भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 898-917

898

गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत् किंचिच् शुल्कं तत् परिकीर्तितम् ॥

899

विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तद् उक्तं तु लभ्दं बन्धुकुलात् तथा ॥

900

ऊर्ध्वं लब्धं तु यत् किंचित् संस्कारात् प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥

901

ऊढया कन्यया वापि भर्तुः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥

902

पितृमातृपतिभ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै ।
यथाशक्त्या द्विसाहस्राद् दातव्यं स्थावराद् ऋते ॥

903

यत् तु सोपाधिकं दत्तं यच् च योगवशेन वा ।
पित्रा भ्रात्राथ वा पत्या न तत् स्त्रीधनम् इष्यते ॥

904

प्राप्तं शिल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥

905

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते ।
यस्मात् तदानृशस्यार्थं तैर् दत्तम् उपजीवनम् ॥

906

सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥

907

भर्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत् क्षपयेत् तत् कुले ऽन्यथा ॥

908

अथ चेत् स द्विभार्यः स्यान् न च तां भजते पुनः ।
प्रीत्या निसृष्टम् अपि चेत् प्रतिदाप्यः स तद्बलात् ॥

909

ग्रासाच्छादनवासानाम् आच्छेदो यत्र योषितः ।
तत्र स्वम् आददीत स्त्री विभागं रिक्थिनां तथा ॥

910

लिखितस्येति धर्मो ऽयं प्राप्ते भर्तृकुले वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद् बन्धुजनं ततः ॥

911

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥

912

यदि ह्य् एकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिकं प्रदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥

913

तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूल्यम् एव प्रदाप्यः स्याद् यद्य् असौ धनवान् भवेत् ॥

914

व्याधितं व्यसनस्थं च धनिकैर् वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया तु सः ॥

915

जीवन्त्याः पतिपुत्रास् तु देवराः पितृबान्धवाः ।
अनीशाः स्त्रीधनस्योक्ता दण्ड्यास् त्व् अपहरन्ति ये ॥

916

भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः ।
तिष्ठेद् भर्तृकुले या तु न सा पितृकुले वसेत् ॥

917

भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः ।
स्त्रीधनस्येति धर्मो ऽयं विभागस् तु प्रकल्पितः ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc