भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 17.2

17.2.1

त्वावतः.पुरूवसो.इति.गायत्रीम्.उपसंशंसति ।

17.2.2

एतेषाम्.एव.अक्षराणाम्.सम्पदे ।

17.2.3

अथो.एतया.सह.स्तोत्रियः.षड्.अनुष्टुभः.सम्पद्यन्ते ।

17.2.4

तस्माद्.एताम्.शंसति.सम्पदे । (सोम: सोदशिन् & अतिरत्र)

17.2.5

एतत्.प्रतिरूपम्.उ.ह.एके.अनुरूपम्.कुर्वन्ति ।

17.2.6

तद्.उ.वा.आहुर्.असौ.वै.षोडशी.यो.असौ.तपति । (सोम: सोदशिन् & अतिरत्र)

17.2.7

न.वा.एतस्य.अन्यो.अनुरूपो.अस्ति ।

17.2.8

स.यो.अत्र.अनुरूपम्.कुर्वन्तम्.ब्रूयात् । (सोम: सोदशिन् & अतिरत्र)

17.2.11

अथ.अतः.ऊर्ध्वानि.छन्दांसि.विहरति ।

17.2.12

प्राणा.वै.छन्दांसि ।

17.2.13

प्राणान्.एव.तद्.आत्मन्.व्यतिषजत्य्.अविवर्हाय । (सोम: सोदशिन् & अतिरत्र)

17.2.14

तस्माद्द्.हि.इमे.प्राणा.विष्वञ्चो.वा.अन्तो.न.निर्वान्ति ।

17.2.15

अथो.आनुष्टुभो.वै.षोडशी । (सोम: सोदशिन् & अतिरत्र)

17.2.16

सर्वाण्य्.एव.एतत्.छन्दांस्य्.अनुष्टुभम्.अभिषम्पादयति ।

17.2.17

गायत्रीश्.च.पङ्क्तीश्.च.विहरति । (सोम: सोदशिन् & अतिरत्र)

17.2.18

यजमानच्.छन्दसम्.पङ्क्तिः ।

17.2.19

तेजो.ब्रह्म.वर्चसम्.गायत्री ।

17.2.20

तेज.एव.तद्.ब्रह्म.वर्चसम्.यजमाने.दधाति । (सोम: सोदशिन् & अतिरत्र)

17.2.21

उष्णिहश्.च.बृहतीश्.च.विहरति ।

17.2.22

यजमानच्.छन्दसम्.एव.उष्णिक् ।

17.2.23

पशवो.बृहती ।

17.2.24

बार्हतान्.एव.तत्.पशून्.यजमाने.दधाति । (सोम: सोदशिन् & अतिरत्र)

17.2.25

द्विपदाम्.च.विंशत्य्.अक्षराम्.त्रिष्टुभम्.च.विहरति ।

17.2.26

यजमानच्.छन्दसम्.एव.द्विपदा । (सोम: सोदशिन् & अतिरत्र)

17.2.27

बलम्.वै.वीर्यम्.त्रिष्टुप् ।

17.2.28

बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: सोदशिन् & अतिरत्र)

17.2.29

द्विपदाश्.च.षोडश.अक्षरा.जगतीश्.च.विहरति ।

17.2.30

यजमानच्.छन्दसम्.एव.द्विपताः । (सोम: सोदशिन् & अतिरत्र)

17.2.31

पशवो.जगती ।

17.2.32

जागतान्.एव.तत्.पशून्.यजमाने.दधाति । (सोम: सोदशिन् & अतिरत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc