कौषीतकिब्राह्मण · अध्याय 17.4
अविहृतया.इत्.त्व्.एव.स्थितम् ।
संसिद्धानि.वा.एतानि.देव.पात्राणि.यद्.याज्याः । (सोम: सोदशिन् & अतिरत्र)
संसिद्धेन.एव.तद्.देव.पात्रेण.देवेभ्यो.हविः.प्रयच्छति ।
तन्.न.रात्र्याम्.उपेयात् । (सोम: सोदशिन् & अतिरत्र)
इन्द्रो.वै.षोडशी ।
न.वा.इन्द्राद्.अन्यद्.उत्तरम्.अस्ति ।
बहु.रात्र्याम्.उपाह्वयते । (सोम: सोदशिन् & अतिरत्र)
पर्याया.इव.त्वद्.आश्विनम् ।
तत.एव.एनम्.चतुर्थे.अहन्य्.उपेयात् । (सोम: सोदशिन् & अतिरत्र)
तद्.वै.षोडशिन.आयतनम् ।
तद्.वै.तद्.अहः.षोडश्य्.अन्तम्.संतिष्ठते । (सोम: सोदशिन् & अतिरत्र)
तद्.उ.वा.आहुर्.उपेयाद्.एव.एतत् ।
कृत्स्नो.वा.अहोरात्रे.यत्.षोडशी । (सोम: सोदशिन् & अतिरत्र)
तद्.यद्.षोडशिनम्.उपयन्ति ।
अहोरात्रयोर्.एव.कृत्स्नतायै ।
अथ.यद्.अतिरात्रम्.उपयान्ति । (सोम: सोदशिन् & अतिरत्र)
एतावान्.वै.संवत्सरो.यद्.अहोरात्रे ।
तद्.यद्.अतिरात्रम्.उपयन्ति ।
संवत्सरस्य.एव.आप्त्यै । (सोम: सोदशिन् & अतिरत्र)
अथो.द्वयम्.वा.इदम्.सर्वम्.स्नेहश्.चैव.तेजश्.च ।
तद्.उभयम्.अहोरात्राभ्याम्.आप्तम् ।
तद्.यद्.अतिरात्रम्.उपयन्ति ।
स्नेह.तेजसोर्.एव.आप्त्यै । (सोम: सोदशिन् & अतिरत्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0