कौषीतकिब्राह्मण · अध्याय 26.2
अथ.ह.एक.ऊर्ध्वान्.एव.मासान्.उपयन्त्य्.ऊर्ध्वान्य्.अहानि ।
ऊर्ध्वम्.वा.उ.वयम्.संवत्सरम्.रोहाम.इति.वदन्तः ।
मासा.एव.आवर्तेरन्.न.अहानि.इत्य्.एके ।
य.एव.एष.पृष्ठ्यः.षडहः.पुनः.परस्तात्.पर्येति.तेन.मासा.आवृत्ता.इति.वदन्तः । (सोम: छन्दोमाह्)
तद्.आहुर्.विदूर.रूपम्.वा.एतद्.यत्.त्रिवृच्.च.त्रयस्.त्रिंशश्.च.स्तोमौ । (सोम: छन्दोमाह्)
तद्.यथा.गिरि.शिखरात्.कर्तम्.अभि.प्रस्कन्देद्.एवम्.तत्.स्तोम.कृन्तत्रम् ।
तस्माद्.एव.अहानि.वर्तेरन् । (सोम: छन्दोमाह्)
नो.मासा.अस्तोम.कृन्तत्रताया.इति ।
अथ.अतो.गो.आयुषोर्.मीमांसा ।
विहृते.गो.आयुषी.उपेयुः ।
अहोरात्रे.वै.गो.आयुषी । (सोम: छन्दोमाह्)
विहृते.वा.इमे.अहोरात्रे.अन्योन्यस्मिन् ।
अथो.द्यावा.पृथिवी.वै.गो.आयुषी । (सोम: छन्दोमाह्)
विहृते.वा.इमे.द्यावा.पृथिवी.अन्योन्यस्मिन् ।
अथो.प्राण.अपानौ.वै.गो.आयुषी । (सोम: छन्दोमाह्)
विहृतौ.वा.इमौ.प्राण.अपानाव्.अन्योन्यस्मिन्.प्रतितिष्ठतः ।
ते.ह.एक.ऊर्ध्वे.उपयन्त्य्.ऊर्ध्वे.उपेतव्ये.गो.आयुषी.इति । (सोम: छन्दोमाह्)
अन्वाभिप्लविकाः.स्तोमा.आवर्तत्न्ते.दशरात्रम्.अनुपृष्ठ्यस्.स्तोमा.इति.वदन्तः ।
तद्.यद्.एव.इदम्.द्वितीयम्.अहर्.यच्.च.तृतीयम्.एते.वा.उ.गो.आयुषी । (सोम: छन्दोमाह्)
अथ.कश्चित्.शस्त्रे.वा.अनुवचने.वा.प्रमत्त.उपहन्याद्.विचिकित्सा.वा.स्याद्.उपहतम्.अबुद्धम्.अतिक्रान्तम्.मन्यमानो.मनसा.वृत्त.अन्तम्.ईक्षमाणो.विनिवृत्य.उपहतम्.अनुपहतम्.कृत्वा.आनन्तर्यात्.प्रयोगः.स्याद्.वृत्त.अन्ताद्.इति.मीमांसन्ते । (सोम: छन्दोमाह्)
अथ.ह.स्म.आह.पैङ्ग्यो.न.आनन्तर्यात्.प्रयोगः.स्याद्.अतिरिक्तो.वा.एष.मन्त्रः.स्याद्.यो.अवचनाद्.द्विर्.उच्यते । (सोम: छन्दोमाह्)
तस्मान्.न.आन्तर्यात्.प्रयोगः.स्याद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: छन्दोमाह्)
अथ.ह.स्म.आह.कौषीतकिः.परिमित.फलानि.वा.एतानि.कर्माणि.येषु.परिमितो.मन्त्र.गणः.प्रयुज्यते । (सोम: छन्दोमाह्)
अथ.अपरिमित.फलानि.येषु.अपरिमितो.मन्त्र.गणः.प्रयुज्यते । (सोम: छन्दोमाह्)
मनो.वा.एतद्.यद्.अपरिमितम्.प्रजापतिर्.वै.मनो.यज्ञ.उ.वै.प्रजापतिः.स्वयम्.वै.तद्.यज्ञो.यज्ञस्य.जुषते.यन्.मनो.मनसस्.तस्माद्.आनन्तर्यात्.प्रयोगः.स्याद्.इति.ह.स्म.आह.कौषीतकिर् । (सोम: छन्दोमाह्)
मितम्.ह.वै.मितेन.जयत्य्.अमितम्.अमितेन.अपरिमितस्य.अवरुद्ध्या.अनुल्बणम्.एतद्.इति.ह.स्म.आह.कौषीतकिर् । (सोम: छन्दोमाह्)
न.आहुतिम्.जुहुयात्.तथा.ह.यजमानः.स्वर्गांल्.लोकान्त्.सर्वान्.कामान्.सर्वा.अष्टीः.सर्वम्.च.अमृतत्वम्.आप्नोति.सर्वेषाम्.च.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्येति.यस्य.एवम्.क्रियते । (सोम: छन्दोमाह्)
अथ.यद्य्.ऊर्ध्वम्.परिधानात्.प्रणव.वषट्.कारयोर्.वा.ऊर्ध्वम्.याज्या.पुरोनुवाक्ययोर्.बुध्येत.अतिक्रान्तम्.उल्बणम्.एतस्याम्.वेलायाम्.भवति.इति.ह.स्म.आह.प्रागहिः । (सोम: छन्दोमाह्)
तस्मान्.न.एतस्याम्.वेलायाम्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: छन्दोमाह्)
स्थाणुम्.वा.ऋच्छति.गर्ते.वा.पतति.धीयते.वा.प्र.वा.मीयत.इति.ह.स्म.आह.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत । (सोम: छन्दोमाह्)
कृतस्य.अनावृत्तिर्.इति.ह.स्म.आह.आरुणिर्.गुण.लोप.इति.श्वेतकेतुस्.तस्मान्.न.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: छन्दोमाह्)
अंहो.वा.एतद्.यज्ञस्य.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.तस्मान्.न.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: छन्दोमाह्)
अथ.ह.स्म.आह.दैवोदासिः.प्रतर्दनो.नैमिषीयाणाम्.सत्रम्.उपगम्य.उपास्यद्.य.विचिकित्साम्.पप्रच्छ.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.ऋत्विजाम्.वा.अन्यतमो.बुध्येत.कथम्.वो.अनुल्बणम्.स्यात्.इति । (सोम: छन्दोमाह्)
त.उ.ह.तूष्णीम्.आसुस्.तेषाम्.अलीकयुर्.वाचस्पतो.ब्रह्मा.आस.स.ह.उवाच.न.अहम्.एतद्.वेद.हन्त.पूर्वेषाम्.आचार्यम्.स्थविरम्.जातूकर्ण्यम्.पृछानि.इति । (सोम: छन्दोमाह्)
तम्.ह.पप्रच्छ.यद्य्.अतिक्रान्तम्.उल्बणम्.कर्ता.वा.स्वयम्.बुध्येत.अन्यो.वा.बोधयेत.कथम्.तद्.उल्बणम्.अनुल्बणम्.भवेत्.पुनर्.वचनम्.वा.निगदम्.वा.याज्याम्.वा.यद्.वा.अन्यत्.सर्वम्.तत्.पुनर्.ब्रूयाद्.इति.यावन्.मात्रम्.उल्बणम्.तावद्.ब्रूयाद्.ऋचम्.वा.अर्धर्चम्.वा.पादम्.वा.पदम्.वा.वर्णम्.वा.इति.ह.स्म.आह.जातूकर्ण्यः । (सोम: छन्दोमाह्)
अथ.ह.स्म.आह.कौषीतकिर्.न.मन्त्रम्.पुनर्.ब्रूयान्.न.आहुतिम्.जुहुयाद्.अनुल्बणम्.एतद्.इति.ह.स्म.आह.कौषीतकिः । (सोम: छन्दोमाह्)
यद्द्.हि.होतारो.यज्ञस्य.किंचिद्.उल्बणम्.अबुध्यमानाः.कुर्वन्ति.सर्वम्.तद्.अग्निर्.दैवो.होता.अनुल्बणम्.करोति.तद्.एतद्.ऋचा.अभ्युदितम् । (सोम: छन्दोमाह्)
यत्.पाकत्रा.मनसा.दीन.दक्षा.न.यज्ञस्य.मन्वते.मर्त्यासः.अग्निष्.टद्द्.होता.क्रतुविद्.विजानन्.यजिष्ठो.देवाम्.ऋतुशो.यजाति.इति.यच्.च.आह.संस्थिते.यज्ञे.अयाड्.(.अयाद्.).यज्ञम्.जातवेदा.इत्य्.अयाक्षीद्.इमम्.यज्ञम्.जातवेदा.इति.तद्.आह.अन्तरः.पूर्वो.अस्मिन्.निषद्य.इति.यद्.आह.अग्निर्.ह.दैवो.होता.मानुषाद्द्.होतुः.पूर्वो.निषद्य.यजत.इति.तद्.आह.आशिषम्.एव.उत्तरेण.अर्धर्चेन.वदति.पूर्वया.वा.ऋचा । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0