कौशिकपद्धति · अध्याय 1.2
[त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत् (19.33.3) इति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति
]
सायम्प्रातर्होमवैश्वदेवपिण्डपितृयज्ञादि उद्धृतेऽग्नौ कार्याणि । ऽत्वं भूमिम्ऽ इत्यृचा चर्मणि पवित्रे निधाय चतुरो मुष्टीन् निर्वपति ऽदेवस्य त्वाऽ इति । तूष्णीं चतुर्थम् । ऽअग्नये जुष्टं निर्वपामिऽ ॥
[एवम् अग्नीषोमाभ्याम् इति
]
ऽअग्नीषोमाभ्यां जुष्टं निर्वपामिऽ इति विकारः ॥
[इन्द्राग्निभ्याम् इत्यमावास्यायाम्
नित्यं पूर्वमाग्नेयम्
निरुप्तं पवित्राभ्यां प्रोक्षति अमुष्मै त्वा जुष्टम् इति यथादेवतम्
]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इति । अग्नीषोमाभ्यां च । प्रोक्षणं द्वयोरपि ॥
[उलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहि इति
]
ऽअरातीयोःऽ (10.6.1) इत्यृचोलूखलमुसलं तक्षति ऽयत्त्वा शिक्वःऽ (10.6.3) इत्यृचा प्रक्षालयति ऽयद्यत्कृष्णःऽ (12.3.13) इत्यृचा मार्जपति । ततः उलूखले व्रीहीनोप्य ऽहविष्कृदा द्रवेहिऽ इत्यनेनावहन्ति त्रिः । ततः शूर्पनिष्पवनम् । ततस्त्रिः प्रक्षालनं तण्डुलानाम् ॥
[अपहत्य सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षत् (11.1.16) इति चरुमधिदधाति
]
ऽअग्ने चरुः इत्यृचा चरुमधिदधातिऽ ॥
[शुद्धाः पूताः (11.1.17) इत्युदकमासिञ्चति
]
ऽशुद्धाः पूताःऽ इत्यृचोदकमासिञ्चति ॥
[ब्रह्मणा शुद्धाः (11.1.18) इति तण्डुलान्
]
ऽब्रह्मणा शुद्धाःऽ इत्यृचा तण्डुलानावपति पवित्रे अन्तर्धानं कृत्वा ॥
[परि त्वाग्ने पुरं वयम् (7.71.1) इति त्रिः पर्यग्नि करोति
]
ऽपरि त्वाग्ने पुरं वयम्ऽ इत्यृचा त्रिः पर्यग्निकरणम् ॥
नेक्षणेन त्रिः प्रदक्षिणमुदायौति
[अत ऊर्ध्वं यथाकामम्
उत्तरतोऽग्नेरुपसादयतीध्मम्
उत्तरं बर्हिः
]
अग्नेरुत्तरत इध्ममुपसादयति । ततो बर्हिः ॥
[अग्नये त्वा जुष्टं प्रोक्षामि इतीध्मम्
]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इतीध्मप्रोक्षणम् ॥
[पृथिव्यै इति बर्हिः
]
ऽपृथिव्यै त्वा जुष्टं प्रोक्षामिऽ इति बर्हिःप्रोक्षणम् ॥
[दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः इति
]
दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः स्तृणाति ऽऊर्णम्रदम्ऽ इति मन्त्रेण ॥
[दर्भाणामपादाय ऋषीणां प्रस्तरोऽसि (16.2.6) इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति
]
ऽऋषीणां प्रस्तरोऽसिऽ इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति । ऽभूपतेऽ इति ब्रह्मवरणम् । तथा च गोभिलब्राह्मणम् । प्रत्यक्षं वा दर्भमयं वासनमुदककमण्डलुं वा ब्रह्मस्थाने कुर्यात् । ततो ब्रह्मासनसंस्कारः ॥
[पुरस्तादग्नेरास्तीर्य तेषां मूलान्यपरेषां प्रान्तैरवच्छादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात्
]
ततः स्तरणं पुरस्तादग्नेरिति । कर्ता ब्रवीति -
परि स्तृणीहि (7.99.1) इति सम्प्रेष्यति
[देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि इति
]
ततो ऽदेवस्य त्वाऽ इति स्तृणाति ॥
[एवमुत्तरतोऽयुजो धातून् कुर्वन्
यत्र समागच्छन्ति तद्दक्षिणोत्तरं करोति
]
परिभोजनीयान् स्तृणाति ॥
स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामि इति
नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत
नैधोऽभ्याधानम्
नानुत्पूतं हविः
नाप्रोक्षितं यज्ञाङ्गम्
तस्मिन् प्रक्षालितोपवातानि निदधाति
सर्वत्र एषा परिभाषा ॥
[स्रुवमाज्यधानीं च
]
स्रुवमाज्यधानीं निदधति ॥
विलीनपूतमाज्यं गृहीत्वाधिशृत्य पर्यग्नि कृत्वोदगुद्वास्य पश्चादग्नेरुपसाद्योदगग्राभ्यां पवित्राभ्यामुत्पुनाति
[विष्णोर्मनसा पूतमसि
देवस्त्वा सवितोत्पुनातु
अच्छिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि इति तृतीयम्
तूष्णीं चतुर्थम्
]
ऽविष्णोर्मनसा पूतमसिऽ इति ॥
शृतं हविरभिघारयति मध्वा समञ्जन् घृतवत् कराथ इति
शृतं हविरभिघारयति ऽमध्वा समञ्जन्ऽ इति ॥
[अभिघार्योदञ्चमुद्वासयति उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम (पैप्प्स् 5.16.3) इति
]
ऽउद्वासयाग्नेःऽ इत्यृचोद्वासयति ॥
[पश्चादाज्यस्य निधायालङ्कृत्य समानेनोत्पुनाति
]
ततः पश्चादाज्यस्य निधायालङ्कृत्याज्येन चरुमभिघार्य समानेनोत्पुनाति ॥
अदारसृत् (1.22.1) इत्यवेक्षते
उत्तिष्ठत (7.72.1-3) इत्यैन्द्रम्
चरुमवेक्षते ॥
[अग्निर्भूम्याम् (12.1.19-21) इति तिसृभिरुपसमादधाति अस्मै क्षत्राणि (7.78.2) एतमिध्मम् (10.6.35) इति वा
मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0