भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 958-973

958

सचिह्नम् अपि पापं तु पृच्छेत् पापस्य कारणम् ।
तदा दण्डं प्रकल्पेत दोषम् आरोप्य यत्नतः ॥

959

सद्वृत्तानाम् तु सर्वेषाम् अपराधो यदा भवेत् ।
अवशेनैव दैवात् तु तत्र दण्डं न कल्पयेत् ॥

960

सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैर् अपि ।
आरम्भे प्रधमं दद्यात् प्रवृत्तौ मध्यमः स्मृतः ।
यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥

961

राजानो मन्त्रिणश् चैव विशेषाद् एवम् आप्नुयुः ।
अशासनात् तु पापानां नतानां दण्डधारणात् ॥

962

परतन्त्राश् च ये केचिद् दासत्वं ये च संस्थिताः ।
अनाथास् ते तु निर्दिष्टास् तेषां दण्डस् तु ताडनम् ॥

963

ताडनं वन्धनं चैव तथैव च विडम्बनम् ।
एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥

964

सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति ।
अङ्गच्छेदे तद् अर्धं तु विवासे पञ्चविंशतिम् ॥

965

कुलीनार्यविशिष्ट्तेषु निकृष्टेष्व् अनुसारतः ।
सर्वस्वं वा निगृह्यैतान् पुरात् शीघ्रं प्रवासयेत् ॥

966

निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् ।
सर्वेषां पापयुक्तानां विशेषार्थश् च शास्त्रतः ॥

967

वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् ।
तद् अकर्मवियुतो ऽसौ वृत्तस् तस्य दमो हि सः ॥

968

कूटसाक्ष्य् अपि निर्वास्यो विख्याप्यो ऽसत्प्रतिग्रही ।
अङ्गच्छेदी वियोज्यः स्यात् स्वधर्मे बन्धनेन तु ॥

969

एतैः समापराधानां तत्राप्य् एवं प्रकल्पयेत् ।
बालवृद्धातुरस्त्रीणां न दण्डस् ताडनं दमः ॥

970

स्त्रीधनं दापयेद् दण्डं धार्मिकः पृथिवीपतिः ।
निर्धना प्राप्तदोषा स्त्री ताडनं दण्डम् अर्हति ॥

971

अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् ।
कार्यार्थे कार्यनाशः स्याद् बुद्धिमान् नोपपातयेत् ॥

972

दत्त्वा धनं तद् विप्रेभ्यः सर्वं दण्डसमुत्थितम् ।
पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥

973

एवं चरेत् सदा युक्तो राजा धर्मेषु पार्थिवः ।
हितेषु चैव लोकस्य सर्वान् भृत्यान् नियोजयेत् ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc