कौषीतकिब्राह्मण · अध्याय 2.1
घर्मो.वा.एष.प्रवृज्यते.यद्.अग्निहोत्रम् ।
तद्.असौ.वै.घर्मो.यो.असौ.तपति ।
एतम्.एव.त.प्रीणाति । (अग्निहोत्र)
स.वै.सायम्.च.प्रातश्.च.जुहोति ।
अग्नये.सायम्.सूर्याय.प्रातः ।
सौर्यम्.वा.अहर्.आग्नेयी.रात्रिः । (अग्निहोत्र)
मुखत.एव.तद्.अहो.रात्रे.प्रीणाति ।
पयसा.जुहुयात् ।
एष.ह.वै.सर्वासाम्.ओषधीनाम्.रसो.यत्.पयः । (अग्निहोत्र)
सर्वैर्.एव.तद्.रसैर्.अग्नीन्.प्रीणाति ।
तद्.उ.वा.आहुर्.यद्.अशनस्य.एव.जुहुयात् ।
सर्वम्.वा.इदम्.अग्नेर्.अन्नम् । (अग्निहोत्र)
स्वेन.एव.तद्.अन्नेन.अग्नीन्.प्रीणाति.इति ।
गार्हपत्ये.अधिश्रित्य.आहवनीये.जुहुयात् । (अग्निहोत्र)
श्रपणो.वै.गार्हपत्यः ।
आहवन.आहवनीयः ।
तस्माद्.गार्हपत्ये.अधिश्रित्य.आहवनीये.जुहुयात् । (अग्निहोत्र)
द्व्य्.अन्तान्.अङ्गारान्.करोति ।
इमाव्.एव.तल्.लोकौ.वितारयति ।
तस्माद्द्.हि.इमौ.लोकौ.सह.सन्तौ.नाना.इव । (अग्निहोत्र)
अथ.यद्.अधिश्रित्य.अवद्योतयति ।
श्रपयत्य्.एव.एतत्.तत् ।
अथ.यद्.अपः.प्रत्यानयति । (अग्निहोत्र)
आपः.कृत्स्नानि.ह.वै.सर्वाणि.हवींषि.भवन्ति ।
हविष.एव.कृत्स्नतायै । (अग्निहोत्र)
अथ.यत्.पुनर्.अवद्योगयति ।
त्रिवृद्द्.हि.देव.कर्म ।
अनुच्छिन्दन्न्.इव.हरेति । (अग्निहोत्र)
तथा.ह.यजमानो.अप्रच्यावुको.भवति ।
अथ.उपवेषेण.दक्षिणतो.अङ्गारान्.उपस्पृशति.नमो.देवेभ्य.इति । (अग्निहोत्र)
न.हि.नमस्.कारम्.अति.देवाः ।
सुप्रत्यूढान्.अङ्गारान्.प्रत्यूहेत् ।
तथा.ह.अस्य.न.अन्तम.चारिणो.चन.नश्यति । (अग्निहोत्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0