भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 2.2

2.2.1

चतुर्.उन्नयेत् ।

2.2.2

चतुष्टयम्.वा.इदम्.सर्वम् ।

2.2.3

अस्य.एव.सर्वस्य.आप्त्यै ।

2.2.4

पञ्च.कृत्व.उन्नयेत् । (अग्निहोत्र)

2.2.5

पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै ।

2.2.6

उपसदो.अग्निहोत्रे.वेदितव्याः ।

2.2.7

उन्नीय.उत्तरेण.गार्हपत्यम्.उपसादयति । (अग्निहोत्र)

2.2.8

तद्.इमंल्.लोकम्.आप्नोति ।

2.2.9

आहवनीये.होष्यन्.द्वितीयम् ।

2.2.13

पालाशीम्.समिधम्.अभ्यादधाति । (अग्निहोत्र)

2.2.14

सोमो.वै.पलाशः ।

2.2.15

सा.प्रथमा.सोम.आहुतिः ।

2.2.16

प्रादेश.मात्री.भवति । (अग्निहोत्र)

2.2.17

प्रादेश.मात्रम्.हि.इम.आत्मनो.अधि.प्राणाः ।

2.2.18

द्व्य्.अङ्गुलम्.समिधो.अतिहृत्य.अनुदृभन्न्.इव.अभिजुहोति । (अग्निहोत्र)

2.2.19

द्व्य्.अङ्गुले.वा.इदम्.मुखस्य.अन्नम्.धीयते ।

2.2.20

धूमायन्त्याम्.ग्राम.कामस्य.जुहुयात् । (अग्निहोत्र)

2.2.21

ज्वलन्त्याम्.ब्रह्म.वर्चस.कामस्य ।

2.2.22

अङ्गारेषु.पशु.कामस्य ।

2.2.23

अभ्याधाय.इति.त्व्.एव.स्थितम् । (अग्निहोत्र)

2.2.24

अत्र.ह्य्.एव.एते.सर्वे.कामा.उपाप्यन्त.इति ।

2.2.25

उभे.आहुती.हुत्वा.जपति ।

2.2.26

या.यज्ञस्य.समृद्धस्य.आशीः.सा.मे.समृध्यताम्.इति । (अग्निहोत्र)

2.2.27

या.वै.यज्ञस्य.समृद्धस्य.आशीः.सा.यजमानस्य.भवति ।

2.2.28

उत्तराव्.अवतीर.आहुतीर्.(.उत्तर.अवतीर.आहुतीर्).जुहुयात् । (अग्निहोत्र)

2.2.29

उत्तर.उत्तरिण.एव.तत्.स्वर्गांल्.लोकान्.आप्नोति ।

2.2.30

स्रुचो.बुध्नेन.अङ्गारान्.उपस्पृशति ।

2.2.31

स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (अग्निहोत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc