कात्यायनस्मृति · श्लोक 859-878
क्षेत्रिकस्य मतेनापि फलम् उत्पादयेत् तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः ॥
क्लीबं विहाय पतितं या पुनर् लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तम् उत्पादकस्य सः ॥
न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश् चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥
अक्रमोढासुतश् चैव सगोत्राद्यस् तु जायते ।
प्रव्रज्यावसितश् चैव न रिक्थं तेषु चार्हति ॥
अक्रमोढासुतस् त्व् ऋक्थी सवर्णश् च यदा पितुः ।
असवर्णप्रसूतश् च क्रमोढायां च यो भवेत् ॥
प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनम् अत्यन्तं देयं तद्बन्धुभिर् मतम् ॥
बन्धूनाम् अप्य् अभावे तु पितृद्रव्यं तद् आप्नुयात् ।
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥
स्वशक्त्यपहृतं नष्टं स्वयम् आप्तं च यद् भवेत् ।
एतत् सर्वं पिता पुत्रैर् विभागे नैव दाप्यते ॥
परभक्तोपयोगेन विद्या प्राप्तान् यतस् तु या ।
तया प्राप्तं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥
उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद् विद्याद् विभागे न विभज्यते ॥
शिष्याद् आर्त्विज्यतः प्रश्नात् संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् ।
विद्याधनं तु तत् प्राहुर् विभागे न विभज्यते ॥
शिल्पिष्व् अपि हि धर्मो ऽयं मूल्याच् यच् चाधिकं भवेत् ॥
परं निरस्य यल् लब्धं विद्यातो द्यूतपूर्वकम् ।
विद्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥
विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् ।
ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं भृगुः ॥
विद्याबलकृतं चैव याज्यतः शिष्यतस् तथा ।
एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥
कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा ।
शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् बृहस्पतिः ॥
नाविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥
आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत् किञ्चित् धनं शौर्येण तद् भवेत् ॥
शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् ।
एतत् सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥
ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् ।
संग्रामाद् आहृतं यत् तु विद्राव्य द्विषतां वलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥
मूल पाठ: Kātyāyanasmṛti · Edition: Pandurang Vaman Kane Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction Bombay · Data entry Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0