः परिददामि सर्वेभ्यस् त्वा देवेभ्यः परिददामि विश्वेभ्यस् त्वा भूतेभ्यः परिददामि सर्वेभ्यस् त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः [च्f. भार्ग्स् 1.8:8.1ff.]>
(कौश्स्_7,7[56].14) <स्वस्ति चरताद् इह [च्f. प्स् 20.53.2, हिर्ग्स् 1.5.1]>_इति <मयि रमन्तां ब्रह्मचारिणः [-]>_इत्य् अनुगृह्णीयात्
(कौश्स्_7,7[56].15) नानुप्रणुदेत्
(कौश्स्_7,7[56].16) <प्रणीतीर् अभ्यावर्तस्व [7.105.1]>_इत्य् अभ्यात्मम् आवर्तयति
(कौश्स्_7,7[56].17) <यथापः प्रवता यन्ति यथा मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातर् आ यन्तु सर्वदा ॥ [प्स् 20.52.9]> स्वाहा_इत्य् आचार्यः समिधम् आदधाति
(कौश्स्_7,8[57].1) <श्रद्धाया [एद्. मिस्प्रिन्त्: श्राधया; सेए चलन्द्, क्ल्. स्छ्र्., प्. 51, ब्लोओम्fइएल्द् ग्ग 1902 514] दुहिता [6.133.4]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति
(कौश्स्_7,8[57].2) मौर्वीं क्षत्रियाय धनुर्ज्यां वा
(कौश्स्_7,8[57].3) क्षौमिकीं वैश्याय
(कौश्स्_7,8[57].4) मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं ब्राह्मणाय प्रयछति
(कौश्स्_7,8[57].5) आश्वत्थं क्षत्रियाय
(कौश्स्_7,8[57].6) न्यग्रोधावरोहं वैश्याय
(कौश्स्_7,8[57].7) यदि_अस्य दण्डो भज्येत <य ऋते चिद् अभिश्रिषः [14.2.47]>_इत्य् एतयालभ्याभिमन्त्रयते
(कौश्स्_7,8[57].8) सर्वत्र शीर्णे भिन्ने नष्टे_अन्यं कृत्वा <पुनर् मैत्व् इन्द्रियं [7.67.1]>_इत्य् आदधीत
(कौश्स्_7,8[57].9) अथ वासांसि
(कौश्स्_7,8[57].10) ऐणेयहारिणानि ब्राह्मणस्य
(कौश्स्_7,8[57].11) रौरवपार्षतानि क्षत्रियस्य
(कौश्स्_7,8[57].12) आजाविकानि वैश्यस्य
(कौश्स्_7,8[57].13) सर्वेषां क्षौमशाणकम्बलवस्त्रम्
(कौश्स्_7,8[57].14) काषायाणि
(कौश्स्_7,8[57].15) वस्त्रं चापि_अकाषायम्
(कौश्स्_7,8[57].16) भवति भिक्षां देहीति ब्राह्मणश् चरेत्
(कौश्स्_7,8[57].17) भिक्षां भवती ददात्व् इति क्षत्रियः
(कौश्स्_7,8[57].18) देहि भिक्षां भवतीत् वैश्यः
(कौश्स्_7,8[57].19) सप्त कुलानि ब्राह्मणश् चरेत् त्रीणि क्षत्रियो द्वे वैश्यः
(कौश्स्_7,8[57].20) सर्वं ग्रामं चरेद् भैक्षं स्तेनपतितवर्जम्
(कौश्स्_7,8[57].21) <मय्य् अग्रे [7.82.2]>_इति पञ्चप्रश्नेन जुहोति
(कौश्स्_7,8[57].22) <सं मा सिञ्चन्तु [7.33.1]>_इति त्रिः पर्युक्षति
(कौश्स्_7,8[57].23) <यद् अग्ने तपसा तप [7.61.1]>_<अग्ने तपस् तप्यामह [7.62.2]> इति द्वाभ्यां परिसमूहयति
(कौश्स्_7,8[57].24) <इदम् आपः प्रवहत [7.89.3]>_इति पाणी प्रक्सालयते
(कौश्स्_7,8[57].25) <सं मा सिञ्चन्तु [7.33.1]>_इति त्रिः पर्युक्षति
(कौश्स्_7,8[57].26) <अग्ने समिधम् आहार्षं [19.64.1]>_इत्य् आदधाति चतस्रः
(कौश्स्_7,8[57].27) <एधो ऽस्य् [7.89.4]>_इत्य् ऊष्मभक्षं भक्षयति_आ निधनात्
(कौश्स्_7,8[57].28) <त्वं नो मेधे [6.108.1]>_इत्य् उपतिष्ठते
(कौश्स्_7,8[57].29) <यद् अन्नम् [6.71.1]> इति तिसृभिर् भैक्षस्य जुहोति
(कौश्स्_7,8[57].30) अहरहः समिध आहृत्य_एवं सायंप्रातर् अभ्यादध्यात्
(कौश्स्_7,8[57].31) मेधाजनन आयुष्यैर् जुहुयात्
(कौश्स्_7,8[57].32) यथाकामं द्वादशरात्रम् अरसाशी भवति
(कौश्स्_7,9[58].1) <भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद् भद्रं तन् न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यम् आर्तिं पुरुषरेषिणीम् । तद् अस्मद् अश्विना युवम् अप्रिये प्रति मुञ्चतम् ॥ यत् पार्श्वाद् उरसो मे अङ्गादङ्गाद् अववेपते । अश्विना पुष्करस्रजा तस्मान् नः पातम् अंहसः [प्स् 20.54.6-8]>_इति कर्णं क्रोशन्तम् अनुमन्त्रयते
(कौश्स्_7,9[58].2) अक्षि वा स्फुरत्
(कौश्स्_7,9[58].3) <वि देवा जरसा [3.31.1]>_<उत देवा [4.13.1]> <आवतस् त [5.30.1]> <उप प्रियं [7.32.1]>_<अन्तकाय मृत्यवे [8.1.1]>_<आ रभस्व [8.2.1]> <प्राणाय नमो [11.4.1]> <विषासहिं [17.1.1]>_इत्य् अभिमन्त्रयते
(कौश्स्_7,9[58].4) ब्राह्मणोक्तम् ऋषिहस्तश् च
(कौश्स्_7,9[58].5) <कर्मणे वां वेषाय वां सुकृताय वाम् [च्f. त्स् 1.1.4.1 एत्च्., कौश्स् 1.1.40]> इति पाणी प्रक्षाल्य
(कौश्स्_7,9[58].6) <निर् दुरर्मण्य [16.2.1]> इति संधाव्य
(कौश्स्_7,9[58].7) <शुद्धा न आपस् [12.1.30]>_इति निष्ठीव्य जीवाभिर् आचम्य
(कौश्स्_7,9[58].8) <एहि जीवं [4.9.1]>_इत्य् आञ्जनमणिं बध्नाति
(कौश्स्_7,9[58].9) <वाताज् जातो [4.10.1]>_इति कृशनम्
(कौश्स्_7,9[58].10) <नव प्राणान् [5.28.1]> इति मन्त्रोक्तम्
(कौश्स्_7,9[58].11) <घृताद् उल्लुप्तम् [5.28.14]> <आ त्वा चृतत्व् [5.28.12]> <ऋतुभिष् ट्वा [5.28.13]> [च्f. प्स् 2.59.10-12] <मुञ्चामि त्वा [3.11.1]>_<उत देवा [4.13.1]> <आवतस् त [5.30.1]> <उप प्रियं [7.32.1]>_<अन्तकाय मृत्यवे [8.1.1]>_<आ रभस्व [8.2.1]> <प्राणाय नमो [11.4.1]> <विषासहिं [17.1.1]>_इत्य् अभिमन्त्रयते
(कौश्स्_7,9[58].12) <निर् दुरर्मण्य [16.2.1]> इति सर्वसुरभिचूर्णैर् अरण्ये_अप्रतीहारं प्रलिम्पति
(कौश्स्_7,9[58].13) अथ नामकरणम्
(कौश्स्_7,9[58].14) <आ रभस्वेमाम् [8.2.1]> इत्य् अविछिन्नाम् उदकधाराम् आलम्भयति
(कौश्स्_7,9[58].15) पूतुदारुं बध्नाति
(कौश्स्_7,9[58].16) पाययति
(कौश्स्_7,9[58].17) <यत् ते वासः [8.2.16]>_इत्य् अहतेन_उत्तरसिचा प्रछादयति
(कौश्स्_7,9[58].18) <शिवे ते स्तां [8.2.14]>_इति कुमारं प्रथमं निर्णयति
(कौश्स्_7,9[58].19) <शिवौ ते स्तां [8.2.18]>_इति व्रीहियवौ प्राशयति
(कौश्स्_7,9[58].20) <अह्ने च त्वा [8.2.20]>_इत्य् अहोरात्राभ्यां परिददाति
(कौश्स्_7,9[58].21) <शरदे त्वा [8.2.22]>_इत्य् ऋतुभ्यः
(कौश्स्_7,9[58].22) <उद् अस्य केतवो [13.2.1]> <मूर्धाहं [16.3.1]> <विषासहिं [17.1.1]> इत्य् उद्यन्तम् उपतिष्ठते
(कौश्स्_7,9[58].23) मध्यंदिने_अस्तं यन्तं सकृत् पर्यायाभ्याम्
(कौश्स्_7,9[58].24) अंहोलिङ्गानाम् आपो भोजनहवींषि_उक्तानि
(कौश्स्_7,9[58].25) उत्तमासु <यन् मातली रथक्रीतम् [11.6.23]> इति सर्वासां द्वितीया
(कौश्स्_7,10[59].1) <विश्वे देवा [1.30.1]> इति विश्वान् आयुष्कामो यजते
(कौश्स्_7,10[59].2) उपतिष्ठते
(कौश्स्_7,10[59].3) <इदं जनास [1.32.1]> इति द्यावापृथिव्यै पुष्टिकामः
(कौश्स्_7,10[59].4) संपत्कामः
(कौश्स्_7,10[59].5) <इन्द्र जुषस्व [2.5.1]>_इतीन्द्रं बलकामः
(कौश्स्_7,10[59].6) <इन्द्रम् अहं [3.15.1]>_इति पण्यकामः
(कौश्स्_7,10[59].7) <उद् एनम् उत्तरं नय [6.5.1]> <यो ऽस्मान् [6.6.1]> <इन्द्रः सुत्रामा [7.91.1]>_इति ग्रामकामः
(कौश्स्_7,10[59].8) ग्रामसांपदानाम् अप्ययः
(कौश्स्_7,10[59].9) <यशसं मेन्द्रो [6.58.1]>_इति यशस्कामः
(कौश्स्_7,10[59].10) <मह्यम् आपो [6.61.1]>_इति व्यचस्कामः
(कौश्स्_7,10[59].11) <आगछत [6.82.1]> इति जायाकामः
(कौश्स्_7,10[59].12) <वृषेन्द्रस्य [6.86.1]>_इति वृषकामः
(कौश्स्_7,10[59].13) <आ त्वाहार्षम् [6.87.1]> <ध्रुवा द्यौर् [6.88.1]> इति ध्रौव्यकामः
(कौश्स्_7,10[59].14) <त्यम् ऊ षु [7.85.1]> <त्रातारम् [7.86.1]> <आ मन्द्रैर् [7.117.1]> इति स्वस्त्ययनकामः
(कौश्स्_7,10[59].15) <समास् त्वाग्ने [2.6.1]>_<अभ्य् अर्चत [7.82.1]>_इत्य् अग्निं संपत्कामः
(कौश्स्_7,10[59].16) <पृथिव्याम् [4.39.1]> इति मन्त्रोक्तम्
(कौश्स्_7,10[59].17) <तद् इद् आस [5.2.1]> <धीती वा [7.1.1]>_इतीन्द्राग्नी
(कौश्स्_7,10[59].18) <यस्येदम् आ रजो [6.33.1]>_<अथर्वाणं [7.2.1]>_<अदितिर् द्यौर् [7.6.1]> <दितेः पुत्राणाम् [7.7.1]>_<बृहस्पते सवितर् [7.16.1]> इत्य् अभ्युदितं ब्रह्मचारिणं बोधयति
मूल पाठ: Kauśikasūtra · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0