भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 938-957

938

एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः ।
दृश्यते च जयस् तस्य यस्मिन् रक्षा व्यवस्थिता ॥

939

अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥

940

प्रसह्य दापयेद् देयं तस्मिन् स्थाने न चान्यथा ।
जितं वै सभिकस् तत्र सभिकप्रत्यया क्रिया ॥

941

अनभिज्ञो जितो मोच्यो ऽमोच्यो ऽभिज्ञो जितो रहः ।
सर्वस्वे विजिते ऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥

942

विग्रहे ऽथ जये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस् तत्र शुचिश् च सभिको यदि ॥

943

म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् ।
तत्कृताचारम् एतॄणां निश्चयो न तु राजनि ॥

944

पूर्वोक्ताद् उक्तशेषं स्याद् अधिकारच्युतं च यत् ।
आहृत्य परतन्त्रार्ह्त निबद्धम् असमञ्जसम् ॥

945

दृष्टान्तत्वेन शास्त्रान्ते पुनर् उक्तक्रियास्थितम् ।
अनेन विधिना यच् च वाक्यं तत् स्यात् प्रकीर्णकम् ॥

946

राजधर्मान् स्वधर्मांश् च संदिग्धानां च भाषणम् ।
पूर्वोक्ताद् उक्तशेषं च सर्वं तत् स्यात् प्रकीर्णकम् ॥

947

सद्भागकरशुल्कं च गर्ते देयं तथैव च ।
संग्रामचौरभेदी च परदाराभिमर्दनम् ॥

948

गोब्राह्मणजिघांसा च शस्यव्याघातकृत् तथा ।
एतान् दशापराधांस् तु नृपतिः स्वयम् अन्विषेत् ॥

949

निष्कृतीनाम् अकरणम् आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमविलोपश् च प्रर्णसङ्करलोपनम् ॥

950

निधिर् निष्फलवित्तं च दरिद्रस्य धनागमः ।
एतांश् चारैः सुविदितान् स्वयं राजा निवारयेत् ॥

951

अनाम्ना तानि कार्याणि क्रियावादांश् च वादिनाम् ।
प्रकृतीनां प्रकोपश् च सङ्केतश् च परस्परम् ॥

952

अशास्त्रविहितं यच् च प्रजायां संप्रवर्तते ।
उपायैः सामभेदाद् यैर् एतानि शमये नृपः ॥

953

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनि ।
यथोक्तं तस्य तत् कुर्याद् अनुक्तं साधु कल्पितम् ॥

954

प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद् यो वै स दाप्यो दमम् उत्तमम् ॥

955

राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः ।
अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥

956

प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश् च ये ।
राजार्थमोषकाश् चैव प्राप्नुयुर् विविधं वधम् ॥

957

प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।
वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc