भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 17.3

17.3.1

गायत्रीः.शंसति ।

17.3.2

प्राणो.वै.गायत्र्यः ।

17.3.3

प्राणम्.एव.तद्.आत्मन्.धत्ते ।

17.3.4

सप्त.पदाम्.शंसति । (सोम: सोदशिन् & अतिरत्र)

17.3.5

सप्त.वै.छन्दांसि ।

17.3.6

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै ।

17.3.7

अथो.एतया.सह.गायत्र्यश्.चतस्रो.अनुष्टुभः.सम्पद्यन्ते । (सोम: सोदशिन् & अतिरत्र)

17.3.8

तस्माद्.एताम्.शंसति.सम्पदे ।

17.3.9

अथ.नित्या.अनुष्टुभः.शंसति ।

17.3.10

आनुष्टुभो.वै.षोडशी । (सोम: सोदशिन् & अतिरत्र)

17.3.11

तद्.एनत्.स्वेन.छन्दसा.समर्धयति ।

17.3.12

ता.वा.अष्टौ.भवन्ति ।

17.3.13

एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम: सोदशिन् & अतिरत्र)

17.3.14

तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते ।

17.3.15

त्रिः.शस्तया.परिधानीयया.दश.सम्पद्यन्ते । (सोम: सोदशिन् & अतिरत्र)

17.3.16

दश.दशिनी.विराट् ।

17.3.17

श्रीर्.विराड्.अन्न.अद्यम् ।

17.3.18

श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम: सोदशिन् & अतिरत्र)

17.3.19

उद्यद्.ब्रध्नस्य.विष्टपम्.इति.परिदधाति ।

17.3.20

अदो.वै.ब्रध्नस्य.विष्टपम्.यत्र.असौ.तपति । (सोम: सोदशिन् & अतिरत्र)

17.3.23

तद्.एव.तद्.यजमानम्.दधाति ।

17.3.24

त्रिवृता.एव.तद्.वज्रेण.यजमानस्य.पाप्मानम्.हन्ति । (सोम: सोदशिन् & अतिरत्र)

17.3.25

त.एते.श्लोका.घोषा.वीर्याणि.इत्य्.उक्थानाम् ।

17.3.26

श्लोकी.घोषी.वीर्यवान्.कीर्तिमान्.भवति.य.एवम्.वेद.उक्थानाम्.वीर्याणि । (सोम: सोदशिन् & अतिरत्र)

17.3.27

ताः.संशस्ताश्.चत्वारिंशद्.अनुष्टुभः.सम्पद्यन्ते ।

17.3.28

चत्वारिंशद्.अक्षरा.पङ्क्तिः । (सोम: सोदशिन् & अतिरत्र)

17.3.29

प्रतिष्ठा.वै.पङ्क्तिः ।

17.3.30

सर्वेष्व्.एव.तद्.भूतेषु.यजमानम्.प्रतिष्ठापयति । (सोम: सोदशिन् & अतिरत्र)

17.3.31

विहृतया.त्रिष्टुभा.यजेद्.इति.ह.एक.आहुः ।

17.3.32

एवा.हि.वाज्यपाः.पूर्वेषाम्.हरिवः.सुतानाम्.वाजो.हि.वाज्य्.अथो.इदम्.सवनम्.केवलम्.ते । (सोम: सोदशिन् & अतिरत्र)

17.3.33

वोढा.हि.वाजी.ममद्द्.हि.सोमम्.मधुमन्तम्.इन्द्र.जिष्णुर्.हि.वाजी.सत्रा.वृषन्.जठर.आवृषस्व.इति । (सोम: सोदशिन् & अतिरत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc