कौषीतकिब्राह्मण · अध्याय 26.1
द्वात्रिंशी.प्रथमो.मासो.द्वात्रिंश्य्.उत्तमः ।
द्वात्रिंशद्.अक्षर.अनुष्टुप् ।
वाग्.अनुष्टुप् ।
तद्.वाचा.प्रयन्ति । (सोम: छन्दोमाह्)
वाचम्.अनूत्त्तिष्ठन्ति ।
अष्टाविंशिनाव्.अभितो.विषुवन्तम्.मासौ । (सोम: छन्दोमाह्)
अष्टाविंशत्य्.अक्षर.उष्णिक् ।
औष्णिह्यो.ग्रीवाः ।
अथ.एतत्.शिरो.यज्ञस्य.यद्.विषुवान् । (सोम: छन्दोमाह्)
ग्रीवा.एव.तत्.कल्पयित्वा.तासु.शिरः.प्रतिदधति ।
तद्.आहुः.कतरेषाम्.एषो.अह्नाम्.अवरेषाम्.परेषाम्.इति । (सोम: छन्दोमाह्)
न.अवरेषाम्.न.परेषाम्.इत्य्.आहुः ।
उभयेषाम्.वा.एषो.अह्नाम् ।
उभयानि.वै.तस्य.एतान्य्.अहानि । (सोम: छन्दोमाह्)
तद्.आहुः.कति.षडहाः.संवत्सर.इति ।
षष्टिः.षडहाः.षडहशः । (सोम: छन्दोमाह्)
तद्.एतद्.अव्यवलम्बि.संवत्सर.अयणम् ।
तद्.य.एवम्.संवत्सरस्य.अहानि.युञ्जन्ति ।
त.एतान्त्.सर्वान्.कामान्.ऋध्नुवन्ति.ये.संवत्सरे ।
अथ.ये.अतो.अन्यथा.संवत्सरस्य.अहानि.युञ्जन्ति । (सोम: छन्दोमाह्)
न.ते.तान्त्.सर्वान्.कामान्.ऋध्नुवन्ति.ये.संवत्सरे । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0