कौषीतकिब्राह्मण · अध्याय 2.3
द्विर्.उदीचीम्.स्रुचम्.उद्यच्छति ।
रुद्रम्.एव.तत्.स्वायाम्.दिशि.प्रीत्वा.अवसृजति । (अग्निहोत्र)
तस्माद्द्.हूयमानस्य.उत्तरतो.न.तिष्ठेत् ।
न.इद्.एतस्य.अखिलस्य.देवस्य.परिप्राध्वे.असानि.इति । (अग्निहोत्र)
ताम्.उत्तरतः.सायम्.उपमार्ष्टि.प्रतीचीम् ।
आदित्यम्.तद्.अस्तम्.नयति ।
दक्षिणत.ऊर्ध्वाम्.प्रातः । (अग्निहोत्र)
आदित्यम्.तद्.उन्नयति ।
यत्.पूर्वम्.उपमार्ष्टि.तत्.कूर्चे.निलिम्पति ।
ओषधीस्.तेन.प्रीणाति । (अग्निहोत्र)
यद्.द्वितीयम्.तद्.दक्षिणेन.कूर्चम्.उत्तानम्.पाणिम्.निदधाति ।
पितॄंस्.तेन.प्रीणाति । (अग्निहोत्र)
अथ.यद्.द्षिप्.प्रदेशिन्या.प्राश्नाति ।
गर्भान्.पूर्वेण.प्रीणाति ।
तस्माद्.अनश्नन्तो.गर्भाः.प्राणन्ति । (अग्निहोत्र)
वयांस्य्.उत्तरेण ।
तस्माद्.वयांसि.बहु.किंच.किंचिद्.इव.भक्षयन्ति.श्वेतम्.इव.प्रस्रावयन्ति । (अग्निहोत्र)
अथ.यत्.स्रुचा.भक्षयति ।
भूतम्.च.तेन.भव्यम्.च.प्रीणाति । (अग्निहोत्र)
अथ.यत्.स्रुचम्.निर्लेढि ।
सर्व.देव.जनांस्.तेन.प्रीणाति ।
अथ.यत्.स्रुचम्.मार्जयते ।
रक्षो.देव.जनांस्.तेन.प्रीणाति । (अग्निहोत्र)
अथ.यत्.प्राचीरु.उदीचीर्.अप.उत्सिञ्चति ।
गन्धर्व.अप्सरसस्.तेन.प्रीणाति ।
अथ.यत्.प्राचीम्.उदीचीम्.स्रुचम्.उद्दिशति । (अग्निहोत्र)
रुद्रम्.एव.तत्.स्वायाम्.दिशि.दधाति ।
एवम्.अग्निहोत्रेण.सर्वाणि.भूतानि.प्रीणाति । (अग्निहोत्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0