कौषीतकिब्राह्मण · अध्याय 26.3
षष्ठे.वा.अहन्.देवाः.स्तोमांश्.च.मासांश्.च.आप्नुयुः ।
त.आप्त्वा.स्तोमान्.एतान्.एव.पृष्ठ्य.स्तोमान्.द्वन्द्वम्.समास्यन् ।
कुतो.ह्य्.अन्यम्.स्तोमम्.आहरिष्यन् । (सोम: छन्दोमाह्)
ताव्.एतौ.त्रिवृत्.पञ्चदशौ.स्तोमौ.सप्तमम्.अहर्.वहतश्.चतुर्.विंश.स्तोमो.भूत्वा । (सोम: छन्दोमाह्)
अथ.एतौ.सप्तदश.त्रिणवौ.नवमम्.अहर्.वहतो.अष्टा.चत्वारिंश.स्तोमो.भूत्वा । (सोम: छन्दोमाह्)
अथ.एताव्.एकविंश.त्रयस्.त्रिंशौ.स्तोमौ.नवमम्.अहर्.वहतो.अष्टा.चत्वारिंश.स्तोमो.भूत्वा । (सोम: छन्दोमाह्)
तेषाम्.गायत्र्या.प्रथमो.मितस्.त्रिष्टुभा.द्वितीयो.जगत्या.तृतीयः । (सोम: छन्दोमाह्)
तद्.यच्.छन्दोभिर्.मिताः ।
तस्माच्.छन्दोमाः ।
अथ.याः.षट्.स्तोत्रिया.अष्टा.चत्वारिंशम्.स्तोमम्.अतियन्ति ।
तास्.ता.ऋतव.इत्य्.आहुः । (सोम: छन्दोमाह्)
षड्ड्.ह्य्.ऋतवः ।
ताभिर्.दशमम्.अहस्.तायते ।
अन्त्ः.षष्ठम्.अहः ।
अथ.पुनस्.ततिर्.एव.सप्तमम्.अहः ।
तस्मात्.ततवन्ति.सप्तमे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण ।
पुनः.प्रायणीयम्.हि.सप्तमम्.अहः । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0