भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.3

1.3.1

युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते इति

1.3.2

]
ऽअग्निर्भूम्यामोषधीषुऽ, ऽअग्निर्दिव आ तपतिऽ, ऽअग्निवासाः पृथिव्यसितज्ञूःऽ, ऽअस्मै क्षत्राणि धारयन्तमग्नेऽ, ऽएतमिध्मम्ऽ इति वा, ऽयुनज्मि त्वाऽ इत्येभिः पञ्चभिरिध्ममुपसमादधाति ॥ द्वितीया कण्डिका ॥
[दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मां अदीधरद्देवस्य सवितुः सवे इति

1.3.3

]
दक्षिणतोऽग्नेर्जाङ्मायनमुदपात्रं कांस्यपात्रमुपसाद्याभिमन्त्रयते ऽतथोदपात्रं धारयऽ इत्यृचा ॥
[अथोदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा सम्पातभागान् हविषो जुषन्ताम् ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्याः श्रियमा वहन्तु इति

1.3.4

]
ऽइहेत देवीःऽ इति द्वाभ्यामृग्भ्यां सन्ततधारयोदपात्रमवसिञ्चति ॥
[ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः इति सह हविर्भिः पर्युक्ष्य जीवाभिराचम्योपोत्थाय वेदप्रपद्भिः प्रपद्यते ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्ये इति

1.3.5

]
ऽऋतं त्वा सत्येनऽ इति सह हविर्भिः पर्युक्ष्य सर्वत्र स्थण्डिलकर्मणि होष्यन् ऽऋतं त्वा सत्येनऽ हुत्वा ऽसत्यं त्वर्तेनऽ (कौश्स् 6.20) इति सम्प्रदायग्रन्थ उक्तम् । ऽजीवा स्थऽ (19.69-70) इति सूक्तेन त्रिराचामति । ऽसत्यं बृहत्ऽ (12.1.1-9) इति नवभिः ऽशान्तिवाऽ (12.1.59) इत्यृचा ऽउदायुषाऽ (3.31.10-11) इति द्वाभ्यामुत्तिष्ठति । वेदप्रपद्भिः प्रपद्यते ऽओं प्रपद्ये भूःऽ इत्यृचा ऽ...प्रपद्येऽ इति ॥
[प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः इति ब्रह्मासनमन्वीक्षते

1.3.6

निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति

1.3.7

तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम्

1.3.8

विमृग्वरीम् (12.1.29) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् इति

1.3.9

]
आसने दर्भानास्तीर्य ऽअहे दैधिषव्योदतस्तिष्ठऽ इत्यासनसंस्कारं करोति ॥
[दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः इति प्रतप्य

1.3.10

]
दर्भैः स्रुवं निर्मृज्य ऽनिष्टप्तं रक्षःऽ इति स्रुवं प्रतपति ॥
मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तोऽसि [दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमाददे देवानां हव्यवाहनम् । अयं स्रुवो वि दधाति होमाञ्छताक्षरच्छन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येष्टिः शर्मणा दैव्येन] इति

1.3.11

ओं भूः शं भूत्यै त्वा गृह्णे भूतये इति प्रथमं ग्रहं गृह्णाति

1.3.12

ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये इति द्वितीयम्

1.3.13

ओं स्वः शं त्वा गृह्णे सहस्रपोषाय इति तृतीयम्

1.3.14

ओं जनच्छं त्वा गृह्णेऽपरिमितपोषाय इति चतुर्थम्

1.3.15

राजकर्माभिचारिकेषु अमुष्य त्वा प्राणाय गृह्णेऽपानाय व्यानाय समानायोदानाय इति पञ्चमम्

1.3.16

स्रुवेणाज्यधान्यां ग्रहग्रहणं करोति ऽओं भूः शं भूत्यै त्वाऽ इति चतुर्भिः ॥
अग्नावग्निः, हृदा पूतम् (4.39.9-10) पुरस्ताद्युक्तः (5.29.1) यज्ञस्य चक्षुः (2.35.5) इति जुहोति

1.3.17

[पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान्

1.3.18

दक्षिणेनाग्निमुदपात्र आज्याहुतीनां सम्पातानानयति

1.3.19

पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानामिति

1.3.20

एतावाज्यभागौ

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc