भाषा

ENहिગુ
ग्रंथ पाठ

कात्यायनस्मृति · श्लोक 879-897

879

यल् लब्धं दानकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद् वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥

880

वैवाहिकं तु तद् विद्याद् भार्यया यत् सहागतम् ।
धनम् एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥

881

विवाहकाले यत् किंचिद् वरायोद्दिश्य दीयते ।
कन्यायास् तद् धनं सर्वम् अविभाज्यं च बन्धुभिः ॥

882

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दासश् च निबन्धो यः क्रमागतः ॥

883

धृतं वस्त्रम् अलंकारो नानुरूपं तु यद् भवेत् ।
यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥

884-1

गोप्रचारश् च रक्षा च वस्त्रं यच् चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥

884-2

देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत् ॥

885

प्रच्छादितं यदि धनं पुनर् आसाद्य तत् समम् ।
भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥

886

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् ।
पश्चात् प्राप्तं विभज्येत समभागेन तद् भृगुः ॥

887

विभक्तेनैव यत् प्राप्तं धनं तस्यैव तद् भवेत् ।
हृतं नष्टं च यल् लब्धं प्राग् उक्तं च पुनर् भजेत् ॥

888

बन्धुनापहृतं द्रव्यं बलान् नैव प्रदापयेत् ।
बन्धूनाम् अविभक्तानां भोगं नैव प्रदापयेत् ॥

889

क्षेत्रं साधारणं त्यक्त्वा यो ऽन्यदेशं समाश्रितः ।
तद् वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ॥

890

तृतीयः पञ्चमो वापि सप्तमश् चापि यो भवेत् ।
जन्मनाम् अपरिज्ञाने लभेतांशं क्रमागतम् ॥

891

यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।
तद् अन्वयस्यागतस्य दातव्या गोतजैर् मही ॥

892

विभक्ताः पितृवित्ताच् चेद् अकत्र प्रतिवासिनः ।
विभजेयुः पुनर् द्व्यंशं स लभेतोदयो यतः ॥

893

वसेयुर् दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
भ्रातरस् ते ऽपि विज्ञेया विभक्ताः पैतृकाद् धनात् ॥

894

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

895

विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥

896

यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं चैव स्त्रीधनं तद् उदाहृतम् ॥

897

प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ॥

मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc