भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 918-937

918

दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।
बन्धुदत्तं तु बन्धूनाम् अभावे भ्र्तृगामि तत् ॥

919

पितृभ्यां चैव यद् दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायाम् अतातायां भ्रातृगामि तु सर्वदा ॥

920

आसुरादिषु यल् लब्धं स्त्रीधनं पैतृकं स्त्रिया ।
अभावे तद् अपत्यानां मातापित्रोस् तद् इष्यते ॥

921

अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥

922

स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।
अविभक्ते धनांशे तु प्राप्नोत्य् आमरणान्तिकम् ॥

923

भोक्तुम् अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता ।
न कुर्याद् यदि शुश्रूषां चैलपिण्डे नियोज्येत् ॥

924

मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज् जीवं न हि स्वाम्यं दानाधमनविक्रये ॥

925

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
दमदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥

926

पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तदभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥

927

अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥

928

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत् पितुः क्रमात् ।
अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका ॥

929

व्यभिचाररता या च स्त्री धनं सा न चार्हति ॥

930

नारी खल्व् अननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद् भवेत् तस्या यत् करोत्य् और्ध्वदेहिकम् ॥

931

अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस् तद् अर्पयेत् ॥

932

संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः ।
अभावे ऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥

933

द्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् ।
असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥

934

ध्रुवं द्यूतात् कलिर् यस्माद् विषं सर्पमुखाद् इव ।
तस्माद् राजा निवर्तेत विषये व्यसनं हि तत् ॥

935

वर्तेत चेत् प्रकाशं तु द्वारावस्थिततोरणम् ।
असंमोहार्थम् आर्याणां कारयेत् तत् करपदम् ॥

936

सभिकः कारयेद् द्यूतं देयं दद्यात् स्वयं नृपे ।
दशकं तु शते वृद्धिं गृह्णीयाच् च पराजयात् ॥

937

जेतुर् दद्यात् स्वकं द्रव्यं जिताद् ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितावात् तु न संशयः ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc